याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
महिषोष्ट्रगवां द्वौ द्वौ पादं पादमजाविके ॥ १७४ ॥
३२२ याज्ञवल्क्यस्मृतिः
मनूक्तषड्भागादिग्रहणस्य द्रव्यविशेषेऽपवादमाह—
पणानेक शफे दद्याच्चतुरः पञ्च मानुषे ।
महिषोष्ट्रगवां द्वौ द्वौ पादं पादमजाविके ॥ १७४ ॥
एकशफे अश्वादौ प्रनष्टाधिगते तत्स्वामी राज्ञे रक्षणनिमित्तं चतुरः पणान्द-
द्यात् । मानुषे मनुष्यजातीये द्रव्ये पञ्च पणान्, महिषोष्ट्रगवां रक्षणनिमित्तं
प्रत्येकं द्वौ द्वौ पणौ, अजाविके पुनः प्रत्येकं पादं पादम् । 'दद्यात्' इति सर्वत्रा-
नुषज्यते । अजाविकमिति समासनिर्देशेऽपि 'पादं पादम्' इति वीप्साबला-
त्प्रत्येकं संबन्धोऽवगम्यते ॥ १७४ ॥
भाषा—एक खुरवाले घोड़े आदि पशुओं के खो जाने के बाद पुनः
मिलने पर चार, खोये हुए मनुष्य के मिलने पर पाँच, भैंस, ऊँट और गाय
के मिलने पर दो-दो पण और बकरा तथा भेड़ के मिलने पर चौथाई पण
राजा को देवे ॥ १७४ ॥
इत्यस्वामिविक्रयप्रकरणम् ।
अथ दत्ताप्रदानिकप्रकरणम् १२
अधुना विहिताविहितमार्गद्वयाश्रयतया दत्तानापकर्म दत्ताप्रदानिकमिति च
लब्धाभिधानद्वयं दानाख्यं व्यवहारपदमभिधीयते । तत्स्वरूपं च नारदेनोक्तम्
(४।१)—'दत्त्वा द्रव्यमसम्यग्यः पुनरादातुमिच्छति । दत्ताप्रदानिकं नाम व्यव-
हारपदं हि तत् ॥' इति । असम्यग्विहितमार्गाश्रयेण द्रव्यं दत्त्वा पुनरादातु-
मिच्छति यस्मिन्विवादपदे तद्दत्ताप्रदानिकम्-दत्तस्याप्रदानं पुनर्हरणं यस्मिन्दा-
नाख्ये तद्दत्ताप्रदानिकं नाम व्यवहारपदम् । विहितमार्गाश्रयत्वेन तत्प्रतिपक्षभूतं
तदेव व्यवहारपदं दत्तानापकर्मेत्यर्थादुक्तं भवति । दत्तस्यानपकर्म अपुनरादानाख्यं
यत्र दानाख्ये विवादपदे तद्दत्तानपकर्म । तच्च देयादेयादिभेदेन चतुर्विधम् ।
यथाऽऽह नारदः ( ४।२ )—'अथ देयमदेयं च दत्तं चाऽदत्तमेव च । व्यवहारेषु
विज्ञेयो दानमार्गश्चतुर्विधः ॥' इति । तत्र देयमित्यनिषिद्धदानक्रियायोग्यमुच्यते ।
अदेयमस्वतया निषिद्धतया वा दानानर्हम् । यत्पुनः प्रकृतिस्थेन दत्तमव्यावर्त्त-
नीयं तद्दत्तमुच्यते । अदत्तं तु यत्प्रत्याहरणीयं तत्कथ्यते । तदेतत्संक्षेपतो
निरूपयितुमाह—
स्वं कुटुम्बाविरोधेन देयं
स्वमात्मीयं कुटुम्बाविरोधेन कुटुम्बानुपरोधेन, कुटुम्बभरणावशिष्टमिति
यावत् । तद्दद्यात्; तद्भरणास्यावश्यकत्वात् । यथाऽऽह मनुः (११।१०)—
१. महिषोष्ट्र । २. दत्तानानपकर्म । ३. व्यवहारपदे । ४. रादानं ।
व्यवहाराध्यायः ३२३
'वृद्धौ च मातापितरौ साध्वी भार्या सुतः शिशुः । अप्यकार्यशतं कृत्वा भर्तव्या
मनुरब्रवीत् ॥' इति । 'कुटुम्बाविरोधेन' इत्यनेनादेयमेकविधं दर्शयति । 'स्वं
दद्यात्' इत्यनेन चास्वभूतानामन्वाहितयाचितकाधिसधारणनिक्षेपाणां पञ्चानाम-
प्यदेयत्वं व्यतिरेकतो दर्शितम् ॥ यत्पुनर्नारदेनाष्टविधत्वमदेयानामुक्तम् (४।३-४)
—'अन्वाहितं याचितकमाधिः साधारणं च यत् । निक्षेपः पुत्रदारं च सर्वस्वं
चान्वये सति ॥ आपत्स्वपि हि कष्टामु वर्तमानेन देहिना । अदेयान्याहुराचार्या
यच्चान्यस्मै प्रतिश्रुतम् ॥' इति, –एतददेयत्वमात्राभिप्रायेण, न पुनः स्वत्वाभावा-
भिप्रायेण; पुत्रदारसर्वस्वप्रतिश्रुतेषु स्वत्वस्य सद्भावात् । अन्वाहितादीनां स्वरूपं
च प्रागेव प्रपञ्चितम् ॥
'स्वं दद्यात्' इत्यनेन दारसुतादेरपि स्वत्वाविशेषेण देयत्वप्रसङ्गे प्रतिषेधमाह-
दारसुतादृते ।
नान्न्वये सति सर्वस्वं यच्चान्यस्मै प्रतिश्रुतम् ॥ १७५ ॥
दारसुतादृते दारसुतव्यतिरिक्तं स्वं दद्यात्, न दारसुतमित्यर्थः । तथा
