विष्णु स्मृति (वैष्णव धर्मशास्त्र - नन्दपण्डित कृत वैजयन्ती टीका सहित सटीक)
Vishnu Smriti with Vaijayanti Commentary of Nanda Pandita
महर्षि विष्णु (टीकाकार: नन्दपण्डित, सम्पादक: जूलियस जॉली) द्वारा
Digitized by eGangotri/Sarayu Trust. Funding IKS-MoE-Grant-2 Equipment Heritage Foundation, Jalgaon
CC-0. In Public Domain Sri Aurobindo Library, Pondicherry
(Note: The page is a blank endpaper/flyleaf; only digitally added metadata at the top and bottom margins are present, with fragmentary edge remnants of letters visible along the right torn margin from an adjacent page.)
॥ विष्णुस्मृतौ १२ । १३ ॥ ४१
अथोदकम् । १ । पङ्कशैवालदुष्टग्राहमत्स्यजलौका-
दिवर्जितेऽम्भसि । २ । तत्रानाभिमग्नस्यारागद्वेषिणः
पुरुषस्यान्यस्य जानुनी गृहीत्वाभिमन्त्रितमम्भः प्रवि-
शेत् । ३ । तत्समकालं च नातिक्रूरेण्मृदुना धनुषा पुरु-
षोऽपरः शरक्षेपं कुर्यात् । ४ । तं चापरः पुरुषो जवेन
शरमानयेत् । ५ ।
तन्मध्ये यो न दृश्येत स शुद्धः परिकीर्तितः ।
अन्यथा त्वविशुद्धः स्यादेकाङ्गस्यापि दर्शने ॥ ६ ॥
त्वमम्भः सर्वभूतानामन्तश्चरसि साक्षिवत् ।
त्वमेवाम्भो विजानीषे न विदुर्यानि मानुषाः ॥ ७ ॥
व्यवहाराभिशस्तोऽयं मानुषस्त्वयि मज्जति ।
तदेनं संशयादस्माद्धर्मतस्त्रातुमर्हसि ॥ ८ ॥ १२ ॥
अथ विषम् । १ । विषाण्यदेयानि सर्वाणि । २ । ऋते
हिमाचलोद्भवाच्छार्ङ्गात् । ३ । तस्य च यवसप्तकं घृतप्लु-
तमभिशस्ताय दद्यात् । ४ ।
XII, 2. ...दुष्टाः कर्कटादयः । ग्राहाः शिशुमारादयः ।... 3... वक्ष्य-
माणमन्त्राभ्यां प्राड्विवाकेन ... अभिमन्त्रितम् ... XIII, 3. हिमगि-
रावपि यत् । शृङ्गोद्भवम् । तद्दिना । ... तच शृङ्गाख्यतिवत्सनाम-
संज्ञकम् ।...
6
४२ ॥ विष्णुस्मृतौ १३।१४ ॥
विषं वेगक्रमापेतं सुखेन यदि जीर्यते ।
विशुद्धं तमिति ज्ञात्वा दिवसान्ते विसर्जयेत् ॥ ५ ॥
विषत्वाद्दिषमत्वाच्च क्रूरं त्वं सर्वदेहिनाम् ।
त्वमेव विष जानीषे न विदुर्यान मानुषाः ॥ ६ ॥
व्यवहाराभिशस्तोऽयं मानुषः शुद्धिमिच्छति ।
तदेनं संशयादस्माद्धर्मतस्त्रातुमर्हसि ॥ ७ ॥ १३ ॥
अथ कोशः । १ । उग्रान्देवान्समभ्यर्च्य तत्स्नानोद-
कात्प्रसृतिचयं पिबेत् । २ । इदं मया न कृतमिति व्या-
हरन्देवताभिमुखः । ३ ।
यस्य पश्येद्दिसप्ताहात्त्रिसप्ताहाद्यथापि वा ।
रोगोऽग्निर्ज्ञातिमरणं राजांतङ्कमथापि वा ॥ ४ ॥
तमशुद्धं विजानीयात्तथा शुद्धं विपर्यये ।
दिव्येषु च शुद्धं पुरुषं सत्कुर्याद्धार्मिको नृपः ॥ ५ ॥ १४ ॥
XIII, 5. वेगक्रमापेतं V⁴. 6. क्रूर C¹,²v. XIV, 3 and 4 a
om. V¹; इति वदन्स्नापितदेवताभिमुखः V¹⁻³. वदन् and स्नापित
from the C.
