सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

हितोपदेशः (हिन्दी अनुवाद सहित)

Hitopadesha (with Hindi Translation)

नारायण पण्डित द्वारा

स्रोत: हितोपदेशः (हिन्दी अनुवाद सहित) · चौखम्बा विद्याभवन · 2017 (उद्गम)

DevanagariHindipublished302 पृष्ठ

(क) उल्लिखितश्लोकेषु त्रयाणां सरलसुरगिरा व्याख्या क्रियताम् ।

३
विगुणेष्वपि सत्त्वेषु दयां कुर्वन्ति साधवः ।
न हि संहरते ज्योत्स्नां चन्द्रश्चाण्डालवेश्मनि ॥ ३ ॥
आपदां कथितः पन्था इन्द्रियाणामसंयमः ।
तज्जयः संपदां मार्गो येनेष्टं तेन गम्यताम् ॥ ४ ॥
सर्वस्य हि परीक्ष्यन्ते स्वभावा नेतरे गुणाः ।
अतीत्य हि गुणान् सर्वान् स्वभावो मूर्ध्नि वर्तते ॥ ५ ॥
(क) उल्लिखितश्लोकेषु त्रयाणां सरलसुरगिरा व्याख्या क्रियताम् ।
(ख) प्रथमप्रश्ने रेखाङ्कितपदेषु पञ्चानां ससूत्रं सन्धिविश्लेषः कार्यः ।
(ग) “वेश्मनि” इति पदस्य प्रथमैकवचने, “पन्थाः” इति पदस्य च
चतुर्थ्येकवचने परिवर्तनं क्रियताम्
अथवा
“चक्षुषी” इति पदस्य षष्ठीबहुवचने, “चन्द्रमसि” इति पदस्य च प्रथ-
मैकवचने परिवर्तनं क्रियताम् ।
(घ) प्रथमप्रश्ने “गच्छत्सु” इत्यत्र, “अनुसरणक्रमेण” इत्यत्र च कथं
का विभक्तिः ?
(ङ) अधोलिखितेषु त्रीणि सूत्राण्युल्लिख्य साध्यन्ताम्—
सन्दर्श्य; उत्थाय; जाने; उक्त्वा; प्रबुद्धः ।
३. किं तावत् पण्डितलक्षणम् ? के तावद् दुःखभागिनः ?
अथवा
कस्तावद् बान्धवः ? के वा स्वर्गगामिनः ? मित्रलाभादुद्धृत्य श्लोकद्वयं
लिख्यतां धीमद्भिः ।
प्रथमपरीक्षा १९४९
१. अधोलिखितेषु सन्दर्भेषु त्रयाणामनुवादो मातृभाषया कार्यः—
(क) सखे ! सविशेषं पूजामस्मै विधेहि; यतोऽयं पुण्यकर्मणां धुरीणः
कारुण्यरत्नाकरो मूषिकराजः । एतस्य गुणस्तुतिं जिह्वासहस्रेण यदि सर्पराजः
कदाचित् कर्तुं समर्थः स्यात् ।
(ख) अनेकगोमानुषाणां वधान्मे पुत्रा मृता दाराश्च । ततः केनचिद्
धार्मिकेणाहमुपदिष्टः—दानधर्मादिकं चरतु भवानिति । तदुपदेशादिदानीमहं
स्नानशीलो दाता वृद्धो गलितनखदन्तो न कथं विश्वासभूमिः ?

४
(ग) इत्याकर्ण्य हिरण्यकः प्रहृष्टमनाः पुलकितः सन्नब्रवीत्—'साधु
मित्र ! साधु, अनेनाश्रितवात्सल्येन त्रैलोक्यस्यापि प्रभुत्वं त्वयि युज्यते' ।
एवमुक्त्वा तेन सर्वेषां बन्धनानि छिन्नानि ।
(घ) युष्मान् धर्मज्ञानरतान् विश्वासभूमय इति पक्षिणः सर्वे सर्वदा
ममाग्रे प्रस्तुवन्ति । अतो भवद्भ्यो विद्यावयोवृद्धेभ्यो धर्मं श्रोतुमिहागतः ।
भवन्तश्चैतादृशा धर्मज्ञा यन्मामतिथिं हन्तुमुद्यताः ।
(ङ) चित्राङ्गो जलसमीपं गत्वा मृतमिवात्मानं निश्चेष्टं दर्शयतु । काकश्च
तस्योपरि स्थित्वा चञ्च्वा किमपि विलिखतु । नूनमनेन लुब्धकेन कच्छपं
परित्यज्य मृगमांसार्थिना सत्वरं तत्र गन्तव्यम् ।
२. (क) (घ) चिह्नितप्रश्ने "विश्वासभूमयः" इत्यत्र "भवद्भ्यः"
इत्यत्र च कथं का विभक्तिः ?
(ख) प्रथमप्रश्ने रेखाङ्कितपदयोः व्यासवाक्योल्लेखपूर्वकं समासनाम-
निर्देशः क्रियताम् ।
(ग) अधोलिखितेषु द्वयोः सूत्राण्युल्लिख्य सन्धिविश्लेषः कार्यः—
वन्धान्मे; सन्नब्रवीत् ; इत्याकर्ण्य ।
(घ) चञ्चु-शब्दस्य षष्ठ्येकवचने भूमि-शब्दस्य च सप्तम्येकवचने रूपाणि
लिख्यन्ताम् ।
३. अधोलिखितश्लोकेषु त्रयाणां सरलसुरगिरा व्याख्या क्रियताम्—
(१) अचिन्तितानि दुःखानि यथैवायान्ति देहिनाम् ।
सुखान्यपि तथा मन्ये दैवमत्रातिरिच्यते ॥
(२) सर्वाः सम्पत्तयस्तस्य सन्तुष्टं यस्य मानसम् ।
उपानद्गूढपादस्य सर्वा चर्मावृतेव भूः ॥
(३) अल्पानामपि वस्तूनां संहतिः कार्यसाधिका ।
तृणैर्गुणत्वमापन्नैर्बध्यन्ते मत्तदन्तिनः ॥
(४) प्राणा यथाऽत्मनोऽभीष्टा भूतानामपि ते तथा ।
आत्मौपम्येन भूतेषु दयां कुर्वन्ति साधवः ॥
४. अधोलिखितश्लोकस्य मातृभाषया सरलार्थो लिख्यताम्—
शास्त्राण्यधीत्यापि भवन्ति मूर्खा
यस्तु क्रियावान् पुरुषः स विद्वान् ।
सुचिन्तितौषधमातुराणां
न नाममात्रेण करोत्यरोगम् ॥
—००००—