पुत्रपौत्राद्यन्वये विद्यमाने सर्वं धनं न दद्यात्; 'पुत्रानुत्पाद्य संस्कृत्य वृत्तिं
चैषां प्रकल्पयेत्' इति स्मरणात् । तथा हिरण्यादिकमन्यस्मै प्रतिश्रुतमम्यस्मै
न देयम् ॥ १७५ ॥
भाषा—दान इतना ही देना चाहिए जिससे अपने कुटुम्ब के भरण-
पोषण में कठिनाई न हो । पुत्र और स्त्री दान में न देवे । यदि पुत्र और
पौत्र आदि हों तो सब कुछ दान नहीं करना चाहिए ॥ १७५ ॥
एवं दारसुतादिव्यतिरिक्तं देयमुक्त्वा प्रसङ्गाद्देयधनग्रहणं च प्रतिग्रहीत्रा
प्रकाशमेव कर्तव्यमित्याह—
प्रतिग्रहः प्रकाशः स्यात्स्थावरस्य विशेषतः ।
प्रतिग्रहणं प्रतिग्रहः सः प्रकाशः कर्तव्यो विवादनिराकरणार्थम् । स्थाव-
रस्य च विशेषतः प्रकाशमेव ग्रहणं कार्यम्; तस्य सुवर्णादिवदात्मनि स्थितस्य
दर्शयितुमशक्यत्वात् ॥—
एवं प्रासङ्गिकमुक्त्वा प्रकृतमनुसरन्नाह—
देयं प्रतिश्रुतं चैव दत्त्वा नापहरत्पुनः ॥ १७६ ॥
देयं प्रतिश्रुतं चैव—यद्यस्मै धर्मार्थं प्रतिश्रुतं तत्तस्मै देयमेव यद्यसौ २धर्मो-
ध्वञ्च्युतो न भवति । प्रव्युते न पुनर्दातव्यम्; 'प्रतिश्रुत्याप्यधर्मसंयुक्तस्य न
१. नान्न्वये सति सर्वस्वं देयं यच्चान्यसंभ्रितम् । २. धर्मप्रच्युतो ।
२१ या०
३२४ याज्ञवल्क्यस्मृतिः
दद्यात्' (गौ० ५।२३) इति गौतमस्मरणात् । दत्त्वा नापहरेत्पुनः न्यायमार्गेण
यद्दत्तं तत्सप्तविधमपि पुनर्नोपहर्तव्यम्; किंतु तथैवानुमन्तव्यम् । यत्पुनरन्यायेन
दत्तं तददत्तं षोडशप्रकारमपि प्रत्याहर्तव्यमेवेत्यर्थादुक्तं भवति । नारदेन च
(४।२)-'दत्तं सप्तविधं प्रोक्तमदत्तं षोडशात्मकम्' इति प्रतिपाद्य दत्तादत्तयोः
स्वरूपं विवृतम्-'पण्यमूल्यं भृतिस्तुष्ट्या स्नेहात्प्रत्युपकारतः । स्त्रीशुल्कानु-
ग्रहार्थं च दत्तं दानविदो विदुः ॥ अदत्तं तु भयक्रोधशोकवेगरुजान्वितैः । तथो-
त्कोचपरीहासव्यत्यासच्छलयोगतः ॥ बालमूढास्वतन्त्रार्त्तमत्तोन्मत्तापवर्जितम् ।
कर्ता ममेदं कर्मेति प्रतिलाभेच्छया च यत् ॥ अपात्रे पात्रमित्युक्ते कार्ये चार्थमं-
संहिते । यद्दत्तं स्यादविज्ञानाददत्तमिति तत्स्मृतम् ॥' (ना० ४।८, १९, ११)
इति । अयमर्थः—पण्यस्य क्रीतद्रव्यस्य यन्मूल्यं दत्तम्, भृतिर्वेतनं कृतकर्मणे
दत्तम्, तुष्ट्या बन्दिचारणादिभ्यो दत्तम्, स्नेहाद् दुहितृपुत्रादिभ्यो दत्तम्, प्रत्यु-
पकारतः २उपकृतवते प्रत्युपकाररूपेण दत्तम्, स्त्रीशुल्कं परिणयनार्थं कन्याज्ञाति-
भ्यो यद्दत्तम्, यच्चानुग्रहार्थमरणार्थं दत्तम्; तदेतत्प्तसप्तविधमपि दत्तमेव न
प्रत्याहरणीयम् । भयेन बन्दिग्राहादिभ्यो दत्तम्, क्रोधेन ३पुत्रादिभ्यो वैरनिर्यात-
नायान्यस्मै दत्तम्, पुत्रवियोगादिनिमित्तशोकावेशेन दत्तम्, उत्कोचेन कार्य-
प्रतिबन्धनिरासार्थमधिकृतेभ्यो दत्तम्, परिहासेनोपहासेन दत्तम् । ४एकः स्वं
द्रव्यमन्यस्मै ददात्यन्योऽपितस्मै ददातीति दानव्यत्यासः । छलयोगतः शतदान-
मभिसंधाय सहस्रमिति परिभाष्य ददाति । बालेना५प्राप्तषोडशवर्षेण, मूढेन
लोक६वादानभिज्ञेन, अस्वतन्त्रेण पुत्रदासादिना, आर्तेन रोगाभिभूतेन, मत्तेन
मदनीयमत्तेन, उन्मत्तेन वातिकाद्युन्मादग्रस्तेन वा, अपवर्जितं दत्तम्, तथा-
'अयं मदीयमिदं कर्म करिष्यति' इति प्रतिलाभेच्छया दत्तम्, अचतुर्वेदाय
'चतुर्वेदोऽहम्' इत्युक्तवते दत्तम्, 'यज्ञं करिष्यामी'ति धनं लब्ध्वा द्यूतादौ
विनियुञ्जानाय दत्तम्, इत्येवं षोडशप्रकारमपि दत्तमदत्तमित्युच्यते; प्रत्याहरणी-
यत्वात् । आर्तदत्तस्यादत्तत्वं धर्मकार्यव्यतिरिक्तविषयम्; 'स्वस्थेनार्तेन वा
दत्तं श्रावितं धर्मकारणात् । अदत्त्वा तु मृते दाप्यस्तत्सुतो नात्र संशयः ॥'