5. तद्भक्षितं विषं विषवेगानां सप्तानां ... तत्क्रमा रोमाञ्चादयस्तैरपेतं
रहितं यदि जीर्यते ... XIV, 2. उग्रान्दुर्गादित्वादीन् ... 3. इदमिति...
ऋणाद्यच्छादि कर्म पातकं वा मया न कृतमिति वदन्स्नापितदेवताभि-
मुखः पिबेत् ।... 5. ... सर्वेष्वपि दिव्येषु शुद्धं पुरुषं नृपो वस्त्राद्यलंकारा-
दिभिः सत्कुर्याद्योऽसौ धार्मिको धर्मनिर्णयकारीति ।...
॥ विष्णुस्मृतौ १५ ॥ ४६
अथ द्वादश पुत्रा भवन्ति । १ । स्वे क्षेत्रे संस्कृतायामु-
त्पादितः स्वयमौरसः प्रथमः । २ । नियुक्तायां सपिण्डे-
नोत्तमवर्णेन वोत्पादितः क्षेत्रजो द्वितीयः । ३ । पुत्रिका-
पुत्रस्तृतीयः । ४ । यस्तस्याः पुत्रः स मे पुत्रो भवेदिति
या पित्रा दत्ता सा पुत्रिका । ५ । पुत्रिकाविधिनाप्रति-
पादितापि भ्रातृविहीना पुत्रिकैव । ६ । पौनर्भवश्च-
तुर्थः । ७ । अक्षता भूयः संस्कृता पुनर्भूः । ८ । भूय-
स्त्वसंस्कृतापि परपूर्वा । ९ । कानीनः पञ्चमः । १० ।
पितृगृहेऽसंस्कृतयैवोत्पादितः । ११ । स च पाणिग्राह-
स्य । १२ । गृहे च गूढोत्पन्नः षष्ठः । १३ । यस्य तल्प-
जस्तस्यासौ । १४ । सहोढः सप्तमः । १५ । या गर्भिणी
संस्क्रियते तस्याः पुत्रः । १६ । स च पाणिग्राहस्य । १७ ।
XV, 3. चोत्पादितः V¹⁻⁴. 5. यस्त्वस्याः V⁴v. 6. पुत्रिका-
विधिना प्रतिपादिता पितृभ्रातृविहीना C¹'²; पु० प्रतिपादितापि पितृ-
भ्रातृविहीना V.
XV, 3. ... भार्यायां ... पुत्रोत्पत्त्यर्थं गुरुभिर्नियुक्तायां गुर्वनुज्ञातेनैव
देवरेण कनिष्ठेन ज्येष्ठेन वा भर्तुर्भ्रात्रा तदभावे सपिण्डेन तस्याप्यभावे
सगोत्रेण तस्याप्यभावे समानप्रवरेण तस्याप्यभावे उत्तमवर्णेन ब्राह्मणेन
वोत्पादितः ।... 9. या तु संस्कारात्प्रागेव परपूर्वा परोपभुक्ता सा यद्यपि
भूयो न संस्क्रियते क्रियमाणसंस्कारस्यैव प्रथमत्वात्तथापि पुनर्भूर्भवति पुन-
र्मिथुनीभवनात् ।... स्वैरिण्याः पुनःसंस्कारश्चोपपादितोऽस्माभिः सविस्तरं
मिताक्षराटीकायां प्रतीताक्षरायामिति नेहोच्यते ॥
88 ॥ विष्णुस्मृतौ १५ ॥
दत्तकश्चाष्टमः। १८। स च मातापितृभ्यां यस्य दत्तः।
१६। क्रीतश्च नवमः। २०। स च येन क्रीतः। २१।
स्वयमुपगतो दशमः। २२। स च यस्योपगतः। २३।
अपविद्धस्त्वेकादशः। २४। पित्रा मात्रा च परित्यक्तः।
२५। स च येन गृहीतः। २६। यत्र क्वचनोत्पादितश्च
द्वादशः। २७। एतेषां पूर्वः पूर्वः श्रेयान्। २८। स एव
दायहरः। २६। स चान्यान्बिभृयात्। ३०। अनूढानां
स्ववित्तानुरूपेण संस्कारं कुर्यात्। ३१। पतितक्लीबा-
चिकित्स्यरोगविकलास्त्वभागहारिणः। ३२। रिक्थग्रा-
हिभिस्ते भर्तव्याः। ३३। तेषां चौरसाः पुत्रा भागहा-
रिणः। ३४। न तु पतितस्य। ३५। पतनीये कर्मणि कृते
त्वनन्तरोत्पन्नाः। ३६। प्रतिलोमासु स्त्रीषु चोत्पन्ना-
श्चाभागिनः। ३७। तत्पुत्राः पैतामहेऽप्यर्थे। ३८। अंश-
ग्राहिभिस्ते भरणीयाः। ३६। यश्चार्थहरः स पिण्डदा-
यी। ४०। एकोढानामप्येकस्याः पुत्रः सर्वासां पुत्र
25. ... उभाभ्यामन्यतराभावेऽवशिष्टेनान्यतरेणैव वा परित्यक्तः ।...
