सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

Yuktikalpataru of Maharaja Bhoja with Commentary

महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा

DevanagariHindipublished278 पृष्ठ

खङ्गयुक्तिः । १७३
नखेन वाथ दण्डेन तथा लोहशलाकया ।
लोष्ट्रेन शर्कराभिर्वा ध्वनि विज्ञानमुच्यते ॥ ४९ ॥
इति खङ्ग परीक्षायां ध्वन्यध्यायोऽष्टमः ॥
अथ द्विविधं मानम् ।
यन्मानं द्विविधं प्रोक्तं तस्य लक्षणमुच्यते ।
उत्तमाधमभेदेन भेदोहि हि द्विविधो मतः ॥ ५० ॥
उत्तमं यदििशालं स्याल्लघुमानं प्रकीर्त्तितम् ।
अधमं तच्च यत् खर्व्वं (१) गुरुमानं प्रकीर्त्तितम् ॥ ५१ ॥
तत्पुन स्त्रिविधं प्रोक्तमादिमध्यान्तभेदतः ॥ ५५२ ॥
यो मुष्टि विंशति समायततीव्रधारो,
भर्त्तुर्भवेत् प्रसरतोऽपि षडङ्गुलोभिः ।
मानेन चाष्ट पलिकः स हि खङ्गमध्ये;
नाति प्रकृष्ट न विकृष्टफलप्रदः स्यात् ॥ ५३ ॥
यो द्वादशाष्ट नवमुष्टिभिरायतः स्यात्,
मन्दो भवेत् प्रसरतोऽपि चतुर्थभागः ।
तावत् पलैः परिमितस्तु ततोऽधिको वा;
खङ्गाधमो धनयशः कुलनाशनाय ॥ ५४ ॥
नागाजुर्जुनोऽपि,—
यावत्यो मुष्टयो दैर्घ्ये तदर्द्धाङ्गुलयो यदा ।
प्रसरे तच्चतुर्थांशमिति वै मानमुत्तमम् ॥ ५५ ॥
यावत्यो मुष्टयो दैर्घ्ये प्रसरेत्तन्त्रिभागिकः ।
पलैस्तदर्द्धैस्तुलितः स खङ्गो मध्य उच्यते ॥ ५६ ॥
यावत्यो मुष्टयो दैर्घ्ये तुल्यांशः प्रसरे तु तत् ।

( १ ) यच्च खरवं इति (क) पुस्तक पाठः ।

१७४ युक्तिकल्पतरौ—
अधमः (१) कीर्त्तितः खड्गस्तत्समो वाधिकः पलैः ॥ ५७ ॥
भौमानामिदमुद्दिष्टं दिव्यास्तु लघवो मताः ॥ ५८ ॥
इति खड्ग परीक्षायां मानाध्यायः ।
भोजस्तु,—
दीर्घता लघुता चैव खरविस्तीर्णता तथा ।
दुर्भेद्यता सुघटता खङ्गानां गुणसंग्रहः ॥ ५९ ॥
खर्व्वता गुरुता चैव मन्दता तनुता तथा ।
सुभेद्यता दुर्घटता खङ्गानां दोषसंग्रहः ॥ ६० ॥
इति निखिलमुदारमुक्तमत्र बहुतन्त्रेषु निकष्य खड्ग यष्टेः ।
नृपतिरिति विचिन्त्य यो विधत्ते स चिरतरां श्रियमुच्छ्रितां
लभेत ॥ ६१ ॥
इति श्रीभोजराजीये युक्तिकल्पतरौ खड्ग परीक्षा ॥
अथ चर्म-लक्षणम् ।
शरीरावरकं शस्त्रं चर्म इत्यभिधीयते ।
तत् पुनर्द्विविधं काष्ठं चर्मसम्भवभेदतः ॥ ६२ ॥
शरीरावरकत्वञ्च लघुता दृढता तथा ।
दुर्भेद्यतेति कथिता चर्मणां गुणसंग्रहः ॥ ६३ ॥
स्वल्पता गुरुता (२) चैव मृदुता सुखभेद्यता ।
विरुद्धवर्णता (३) चेति चर्मणां दोष संग्रह ॥ ६४ ॥
(१) अधमे इति (क) पुस्तक पाठः ।
(२) लघुता इति (ख) पुस्तक पाठः ।
(३) वस्तुता इति (ग) पुस्तक पाठः ।

अस्त्रशस्त्र-युक्तिः । १७५
सितो रक्तस्तथा पीतः कृष्ण इत्यभिशब्दितः ।
ब्रह्मादिजाति भेदेन चर्मणां वर्णनिर्णयः ॥ ६५ ॥
चित्रवर्णस्तु सर्वेषां सर्व्वदैवोपपद्यते ॥ ६६ ॥
इति श्रीभोजराजीये युक्तिकल्पतरौ चर्मपरीक्षा ॥
अथ धनुर्लक्षणम् ।
धनुस्तु द्विविधं प्रोक्तं शार्ङ्गं वांशं(सं) तथैव च ।
कोमलं वर्णदृढ़ता तयोर्गुण उदाहृतः ॥ ६७ ॥
सुखसम्पत्तिकरणं सममुच्छ्रायतं धनुः ।
विपदो मुष्टिवैषम्ये तदङ्गे भङ्गमावहेत् ॥ ६८ ॥
इति श्रीभोजराजीये युक्तिकल्पतरौ धनुःपरीक्षा ॥
अथ बाण लक्षणम् ।
लघुता दृढ़ता चैव तथा खरतरास्यता ।
बाणानामिति निर्दिष्टो भूभुजां गुणसंग्रहः ॥ ६९ ॥
तन्मानं विदुषाकार्य्यमङ्गुलोभिर्यथोदितम् ।
अङ्गुली मान वैषम्ये विजयो जायते रणे ।
अङ्गुली मान साम्यतु भङ्ग एवोपजायते ॥ ७० ॥
इति श्रीभोजराजीये युक्तिकल्पतरौ बाणपरीक्षा ॥
शरभल्लौखरतरौ लघु दृढ़तरौमतौ ।
अर्धचन्द्रस्तुकथितो लघुतौव्रतराननः ॥ ७१ ॥
नाराचस्तुशिरालः स्यात्तीक्ष्णाग्रः कर्कशायकः ।
शक्तियष्ट्यादयोयेऽन्ये ते तीक्ष्णाग्राः प्रतिष्ठिताः ॥ ७२ ॥