इति कात्यायनस्मरणात् ॥ तथैदमपरं संक्षिप्तार्थवचनं सर्वविवादसाधारणम् ॥
(मनुः ८।१६५)-'योगाधमनविक्रीतं योगदानप्रतिग्रहम् । यस्य चाप्युपधिं
पश्येत्तत्सर्वं विनिवर्तयेत् ॥' इति ॥ योग उपाधिः । येनागामिनोपाधिविशेषे-
णाधिविक्रयदानप्रतिग्रहाः कृतास्तदुपाधिविगमे तान् क्रयादीन्विनिवर्तयेदित्य-
१. धर्मसंयुते । २. उपकृते । ३. पुत्रादिवैरै । ४. एकोऽपि स्वं
द्रव्य । ५. अप्राप्तव्यवहारेण । ६. लोकवेदा । ७. मदीयं कर्म । ८. येनो-
पाधि । ९. धिगमे क्रयादीन् ।
व्यवहाराध्यायः ३२५
स्यार्थः । यः पुनः षोडशप्रकारमपि अदत्तं गृह्णाति, यश्चादेयं प्रयच्छति, तयो-
र्दण्डो नारदेनोक्तः (८।१६५) - 'गृह्णात्यदत्तं यो लोभाद्यश्चादेयं प्रयच्छति ।
अदेयदायको दण्ड्यस्तथा दत्तप्रतीच्छक ॥' इति ॥ १७६ ॥
भाषा-दान सबके समक्ष लेना चाहिए और वह भी विशेषतः स्थावर
(भूमि आदि) का दान तो सबके सामने लेना चाहिए । जो वस्तु जिसको देने
का संकल्प किया हो उसे वह वस्तु अवश्य देवे और देकर पुनः अपहरण
न करे ॥ १७६ ॥
इति दत्ताप्रदानिकं नाम प्रकरणम् ।
अथ क्रीतानुशयप्रकरणम् १३
अथ क्रीतानुशयः कथ्यते । तत्स्वरूपं च नारदेनोक्तम् (९।१) - 'क्रीत्वा
मूल्येन यः पण्यं क्रेता न बहु मन्यते । क्रीतानुशय इत्येतद्विवादपदमुच्यते ॥'
इति । तत्र च यस्मिन्नहनि पण्यं क्रीतं तस्मिन्नेवाह्नि तदविकृतं प्रत्यर्पणीयमिति
तेनैवोक्तम् - 'क्रीत्वा मूल्येन यत्पण्यं दुष्क्रीतं मन्यते क्रयी । विक्रेतुः प्रतिदेयं
तत्तस्मिन्नेवाह्न्यविक्षतम् ॥ ( ना० ९।२ इति ) । द्वितीयादिदिने तु प्रत्यर्पणे
विशेषस्तेनैवोक्तः-द्वितीयेऽह्नि ददत्क्रेता मूल्यात्त्रिंशांशमाहरेत् । द्विगुणं तु तृती-
येऽह्नि परतः क्रेतुरेव तत् ॥' (ना० ९।३) इति ॥ परतोऽनुशयो न कर्तव्य
इत्यर्थः । एतच्च बीजादिव्यतिरिक्तोपभोगादिविनश्वरवस्तुविषयम् ॥
बीजादिक्रये पुनरन्य एव प्रत्यर्पणावधिरित्याह-
दशैकपञ्चसप्ताहमासद्व्यर्धमासिकम् ।
बीजायोवाह्यरत्नस्त्रीदोह्यपुंसां परीक्षणम् ॥ १७७ ॥
बीजं व्रीह्यादिबीजम्, अयो ^३लोहम्, वाह्यो बलीवर्दादिः, रत्नं मुक्ताप्रवा-
लादि, स्त्री दासी, दोह्यं ^४महिष्यादि, पुमान् दासः; एषां बीजादीनां यथाक्रमेण
दशाहादिकः परीक्षाकालो विज्ञेयः । परीक्ष्यमाणे च बीजादौ यद्यमञ्जयस्त्वबुद्ध्याऽ-
नुशयो भवति तदा दशाहाद्यभ्यन्तर एव क्रयनिवृत्तिः, न पुनरूर्ध्वमित्युपदेश-
प्रयोजनम् । यत्तु मनुवचनम् (८।२२२) - 'क्रीत्वा विक्रीय वा किंचिद्यस्येहानु-
शयो भवेत् । सोऽन्तर्दशाहात्तद्द्रव्यं दद्याच्चैवाददीत च ॥' इति,-तदुक्तलोहादिव्य-
तिरिक्तोपभोगविनश्वरगृहक्षेत्रयानशयनासनादिविषयम् । सर्वं चैतदपरीक्षित-
क्रीतविषयम् । यत्पुनः परीक्षितं 'न पुनः प्रत्यर्पणीयम्' इति समयं कृत्वा क्रीतं-
१. तस्मिन्नह्नि वीक्षितम् । २. मावहेत् । ३. लोहादि । ४. माहि-
ष्यादि । ५. पभोगविनश्वर । ६. परीक्ष्य ।
३२६ याज्ञवल्क्यस्मृतिः
तद्विक्रेत्रे न प्रत्यर्पणीयम्; तदुक्तम्- 'क्रेता पण्यं परीक्षेत प्राक् स्वयं गुणदोषतः ।
परीक्ष्याभिमतं क्रीतं विक्रेतुर्न भवेत्पुनः ॥' ( ना० ३।८ ) इति ॥ १७७ ॥
भाषा-ब्रीहि आदि का बीज, लोहा, भार ढोने वाले बैल आदि पशु,
रत्न, स्त्री (दासी) भैंस आदि दूध देने वाले पशु और पुरुष (दास) का क्रय
के उपरान्त परीक्षण का काल क्रमशः दश, एक, पाँच, सात, दिन, एक
मास, ३ दिन और एक पक्ष का होता है । (अर्थात् निर्दिष्ट समय के भीतर
ही फेर बदल हो सकता है) ॥ १७७ ॥
दोह्यादिपरीक्षाप्रसङ्गेन स्वर्णादेरपि परीक्षामह-
अग्नौ सुवर्णमक्षीणं ¹रजते द्विपलं शते ।
