युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
नौतियुक्तिः । २७
एवञ्च कुजादि-पतिके मेषलग्ने
जातस्य नृपतेः कुजादि-पतिकायां
दक्षिणायामपि वास्तुर्न दुष्यति इति ॥ १८० ॥
पराशरस्तु,—
यद्दशा-जनितो राजा वास्त्वारम्भस्तु (१) तद्दिशि * ।
एतेन सूर्यादि-दशा जनितस्य नृपतेः
पूर्व्वादि दिक्षु वास्तु-करणम् ।
तेन शुक्रदशायां जातस्याग्ने य्यामपि न दुष्यति ॥ १८१ ॥
अथ लक्षणम्,—
वास्तुं कुर्य्यान्महीपालः समं सुस्निग्धमृत्तिकम् ।
प्रागुदक्-प्लवनं † रम्यं रम्य-वृक्षोपशोभितम् ॥ १८२ ॥
लक्ष्मीर्दाहः क्षयो भीतिर्धन-नाशोऽर्थ-(२) शून्यता ।
सम्पदष्टिरिति प्रोक्तं पूर्व्वादि-ककुभं फलम् ॥ १८३ ॥
तथाहि प्लवनमन्यत्,—
जन्मलग्नेन दिक् पश्चाद् राज्ञां वास्तु-पुरोमतः ।
एतेन सूर्याधिपतिः तुलालग्ने जातस्य नृपतेः सूर्याधिपतेः
पूर्व्वस्याः पश्चात् पश्चिम-प्लवो हि न दुष्यति ॥ १८४ ॥
──────────────────────────
( १ ) वास्त्वारम्भञ्च इति (क) पुस्तक पाठः ।
( २ ) अर्थशून्यता इति (ख) पुस्तक पाठः ।
──────────────────────────
- दशालग्नादिकं बृहत्पराशर-बृहज्जातकाद्यनुसारेण ज्ञेयम् ।
† पूर्व्वनिम्नमुत्तरनिम्नं वा वास्तु कार्य्यम् ।
३८ युक्तिकल्पतरौ—
अन्ये तु, —
यद्दशा जनितो राजा तद्दिग्गयः प्लवो मतः ।
एतेन गुरुदशा-जातस्य नृपतेर्दक्षिणप्लवो न दुष्यति ॥ १८५ ॥
अन्यत्र तु, —
ब्रह्म-क्षत्रिय-विट्-शूद्राः पूर्व्वादि-दिग्युगे क्रमात् ।
वास्तु-प्लवनमिच्छन्ति निजसम्पत्ति-हेतवे ॥ १८६ ॥
नीतिशास्त्रे च, —
वास्तुकर्म्म नृपः कुर्य्यात् * बलद्वैरिणो दिशि ।
दीर्घां वा चतुरस्रां वा वास्तु-भूमिं महोच्छिताम् ।
एतयोर्लक्षणं तद्वत् फलञ्च नगरे यथा ॥ १८७ ॥
अथ मानम् ।
राजकाण्डेन † नृपतिर्वास्त्वारम्भं समाचरेत् ।
जयोभङ्गः सुखं दुःखं प्रीतिर्भीश्च चलः स्थिरः ॥
इत्यष्टौ वास्तुनामानि राजकाण्डैरनुक्रमात् ॥ १८८ ॥
अन्यत्र च, —
जन्मलग्ने महीभर्त्तुः कुण्डयोरन्त एव हि ।
राजकाण्डैस्तु तावद्भिर्वास्तुं कुर्य्यान्महीपतिः ॥ १८६ ॥
सुदर्शा(६)च्छन्द-संख्येन राजपट्टेन भूपतेः ।
वास्तुकर्म्म-समारम्भो धनधान्य-जयप्रदः ॥ १६० ॥
( ६ ) खदशा दशाच्छन्द इति (ग) पुस्तक पाठः ।
- नगरप्रकरणोक्त-परिमाणमत्र विज्ञेयम् ।
† गृह-वास्तु-नगर-हर्म्मादीनामारम्भे जन्मलग्न-ग्रह-तिथि-भयोगादीनां शुद्धिः सर्व्वत्र
समैव ज्ञेया, एवं दुर्ग सेनानिवासादौ च तथैव बोध्यम् ।
Digitized By Siddhanta eGangotri Gyaan Kosha
नौतियुक्तिः। २९
एतयोरपि पूर्व्ववद् व्याख्यानम्।
राजच्छत्रेण कुत्रापि वास्तुपत्तनमिष्यते।
तस्यापि पूर्व्ववन्मानं तन्मान (७) मिति भाषितम् ॥ १६१ ॥
अथ तत्र गुणदोषौ,—
[पुस्तकालय-पत्रकम्:]
विषय संख्या ३१० / १२(ए)
आगत पंजिका संख्या
पुस्तकालय
गुरुकुल कांगड़ी विश्वविद्यालय
30 MAY 1974
K56/77
- 5 JAN 1976
३२३/Z
[मूलपृष्ठ-अंशाः:]
॥
६७ ॥
(
(
(
(१०) ...