१७६ युत्तिकल्पतरौ—
इत्यादिशस्त्रजातानां लक्षणं भोजभूभुजा ।
प्रोक्तमत्यन्त संक्षेपाल्लिखितं मयकाचतु ॥ ७३ ॥
तीक्ष्णता लघुताचैव तथैव दृढतापि च ।
सर्वेषामस्त्र जातीनां लक्षणं समुदाहृतम् ॥ ७४ ॥
यत् किञ्चिद्दलमणिरुक्तमति प्रकाश,
शस्त्रस्य लक्षणमिहस्वयमेव बुद्ध्या ।
विज्ञाय तन्निखिलशस्त्र(१)विदाजनेन,
शस्त्रं विधेयमरिपक्ष-विनाशनाय ॥ ७५ ॥
अस्त्रेण तु विना सैन्यमभवत्प्रतिजायते ।
तस्मादस्त्रं विशेषेण रक्षणीयं महीभूजा ॥ ७६ ॥
इति श्रीभोजराजीये युक्तिकल्पतरौ अस्त्र परीक्षा ॥
—
अथ यात्रायुक्तिस्तवसमयः ।
यात्रायां द्विविधः कालो वैकालः (२) सहजस्तथा ।
प्रोक्तमात्ययिके कार्ये वि(धि)कारो नात्र निर्णयः ॥ ७७ ॥
सहज स्वेच्छया राज्ञां तस्य निर्णय उच्यते ।
यात्रान्न सिंह मध्द्या शनैश्चर बुधोशनसां गृहेषु ॥ ७८ ॥
भानौ कुलीरवृषवृश्चिकगोभिर्दीर्घा
शस्तस्तुदेवलमतेऽध्वनि पृष्ठतोऽर्कः (३) ॥ ७९ ॥
( १ ) मस्त्र इति (क) पुस्तक पाठः ।
( २ ) वैकारः इति (ख) पुस्तक पाठः ।
( ३ ) कर्क इति (ग) पुस्तकपाठः ।

Digitized By Siddhanta eGangotri Gyaan Kosha
यात्राव्यक्तिः । १७७
अश्विनौ रेवती ज्येष्ठा तथा पुष्या पुनर्व्वसु ।
मैत्रं मृगशिरो मूला यात्रायामुत्तमाः स्मृताः ॥ ८० ॥
भरणी कृत्तिकाश्लेषा विशाखा चोत्तरात्रयम् ।
मघा पशुपतिश्चैव यात्रायां मरणप्रदाः ॥ ८१ ॥
पूर्वे कुवेरे दहने निशाटे, यमे जलेशे पवने महेशे ।
त्याज्यं नरस्य प्रतिपत् क्रमेण ; युग्मं तिथौनां प्रवदन्ति तज्ज्ञाः ।
स्यात् सन्मुखे(१) यानमसुक्षयाय, पश्चाद्भवेत् सर्व्वशुभाय पुंसाम् ॥८२॥
सूर्य्यः शुक्रः कुजो राहुर्मन्दश्चन्द्रो गुरुर्बुधः ।
अग्रतः शोभना यात्रा पृष्ठतो मरणं ध्रुवम् ॥ ८३ ॥
पूर्व्वेणेन्द्रं दक्षिणे या(जा) नपा(प) दं, रोहिण्येत्तचार्य्यमाख्यञ्च(२) शूलम् ।
कामं यायान्नाम्परायेषु कार्य्ये-ष्वन्यदापि प्रेक्ष्य शूलानि भानि ॥ ८४ ॥
तत्र दिक्शूलम् ।
षष्ठ्यष्टमौ चतुर्थी च नवमी द्वादशी तथा ।
चतुर्दशी कुहूस्त्याज्या यात्रायामशुभप्रदाः ॥ ८५ ॥
प्रायो जगुः सहज शत्रुदशाय-संस्थाः,
पापाः शुभाः सवितृजं (३) परिमुच्य खस्थम् ।
सर्व्वत्रगाः शुभफलं जनयन्ति सौम्या-
स्त्यक्तारि-संस्थममरारि गुरुं जिगीषोः ॥ ८६ ॥
नाकालवर्ष विद्युत्स्तनितेष्विष्टं (४) कथञ्चिदपि यानम् ।
आ सप्ताहात् दिव्यानरीक्षभौमैस्तथोत्पातैः ॥ ८७ ॥
(१) समुत्थे इति (क) पुस्तक पाठः ।
(२) रोहिण्योत्तचार्य्यमाख्यञ्च इति (ख) पुस्तक पाठः ।
(३) सवितृजं इति (ग) पुस्तक पाठः ।
(४) विद्युत्स्तनितेष्विष्टं इति (घ) पुस्तक पाठः ।
२३
CC-0. Gurukul Kangri Collection, Haridwar.