अष्टौ त्रपुणि सीसे च ताम्रे पञ्च दशायसि ॥ १७८ ॥
वह्नौ प्रताप्यमानं सुवर्णं न क्षीयते, अतः कटकादिनिर्माणार्थं यावत्स्वर्ण-
कारहस्ते प्रक्षिप्तं तावत्तुलितं तैः प्रत्यर्पणीयम्; इतरथा क्षयं दाप्या दण्ड्याश्च ।
रजते तु शतपले प्रताष्यमाने पलद्वयं क्षीयते । अष्टौ त्रपुणि सीसे च,
'शते' इत्यनुवर्तते । त्रपुणि सीसे च शतपले प्रताष्यमानेऽष्टौ पलानि क्षीयन्ते ।
ताम्रे पञ्च, दशायसि,-ताम्रे शतपले पञ्चपलानि, अयसि दशपलानि
क्षीयन्ते । अत्रापि 'शते' इत्येव । कांस्यस्य तु त्रपुताम्रयोनित्वात्त²दनुसारेण
क्षयः कल्पनीयः । ³ततोऽधिकक्षयकारिणः शिल्पिनो दण्ड्याः ॥ १७८ ॥
भाषा-आग में तपाने पर सोना कम नहीं होता, चाँदी सौ में दो
पल कम हो जाती है, पीतल और शीशा सौ में आठ पल, ताँबा पाँच पल
और लोहा दस पल घट जाता है ॥ १७८ ॥
क्वचित्कम्बलादौ वृद्धिमाह-
शते दशपला वृद्धिरौर्णे कार्पाससौत्रिके ।
मध्ये पञ्चपला वृद्धिः सूक्ष्मे तु त्रिपला मता ॥ १७६ ॥
स्थूलेनौर्णसूत्रेण यत्कम्बलादिकं क्रियते तस्मिन् शतपले दशपला वृद्धि-
र्वेदितव्या । एवं कार्पाससूत्रनिर्मिते पटादौ वेदितव्यम् । मध्ये अनतिसूक्ष्म-
सूत्रनिर्मिते पटादौ पञ्चपला वृद्धिः । सुसूक्ष्मसूत्ररचिते शते त्रिपला वृद्धिवैदि-
तव्या । एतच्चाप्रक्षालितवासोविषयम् ॥ १७९ ॥
१. द्विपलं रजते शतम् । अष्टौ तु त्रपुसीसे च । २. तदंशानुसारेण ।
३. इतोऽधिक । ४. कार्पासिके तथा, कार्पासकेऽथ वा । मध्ये पञ्चपला
हानिः ।
व्यवहाराध्यायः ३२७
भाषा-ऊन और कपास के मोटे सूत से कम्बल आदि बनाने में सौ
पल में दस पल, मोटाई में मध्यम श्रेणी के सूत में पाँच पल और पतले सूत
से बनी वस्तु में सौ पल में तीन पल की वृद्धि समझना चाहिए ॥ १७९ ॥
द्रव्यान्तरे विशेषमाह-
कार्मिके रोमबद्धे च त्रिंशद्भागः क्षयो मतः ।
न क्षयो न च वृद्धिश्श्च कौशेये वोल्कलेषु च ॥ १८० ॥
कार्मिकं कर्मणा चित्रेण निर्मितम् । यत्र निष्पन्ने पटे चक्रहस्तिकादिकं
चित्रं ३ सूत्रैः क्रियते तत्कार्मिकमित्युच्यते । यत्र प्रावारादौ ४ रोमाणि बध्यन्ते स
रोमबद्धः, ५ तत्र त्रिंशत्तमो भागः क्षयो वेदितव्यः कौशेये कोशप्रभवे वाल्कलेषु
वृक्षत्वङ्निर्मितेषु वस्त्रेषु वृद्धिक्षयौ न स्तः, किंतु यःवहयनार्थं कुविन्दादिभ्यो
दत्तं तावदेव प्रद्यादेयम् ॥ १८० ॥
भाषा-कसीदाकारी, और किनारों में रोम बाँधने में तीसवें भाग
का क्षय बताया जाता है । कौशेय और वल्कल के वस्त्र बनवाने में न तो
कमी होती है और न वृद्धि ही होती है ॥ १८० ॥
द्रव्यानन्त्यात्प्रतिद्रव्यं क्षयवृद्धिप्रतिपादनाशक्तेः सामान्येन हासवृद्धिज्ञानो-
पायमाह-
देशं कालं च भोगं च ज्ञात्वा नष्टे बलाबलम् ।
द्रव्याणां कुशला ७ब्रूयुर्यत्तद्दाप्यमसंशयम् ॥ १८१ ॥
शाणक्षौमादौ द्रव्ये नष्टे ह्रासमुपगते द्रव्याणां कुशलाः द्रव्यवृद्धिक्षयाभिज्ञाः
देशं कालमुपभोगं तथा नष्टद्रव्यस्य बलाबलं सारासारतां च परीक्ष्य यत्कल्प-
यन्ति तदसंशयं शिल्पिनो दाप्याः ॥ १८१ ॥
भाषा-द्रव्य के नष्ट हो जाने पर देश, काल, भोग उस वस्तु की
सारता और असारता जानकर उस द्रव्य के विषय में विशेष ज्ञान रखने
वाले जितना कहें उतना ही ( शिल्पियों को ) दिलाना चाहिए ॥ १८१ ॥
इति क्रीतानुशयप्रकरणम् ।
अथाभ्युपेत्याशुश्रूषाप्रकरणम् १४
सांप्रतमभ्युपेत्याशुश्रूषाख्यमपरं विवादपदमभिधातुमुपक्रमते तत्स्वरूपं च
नारदेनोक्तम् ( ५।१ ) - 'अभ्युपेत्य तु शुश्रूषां यस्तां न प्रतिपद्यते । अशु-
१. वृद्धिः स्यात् । २. वाल्कले तथा. वहकलेषु. । ३. चित्रं सूत्रैः ।