(११) वस्तूद्देशः इति (ख) पुस्तक पाठः।
CC-0. Gurukul Kangri Collection, Haridwar.
२८ युक्तिकल्पतरौ—
अन्ये तु,—
यदृशा जनितो राजा तद्दिगग्रः प्लवो मतः ।
एतेन गुरुदृशा-जातस्य नृपतेर्दक्षिणप्लवो न दुष्यति ॥ १८५ ॥
(मध्यभागः पत्रेणाच्छादितः)
( इ
- नगरप्रकरणोक्त-परिमाणमत्र विज्ञेयम् ।
† गृह वास्तु-नगर-हर्म्यादीनामारम्भे जन्मलग्न-ग्रह-तिथि-भयोगादीनां शुद्धिः सर्व्वत्र
समैव ज्ञेया, एवं दुर्ग सेनानिवासादी च तथैव बोध्यम् ।
नौतियुक्तिः । २८
एतयोरपि पूर्व्ववद् व्याख्यानम् ।
राजच्छत्रेण कुत्रापि वास्तुपत्तनमिष्यते ।
तस्यापि पूर्व्ववन्मानं तन्मान (७) मिति भाषितम् ॥ १८१ ॥
अथ तत्र गुणदोषौ,–
परनिर्मित-वास्तुस्थो न तिष्ठति चिरं नृपः ।
न सुखाय न धर्म्माय तत्तस्य भुवि जायते ॥ १८२ ॥
एवमन्यत्रापि,–
राजन्य (८) वीर्य्य-प्रत्याशो पर वास्तुकृत-स्थितिः ।
सुखाय नो भवेन्नॄणां यथा पर-गृहे ग्रहः ॥ १८३ ॥
यः स्वनिर्मित-वास्तुस्थो निज-लग्नादि-संयुक्तः ।
विचारित पुरो-राजा सुचिरं सुखमश्नुते ॥ १८४ ॥
अन्यत्रापि,–
राजा स्वबाहु-वीर्य्याढ्यः निजनिर्मित-वास्तु भाक् ।
स चिरं तनुते सौख्यं स्वगृहस्थो ग्रहो यथा ॥ १८५ ॥
अथ वास्त्वारम्भ-कालः ।
वर्षान्ते (९) ऽभ्युदिते शुक्रे केन्द्रे सुरगुरौ शुभे ।
वास्तु-कर्म्म समारम्भः शुक्रचन्द्रार्क-भूमिजे ॥ १८६ ॥
गृहयुक्तौ (१०) यः समयः कर्त्तव्यस्तत्र वै शुभे ।
वास्त्वारम्भः कार्य्यः शुभसम्पत्ति-कामिना राज्ञा ॥ १८७ ॥
इति श्री भोजराजीये वास्तुयुक्तौ (११) वास्तूद्देशः ।
( ७ ) तद्देशमिति (क) पुस्तक पाठः ।
( ८ ) राजन्य-वीर्य इति (क) पुस्तक पाठः ।
( ९ ) वर्षान्ते इति (ख) पुस्तक पाठः ।
( १० ) गृहयुक्तौ इति (ख) पुस्तक पाठः ।
( ११ ) वस्तूद्देशः इति (ख) पुस्तक पाठः ।
३० युक्तिकल्पतरौ—
अन्येषां यथा,—यदाह वास्तुकुण्डल्याम्—
स्वामिहस्तैश्चतुर्भिः स्यात् कुण्डस्तेनैव मापयेत् ।
क्षेमं भयङ्करो भव्यः शोककृद्विजयः शुचिः ।
वंशकृत्पापकारो च विकारी शोभनः शिवः ॥ १९८ ॥
कुणपः कामदो धूम्नो (१२) धौम्यो धनहरस्तथा ।
धनदः सुखकृ(हृ)च्चेति वाव्योऽ(१३)ष्टादशकीर्त्तिताः ॥ १९६ ॥
तद्यथा,—
आयाम परिणाहाभ्यां योऽङ्ग(१४)पिण्डोऽभि जायते ।
ऊनविंश-हृते (१५) भागे शेषैरेतै यथाक्रमम् ॥ २०० ॥
क्षेमे सर्व्वार्थ-सिद्धिः स्यात् (१६) भयकारि-भयङ्करः ।
भव्यो भोगं प्रकुरुते शोककृत् (१७) वन्धुनाशनम् ॥ २०१ ॥
विजयः कुरुते वृद्धिं शुचिः सर्व्व-सुखं वहेत् ।
वंशकृत् कुरुते वंशं पापकारी कुलापहः ॥ २०२ ॥
विकारी कुरुते दुःखं शोभनः शुभमावहेत् ।
शिवः सर्व्वार्थसिद्धिः स्यात् कुणपः सर्व्वनाशनः ॥ २०३ ॥
कामदोऽभीष्ट-लाभः स्याद् धूम्नो दहति सर्व्वशः ।
धौम्ये धर्ममतिः सौख्यं दुःखं धनहरो भवेत् ॥ २०४ ॥