१७८ युक्तिकल्पतरौ—
तत्र क्रमः ।
राज्ञां यात्राविधिं वक्ष्ये जिगोषूणां (१) परावनीम् ।
नौराजनविधिं कृत्वा सैनिकां(क)श्चानयेत् ततः ।
गजानन्यान् मृगानन्यानिति यात्राक्रमो मतः ॥ ८८ ॥
अथ तत्र नौराजनविधिः ।
वर्षान्तेऽभ्युदिते शुक्रे चन्द्रे पूर्णे शुभक्षणे ।
अश्व-नौराजनं कुर्याद् यथोक्तमृषिसत्तमैः ॥ ८९ ॥
उदीचीं प्रस्थिते भानौ संक्रान्त्यां वा शुभे दिने ।
गज-नौराजनं कुर्यान् महीपालो जिगोषिवान् ॥ ९० ॥
वृश्चिकस्थे रवौ कुर्यात् पत्तिनौराजना-विधिम् ।
नौका-नौराजनं कुर्याद् दक्षिणाशां प्रतिष्ठते ॥ ९१ ॥
अन्येषाञ्चैव (२) यानानां विजयादशमीतिथिम् ।
ध्वजादीनाञ्च सर्वेषां शक्रोत्थाने नौराजनम् ॥ ९२ ॥
छत्रस्य नवदण्डस्य तथा सिंहासनस्य च ।
गृहस्य नगरस्यापि महाविषुव-संक्रमे ॥ ९३ ॥
आत्मनो युवराजस्य महिष्या मन्त्रिणां तथा ।
स्वजन्मदिवसे राजा कुर्यान्नौराजना-विधिम् ॥
अभिषेक-दिनं प्रोक्तमेषां जन्मदिनं मया (३) ॥ ९४ ॥
तद्यथा ।
अश्वानां भास्करो देवो रेवन्तमिति संज्ञया ।
गजानां देवता शक्रः पत्तीनां कालिकामता (४) ॥ ९५ ॥
( १ ) जिगीषाणां इति (क) पुस्तकपाठः ।
( २ ) अन्यासाञ्चैव इति (ख) पुस्तकपाठः ।
( ३ ) जन्मदिनाख्या इति (ग) पुस्तकपाठः ।
( ४ ) शत्रुः पत्तीनां कालिका मता इति (घ) पुस्तकपाठः ।

याला-नीराजन-युक्तिः । १७६
नौकानां वरुणो देवो यानानान्तु जयन्तकः ।
अस्त्राणां देवता रामो यमः खड्गस्य पूज्यते ॥ ६६ ॥
ध्वजानां हनुमान् पूज्यो वृहस्पतिरिति क्रमात् ।
तान् पूजयित्वा विधिवदेतान् नीराजयेन्नृपः ॥ ६७ ॥
द्वादश महिषैः पुष्टश्चामर-घण्टास्वनादिभूषाढ्यैः ।
छागलैर्महिषद्दिगुणैः छागलद्दिगुणैर्वृषैः ख पुष्टाङ्गैः ॥ ६८ ॥
वृषभद्दिगुणैः पुरुषैस्तद्दिगुणैश्चारुदीपिकाभिः ।
भव्यं वा सहस्रं शुभदिने नीराजयेद्राजा ॥ ६९ ॥
द्वादश-वाहै रुचिरैः साङ्गोपाङ्गैरतोऽर्द्धतयोष्ट्रैः ।
तस्यार्द्धतो व्याघ्रैर्गजशत-नीराजनं सम्भवति ॥ १०० ॥
छागलशतं वृषभशतं शतञ्च मेषाणाम् ।
तुरगा दश हृष्टाङ्गा व्याघ्राः पञ्च द्विपश्चैकः ॥ १ ॥
भल्लूका हि कुक्कुराश्चैकैकाः पत्तिलक्षणस्य ।
नौका शतकं साङ्गं नवदशकं काञ्चनादिभिर्घटितम् ॥ २ ॥
बहुशतमपि जन्तूनां नौका नीराजने राज्ञाम् ।
यद्वा द्विपदं यानं सर्वेषामिष्यते तुरगैः ॥ ३ ॥
स्वदशा (१) वत्सरवसितै योग्याङ्गैर्यो ग्यवर्णैश्च ।
अष्टाभिर्धातुभिः कुर्यादस्त्र-नीराजना-विधिम् ॥ ४ ॥
गजाश्च नर नौकाभि र्द्विगुणाभिर्यथोत्तरम् ।
रत्नैर्नानाविधैरस्त्रैर्धातुभिर्वसनैस्तथा ॥ ५ ॥
सिंहासनैश्च योग्यैश्च कुर्यान्नीराजना-विधिम् ।
गृहनीराजनाप्येवं नरस्याथ निगद्यते ॥ ६ ॥
श्वभिः खरैः शृगालैश्च व्याघ्रै रुष्टैस्तथोद्धतैः ।
पुरं नीराजयेद्राजा चिरसम्पत्ति-हेतवे ॥ ७ ॥
( १ ) सु दशा इति (क) पुस्तक पाठः ।