४. प्रान्तादौ । ५. रोमबन्धः । ६. यावद्वानार्थं । ७. यत्तद्दाप्या असंश्यम्
यत्तद्दाप्यमृणद्वयम् ।
३८८ याज्ञवल्क्यस्मृतिः
श्रूषाभ्युपेत्यैतद्विवादपदमुच्यते ॥' इति । १आज्ञाकरणं शुश्रूषा, तामङ्गीकृत्य
पश्चाद्यो न संपादयति तद्विवादपदमभ्युपेत्याशुश्रूषाख्यम् । शुश्रूषकश्च पञ्चविधः-
शिष्योऽन्तेवासी भृतकोऽधिकर्मकृद्दास इति । तेषामाद्याश्चत्वारः कर्मकरा इत्यु-
च्यन्ते । ते च शुभकर्मकारिणः । दासाः पुनर्गृहजातादयः पञ्चदशप्रकाराः-
गृहद्वाराशुचिस्थानरथ्यावस्करशोधनाद्यशुभकर्मकारिणः । तदिदं नारदेन स्पष्टी-
कृतम्-'शुश्रूषकः पञ्चविधः शास्त्रे दृष्टो मनीषिभिः । चतुर्विधः कर्मकरस्तेषां
दासास्त्रिपञ्चकाः ॥ शिष्यान्तेवासिभृतकाश्चतुर्थस्त्वधिकर्मकृत् । एते कर्मकरा
ज्ञेया दासास्तु गृहजादयः ॥ सामान्यमस्वतन्त्रत्वमेषामाहुर्मनीषिणः । जाति-
कर्मकृतस्तूतौ विशेषो वृत्तिरेव च ॥ कर्मापि द्विविधं ज्ञेयमशुभं शुभमेव च ।
अशुभं दासकर्मोक्तं शुभं कर्मकृतां स्मृतम् ॥ गृहद्वाराशुचिस्थानरथ्यावस्करशोध-
नम् । गुह्याङ्गस्पर्शनोच्चिष्टविण्मूत्रग्रहणोज्झनम् ॥ इच्छतः ४स्वामिनश्चाङ्गै रुप-
स्थानमथान्ततः । अशुभं कर्म विज्ञेयं शुभमन्यदतः परम् ॥' (ना० ५।२-७)
इति ॥ तत्र शिष्यो वेदविद्यार्थी, अन्तेवासी शिल्पशिक्षार्थी, मूल्येन यः कर्म
करोति स भृतकः, कर्मकुर्वतामधिष्ठाताऽधिकर्मकृत्, अशुचिस्थानमुच्छिष्टप्रक्षे-
पार्थं गर्तादिकम्, अवस्करो गृहमार्जितपांस्वादिर्निश्चयस्थानम्, उज्झनं त्यागः ।
भृतकश्चात्र त्रिविधः । तदुक्तम्-'उत्तमस्त्वायुधीयोऽत्र मध्यमस्तु कृषीवलः ।
अधमो भारवाही स्यादित्येवं त्रिविधो भृतः ॥' (ना० ५।२२) इति । दासाः
पुनः-'गृहजातस्तथा क्रीतो लब्धो दायादुपागतः । अनाकालभृतस्तद्वदाहितः
स्वामिना च यः ॥ मोक्षितो महतश्चर्णाद्युद्धप्राप्तः पणे जितः । तवाह मित्यूपगतः
प्रव्रज्यावसितः कृतः ॥ भक्तदासश्च विज्ञेयस्तथैव वडवाहृतः । विक्रेता चात्मनः
शास्त्रे दासाः पञ्चदश स्मृताः ॥' (ना० ५।२६) गृहे दास्यां जातो गृहजातः,
क्रीतो मूल्येन, लब्धः प्रतिग्रहादिना, दायादुपागतः पित्रादिदासः, अनाका-
लभृतो दुर्भिक्षे यो दासत्वाय मरणाद्रक्षितः, आहितः स्वामिना धनग्रहणे-
नाधिरं नीतः, ऋणमोचनेन दासत्वमभ्युपगतो ऋणदासः, युद्धप्राप्तः समरे
विजित्य गृहीतः, पणे जितः- 'यद्यस्मिन्विवादे पराजितोऽहं तदा त्वद्दासो
भवामि' इति परिभाष्य जितः, तवाहमित्युपगतः 'तवाहं दासः' इति स्वयं
संप्रतिपन्नः, प्रव्रज्यावसितः प्रव्रज्यातश्च्युतः, कृतः 'एतावत्कालं त्वद्दासः'
इत्यभ्युपगमितः, भक्तदासः सर्वकालं भक्तार्थमेव दासत्वमभ्युपगम्य यः प्रविष्टः,
वडवाहृतः-वडवा गृहदासी तया हृतः तल्लोभेन तामूद्वाह्य दासत्वेन प्रविष्टः,
य आत्मानं विक्रीणीतेऽसावात्मविक्रेता; इत्येवं पञ्चदश प्रकाराः ॥ यत्तु मनुना
(८।४१५)- 'ध्वजाहतो भक्तदासो गृहजः क्रीतदत्रिमौ । पैतृको दण्डदासश्च
१. आज्ञाकारणं । २. श्चाधिकर्मकृत् । ३. कर्मकरस्तूक्तो । ४. स्वामिनः
श्वाङ्गैः । ५. निर्वापस्थानम् । ६. भृतश्चैव । ७. मोचितो ।
व्यवहाराध्यायः ३२६
सप्तैते दास्योनयः ॥' इति सप्तविधत्वमुक्तं, - तत्तेषां दासत्वप्रतिपादनार्थं, नतु
परिसंख्यार्थम् । तत्रैषां शिष्यान्तेवासिभृतकाधिकर्मकृद्दासानां मध्ये शिष्यवृत्तिः
प्रागेव प्रतिपादिता । - 'आहूतश्चाप्यधीयीत लब्धं चास्मै निवेदयेत्' ( आ० २७)
इत्यादिना । अधिकर्मकृद्भृतकानां तु भृतिं वेतनादानप्रकरणे वक्ष्यते । - 'यो
यावत्कुरुते कर्म तावत्तस्य तु वेतनम्' ( व्य० १९६ ) इत्यादिना ॥