( १२ ) धृष्टो धै इति (ख) पुस्तक पाठः ।
( १३ ) वाष्टाऽष्टादश इति (ग) पुस्तक पाठः ।
( १४ ) योऽञ्चः इति (ग) पुस्तक पाठः ।
( १५ ) हृते इति (ख) पुस्तक पाठः ।
( १६ ) संसिद्धिः इति (ख) पुस्तक पाठः ।
( १७ ) शोकहृत् इति (ग) पुस्तक पाठः ।
नौतियुक्तिः । ३१
धनदो धन-लाभ स्यात् सुखकृत् सुखकारकः ।
इति प्रोक्तोऽतिसंक्षेपाद्वास्तु-लक्षणसंग्रहः ॥ २०५ ॥
भोजस्तु,—
दण्डमानन्तथैव किन्तु युक्तिरन्या ।
ख (१८) दशाब्दतो द्विगुणै स्तैः शुभावहश्चतुरस्र एव
नव वास्तु शिष्यते ॥ २०६ ॥
किन्तुलग्न-(१९) दण्डमित-लग्नमित-(२०) दण्डसम्मितः ।
प्रकरोति वास्तुरति सौख्य-सम्पदम् ॥ २०७ ॥
उषरा वालुका हित्वा (२१) चयमेतद्विनिन्दितम् ।
त्रिकोणो वर्त्तुलो दोर्घो यवमध्यो वह्निमुखः ॥ २०८ ॥
तथा डमरुरूपश्च सर्पाकार स्तथैव च ।
छिन्नो भिन्नो मध्यनिम्नो व्यजनाभश्चतुष्पथः ॥ २०९ ॥
त्रिपथो जनदोषो च (२२) वृक्षदोषो तथापरः ।
गजशुण्डाकृतिश्चैव यो द्रवः परिकीर्त्तितः ॥ २१० ॥
वास्तु-खण्डे महादोषा हेयास्तस्माद्विचक्षणैः ।
चतुरस्रः शुभो दीर्घस्तस्य (२३) प्रान्तः समाश्रितः ॥
दोषैर्विहीनो विज्ञेयो वास्तुखण्डः सुखावहः ॥ २११ ॥
इति श्री भोजराजीये युक्तिकल्पतरौ वास्तुयुक्तिः ।
( १८ ) सुदशाब्द इति (क) पुस्तक पाठः ।
( १९ ) किमुलग्न इति (ख) पुस्तक पाठः ।
( २० ) दण्डलग्नमितदण्ड इति (ख) पुस्तक पाठः ।
( २१ ) छित्वा इति (ग) पुस्तक पाठः ।
( २२ ) दोषाच इति (ग) पुस्तक पाठः ।
( २३ ) तुभ्य इति (ख) पुस्तक पाठः ।
३२ युक्तिकल्पतरौ—
अथ तत्र कालनिर्णयः * ।
वैशाख-श्रावणाषाढ-मार्गफाल्गुन कार्त्तिकाः ।
सुप्रशस्ता गृहारम्भे पत्नीपुत्र-समृद्धिदाः ॥ २१२ ॥
शुक्लपक्षे भवेत् सौख्यं कृष्णे तस्करतोभयम् (२४) ।
आदित्य भौमवर्ज्जन्तु सर्व्वे वाराः शुभावहाः ॥ २१३ ॥
तथान्यत्र,—
पूर्णिमायाष्टमीं यावत् पूर्व्वस्यां वर्ज्जयेत् गृहम् ।
उत्तरस्यां न कुर्वीत नवम्यादि-चतुर्दशीम् ॥ २१४ ॥
अमावश्याष्टमीं यावत् पश्चिमस्यां विवर्जयेत् ।
नवम्यादि तथायामयां यावच्छुक्ला चतुर्दशीम् ॥ २१५ ॥
वज्रव्याघातशूले च व्यतीपातातिगण्डयोः ।
विस्कुम्भ गण्डयोश्चैव गृहारम्भं न कारयेत् ॥ २१६ ॥
आदित्यद्वयरोहिणी मृगशिरो ज्येष्ठाधनिष्ठोत्तराः,
रेवत्याथ मघानुराधहरिभिः शुद्धैः स्व-भावादिभिः ।
सौम्यानां दिवसेऽथ (२५) पापरहिते योगेविरिक्ते तिथौ ;
विष्टित्यक्तदिने वदन्ति मुनयो वेश्मादि-कार्यं शुभम् ॥ २१७॥
मत्स्यपुराणेऽपि,—
चन्द्रादित्यबलं लब्ध्वा लग्नं शुभ-निरीक्षणम् ।
स्तम्भोच्छ्रादिकर्त्तव्यो (२६) ऽन्यत्तु विवर्ज्जयेत् ॥ २१८ ॥
(२४) कृष्णे च भरतो इति (क) पुस्तक पाठः ।
(२५) प्राण इति (ग) पुस्तक पाठः ।
(२६) ब्रह्मादि कर्त्तव्यम् इति (क) पुस्तक पाठः ।
- एतद्विषये प्रमाणान्तराणि—भोजराजीय राजमार्त्तण्डे, ज्योतिस्तत्त्वे, वराहमिहि-
