युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
पृष्ठ 220, कुल 278 में से
संदर्भ में पढ़ें१८० युक्तिकल्पतरौ—
श्वा दशाश्वस्तदर्द्धेन नरश्चैव तदर्द्धतः ।
व्याघ्रादीनां तथैकैकं रत्नं नानाविधं तथा ॥ ८ ॥
अस्त्राणि धातवश्चैव वस्त्राणि च फलानि च ।
वनजाः स्थलजाश्चैव जलजाश्चैव जन्तवः ॥ ९ ॥
नवग्रहाश्च सूर्याद्याः शैलाः सप्तघटास्तथा ।
योग्यधातु-समुद्भूता नौकाखण्डत्रयं तथा ॥ १० ॥
एकैकं द्विपदं यानं खट्वा शय्याशनं तथा ।
निज-देहमितं स्वर्णं रजतं ताम्रमेव वा ॥ ११ ॥
आत्म-नीराजने दद्याद् यदिच्छेच्चिर-संस्थितिम् ।
अस्त्रैर्नानाविधैः कुर्याद् युवराज-निराजनम् ॥ १२ ॥
अलङ्कारैश्च विविधैर्देवी-नीराजनं मतम् ।
मन्त्रि-नीराजनं राजा हयेनैव समाचरेत् ॥ १३ ॥
अमात्यानां सैनिकानां विप्राणां धनिनां तथा ।
वस्त्रैर्नीराजनं कुर्यादिति भोजस्य सम्मतम् ॥ १४ ॥
नीराजनाया वस्तूनि न पश्येन्न पुनः स्पृशेत् ।
सप्तकृत्वः परिभ्राम्य कुर्यान्नीराजनाविधिम् ॥ १५ ॥
न्यसेद्वा परराष्ट्रेषु गहने वा जलेऽपि वा ।
दैवज्ञ-वैद्य-दीनेभ्य प्रयच्छेद्वा यथायथम् ॥ १६ ॥
इति संक्षेपतः प्रोक्तो मया नीराजनाविधिः ।
अनेन विधिना राजा सुचिरं सुखमश्नुते ॥ १७ ॥
तथाहि गर्गः ।
नीराजना महेन्द्राणां निहन्ति विपदोऽखिलाः ।
सैव सन्नहनं (१) राज्ञां कञ्चुकेनेव संयतः ॥ १८ ॥
( १ ) सन्दहनम् इति (क) पुस्तक पाठः ।