दासान्तेवासिनोस्तु धर्मविशेषं वक्तुमाह-
बलाद्दासीकृतश्चौरैर्विक्रीतश्चापि मुच्यते ।
स्वामिप्राणप्रदो <sup>३</sup>भक्तत्यागान्निरुष्क्रयादपि ॥ १८२ ॥
बलात् बलावष्टम्भेन यो दासीकृतः, यश्चौरैरपहृत्य विक्रीतः, 'अपि'शब्दा-
द्दाहितो दत्तश्च; स मुच्यते । यदि स्वामी न मुञ्चति तर्हि राज्ञा मोचयितव्यः ।
उक्तं च नारदेन ( ५।३८ ) - 'चैौरापहृतविक्रीता ये च दासीकृता बलात् ।
राज्ञा मोचयितव्यास्ते दास्यं तेषु हि नेष्यते ॥' इति । चौरव्याघ्राद्यवरुद्धस्य
स्वामिनः प्राणान्यः प्रददाति रक्षत्यसावपि मोचयितव्यः । तदिदं सर्वदासानां
साधारणं दास्यनिवृत्तिकारणम् । - 'यश्चैषां स्वामिनं कश्चिन्मोचयेत्प्राणसंशयात् ।
दासत्वात्स विमुच्येत पुत्रभागं लभेत च ॥' ( ५।३० ) इति नारदस्मरणात् ॥
भक्तदासादीनां प्रातिस्विकमपि मोक्षकारणमुच्यते । अनाकालभृतभक्तदासौ
भक्तस्य त्यागाद्दासभावादारभ्य स्वामिद्रव्यं यावदुपभुक्तं तावद्दत्त्वा मुच्येते ।
आहितर्णदासौ तु तन्निष्क्रयात् यद्गृहीत्वा स्वामिना आहितः, यच्च दत्त्वा
धनिनोत्तमर्णान्मोचितः, तस्य निष्क्रयात्सवृद्धिकस्य प्रत्यर्पणात्मुच्यते । नारदेन
विशेषोऽप्युक्तः-'अनाकालभृतो दास्यान्मुच्यते गोयुगं ददत् । संभक्षितं
यद्दुर्भिक्षे न तच्छुद्ध्येत कर्मणा ॥' 'भक्तस्योत्क्षेपणात्सद्यो भक्तदासः प्रमुच्यते ।',
'आहितेऽपि धनं दत्त्वा स्वामी यद्येनमुद्धरेत् ॥', 'ऋणं तु सोदयं दत्त्वा ऋणी
दास्यात्प्रमुच्यते ( ना० ५।३१, ३६, ३२, ३३ ) ॥' इति ॥ तथा 'तवाहम्'
इत्युपगतयुद्धप्राप्तपणजितकृतकवडवाहतानां <sup>६</sup>च प्रातिस्विकं मोचनकारणं
च <sup>७</sup>तेनैवोक्तम्- 'तवाह मित्यूपगतो युद्धप्राप्तः पणे जितः । 'प्रतिशीर्षप्रदानेन
मुच्येर्ँस्तुल्यकर्मणा ॥', 'कृतकालव्यपगमात्कृतकोऽपि विमुच्यते ।', 'निग्रहाद्ब-
डवायास्तु मुच्यते वडवाहृतः ॥' ( ना० ५।३४, ३३, ३७ ) इति । दासेन सह
संभोगनिरोधादित्यर्थः । तदेवं गृहजातकीतलब्धदायप्राप्तात्मविक्रयिणां स्वामिप्रा-
णप्रदानतत्प्रसादरूपसाधारणकारणव्यतिरेकेण मोक्षो नास्ति; विशेषकारणानभि-
३. प्रतिपादनपरम् । ४. भक्तस्त्यागात्त । भाक्तस्त्यागान्निरुष्क्रयादपि
( = भाक्तः भक्तदासः ) । ५. मोचनीयः । ६. कृतवडवा । ७. नारदेनैव ।
८. प्रदानात्तत्समाद् ।
३३० याज्ञवल्क्यस्मृतिः
धानात् । दासमोक्षश्चानेन क्रमेण कर्तव्यः—'स्वं दासमिच्छेद्यः कर्तुमदासं
शीतमानसः । स्कन्धादादाय तस्यासौ भिन्द्यात्कुम्भं सहाम्भसा ॥ साक्षताभिः
सपुष्पाभिर्मूर्धन्यद्भिरवाकिरेत् । अदास इत्यथोक्त्वा त्रिः प्राङ्मुखं तमवासृजेत् ॥'
( ना० ५।४२, ४३ ) इति तेनैवोक्तम् ॥ १८२ ॥
भाषा—बलपूर्वक बनाया गया और चोरों द्वारा बेचा गया दास स्वामी
का प्राण बचाने पर, स्वामी के खाये हुए धन को लौटाने पर अथवा निष्क्रय
का मूल्य चुका देने पर (दासता से) मुक्त हो जाता है ॥ १८२ ॥
प्रव्रज्यावसितस्य तु मोक्षो नास्तीत्याह—
प्रव्रज्यावसितो राज्ञो दास १आमरणांतिकम् ।
प्रव्रज्या संन्यासः, ततोऽवसितः प्रच्युतः । अनभ्युपगतप्रायश्चित्तश्चेद्राज्ञ एव
दासो भवति । मरणमेव २तद्दासत्वस्यान्तो नान्तरा प्रतिमोक्षोऽस्ति ॥-
वर्णापेक्षया दास्यव्यवस्थामाह—
वर्णानामानुलोम्येन दास्यं न प्रतिलोमतः ॥ १८३ ॥
ब्राह्मणादीनां वर्णानामानुलोम्येन दास्यम्-ब्राह्मणस्य क्षत्रियादयः, क्षत्रियस्य
वैश्यशूद्रौ, वैश्यस्य शूद्र इत्येवमानुलोम्येन दासभावो भवति, न प्रतिलोम्येन ।
स्वधर्मत्यागिनः पुनः परिव्राजकस्य प्रातिलोम्येनापि दासत्वमिष्यत एव;
यथाह नारदः ( ५।३९ )—'वर्णानां प्रतिलोम्येन दासत्वं न विधीयते ।