रीये, शिल्पसन्दर्भे चानुसन्धेयानि ।
वास्तुयुक्तिः । ३३
अश्विनौ रोहिणी मूल-मुत्तरात्रयमैन्दवम् (३) ।
स्वातिर्हस्तानुराधाच वास्तु-कर्म्मणि शस्यते ॥ २१८ ॥
तथा च,---
त्रिभिस्त्रिभिर्वेश्मनि कृत्तिकाद्यैः,
अशेष-पुत्राप्ति-धनानि शोकाः (४) ।
शत्रोर्भयं राजभयञ्च मृत्युः ;
सुखं प्रवासश्च नवप्रभेदाः ॥ २२० ॥
नाशं दिशन्तिमकरालिकुलिर-लग्ने,
मेषे घ(ध)टे धनुषि कर्म्मसु दीर्घसूत्रम् ।
कन्याझषेमिथुनके ध्रुवमर्थलाभो:—
ज्योतिर्विदः कलस-सिंह-वृषेषु वृद्धिम् ॥ २२१ ॥
लग्नेऽर्के (५) वज्रसंपातः कोषहानिश्च शीतगौ ।
मृत्युर्व्वसुन्धरा-पुत्रे चन्द्रजे शुभसम्पदः ॥ २२२ ॥
जीवे धर्म्मार्थकामाश्च सुतोत्पत्तिस्तु भार्गवे ।
शनेश्चरे तु दारिद्रं राहौ वस्त्रं (६) प्रवर्धते (७) ॥ २२३ ॥
---------------- * ----------------
अथ प्रवेश-कालः ।
शुद्धैर्द्वादश-केन्द्रगैर्निधनगैः पापै स्त्रिषष्ठायगैः,
लग्ने केन्द्रगतेऽथवा सुरगुरौ दैतेय पूज्येऽपिवा ।
( ३ ) भैन्दवम् इति (क) पुस्तक पाठः ।
( ४ ) लोकाः इति (ख) पुस्तक पाठः ।
( ५ ) लग्नेऽर्कः इति (ग) पुस्तक पाठः ।
( ६ ) वस्तु इति (ख):पुस्तक पाठः ।
( ७ ) प्रवर्त्तते इति (ख) पुस्तक पाठः ।
५
३४ युक्तिकल्पतरौ—
सर्व्वारम्भफल-सिद्धिरुदये राशौ च भर्त्तुः शुभे ;
स्वग्राम्य-स्थिरतोदये च भवनं कार्य्यं प्रवेशोऽपिवा ॥२२४॥
पौष्णे धनिष्ठाऽथ वारुणेषु, स्वायम्भुवेऽर्के त्रिषुचोत्तरेषु ।
अक्षीण चन्द्रे शुभवासरेच तथा विविक्ते च गृहप्रवेशः ॥२२५॥
तिथिवारश्च लग्नादि समारम्भे यथोदितम् ।
प्रवेशेऽपि(८) गृहं स्यात्तु(६) तथा ज्योतिर्विदो जनाः ॥२२६॥
--------------------------------- * ---------------------------------
अथ द्वारम् ।
नैकद्वारं वास्तुखण्डं न चतुर्द्वारमारभेत् ।
एकद्वारं दुःसरणं चतुर्द्वारं दुरापहम् ॥ २२७ ॥
त्रि-द्वारमेव नृपतेर्वास्तुकर्म्म प्रशस्यते ।
द्वे मुख्ये तत्र चान्यत्स्यादमुख्यमिति निर्णयः ॥ २२८ ॥
राजद्वारन्तु (१०) तत्रैकं यमद्वारन्तथापरम् ।
अपद्वारं तथान्यत्स्यादिति द्वारस्य निर्णयः ॥ २२९ ॥
ब्रह्म-क्षत्रिय-वैश्यानां प्रागुदक् पश्चिमैः क्रमात् ।
मुख्यद्वारं दक्षिणस्य परन्तस्यापि दक्षिणे ॥ २३० ॥
बलवद्वै वैरिमुख्यं द्वारमित्यस्य सम्मतम् ।
राज-द्वारेऽन्य भूपानां शिष्टानां वा प्रवेशयेत् ॥ २३१ ॥
यात्रा प्रसाद-पर्व्वाणि राजद्वारेषु कारयेत् ।
यमद्वारिच्छिदाकर्म्म द्विषताञ्च प्रवेशनम् ॥ २३२ ॥
( ८ ) प्रवेशोऽपि इति (क) पुस्तक पाठः ।
( ९ ) स्यात्तुं स्तथा इति (क) पुस्तक पाठः ।
( १० ) द्वारस्तु इति (ख) पुस्तक पाठः ।
वास्तुयुक्तिः । ३५
निःसारणं मृतानाञ्च दुष्टानाञ्च निबन्धनम् ।
अपद्वारेऽवरोधस्य गमनागमन-क्रिया ॥