१८० युक्तिकल्पतरौ—
श्वा दशाश्वस्तदर्द्धेन नरश्चैव तदर्द्धतः ।
व्याघ्रादीनां तथैकैकं रत्नं नानाविधं तथा ॥ ८ ॥
अस्त्राणि धातवश्चैव वस्त्राणि च फलानि च ।
वनजाः स्थलजाश्चैव जलजाश्चैव जन्तवः ॥ ९ ॥
नवग्रहाश्च सूर्याद्याः शैलाः सप्तघटास्तथा ।
योग्यधातु-समुद्भूता नौकाखण्डत्रयं तथा ॥ १० ॥
एकैकं द्विपदं यानं खट्वा शय्याशनं तथा ।
निज-देहमितं स्वर्णं रजतं ताम्रमेव वा ॥ ११ ॥
आत्म-नीराजने दद्याद् यदिच्छेच्चिर-संस्थितिम् ।
अस्त्रैर्नानाविधैः कुर्याद् युवराज-निराजनम् ॥ १२ ॥
अलङ्कारैश्च विविधैर्देवी-नीराजनं मतम् ।
मन्त्रि-नीराजनं राजा हयेनैव समाचरेत् ॥ १३ ॥
अमात्यानां सैनिकानां विप्राणां धनिनां तथा ।
वस्त्रैर्नीराजनं कुर्यादिति भोजस्य सम्मतम् ॥ १४ ॥
नीराजनाया वस्तूनि न पश्येन्न पुनः स्पृशेत् ।
सप्तकृत्वः परिभ्राम्य कुर्यान्नीराजनाविधिम् ॥ १५ ॥
न्यसेद्वा परराष्ट्रेषु गहने वा जलेऽपि वा ।
दैवज्ञ-वैद्य-दीनेभ्य प्रयच्छेद्वा यथायथम् ॥ १६ ॥
इति संक्षेपतः प्रोक्तो मया नीराजनाविधिः ।
अनेन विधिना राजा सुचिरं सुखमश्नुते ॥ १७ ॥
तथाहि गर्गः ।
नीराजना महेन्द्राणां निहन्ति विपदोऽखिलाः ।
सैव सन्नहनं (१) राज्ञां कञ्चुकेनेव संयतः ॥ १८ ॥
( १ ) सन्दहनम् इति (क) पुस्तक पाठः ।

४. चतुर्थ विभाग: रत्न-परीक्षा, मणि-लक्षण, सैन्य-सञ्चालन एवं युक्तिकल्पतरु उपसंहार

अश्वयुक्तिः । १८१
नीराजना वन्दितानां नभयं विद्यते क्वचित् ।
नीराजना-विहीनानां नश्येयुः सर्व्वसम्पदः ॥ १८ ॥
तथा च वात्स्यः ।
ये भूमिपालाः प्रतिवत्सरान्ते,
कुर्व्वन्ति नीराजन-कर्म्सम्यक् ।
तेषां न लक्ष्मोः क्षयतामुपैति,
साम्राज्य लक्ष्मोः करगैव तेषाम् ॥ २० ॥
एवं नीराजनं कृत्वा ( १ ) राजा प्रस्थानमाचरेत् ।
प्रस्थानं यानतोयस्मात्तस्माद्यानं निरूप्यते ॥ २१ ॥
चतुष्पदं द्विपदञ्च अ(श्वा)पदञ्चेति तन्त्रिधा ।
यानेषु वाजिनो मुख्या निर्द्दिष्टाः सर्व्वसम्मताः ।
अतस्तेषां प्रवक्ष्यामि लक्षणत्वमतः परम् ॥ २२ ॥
इति श्रीभोजराजीये युक्तिकल्पतरौ नीराजनविधिः ।
अथाश्वपरीक्षा ।
सपक्षा वाजिनः पूर्व्वं संजाता व्योमचारिणः ।
गन्धर्व्वेभ्यो यथाकामं गच्छन्ति च समन्विताः ॥ २३ ॥
इन्द्रादेशाच्छाालिहोत्रस्तेषां पक्षमथाच्छिनत् ।
ततः प्रभृति निष्पक्षा स्तुरङ्गा धरणीं गताः ॥ २४ ॥
उत्तमा मध्यमा नीचाः कणीयांसस्तथा परे ।
चतुर्द्धा वाजिनो भूमौ जायन्ते देशसंश्रयात् ॥ २५ ॥
( १ ) त्यक्ता इति ( क ) पुस्तक पाठः ।

१८२ युक्तिकल्पतरौ—
ताजिताः खुरशालाश्च तुषाराश्चोत्तमा हयाः ।
गोजिकाणाश्च केकाणाः प्रौढाहाराश्च मध्यमाः ॥ २६ ॥
ताड़जा उत्तमाशाश्च राज-शूलाश्च मध्यमाः ।
गत्वराः साध्य (१) वासाश्च सिन्धुदाराः कणीयसः ॥ २७ ॥
अन्यदेशोद्भवा ये च ते वै नीचाः प्रकीर्त्तिताः ।
वाजिनो जलजाः केचिद्वह्निजातास्तथापरे ॥ २८ ॥
समीरप्रभवाश्चान्ये तुरगा मृगजाः परे ।
जलोद्भवा द्विजा ज्ञेयाः क्षत्रिया वह्नि-सम्भवाः ॥ २६ ॥
प्रभञ्जनभवा वैश्या मृगजाः शूद्रजातयः ।
पुष्पगन्धिर्भवेद्विप्रः क्षत्रियो गुरुगन्धिकः ॥ ३० ॥
घृतगन्धो भवेद्वैश्यो मीनामोदौ च शूद्रकः ।
विवेकी सदृशो विप्रस्तेजस्वी क्षत्रियो वली ॥ ३१ ॥
कोष्णाभावो (२) भवेद्वैश्यः शूद्रो निःसत्त्वको भवेत् ।
विप्राद्या वाजिनाः सर्व्वे त्रयो भूमिपतेः सदा ।
शूद्रजातिं तुरङ्गन्तु न स्पृशन्ति नरेश्वराः ॥ ३२ ॥
इत्यश्वोत्पत्तिः ।
अथाङ्गुल्याङ्ग-विभागः ।
सप्तविंशत्यङ्गुलोभिर्मुख-मानं विधीयते ।
कर्णौ षडङ्गुलौ प्रोक्तौ भालकं चतुरङ्गुलम् ॥ ३३ ॥
चत्वारिंशच्च सप्ताढ्यः (३) स्कन्धः संपरिकीर्त्तितः ।
पृष्ठवंशश्चतुर्विंशः सप्तविंशा तथा कटी ॥ ३४ ॥
(१) साध्यवासाश्च इति (क) पुस्तक पाठः ।
(२) कोष्णभावी इति (ख) पुस्तक पाठः ।
(३) सप्ताढ्या इति (ग) पुस्तक पाठः ।

