सामग्री पर जाएँ
सर्वकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 381, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 381

व्यवहाराध्यायः ३२५
स्यार्थः । यः पुनः षोडशप्रकारमपि अदत्तं गृह्णाति, यश्चादेयं प्रयच्छति, तयो-
र्दण्डो नारदेनोक्तः (८।१६५) - 'गृह्णात्यदत्तं यो लोभाद्यश्चादेयं प्रयच्छति ।
अदेयदायको दण्ड्यस्तथा दत्तप्रतीच्छक ॥' इति ॥ १७६ ॥
भाषा-दान सबके समक्ष लेना चाहिए और वह भी विशेषतः स्थावर
(भूमि आदि) का दान तो सबके सामने लेना चाहिए । जो वस्तु जिसको देने
का संकल्प किया हो उसे वह वस्तु अवश्य देवे और देकर पुनः अपहरण
न करे ॥ १७६ ॥
इति दत्ताप्रदानिकं नाम प्रकरणम् ।
अथ क्रीतानुशयप्रकरणम् १३
अथ क्रीतानुशयः कथ्यते । तत्स्वरूपं च नारदेनोक्तम् (९।१) - 'क्रीत्वा
मूल्येन यः पण्यं क्रेता न बहु मन्यते । क्रीतानुशय इत्येतद्विवादपदमुच्यते ॥'
इति । तत्र च यस्मिन्नहनि पण्यं क्रीतं तस्मिन्नेवाह्नि तदविकृतं प्रत्यर्पणीयमिति
तेनैवोक्तम् - 'क्रीत्वा मूल्येन यत्पण्यं दुष्क्रीतं मन्यते क्रयी । विक्रेतुः प्रतिदेयं
तत्तस्मिन्नेवाह्न्यविक्षतम् ॥ ( ना० ९।२ इति ) । द्वितीयादिदिने तु प्रत्यर्पणे
विशेषस्तेनैवोक्तः-द्वितीयेऽह्नि ददत्क्रेता मूल्यात्त्रिंशांशमाहरेत् । द्विगुणं तु तृती-
येऽह्नि परतः क्रेतुरेव तत् ॥' (ना० ९।३) इति ॥ परतोऽनुशयो न कर्तव्य
इत्यर्थः । एतच्च बीजादिव्यतिरिक्तोपभोगादिविनश्वरवस्तुविषयम् ॥
बीजादिक्रये पुनरन्य एव प्रत्यर्पणावधिरित्याह-
दशैकपञ्चसप्ताहमासद्व्यर्धमासिकम् ।
बीजायोवाह्यरत्नस्त्रीदोह्यपुंसां परीक्षणम् ॥ १७७ ॥
बीजं व्रीह्यादिबीजम्, अयो ^३लोहम्, वाह्यो बलीवर्दादिः, रत्नं मुक्ताप्रवा-
लादि, स्त्री दासी, दोह्यं ^४महिष्यादि, पुमान् दासः; एषां बीजादीनां यथाक्रमेण
दशाहादिकः परीक्षाकालो विज्ञेयः । परीक्ष्यमाणे च बीजादौ यद्यमञ्जयस्त्वबुद्ध्याऽ-
नुशयो भवति तदा दशाहाद्यभ्यन्तर एव क्रयनिवृत्तिः, न पुनरूर्ध्वमित्युपदेश-
प्रयोजनम् । यत्तु मनुवचनम् (८।२२२) - 'क्रीत्वा विक्रीय वा किंचिद्यस्येहानु-
शयो भवेत् । सोऽन्तर्दशाहात्तद्द्रव्यं दद्याच्चैवाददीत च ॥' इति,-तदुक्तलोहादिव्य-
तिरिक्तोपभोगविनश्वरगृहक्षेत्रयानशयनासनादिविषयम् । सर्वं चैतदपरीक्षित-
क्रीतविषयम् । यत्पुनः परीक्षितं 'न पुनः प्रत्यर्पणीयम्' इति समयं कृत्वा क्रीतं-
१. तस्मिन्नह्नि वीक्षितम् । २. मावहेत् । ३. लोहादि । ४. माहि-
ष्यादि । ५. पभोगविनश्वर । ६. परीक्ष्य ।