सामग्री पर जाएँ
सर्वकोश
युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

Yuktikalpataru of Maharaja Bhoja with Commentary

महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा

DevanagariHindipublished278 पृष्ठ

पृष्ठ 223, कुल 278 में से

संदर्भ में पढ़ें
पृष्ठ 223

अश्वयुक्तिः । १८३
इति सूक्ष्मं तथा निम्नं प्रतिपुच्छं द्वयाधिकम् ।
लिङ्गं हस्त-प्रमाणन्तु तथाण्डौ चतुरङ्गुलौ ॥ ३५ ॥
मध्य (१) स्थानं चतुर्विंशं हृदयं षोडशात्मकम् ।
कटिकुच्छ(कक्षा)न्तरं प्रोक्तं चत्वारिंशत् प्रमाणतः ॥ ३६ ॥
मणिबन्ध-द्वयञ्चैव खुराश्च चतुरङ्गुलाः ।
अशीत्यङ्गुलिकाः, पादा दीर्घा विंशाधिका मताः ॥ ३७ ॥
इत्यश्वाङ्गुलि-विभागः ।
अथ वर्णाः ।
यदाह नकुलः,—
सप्तवर्णा भवन्तीह सर्वेषां वाजिनां ध्रुवम् ।
तानहं कीर्त्तयिष्यामि भेदैर्जाताननेकधा ॥ ३८ ॥
सितो रक्तस्तथा पीतः सारङ्गः पिङ्ग एव च ।
नीलः कृष्णोऽथ सर्वेषां श्वेतः श्रेष्ठतमो मतः ॥ ३९ ॥
श्वेतः कुन्देन्दुसङ्काशो रक्तः कौसुम्भ (२) सन्निभः ।
हरिद्रा-सदृशः पीतः सारङ्गः कर्बुरः स्मृतः ॥ ४० ॥
पिङ्ग(ष)ङ्गः कपिलाकारो नीलो दूर्वादल-प्रभः ।
कृष्णो जम्बुफलाकारः शास्त्रज्ञैः समुदाहृतः ॥ ४१ ॥
इत्यश्व-वर्णाः ।
अथ वयोविभागः ।
दन्तेषु व्यञ्जनं यद्वत् (३) तेन ज्ञेयो वयःक्रमः ॥ ४२ ॥
(१) माक इति (क) पुस्तक पाठः ।
(२) कुन्देन्दु इति (ख) पुस्तक पाठः ।
(३) यद् यत् इति (ग) पुस्तक पाठः ।