अश्वयुक्तिः । १८३
इति सूक्ष्मं तथा निम्नं प्रतिपुच्छं द्वयाधिकम् ।
लिङ्गं हस्त-प्रमाणन्तु तथाण्डौ चतुरङ्गुलौ ॥ ३५ ॥
मध्य (१) स्थानं चतुर्विंशं हृदयं षोडशात्मकम् ।
कटिकुच्छ(कक्षा)न्तरं प्रोक्तं चत्वारिंशत् प्रमाणतः ॥ ३६ ॥
मणिबन्ध-द्वयञ्चैव खुराश्च चतुरङ्गुलाः ।
अशीत्यङ्गुलिकाः, पादा दीर्घा विंशाधिका मताः ॥ ३७ ॥
इत्यश्वाङ्गुलि-विभागः ।
अथ वर्णाः ।
यदाह नकुलः,—
सप्तवर्णा भवन्तीह सर्वेषां वाजिनां ध्रुवम् ।
तानहं कीर्त्तयिष्यामि भेदैर्जाताननेकधा ॥ ३८ ॥
सितो रक्तस्तथा पीतः सारङ्गः पिङ्ग एव च ।
नीलः कृष्णोऽथ सर्वेषां श्वेतः श्रेष्ठतमो मतः ॥ ३९ ॥
श्वेतः कुन्देन्दुसङ्काशो रक्तः कौसुम्भ (२) सन्निभः ।
हरिद्रा-सदृशः पीतः सारङ्गः कर्बुरः स्मृतः ॥ ४० ॥
पिङ्ग(ष)ङ्गः कपिलाकारो नीलो दूर्वादल-प्रभः ।
कृष्णो जम्बुफलाकारः शास्त्रज्ञैः समुदाहृतः ॥ ४१ ॥
इत्यश्व-वर्णाः ।
अथ वयोविभागः ।
दन्तेषु व्यञ्जनं यद्वत् (३) तेन ज्ञेयो वयःक्रमः ॥ ४२ ॥
(१) माक इति (क) पुस्तक पाठः ।
(२) कुन्देन्दु इति (ख) पुस्तक पाठः ।
(३) यद् यत् इति (ग) पुस्तक पाठः ।

१८४ युक्तिकल्पतरौ—
तद्यथा---
कालिका हरिणी शुक्ला काचा मक्षिकया सह ।
शङ्खो मूषलकञ्चैव दन्तानां चलतां(ता)तथा ।
इत्यष्टौ व्यञ्जनान्याहुरथैषां लक्षणं शृणु ॥ ४३ ॥
चतुर्भिर्व्वत्सरैर्द्दन्ताश्चत्वारः परिकीर्त्तिताः ।
पञ्चभिश्च षडित्येवं जायन्ते त्वथ कालिकाः ॥ ४४ ॥
षष्ठे संवत्सरे प्राप्ते कालिकान्या भवेत् तु हि ।
तथान्या सप्तमे वर्षे चतुर्थी (१) कालिका भवेत् ॥ ४५ ॥
अष्टमे वत्सरे प्राप्ते जायन्ते सर्व्वकालिकाः ।
नवमे त्वथ ताः सर्व्वा आपीताः सम्भवन्ति च ॥ ४६ ॥
केचिदेकादशे वर्षे तावत् पोतत्वमागताः ।
ततः श्वेताः प्रजायन्ते चतुर्द्दशसमावधि ॥ ४७ ॥
ततः काचप्रभाः सम्यग् यावत् संवत्सरास्त्रयः ।
ततः सप्तदशादूर्द्धं यावद्वर्षाणि विंशतिः ॥ ४८ ॥
मक्षिकाभां वदन्त्येषां (२) यावद्वर्षत्रयं पुनः ।
शङ्खाभासाः सर्व्वदन्ता भवन्ति वाजिनां ततः ॥ ४६ ॥
त्रयोविंशात् परे वर्षे दशमा मूषला मताः ।
षड्विंशात् परतो दन्ताः स्थानाच्चलनमाप्नुयुः ॥ ५० ॥
यावद्वर्षत्रयं पश्चान्निपतन्ति समात्रये ।
द्वात्रिंशद्वत्सरे वाजी नूनं निर्व्वाणमाप्नुयात् ॥ ५१ ॥
इत्यश्व-वयः स्थानम् ।
(१) चतुर्थ इति (क) पुस्तक पाठः ।
(२) मक्षिकाभावदन्तेषां इति (ख) पुस्तक पाठः ।