राज्ञो विलास-यात्रा च मर्मज्ञस्य प्रवेशनम् ॥ २३३ ॥
——— * ———
अथ प्राचौर-निर्णयः ।
गजैरभेद्या मनुजैरलंङ्घयाः ।
प्राचौरखण्डा नृपतेर्भवन्ति ॥ २३४ ॥
राजदण्डोन्नताः सर्व्वे प्राचौरा पृथिवीभुजः ।
विंशतिस्तेषु पश्चाग्रे पार्श्वयोः पञ्चपञ्च च ॥ २३५ ॥
पश्चात् पञ्च च विज्ञेयाः प्राचौराः पृथिवीभुजः ।
सर्व्व-प्रान्ते त्वावरणो नाम प्राचौर उच्यते ॥ २३६ ॥
प्रति प्राकार(११) संस्थानं द्वारं नाभिमुखस्थितम् ।
तत्र जयाख्यस्य दीर्घस्य वास्तुखण्डस्य निर्णयः ॥ २३७ ॥
तद्यथा,—
राज-छत्रान्तरे पञ्च राजद्वारे महीपतेः ।
राजदण्डत्रये सार्द्धे यमद्वारे प्रतिष्ठिताः ॥ २३८ ॥
अद्वारे (१२) राजदण्डार्द्धे प्राचौराः पृथिवोपतेः ।
एवं व्यवस्थिते स्थाने मध्यमेतद्धि तिष्ठति ॥ २३६ ॥
राजच्छत्रद्वयं सार्द्धं मायामे जय-वास्तुनि ।
परिणामे(हे) पञ्चराज-दण्डास्तिष्ठन्ति मध्यतः ॥ २४० ॥
——————————————————————————————
( ११) प्रति प्रकार इति (ख)-(ग) पुस्तक पाठः ।
( १२) अत्वाद्वारे इति एतत् सन्दर्भस्थः पारिभाषिकः पाठार्थोन्ज्ञेयः ।
३६ युक्तिकल्पतरौ-
राजषट्ठाभिधानेन स्थानमेतन्निगद्यते ।
अस्मिन् गृहं नृपः कृत्वा सुचिरं सुखमश्नुते ॥ २४१ ॥
अज्ञानाद्भ्रान्तो राजा योऽन्यत्र गृहमारेभेत् ।
सोऽचिरान्मृत्युमाप्नोति रोगं शोकम्भयन्तथा ॥ २४२ ॥
यमदण्डोदयदण्डौ कोणादिति (१३) रुपप्लवः * ।
ये चान्ये वास्तुदोषाः स्युः स्थाने दोषाश्च ये पुनः ॥ २४३ ॥
नम्पृश्यते (१४) राजपट्टे स्तैः सर्पैर्गरुड़ो यथा ।
द्विगुणादि रतोऽपि स्यात् क्रमादङ्गादि वास्तुषु ॥
राजच्छत्रमितेऽप्येवं प्राचीरे गुणदोषकौ ॥ २४४ ॥
*
अथ जयाख्यस्य चतुरस्रस्य वास्तुखण्ड-निर्णयः ।
राज द्वारे हि प्राकारा राजच्छत्रान्तरे मताः ।
यमद्वारे † सार्द्धराज-छत्रान्ते रचयेन्नृपः ॥ २४५ ॥
अपद्वारे राजदण्डं जित आरम्भिताः पुनः ।
अद्वारे भूपतेस्तस्य राज-दण्ड-(१५) त्रयान्तरे ॥ २४६ ॥
(१३) केनो ? इति (क)-कोनो इति (ख) पुस्तक पाठः ।
(१४) स स्पृश्यते इति (क), स्पृश्यते इति (ख) पुस्तक पाठः ।
(१५) राजदण्डाच्चत्र्यान्तरे इति (ग) पुस्तक पाठः ।
- अत्रेति पदेन “अति वृष्टिरनावृष्टिः शलभा मूषिकाः खगाः ।
प्रत्यासन्नाश्च राजानः षडेते ईतयः स्मृताः” ॥
इति ज्योतिःशास्त्रीयवचनोपात्त' ज्ञेयम् ।
† यमद्वारेति एतद्ग्रन्थस्थः पारिभाविकोऽर्थो ज्ञेयः ।
वास्तुयुक्तिः । ३७
एवं व्यवस्थिते स्थाने मध्यमे तत्प्रदृश्यते ।
आयामे राजच्छत्राणि चत्वारिपरिणाहतः ॥ ४७ ॥
राजच्छत्रैकमानेन राज-दण्ड उदाहृतः ।
अयञ्च सप्तमो भागो वास्तोर्भवति शोभनः ॥ २४८ ॥
अस्मिन् गृहं नृपः कृत्वा सुचिरं पाति मेदिनीम् ।
अस्मिन् विजय-वृद्धिश्च सौख्यञ्च समवाप्नुयात् ॥ २४६ ॥
यो राजा दम्भतो(१)ऽन्यत्र वेश्मारम्भं समाचरेत् ।
य उक्तो राजदण्डोऽयं तस्येदं स्थानपञ्चकम् ॥ २५० ॥