स्वधर्मत्यागिनोऽन्यत्र दारवद् दासता मता ॥' इति ॥ १८३ ॥
भाषा—संन्यास से च्युत व्यक्ति जीवन भर राजा का दास होकर रहता
है । दास्य भाव वर्णों के आनुलोम्य से ही होता है अर्थात् अपने से निम्नवर्ण
का ही दास होता है । प्रातिलोम्य नहीं होता (निम्नवर्ण के व्यक्ति का दास
उससे उच्चवर्ण वाला नहीं होता ) ॥ १८३ ॥
अन्तेवासिधर्मानाह—
कृतशिल्पोऽपि निवसेत्कृतकालं गुरोर्गृहे ।
अन्तेवासी गुरुप्राप्तभोजनस्तत्फलप्रदः ॥ १८४ ॥
अन्तेवासी गुरोर्गृहे कृतकालं 'वर्षचतुष्टयमायुर्वेदादिशिल्पशिक्षार्थं त्वद्गृहे
वसामि' इति यावदङ्गीकृतं तावत्कालं वसेत् ,-यद्यपि वर्षचतुष्टयादर्वागेव
लब्धापेक्षितशिल्पविद्यः । कथं निवसेत् ? गुरुप्राप्तभोजनः गुरोः सकाशात्प्राप्तं
भोजनं येन स तथोक्तः, तत्फलप्रदः तस्य शिल्पस्य फलमाचार्याय प्रददातीति
१. मरणान्तिकः । २. स्यान्तो नान्तरा प्रतिमोक्षोऽस्ति । ३. भोजनं
तत्फलप्रदः ।
तत्फलप्रदः, एवंभूतो वसेत् । नारदेन विशेषोऽप्यत्र दर्शितः—'स्वशिल्पमि-
च्छन्नाहर्तुं बान्धवानामनुज्ञया । आचार्यस्य वसेदन्ते कृत्वा कालं सुनिश्चितम् ॥
आचार्यः शिक्षयेदेनं स्वगृहे दत्तभोजनम् । न चान्यत्कारयेत्कर्म पुत्रवच्चैनमाच-
रेत् ॥ शिष्यन्तमसन्दुष्टं य आचार्यं परित्यजेत् । बलाद्वासयितव्यः स्याद्वधबन्धौ
च सोऽर्हति ॥ शिक्षितोऽपि कृतं कालमन्तेवासी समाप्नुयात् । तत्र कर्म च
यत्कुर्यादाचार्यस्यैव तत्फलम् ॥ गृहीतशिल्पः समये कृत्वाचार्यं प्रदक्षिणम् ।
शक्ति्तश्चानुमान्यैनमन्तेवासी निवर्तते ॥' (ना० ५।१६-२०) इति ! 'वध'श-
ब्दोऽत्र ताडनार्थः; दोषस्याल्पत्वात् ॥ १८४ ॥
भाषा--पहले निवास की अवधि निश्चित करके गुरु के घर रहने
वाला ब्रह्मचारी उसके पूर्व विद्या समाप्त कर लेने पर भी अपनी जीविका का
शिल्प सीखकर उसका फल गुरु को देते हुए और गुरु द्वारा दिया गया भोजन
ग्रहण करता हुआ उन्हीं के निकट निवास करे ॥ १८४ ॥
इत्यभ्युपेत्याशुश्रूषाख्यं विवादप्रकरणम् ।
अथ संविद्व्यतिक्रमप्रकरणम् १५
संप्रति संविद्व्यतिक्रमः कथ्यते; तस्य च लक्षणं नारदेन व्यतिरेकमुखेन
दर्शितम्—'पाखण्डिनैगमादीनां स्थितिः समय उच्यते । समयस्यानपाकर्म तद्वि-
वादपदं स्मृतम् ॥' इति पारिभाषिकधर्मेण व्यवस्थानं समयः, तस्यानपाकर्माव्य-
तिक्रमः परिपालनं तद्व्यतिक्रम्यमाणं विवादपदं भवतीत्यर्थः ॥
तदुपक्रमार्थं किंचिदाह—
राजा कृत्वा पुरे स्थानं ब्राह्मणान्न्यस्य तत्र तु ।
त्रैविद्यं वृत्तिमद्ब्रूयात्स्वधर्मः पाल्यतामिति ॥ १८५ ॥
राजा स्वपुरे दुर्गादौ स्थानं धवलगृहादिकं कृत्वा तत्र ब्राह्मणान्न्यस्य
स्थापयित्वा ^३तद्ब्राह्मणव्रातं त्रैविद्यं वेदत्रयसंपन्नं वृत्तिमद्भूहिरण्यादिसंपन्नं च
कृत्वा स्वधर्मो वर्णाश्रमनिमित्तः श्रुतिस्मृतिविहितो भवद्भिरनुष्ठीयतामिति
तान्ब्राह्मणान्ब्रूयात् ॥ १८५ ॥
भाषा—राजा अपने दुर्ग में स्थान बनाकर उसमें तीनों वेदों के अध्ययन
से सम्पन्न, ब्राह्मणों को बुलाकर उन्हें कुछ वृत्ति देकर उनसे कहे कि आप
लोग अपने धर्म का पालन करें ॥ १८५ ॥
१. व्यवहारपदं । २. त्रैविद्यान् । ३. तद्ब्राह्मणजातं ।
३३२ याज्ञवल्क्यस्मृतिः
एवं नियुक्तैस्तैर्यत्कर्म कर्तव्यं तदाह—
निजधर्माविरोधेन यस्तु सामयिको भवेत् ।
सोऽपि यत्नेन संरक्ष्यो धर्मो राजकृतश्च यः ॥ १८६ ॥
श्रौतस्मार्तधर्मानुपमर्देन समयान्निष्पन्नो यो धर्मो गोप्रचारोदकरक्षण-
देवगृहपालनादिरूपः सोऽपि यत्नेन पालनीयः । तथा राज्ञा च निजधर्मा-
विरोधेनैव यः सामयिको धर्मो 'यावत्पथिकं भोजनं देयमस्मदरातिमण्डलं