अश्वयुक्तिः । १८५
अथ अश्वस्य शुभलक्षणानि ।
दीर्घाः शुष्का विशालास्या ये भवन्ति तुरङ्गमाः ।
ते शस्ताः पार्थिवेन्द्रस्य यानवाहनकर्म्मणि ॥ ५२ ॥
आस्यं भुजौ चापि कृकाटिका च,
दीर्घं चतुष्कं तुरगस्य शस्तम् ।
तथोन्नते घ्राणपुटे ललाटे ;
शफश्च (१) वाजिप्रवरस्य वोध्यः ॥ ५३ ॥
श्रोत्रे च मणिवन्धश्च पुच्छं कोष्ठं लघूत्तमम् ।
पीताङ्गः श्वेतपादो यो यश्च स्यात् सितलोचनः (२) ॥ ५४ ॥
चक्रवाकः स विज्ञेयो राजार्हः प्रियसत्तमः ।
मुखे चन्द्रकसंवीतः पक्वजम्बूफलाकृतिः ॥ ५५ ॥
श्वेतपादः स विज्ञेयो मल्लिकाख्यः सुपूजितः (३) ।
सर्ब्बश्वेतो हयो यस्तु श्यामैकश्रवणो भवेत् ॥ ५६ ॥
स वाजी वाजिमेधार्हः श्यामकर्णः सुदुर्ल्लभः ।
यस्य पादाः सिताः सर्व्वे पुच्छो मुष्को मुखं तथा ॥ ५७ ॥
मूर्द्धजास्तु सिता यस्य तं विद्यादष्टमङ्गलम् ।
यस्य पादाः सिताः सर्व्वे चन्द्रकश्च ललाटके ॥ ५८ ॥
कल्याणपञ्चकः प्रोक्तो भर्त्तुः कल्याणकारकः ।
विमिश्रवर्णकाः सर्व्वे प्रशस्ता वाजिनो मताः ॥ ५९ ॥
यस्योत्कृष्टतरा वर्णा वृद्धिं यान्ति शनैः शनैः ।
नाशयन्ति तथा नीचान् करोति स वहन् हयान् ॥ ६० ॥
इत्यश्वस्य शुभलक्षणानि ।
( १ ) कफश्च इति (क) पुस्तकपाठः ।
( २ ) स्याच्छितलोचनः इति (ख) पुस्तकपाठः ।
( ३ ) स पूजितः इति (ग) पुस्तकपाठः ।
२४

१८६ युक्तिकल्पतरौ—
अथाश्वस्य आवर्त्तगुणाः ।
रोम्नां (१) भ्रमिर्वदावृत्तिरावर्त्त इति गद्यते ।
षड्विधो दक्षिणो वामो दक्षिणस्तु शुभावहः ॥ ६१ ॥
नासिकाग्रे ललाटाग्रे शङ्खे कण्ठे च मस्तके ।
आवर्त्तो जायते येषां ते धन्यास्तु तुरङ्गमाः ॥ ६२ ॥
ललाटे यस्य चावर्त्तो द्वितीयस्तु ककुन्दरे ।
मस्तके च तृतीयस्तु स विज्ञेयो हयोत्तमः ॥ ६३ ॥
द(ग)ण्डावर्त्तो भवेद्यस्य वाजिनो दक्षिणाश्रयः ।
स करोति महासौख्यं स्वामिनः शिरसंज्ञितः (२) ॥ ६४ ॥
कर्णमूले यदावर्त्तः स्तनमध्ये तथापरः ।
विजयाख्यावुभौ तौ तु युद्धकाले जयप्रदौ ॥ ६५ ॥
स्कन्धपार्श्वे यदावर्त्तः स भवेत् सुखकारकः ।
नासामध्ये यदावर्त्त एको वा यदि वा त्रयः ॥ ६६ ॥
चक्रवर्त्ती स विज्ञेयो वाजी भूपाल-भूषितः ।
कण्ठे यस्य महावर्त्तः प्रोक्तश्चिन्तामणिः शुभः ॥ ६७ ॥
रोम्नां वृश्चिकवत् स्थानं शुक्तिरित्यभिधीयते ।
यत्रावर्त्तः शुभस्तत्र शुक्तिस्तत्र शुभावहा (३) ॥ ६८ ॥
इति आवर्त्त गुणाः ।
अथाश्वस्य दोषाः ।
चत्वारोऽप्यसिताः पादाः सर्व्वश्वेतस्य वाजिनः ।
भवन्ति यस्य स त्याज्यो यमदूतः सुदूरतः ॥ ६९ ॥
( १ ) व्योम्नां इति (क) पुस्तकपाठः
( २ ) शिरःसङ्गितः इति (ख) पुस्तकपाठः ।
( ३ ) शुभा भवेत् इति (ग) पुस्तकपाठः ।

चत्वारो यस्य वै पादाः परस्पर विवर्णकाः ।
स त्याज्यो मुषली नाम्ना मुनिभिः कुलनाशनः ॥ ७० ॥
दुर्लभं वाजिनं जह्याद् यदोच्छेःत् शाश्वतीं श्रियम् ।
यस्तु(स्य) वर्णविभेदेन ज्ञायते रोमसंभवात् ॥ ७१ ॥
पुष्पाह्वयः स परित्याज्यः सर्व्ववाजि-भयावहः ।
यस्यावशेष वर्णेन छाद्यते च प्रधानतः ॥ ७२ ॥
विवृद्धिं गच्छतः सोऽश्वः कुरुते हयसंचयम् ॥ ७३ ॥
हृदि स्कन्धे गले चैव कटिदेशे तथैव च ।
नाभौ कुक्षौ च पाश्र्वांशे (१) मध्यमः स प्रकीर्त्तितः ॥ ७४ ॥
एको वामकपोलस्थो यस्यावर्त्तः प्रदृश्यते ।
चर्व्वणी स हयस्त्याज्यः कुरुते स्वामिनाशनम् ॥ ७५ ॥
वामगण्डाश्रयावर्त्तः प्रकरोति धनक्षयम् ।
कक्षान्ते यस्य चावर्त्तः स मृत्युं कुरुते विभोः ॥ ७६ ॥
क्लेशं जानुगतावर्त्तः प्रवासं कुरुतेऽथ वा ।
वाजीमेढ़गतावर्त्तो वर्जनीयो महीभुजा ॥ ७७ ॥
त्रिवलि प्रभवावर्त्त स्त्रिवर्गस्य प्रणाशकः ।
पृष्ठवंशे यदावर्त्त एकः संपरिलक्ष्यते ।
धूमकेतुरिति ख्यातः स त्याज्यो दूरतो नृपैः ॥ ७८ ॥
गुह्ये पुच्छे वलौ यस्य भवन्त्यावर्त्त कास्त्रयः ।
स कृतान्तस्तु रूपेण वर्जनीयस्तुरङ्गमः ॥ ७९ ॥
अधोऽङ्गश्च यदा वाजी सम्पुटं न स्पृशेत् क्वचित् ।
यमदूतः स विज्ञेयो वर्जनीयस्तुरङ्गमः ॥ ८० ॥
हीनदन्तोऽधिकश्चैव कराली कृष्णतालुकः ।
मुषली च तथा शृङ्गी षड़ेते घातकाः स्मृताः ॥ ८१ ॥
( १ ) पार्श्वांसे इति (क) पुस्तक पाठः ।