गजो व्याघ्रश्च सिंहश्च मृगो भृङ्गो यथाक्रमम् ।
सिंहे सिंहासनस्थानं व्याघ्रेस्याहारमन्दिरम् ॥ २५१ ॥
गजे यात्रालयं कुर्यात् मृगे केलि-निकेतनम् ।
भ्रमरेऽन्तःपुरं (२) कुर्यात् क्रमेण पृथिवीपतेः ॥
तेन मध्यममेव (३) सिंहासनं दीर्घस्य च चतुरस्रकैः ॥ २५२॥
तत्र भविष्योत्तरे,—
मेषादि-चन्द्रे जातस्य नृपतेः स्यु रनुक्रमात् ।
द्वादशैव गृहान् वक्ष्ये तेषां लक्षणमग्रतः ॥ २५३ ॥
सुनन्दः सर्व्वतो भद्रो भव्यो नान्दीमुखस्ता ॥
विनोदश्च विलासश्च विजयो विमलस्तथा ॥
वङ्गः (४) केलिर्जयो वीरो द्वादशैते प्रकीर्त्तिताः ॥ २५४ ॥
(१) राजा दण्डतो इति (क) पुस्तक पाठः ।
(२) भ्रमरेऽन्तःपुरे इति (ख) पुस्तक पाठः ।
(३) तेन मध्यमेन इति (ख) पुस्तक पाठः ।
,, मध्यममेव इति (ग) पुस्तक पाठः ।
(४) रङ्ग इति (ग) पुस्तक पाठः ।
३८ युक्तिकल्पतरौ—
अथैषां लक्षणानि ।
यदत्रैवोच्यते (५) मानं तस्य तेनैव कल्पना * ।
राज्ञः स्वहस्तमेकन्तु दीर्घे सर्व्वत्र निक्षिपेत् ॥ २५५ ॥
आयामेन सुन्दरः स्याद्राज-हस्तैश्च पञ्चभिः ।
परिणाहे चतुर्भिश्च राज-हस्तैः प्रतिष्ठितः ॥ २५६ ॥
अस्याधिदेवता भौमो रक्षतोयं (६) वसुन्धरा ।
द्वाराणि विंशतिश्चास्य रक्त-चित्रावृतानि च ॥ २५७ ॥
रक्तपट्टावृतो गेहः सकलार्थ-प्रसाधकः ।
अत्र स्थित्वा महीपालः सुचिरं पाति (७) मेदिनीम् ॥ २५८॥
दीर्घ-एकपञ्चाशत् ५१, प्रस्थ-चत्वारिंशत् ४० ।
इति सुन्दरः ।
द्वौ राजहस्तावायामे परिणाहे तथैव च ।
इत्ययं सर्व्वतोभद्रः शुक्रश्चास्याधिदेवता ॥ २५९ ॥
दानवा रक्षकाश्चैव पूज्यास्ते चात्र यत्नतः ।
चतुर्दशास्य द्वाराणि कृष्णचित्रावृतानि च (८) ॥ २६० ॥
पीत पट्टावृतो ह्येष सर्व्वानिष्ट-विनाशनः ।
(५) यद्यत्नै वोच्यते इति (ख) पुस्तक पाठः ।
(६) रक्षतौमम् इति (ख)-रक्षतोदम् इति (ग) पुस्तक पाठः ।
(७) पति इति (ख) पुस्तक पाठः ।
(८) 'परिणामे तथैव च' इति (ख) पुस्तकेऽधिकः पाठः ।
- मान-लक्षणान्यन्यानि वास्तुशास्त्रे, पुराणे, ज्योतिःशास्त्रे च सन्ति ।
वास्तुयुक्तिः । ३८
अत्र स्थित्वा महीपालः सर्व्वान् शत्रून् निकृन्तति ॥ २६१ ॥
दीर्घ-एकविंशतिः २१, प्रस्थ-विंशतिः २० ।
इति सर्व्वतोभद्रः ।
अष्टकोणो भवेद्भव्यः कोणो हस्तचतुष्टयम् ।
राजहस्तोन्नतः (९) कार्य्यो बुधश्चास्याधिदेवता ॥ २६२ ॥
रक्षका वसवश्चास्य पूज्यास्तत्र प्रयत्नतः ।
अष्टौ द्वाराणि चास्य स्युः पीतचित्रावृतानि च ॥ २६३ ॥
पीतपट्टावृतो ह्येष सर्व्वानिष्ट-विनाशनः ।
तत्र स्नाता क्षिति-पतिर्नरिष्टै(१०)रवमृद्यते ॥ २६४ ॥
राजदण्डो (११) भवेद्दीर्घः प्रसरे राज-हस्तकः ।
राजहस्ते राजहस्ते प्रकोष्ठान् तत्र कारयेत् (१२) ॥२६५॥
अयं नान्दीमुखो नाम चन्द्रश्चास्याधिदेवता ।
नक्षत्र-लोकः पूज्योऽत्र स यस्मादस्य रक्षकः ॥ २६६ ॥
