सामग्री पर जाएँ
सर्वकोश
युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

Yuktikalpataru of Maharaja Bhoja with Commentary

महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा

DevanagariHindipublished278 पृष्ठ

पृष्ठ 227, कुल 278 में से

संदर्भ में पढ़ें
पृष्ठ 227

चत्वारो यस्य वै पादाः परस्पर विवर्णकाः ।
स त्याज्यो मुषली नाम्ना मुनिभिः कुलनाशनः ॥ ७० ॥
दुर्लभं वाजिनं जह्याद् यदोच्छेःत् शाश्वतीं श्रियम् ।
यस्तु(स्य) वर्णविभेदेन ज्ञायते रोमसंभवात् ॥ ७१ ॥
पुष्पाह्वयः स परित्याज्यः सर्व्ववाजि-भयावहः ।
यस्यावशेष वर्णेन छाद्यते च प्रधानतः ॥ ७२ ॥
विवृद्धिं गच्छतः सोऽश्वः कुरुते हयसंचयम् ॥ ७३ ॥
हृदि स्कन्धे गले चैव कटिदेशे तथैव च ।
नाभौ कुक्षौ च पाश्र्वांशे (१) मध्यमः स प्रकीर्त्तितः ॥ ७४ ॥
एको वामकपोलस्थो यस्यावर्त्तः प्रदृश्यते ।
चर्व्वणी स हयस्त्याज्यः कुरुते स्वामिनाशनम् ॥ ७५ ॥
वामगण्डाश्रयावर्त्तः प्रकरोति धनक्षयम् ।
कक्षान्ते यस्य चावर्त्तः स मृत्युं कुरुते विभोः ॥ ७६ ॥
क्लेशं जानुगतावर्त्तः प्रवासं कुरुतेऽथ वा ।
वाजीमेढ़गतावर्त्तो वर्जनीयो महीभुजा ॥ ७७ ॥
त्रिवलि प्रभवावर्त्त स्त्रिवर्गस्य प्रणाशकः ।
पृष्ठवंशे यदावर्त्त एकः संपरिलक्ष्यते ।
धूमकेतुरिति ख्यातः स त्याज्यो दूरतो नृपैः ॥ ७८ ॥
गुह्ये पुच्छे वलौ यस्य भवन्त्यावर्त्त कास्त्रयः ।
स कृतान्तस्तु रूपेण वर्जनीयस्तुरङ्गमः ॥ ७९ ॥
अधोऽङ्गश्च यदा वाजी सम्पुटं न स्पृशेत् क्वचित् ।
यमदूतः स विज्ञेयो वर्जनीयस्तुरङ्गमः ॥ ८० ॥
हीनदन्तोऽधिकश्चैव कराली कृष्णतालुकः ।
मुषली च तथा शृङ्गी षड़ेते घातकाः स्मृताः ॥ ८१ ॥
( १ ) पार्श्वांसे इति (क) पुस्तक पाठः ।