१८८ युक्तिकल्पतरो—
तत्राद्यौ विदितार्थौ तु शेषाणां लक्षणं शृणु ।
त्रयः पादाः सिता यस्य कृष्णश्चैकोऽभिजायते ॥ ८२ ॥
त्रयो वाप्यसिता यस्य एकः शुक्लोऽभिजायते (१) ।
मुषलो नाम पापोऽयं दूरे त्याज्यो हयाधमः ॥ ८३ ॥
विकटो विषमो यस्य दशनः स करालकः ।
करालो कुरुते नाशं भर्तुरत्र न संशयः ॥ ८४ ॥
कृष्णतालुर्हयो नाशं कुरुते नात्र संशयः ।
विषदन्तो भवेद्यस्तु कृष्णतालु र्न दुष्यते ॥ ८५ ॥
कर्णान्ते चूलिकान्ते च शृङ्गवल्लक्ष्यते यदि ।
स शृङ्गी कुरुते नाशं राष्ट्रस्य च कुलस्य च ॥ ८६ ॥
एकाण्डोऽजातकाण्डश्च हीनाण्डोऽभ्यधिकाण्डकः ।
घण्डी (२) च कम्बली चैव षड़ेते पापकृत्तमाः ॥ ८७ ॥
इत्यश्वस्य दोषाः ।
अथाश्वस्यारिष्टम् ।
सुस्थस्यापि च नेत्रान्ते स्यातां नीले च वाजिनः ।
तथैव तस्य जानीयात् भवेन्मृत्युर्द्विवार्षिकी ॥ ८८ ॥
नीलपोते च नेत्रान्ते त्रिभिर्मासैर्वपुःक्षयः ।
यस्य नेत्रान्तरे रेखा वहुवर्णा प्रजायते ॥ ८६ ॥
विशेषाद्वाजिनो ज्ञेयं तस्यायुः पञ्चमासिकम् ।
जिह्वायां जायते विन्दुरकस्माद्यदिवाजिनः ॥ ६० ॥
मासैकं जीवितं तत्र पोते मासद्वयं तथा ।
रक्ते मृत्युस्त्रिभिर्मासैश्चतुर्भिञ्च विचितके ॥ ६१ ॥
(१) विजायते इति (क) पुस्तक पाठः ।
(२) वष्टी इति (ख) पुस्तक पाठः ।

अश्वयुक्तिः । १८८
पञ्चभिर्नीलवर्णे च षड्भिर्वभ्र् (१) समाकृतौ ।
सप्तभिः पाटलाकारे चणकाभे तथाष्टभिः ॥ ९२ ॥
नवभिश्च हरिद्राभे दशभिर्जतुकोपमे ।
एकादशे सुवर्णाभे वत्सरेण हिमद्युतौ ॥ ९३ ॥
यस्य श्वासो भवेदुष्णः शरीरं पुलकान्वितम् (२) ।
जिह्वा हि मलिनाकारा मासषट्कं स जीवति ॥ ९४ ॥
जिह्वाग्रे पिड़का यस्य पादान्ते च तथोदरे ।
मूत्रं करोति रक्तं वा मासषट्कं स जीवति ॥ ९५ ॥
कर्णयोः क्षतजं यस्य नेत्राभ्यां वा प्रवर्त्तते ।
वाजिनः पित्तग्रस्तस्य दश मासान् स जीवति ॥ ९६ ॥
यस्य नेत्रे हरिद्राभे यस्य वातार्द्दितस्य च ।
तस्यायुः सप्तमासोयं बहुवर्णे तथा दिनैः ॥ ९७ ॥
यस्यैकं लोचनं हीनं द्वितीयं रक्तसन्निभम् ।
पुटान्ते च स विज्ञेयः पीताभे (३) मासजीवकः ॥ ९८ ॥
(एतानि अरिष्टानि वक्त्रदोषजानि ।)
स्फुलिङ्गा यस्य दृश्यन्ते पुच्छतोऽश्वस्य वह्निजाः ।
निर्गच्छन्तः प्रभोर्नाशं ते वदन्ति निशागमे ॥ ९९ ॥
अश्वशालां समासाद्य यदा च मधुमक्षिकाः ।
मधुजालं प्रबध्नन्ति तदाश्वान् (४) घ्नन्ति कृत्स्नशः ॥ १०० ॥
इत्यरिष्टानि ।
(१) वक्र इति (क) पुस्तक पाठः ।
(२) पुलकाङ्कितम् इति (ख) पुस्तक पाठः ।
(३) पीताभो इति (ग) पुस्तक पाठः ।
(४) तदश्वान् इति (घ) पुस्तकपाठः ।