द्वाविंशतिस्तु द्वाराणि दीर्घे दश तथान्तरे ।
अन्यत्र दीर्घ-एकं स्यात् प्रसरे एकमेव च ॥ २६७ ॥
दीर्घ-द्वितये दशद्वाराणि प्रसर-द्वितये एकं कृत्वा वा द्वितीयमेवं
द्वाविंशति-(२२) द्वाराणि ।
शुक्ल-चित्रेण सहितः शुक्लपट्टेन शोभितः ।
सर्व्वार्थ-साधको राज्ञां लक्ष्मो-विजय-वर्द्धनः ॥ २६८ ॥
दीर्घ-एकादश-११, प्रस्थे-१०, इति नान्दीमुखः ।
(९) अत्रैतत् सन्दर्भस्थ-पारिभाषिको राजहस्तो ग्राह्यः ।
(१०) नरिष्ट रवमृद्यते इति (ग) पुस्तक पाठः ।
(११) अत्र राजदण्डपदेनैतत्सन्दर्भस्थः पारिभाषिको ग्राह्यः ।
(१२) राजहस्त...इत्यारभ्य रक्षक-इत्यन्तः सार्द्धश्लोकः (ख) पुस्तके
नास्ति ।
४० युक्तिकल्पतरौ—
दीर्घे त्रयो राजहस्ताः प्रसरे द्वौ प्रतिष्ठितौ ।
विनोद एष द्वाराणि त्रिंशत् कोष्ठद्वयं भवेत् ॥ २६९ ॥
रक्तचित्रेण चित्राङ्गो रक्तावस्तोपशोभितः (१) ।
अत्रस्थाता नरपतिर्भवेत् कीर्त्ति-प्रतापवान् ॥
सूर्य्योऽधिदेवता चास्य रक्षकाः सकल-ग्रहाः ॥ २७० ॥
दैर्घ्ये एकत्रिंशत् ३१, प्रस्थे विंशतिः २० ।
दीर्घेन राजदण्डाद्धँ प्रसरे वाजहस्तकौ ।
विलास एष द्वाराणि चत्वारिंशद्बुधाः (२) विदुः ॥ २७१ ॥
गन्धर्वा राक्षसाश्चास्य प्रकोष्ठ-त्रितयं भवेत् ।
चित्र-पद्मेन शङ्खेन चित्रवस्त्रेण शोभितः ॥ २७२ ॥
दुर्भिक्ष-शमनो ह्येष (३) शस्यसम्पत्ति-कारकः ।
अत्र स्थित्वा नरपतिः प्रचुरं सुखमश्नुते ॥ २७३ ॥
दैर्घ-एकपञ्चाशत् ५१, प्रस्थे विंशतिः, २० ।
इति विलास-गृहम् ।
द्वादशहस्तप्रसरे दीर्घे द्वौ राजहस्तकौ कथितौ ।
विजये द्वादशभवन-द्वाराणि स्यु र्जयप्रदान्यत्र ॥ २७४ ॥
सूर्य्योऽधिदेवता चास्य रक्षतोमं विहङ्गराट् ।
अरुणाम्भोज-चित्राङ्गो अरुणाम्बर-भूषितः ॥
अत्र स्थित्वा नरपतिः कृत्स्नां शास्ति वसुन्धराम् ॥ २७५ ॥
दैर्घ्ये एकविंशतिः २१, प्रस्थे द्वादश, १२ ।
──────────────────────────────────────────
( १ ) उपरच्छौत इति (ग) पुस्तक पाठः ।
( २ ) बुधोविदुः इति (ख) पुस्तक पाठः ।
( ३ ) दमनोह्येष इति (ग) पुस्तक पाठः ।
वास्तु युक्तिः । ४१
आयामे राज-दण्डौ द्वौ प्रसरे राजदण्डकः ।
शतद्वारोपसहितः प्रकोष्ठैर्दशभिर्युतः ॥ २७६ ॥
दिक्पाला रक्षकाश्चास्य कुजश्चास्याधिदेवता ।
नानावर्णेन चित्रेण वसनेन विभूषितः ॥ २७७ ॥
अत्र स्थित्वा नरपतिः सुचिरं सुखमश्नुते ।
यस्मिन्त्राज्ये प्रतिष्ठेह विमलोऽग्टह-सत्तमः ॥ २७८ ॥
दुर्भिक्षं नात्र्जायेत नेतयो ( ५ ) न च विप्लवः ।
नरोगोनापि शोकश्च नैवोत्पात-भयन्तथा ॥
पत्यादि-( ६ ) गुणबाहुल्य मन्यत्कथितंबुधैः ॥ २७९ ॥
दैर्घ्यं द्विशतम्- २००, प्रस्थे-एकशतम् १०० ॥
आयाम-परिणाहाभ्यां राज्ञः षोडशहस्तकः ।
द्वाराणि षोडशैवास्य गुरुश्चास्याधिदेवता ॥ २८० ॥
रचिकादे वताचास्य शुक्लवस्त्रैर्
अवस्थित्वा नर-पतिः सुखं विजयते रिपून् ॥ २८४ ॥