तुरङ्गादयो न प्रस्थापनीया' इत्येवंरूपः कृतः सोऽपि रक्षणीयः ॥ १८६ ॥
भाषा—अपने धर्म के अनुकूल जो धर्म सामयिक हो तथा राजा द्वारा
निर्दिष्ट धर्म की यत्नपूर्वक रक्षा करें ॥ १८६ ॥
एवं समयधर्मः परिपालनीय इत्युक्त्वा तदतिक्रमादौ दण्डमाह—
गणद्रव्यं हरेद्यस्तु संविदं लङ्घयेच्च यः ।
सर्वस्वहरणं कृत्वा तं राष्ट्राद्विप्रवासयेत् ॥ १८७ ॥
यः पुनर्गणस्य ग्रामादिजनसमूहस्य संबन्धि साधारणं द्रव्यमपहरति,
संवित् समयस्तां समूहकृतां राजकृतां वा यो लङ्घयेदतिक्रामेत्, तदीयं सर्वं
धनमपहृत्य, स्वराष्ट्राद्विप्रवासयेन्निष्कासयेत् ॥ अयं च दण्डोऽनुबन्धाद्य-
तिशये द्रष्टव्यः ॥ अनुबन्धाल्पत्वे तु ( मनुः ८।२१९-२२० )—'यो ग्रामदेश-
संघानां कृत्वा सत्येन संविदम् । विसंवदेन्नरो लोभात्तं राष्ट्राद्विप्रवासयेत् ॥
निगृह्य दापयेदेनं समयव्यभिचारिणम् । चतुःसुवर्णं षण्णिष्काञ्छतमानं च राज-
तम् ॥' इति मनुप्रतिपादितदण्डानां निर्वासनचतुःसुवर्णषण्णिष्कशतमानानां
चतुर्णामन्यतमो जातिशक्त्याद्यपेक्षया कल्पनीयः ॥ १८७ ॥
भाषा—जो गण के अर्थात् सबके सामूहिक धन का अधर्मपूर्वक अपहरण
करे अथवा राजा द्वारा या समूह द्वारा दी गई व्यवस्था का
उल्लंघन करे उसका सम्पूर्ण धन छीनकर उसे राज्य से निर्वासित कर
देना चाहिए ॥ १८७ ॥
इदं च तैः कर्तव्यमित्याह—
कर्तव्यं वचनं सर्वैः समूहहितवादिनाम् ।
गणिनां मध्ये ये समूहहितवादनशीलास्तद्वचनमितरैर्गणानामन्तर्गतैर-
नुसरणीयम् ॥—
अन्यथा दण्ड इत्याह—
यस्तत्र विपरीतः स्यात्स दाप्यः प्रथमं दमम् ॥ १८८ ॥
१. मण्डले । २. राजा विप्रवासयेत् । ३. राज्ञा कृतां । ४. हितवदन ।
यस्तु गणिनां मध्ये समूहहितवादिबचनप्रतिबन्धकारी स राज्ञा प्रथम-
साहसं दण्डनीयः ॥ १८८ ॥
भाषा-( गण के व्यक्तियों में ) समूह का हित कहे उनका अनुसरण
सभी को करना चाहिए । जो उसके (समूह के हित के) विपरीत बोले
उसे प्रथम साहस का दण्ड देना चाहिए ॥ १८८ ॥
राज्ञा ^१चेत्थं गणेषु वर्तनीयमित्याह—
समूहकार्य आयातान्कृतकार्यान्विसर्जयेत् ।
स दानमानसत्कारैः पूजयित्वा महीपतिः ॥ १८९ ॥
समूहकार्यनिर्वृत्त्यर्थं स्वपार्श्वं प्राप्तान् गणिनो निर्वर्तितारमीयप्रयोजनान्
दानमानसत्कारैः स राजा परितोष्य विसर्जयेत् ॥ १८९ ॥
भाषा—समूह के कार्य के लिये आये हुए व्यक्तियों का कार्य करके
राजा उन्हें दान, मान और सत्कार द्वारा सन्तुष्ट करके विदा करे ॥ १८९ ॥
समूहदत्तापहारिणं प्रत्याह—
समूहकार्यप्रहितो यल्लभेत तदर्पयेत् ।
एकादशगुणं दाप्यो यद्यसौ नार्पयेत्स्वयम् ॥ १९० ॥
समूहकार्यार्थं महाजनैः प्रेषितो राजपार्श्वे यद्वसहिरण्यादिकं लभते तद्-
प्रार्थित एव महाजनेभ्यो निवेदयेत् । अन्यथा लब्धादेकादशगुणं दण्डं
दापनीयः ॥ १९० ॥
भाषा—समूह के कार्य से भेजा गया व्यक्ति जो कुछ पावे उसे समूह
के श्रेष्ठ जनों के समक्ष अर्पित करे । यदि वह ऐसा धन नहीं अर्पित करता
है तो उससे उसका ग्यारह गुना दण्ड लेना चाहिए ॥ १९० ॥
एवंप्रकाराश्च कार्यचिन्तकाः कार्या इत्याह—
धर्मज्ञाः शुचयोऽलुब्धा भवेयुः कार्यचिन्तकाः ।
कर्तव्यं वचनं तेषां समूहहितवादिनाम् ॥ १९१ ॥
श्रौतस्मार्तधर्मज्ञा बाह्याभ्यन्तरशौचयुक्ता अर्थेष्वलुब्धाः कार्यविचारकाः
कर्तव्याः । तेषां वचनमितरैः कार्यमित्येतदादरार्थं पुनर्वचनम् ॥ १९१ ॥
भाषा—श्रौत और स्मार्त धर्म जानने वाले, पवित्र, लोभहीन कार्य-
विचारक बनाने चाहिए । उन समूह का हित कहने वालों के वचनों का पालन
करना चाहिए ॥ १९१ ॥
१. चैवंगणिषु वर्तितव्यं । २. यद्यस्मै । ३. वेदज्ञाः ।