याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 380, कुल 782 में से
संदर्भ में पढ़ें३२४ याज्ञवल्क्यस्मृतिः
दद्यात्' (गौ० ५।२३) इति गौतमस्मरणात् । दत्त्वा नापहरेत्पुनः न्यायमार्गेण
यद्दत्तं तत्सप्तविधमपि पुनर्नोपहर्तव्यम्; किंतु तथैवानुमन्तव्यम् । यत्पुनरन्यायेन
दत्तं तददत्तं षोडशप्रकारमपि प्रत्याहर्तव्यमेवेत्यर्थादुक्तं भवति । नारदेन च
(४।२)-'दत्तं सप्तविधं प्रोक्तमदत्तं षोडशात्मकम्' इति प्रतिपाद्य दत्तादत्तयोः
स्वरूपं विवृतम्-'पण्यमूल्यं भृतिस्तुष्ट्या स्नेहात्प्रत्युपकारतः । स्त्रीशुल्कानु-
ग्रहार्थं च दत्तं दानविदो विदुः ॥ अदत्तं तु भयक्रोधशोकवेगरुजान्वितैः । तथो-
त्कोचपरीहासव्यत्यासच्छलयोगतः ॥ बालमूढास्वतन्त्रार्त्तमत्तोन्मत्तापवर्जितम् ।
कर्ता ममेदं कर्मेति प्रतिलाभेच्छया च यत् ॥ अपात्रे पात्रमित्युक्ते कार्ये चार्थमं-
संहिते । यद्दत्तं स्यादविज्ञानाददत्तमिति तत्स्मृतम् ॥' (ना० ४।८, १९, ११)
इति । अयमर्थः—पण्यस्य क्रीतद्रव्यस्य यन्मूल्यं दत्तम्, भृतिर्वेतनं कृतकर्मणे
दत्तम्, तुष्ट्या बन्दिचारणादिभ्यो दत्तम्, स्नेहाद् दुहितृपुत्रादिभ्यो दत्तम्, प्रत्यु-
पकारतः २उपकृतवते प्रत्युपकाररूपेण दत्तम्, स्त्रीशुल्कं परिणयनार्थं कन्याज्ञाति-
भ्यो यद्दत्तम्, यच्चानुग्रहार्थमरणार्थं दत्तम्; तदेतत्प्तसप्तविधमपि दत्तमेव न
प्रत्याहरणीयम् । भयेन बन्दिग्राहादिभ्यो दत्तम्, क्रोधेन ३पुत्रादिभ्यो वैरनिर्यात-
नायान्यस्मै दत्तम्, पुत्रवियोगादिनिमित्तशोकावेशेन दत्तम्, उत्कोचेन कार्य-
प्रतिबन्धनिरासार्थमधिकृतेभ्यो दत्तम्, परिहासेनोपहासेन दत्तम् । ४एकः स्वं
द्रव्यमन्यस्मै ददात्यन्योऽपितस्मै ददातीति दानव्यत्यासः । छलयोगतः शतदान-
मभिसंधाय सहस्रमिति परिभाष्य ददाति । बालेना५प्राप्तषोडशवर्षेण, मूढेन
लोक६वादानभिज्ञेन, अस्वतन्त्रेण पुत्रदासादिना, आर्तेन रोगाभिभूतेन, मत्तेन
मदनीयमत्तेन, उन्मत्तेन वातिकाद्युन्मादग्रस्तेन वा, अपवर्जितं दत्तम्, तथा-
'अयं मदीयमिदं कर्म करिष्यति' इति प्रतिलाभेच्छया दत्तम्, अचतुर्वेदाय
'चतुर्वेदोऽहम्' इत्युक्तवते दत्तम्, 'यज्ञं करिष्यामी'ति धनं लब्ध्वा द्यूतादौ
विनियुञ्जानाय दत्तम्, इत्येवं षोडशप्रकारमपि दत्तमदत्तमित्युच्यते; प्रत्याहरणी-
यत्वात् । आर्तदत्तस्यादत्तत्वं धर्मकार्यव्यतिरिक्तविषयम्; 'स्वस्थेनार्तेन वा
दत्तं श्रावितं धर्मकारणात् । अदत्त्वा तु मृते दाप्यस्तत्सुतो नात्र संशयः ॥'
इति कात्यायनस्मरणात् ॥ तथैदमपरं संक्षिप्तार्थवचनं सर्वविवादसाधारणम् ॥
(मनुः ८।१६५)-'योगाधमनविक्रीतं योगदानप्रतिग्रहम् । यस्य चाप्युपधिं
पश्येत्तत्सर्वं विनिवर्तयेत् ॥' इति ॥ योग उपाधिः । येनागामिनोपाधिविशेषे-
णाधिविक्रयदानप्रतिग्रहाः कृतास्तदुपाधिविगमे तान् क्रयादीन्विनिवर्तयेदित्य-
१. धर्मसंयुते । २. उपकृते । ३. पुत्रादिवैरै । ४. एकोऽपि स्वं
द्रव्य । ५. अप्राप्तव्यवहारेण । ६. लोकवेदा । ७. मदीयं कर्म । ८. येनो-
पाधि । ९. धिगमे क्रयादीन् ।