दैर्घ्ये एकशतम् १०० , प्रस्थे पञ्चाशत् ५० ॥
इति केलिः ।
राज-हस्तेन कोणःस्या देवं केलि-चतुष्टयं ।
चतुर्द्दशैव द्वाराणि राहुरस्याधिदेवता ॥ २८५ ॥
नक्तंचरा रक्षकाश्च नाना स्वर्णाम्बरादिकम् ।
अयं जयः प्रकटितः सर्व्वत्रैव जय-प्रदः ॥ २८६ ॥
आयामे राजहस्तःस्यात्परिणाहोऽष्टहस्तकम् ।
नानारूपं कुटोरूपः (९) वीरो नाम जयप्रदः ॥ २८७ ॥
बृहस्पतिर्द्देवताऽस्य रक्षकाश्चास्य खेचराः ।
विचित्र-वसनोपेतः सर्व्वकामार्थ-दायकः ॥ २८८ ॥
दैर्घ्ये एकादश- ११, प्रस्थे अष्टौ = ।
इति धीरः । (केलि-प्रभेदोवा) ॥
योयस्य गदितोवर्ण स्तथास्याच्चामरोऽपिच ।
राज-हस्तान्त
वास्तुयुक्तिः । ४३
इति सिंहासन-स्थानमिति राष्ट्रस्य मस्तकम् ।
इतोऽन्ये चित्तहर्षार्थाः प्रासादाः पृथिवीभुजः ॥ २६३ ॥
जलयन्त्रादयो * येऽन्ये तेषां नास्ति विनिश्चयः ।
खजन्म-गेह-संस्थो यो नृपतिःशुभ-चेतनः ॥ २६४ ॥
सचिरं(११) पृथिवीं शास्ति सर्व्वार्थान् साधयत्यपि ।
योवा तत्पर-गेहस्थो दुर्मोहाद्धरणीपतिः ।
न चिरं पाति वसुधां घोरं रोगञ्चविन्दति ॥ २६५ ॥
खलग्न-पति-मित्रस्य गृहवारोनदुष्यति ।
परञ्च,—
हीरकस्य † विशुद्धस्य ब्रह्मजातेर्महाद्युतेः ।
सूर्यांश्रु-स्पर्शमात्रेण वमतोदीप्ति-मच्छिखाः ॥ २६६ ॥
गृहाग्रे धारयेद्राजा तद्वज्रं वज्रधारणम् ॥ २६७ ॥
वास्तुवस्तु,—
गेहेषु मणि-विन्यासो विधेयः सदनो
Digitized By Siddhanta eGangotri Gyaan Kosha
४४ युक्तिकल्पतरौ-
भोजोऽपि,-
वास्तुखण्डाष्ट-* रूपःस्यात् यथार्थैर्नामभिः स्वकैः ।
यमद्वारात्समारभ्य यावदद्धारमिष्यते ॥ २९६ ॥
तद्यथा,-
मृत्युर्भयं स्थिरश्चण्डो धनं विभव एव च ।
वीरस्तापश्च इत्यष्टौ वास्तुभागा यथाक्रमम् ॥ ३०० ॥
यमनैर्ऋत-तोयेश वायु-यक्षेश-शङ्कराः ।
इन्द्रोरग्निरितिप्रोक्ता विभागाणामधीश्वराः ॥ ३०१ ॥
मृत्यौ कारांलयं कुर्य्यात् भय-स्थानिच पत्तयः ।
स्थिरे सहचरानूक्षेत् चण्डे वाजि-गजादयः ॥ ३०२ ॥
धनेशान्यादिकं ( १ ) रक्षेत् विभवे कोष-रक्षणम् ।
राजपट्टे ‡ भवेद्धीरः तापे कश्चि ( २ ) न्त्रवालयेत् ॥
प्राचीर-प्रतिभागान्ते ( ३ ) दूति भोजस्य सम्मतम् ॥ ३०३ ॥
इति श्रीभोजराजीये युक्तिकल्पतरौ राजगृह-युक्तिः ॥
तत्र वास्तुप्लव-लक्षणम् ।
वास्तु-मानेन नियमो गृह-मानेन निर्णयः ।
पूर्व्वप्लवो वृद्धिकरो धनदस्योत्तर-प्लवः ॥ ३०४ ॥
(१) धनधान्यादिकं इति (क)-(ग) पुस्तक पाठः ।
(२) कश्चिन्नरा(चा)लयेत् इति (ख) पुस्तक पाठः ।
(३) प्राचीर भाग्यन्ते इति (ख) पुस्तक पाठः ।
- अष्टः शङ्कः, पद्ममिति वा
‡ राजपट्ट्य पखरवान्तर्गतमैकग्वम् इति गौड़ाः । यस्मिन्नासने पट्टाख्ये नृपमहिष्यो-
रभिषेको भवति तदेव राजपट्ट इति केचित् । नीलकान्तमथिरित्यन्ये देवीपुराणे तु
अन्यथास्ति पट्टलक्षणम् ।
CC-0. Gurukul Kangri Collection, Haridwar.