याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 384, कुल 782 में से
संदर्भ में पढ़ें३८८ याज्ञवल्क्यस्मृतिः
श्रूषाभ्युपेत्यैतद्विवादपदमुच्यते ॥' इति । १आज्ञाकरणं शुश्रूषा, तामङ्गीकृत्य
पश्चाद्यो न संपादयति तद्विवादपदमभ्युपेत्याशुश्रूषाख्यम् । शुश्रूषकश्च पञ्चविधः-
शिष्योऽन्तेवासी भृतकोऽधिकर्मकृद्दास इति । तेषामाद्याश्चत्वारः कर्मकरा इत्यु-
च्यन्ते । ते च शुभकर्मकारिणः । दासाः पुनर्गृहजातादयः पञ्चदशप्रकाराः-
गृहद्वाराशुचिस्थानरथ्यावस्करशोधनाद्यशुभकर्मकारिणः । तदिदं नारदेन स्पष्टी-
कृतम्-'शुश्रूषकः पञ्चविधः शास्त्रे दृष्टो मनीषिभिः । चतुर्विधः कर्मकरस्तेषां
दासास्त्रिपञ्चकाः ॥ शिष्यान्तेवासिभृतकाश्चतुर्थस्त्वधिकर्मकृत् । एते कर्मकरा
ज्ञेया दासास्तु गृहजादयः ॥ सामान्यमस्वतन्त्रत्वमेषामाहुर्मनीषिणः । जाति-
कर्मकृतस्तूतौ विशेषो वृत्तिरेव च ॥ कर्मापि द्विविधं ज्ञेयमशुभं शुभमेव च ।
अशुभं दासकर्मोक्तं शुभं कर्मकृतां स्मृतम् ॥ गृहद्वाराशुचिस्थानरथ्यावस्करशोध-
नम् । गुह्याङ्गस्पर्शनोच्चिष्टविण्मूत्रग्रहणोज्झनम् ॥ इच्छतः ४स्वामिनश्चाङ्गै रुप-
स्थानमथान्ततः । अशुभं कर्म विज्ञेयं शुभमन्यदतः परम् ॥' (ना० ५।२-७)
इति ॥ तत्र शिष्यो वेदविद्यार्थी, अन्तेवासी शिल्पशिक्षार्थी, मूल्येन यः कर्म
करोति स भृतकः, कर्मकुर्वतामधिष्ठाताऽधिकर्मकृत्, अशुचिस्थानमुच्छिष्टप्रक्षे-
पार्थं गर्तादिकम्, अवस्करो गृहमार्जितपांस्वादिर्निश्चयस्थानम्, उज्झनं त्यागः ।
भृतकश्चात्र त्रिविधः । तदुक्तम्-'उत्तमस्त्वायुधीयोऽत्र मध्यमस्तु कृषीवलः ।
अधमो भारवाही स्यादित्येवं त्रिविधो भृतः ॥' (ना० ५।२२) इति । दासाः
पुनः-'गृहजातस्तथा क्रीतो लब्धो दायादुपागतः । अनाकालभृतस्तद्वदाहितः
स्वामिना च यः ॥ मोक्षितो महतश्चर्णाद्युद्धप्राप्तः पणे जितः । तवाह मित्यूपगतः
प्रव्रज्यावसितः कृतः ॥ भक्तदासश्च विज्ञेयस्तथैव वडवाहृतः । विक्रेता चात्मनः
शास्त्रे दासाः पञ्चदश स्मृताः ॥' (ना० ५।२६) गृहे दास्यां जातो गृहजातः,
क्रीतो मूल्येन, लब्धः प्रतिग्रहादिना, दायादुपागतः पित्रादिदासः, अनाका-
लभृतो दुर्भिक्षे यो दासत्वाय मरणाद्रक्षितः, आहितः स्वामिना धनग्रहणे-
नाधिरं नीतः, ऋणमोचनेन दासत्वमभ्युपगतो ऋणदासः, युद्धप्राप्तः समरे
विजित्य गृहीतः, पणे जितः- 'यद्यस्मिन्विवादे पराजितोऽहं तदा त्वद्दासो
भवामि' इति परिभाष्य जितः, तवाहमित्युपगतः 'तवाहं दासः' इति स्वयं
संप्रतिपन्नः, प्रव्रज्यावसितः प्रव्रज्यातश्च्युतः, कृतः 'एतावत्कालं त्वद्दासः'
इत्यभ्युपगमितः, भक्तदासः सर्वकालं भक्तार्थमेव दासत्वमभ्युपगम्य यः प्रविष्टः,
वडवाहृतः-वडवा गृहदासी तया हृतः तल्लोभेन तामूद्वाह्य दासत्वेन प्रविष्टः,
य आत्मानं विक्रीणीतेऽसावात्मविक्रेता; इत्येवं पञ्चदश प्रकाराः ॥ यत्तु मनुना
(८।४१५)- 'ध्वजाहतो भक्तदासो गृहजः क्रीतदत्रिमौ । पैतृको दण्डदासश्च
१. आज्ञाकारणं । २. श्चाधिकर्मकृत् । ३. कर्मकरस्तूक्तो । ४. स्वामिनः
श्वाङ्गैः । ५. निर्वापस्थानम् । ६. भृतश्चैव । ७. मोचितो ।