१८० युत्तिकल्पतरो—
अथ हय क्रियाकालः ।
खवरुण गुरुपार्श्वास्थ्येषु भौमार्कवारे,
खतिथि करणताराचन्द्रयोगोदयेषु ।
शुभमिह हयः काष्ठं (१) कार्य्यमार्य्येण बुद्ध्वा ;
न शनिरविकुजानां वासरे नोयतारे ॥ १ ॥
इति हयक्रियाकालः ।
अथ हयारोहण ज्ञानम् ।
चलकिशलयपादः कर्णमध्यैक दृष्टि-,
र्नचलति कटिदेशः स्वासने संस्थितो यः ।
हयहृदयगतिज्ञः स्थानदण्डावतापः (२) ;
स खलु तुरगयाता पूज्यते पार्थिवेन्द्रैः ॥ २ ॥
मेरुः स्थिरो यस्य चलौ च पादौ,
त्रिकोन्नतं संहतमासनञ्च ।
स वाजिवाहः प्रथितः पृथिव्यां ;
शेषा नरा भारकरा हयानाम् ॥ ३ ॥
इति हयारोहणं ज्ञानम् ।
अथ हयताड़नविधिः ।
रक्तकोष्ठे (३) मुखे चौष्ठे गले पुच्छे च ताड़येत् ।
भीते वक्षःस्थलं हन्यादृक्तं चोन्मार्गामिनः ॥ ४ ॥

( १ ) काष्ठं इति (क) पुस्तक पाठः ।
( २ ) स्थानदण्डावपाती इति (ख) पुस्तक पाठः ।
( ३ ) कण्ठे इति (ग) पुस्तक पाठः ।

अश्वयुक्तिः । १८१
कुपिते पुच्छसंस्थानं भ्रान्ते जानुद्वयं तथा ।
सर्व्वस्या(स्य)प्राप्तदण्डस्य दण्डमेकं निपातयेत् ॥ ५ ॥
यद्यत्प्रस्खलते गात्रं तत्र दण्डं निपातयेत् ।
अस्थानदण्डपाताच्च बहुदोषः प्रजायते ।
तस्मान्निरोच्य कर्त्तव्यं हये दण्डनिपातनम् ॥ ६ ॥
इति हय ताड़नविधिः ।
अथ हयधावनविधिः ।
हस्तैश्चतुर्विंशतिभिर्धनुर्दण्ड उदाहृतः ।
अक्ष्णो र्निमेषणान्यष्टौ मात्रा प्रोक्ता विचक्षणैः ॥ ७ ॥
मात्रा षोड़शकेनाश्वो यो धावति धनुःशतम् ।
तमुत्तमोत्तमं विद्याद्वायुवेगं महाजवम् (१) ॥ ८ ॥
विंशत्या मध्यमो ज्ञेयो ह्यतोऽन्ये चाधमा मताः ।
नभस्याश्वयुजे मासि नैवाश्वान् वाहयेन्नृपः ॥ ९ ॥
वज्राग्निसदृशं पित्तं श्रमात् कुप्यति वाजिनाम् ।
कार्य्येण महता वापि योज्यो मासि तु कार्त्तिके ॥ १० ॥
हेमन्ते शिशिरे योगो वसन्ते च यदृच्छया ।
बालं वृद्धं कृशं रुग्णं दत्तस्नेहं वृहद्गलिम् (२) ।
पूर्णातिरिक्त कोष्ठञ्च गुर्ब्बिणीञ्च न वाहयेत् ॥ ११ ॥
इति हयधावनविधिः ।
( १ ) महाजरम् इति (क) पुस्तक पाठः ।
( २ ) बालो वृद्धः कृशो रोगी दग्धस्नेहो बृहद्गलिः इति (ख) पुस्तक
पाठः ।

१८२ युक्तिकल्पतरौ-
अथ हयरक्तमोक्षणविधिः ।
द्वासप्ततिसहस्राणि नाड़ीनां सम्भवन्ति हि ।
वाजिनामिह सर्वेषामाशु रक्तं व्यवस्थितम् ॥ १२ ॥
तासां निर्मोक्षणार्थाय दाराख्यष्टौ वदाम्यहम् ।
यैर्याति कुत्सितं रक्तं सर्व्वदेहसमुद्भवम् ॥ १३ ॥
कण्ठे कक्षे लोचनयो रंसयोश्च मुखे तथा ।
अण्डयोरथ पादेषु पार्श्वयोरुभयोरपि ॥ १४ ॥
एतद्धर्म (१) सुविज्ञेयं वाजिनां भिषगुत्तमैः ।
अन्ये सप्तदशान्याहुः शिराद्वाराणि वाजिनः ॥ १५ ॥
येषु रक्तं हृतं सद्यः प्रकरोति ततः सुखम् ।
गुल्फे गले तथा मेढ़े कक्षान्ते चैव पत्रके ॥ १६ ॥
गुदे पुच्छेऽथ वस्तौ च जङ्घयोः सर्व्वसन्धिषु ।
जिह्वायाञ्चाधरे चौष्ठे नेत्रयोरुभयोरपि ॥ १७ ॥
कर्णमूले मणौ गण्डे (२) रुधिरं स्रावयेद्भिषक् ।
सौश्रुतमानप(पा)लेन त्याज्यं रक्तं तुरङ्गमाणम् ॥ १८ ॥
तद्यथा ।
पलं शतं मुखे त्याज्यं (३) कक्षयोश्चैकमेव च ।
शताद्र्धं नेत्रदेशाच्च मेढ्रदेशात् तथैव च ॥ १९ ॥
गण्डयोरण्डयोश्चैव स्रावयेत् पञ्चविंशतिम् ।
द्वादशैव गुदे प्राङ्गुरश्व(४) शास्त्रविचक्षणाः ॥ २० ॥
(१) एतद्धर्म्मं सुविज्ञेयो वाजिनां भिषगुत्तमम् इति (क) पुस्तक पाठः ।
(२) कर्णमूले मने प्रान्ते इति (ख) पुस्तक पाठः ।
(३) न्याय्यं इति (ग) पुस्तक पाठः ।
(४) प्राङ्गुरश्व इति (घ) पुस्तक पाठः ।