सामग्री पर जाएँ
सर्वकोश
युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

Yuktikalpataru of Maharaja Bhoja with Commentary

महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा

DevanagariHindipublished278 पृष्ठ

पृष्ठ 226, कुल 278 में से

संदर्भ में पढ़ें
पृष्ठ 226

१८६ युक्तिकल्पतरौ—
अथाश्वस्य आवर्त्तगुणाः ।
रोम्नां (१) भ्रमिर्वदावृत्तिरावर्त्त इति गद्यते ।
षड्विधो दक्षिणो वामो दक्षिणस्तु शुभावहः ॥ ६१ ॥
नासिकाग्रे ललाटाग्रे शङ्खे कण्ठे च मस्तके ।
आवर्त्तो जायते येषां ते धन्यास्तु तुरङ्गमाः ॥ ६२ ॥
ललाटे यस्य चावर्त्तो द्वितीयस्तु ककुन्दरे ।
मस्तके च तृतीयस्तु स विज्ञेयो हयोत्तमः ॥ ६३ ॥
द(ग)ण्डावर्त्तो भवेद्यस्य वाजिनो दक्षिणाश्रयः ।
स करोति महासौख्यं स्वामिनः शिरसंज्ञितः (२) ॥ ६४ ॥
कर्णमूले यदावर्त्तः स्तनमध्ये तथापरः ।
विजयाख्यावुभौ तौ तु युद्धकाले जयप्रदौ ॥ ६५ ॥
स्कन्धपार्श्वे यदावर्त्तः स भवेत् सुखकारकः ।
नासामध्ये यदावर्त्त एको वा यदि वा त्रयः ॥ ६६ ॥
चक्रवर्त्ती स विज्ञेयो वाजी भूपाल-भूषितः ।
कण्ठे यस्य महावर्त्तः प्रोक्तश्चिन्तामणिः शुभः ॥ ६७ ॥
रोम्नां वृश्चिकवत् स्थानं शुक्तिरित्यभिधीयते ।
यत्रावर्त्तः शुभस्तत्र शुक्तिस्तत्र शुभावहा (३) ॥ ६८ ॥
इति आवर्त्त गुणाः ।
अथाश्वस्य दोषाः ।
चत्वारोऽप्यसिताः पादाः सर्व्वश्वेतस्य वाजिनः ।
भवन्ति यस्य स त्याज्यो यमदूतः सुदूरतः ॥ ६९ ॥
( १ ) व्योम्नां इति (क) पुस्तकपाठः
( २ ) शिरःसङ्गितः इति (ख) पुस्तकपाठः ।
( ३ ) शुभा भवेत् इति (ग) पुस्तकपाठः ।