27. उक्तविषयेभ्योऽन्यत्र यत्र क्वचन स्त्रीयायां परकीयायां वा सवर्णायामस-
वर्णायां वा ऊढायामनूढायां वा क्षतायामक्षतायां वा इत्यादितः । संविद-
भावेऽपि बीजिनः सर्वथाप्यपुत्रत्वे दत्तक्रीतादीनामपि बीजिपुत्रत्वाभिधानाय
यत्र क्वचनोत्पादितः साधारण्येनोच्यत इति न विरोधः ।... अथवा यत्र
क्वचनेत्यनेनानूढा शूद्रा विवक्षिता तस्यां जातो द्वादशः पुत्र इति व्या-
ख्येयम् ।... अत एव मनुः । (IX, 178).
॥ विष्णुस्मृतौ १५ । १६ ॥ ४५
एव। ४१। भ्रातॄणामेकजातानां च। ४२। पुत्रः पितृ-
वित्तालाभेऽपि पिण्डं दद्यात्। ४३।
पुन्नाम्नो नरकाद्यस्मात्पितरं त्रायते सुतः।
तस्मात्पुत्र इति प्रोक्तः स्वयमेव स्वयंभुवा। ४४।
ऋणमस्मिन्सन्नयत्यमृतत्वं च गच्छति।
पिता पुत्रस्य जातस्य पश्येच्चेज्जीवतो मुखम्॥ ४५॥
पुत्रेण लोकाञ्जयति पौत्रेणानन्त्यमश्नुते।
अथ पुत्रस्य पौत्रेण ब्रध्नस्याप्नोति विष्टपम्॥ ४६॥
पौत्रदौहित्रयोर्लोके विशेषो नोपपद्यते।
दौहित्रोऽपि ह्यपुत्रं तं संतारयति पौत्रवत्। ४७। १५।
समानवर्णासु पुत्राः सवर्णा भवन्ति। १। अनुलो-
मासु मातृसवर्णाः। २। प्रतिलोमास्त्वार्यविगर्हिताः।
३। तत्र वैश्यापुत्रः शूद्रेणायोगवः। ४। पुल्कसमागधौ
क्षत्रियापुत्रौ वैश्यशूद्राभ्यां। ५। चण्डालवैदेहकस्र्ताश्च
ब्राह्मणीपुत्राः शूद्रविट्क्षत्रियैः। ६। संकरसंकराश्चा-
संख्येयाः। ७। रङ्गावतर्णमायोगवानाम्। ८। व्याधता
XVI, 5, 9. पुल्कस०, पुल्कसानां V¹⁻⁴ N.; पुक्कस० V¹ in mg.;
पुकस०, पुकसानां C¹·² v. See the other Smṛitis. 6. ॰सूताश्च
V¹⁻³ C¹·² N.; सूदाश्च v. See 13.
XVI, 7. संकरेष्वनुलोमजेषु प्रतिलोमजेषु च वर्णेभ्यः पुनरानुलोम्येन
प्रातिलोम्येन च परस्परं ये संकरास्ते ह्यसंख्येयाः।
९६ ॥ विष्णुस्मृतौ १६ ॥ १७ ॥
पुल्कसानाम् । ९। स्तुतिक्रिया मागधानाम् । १०। वध्य-
घातित्वं चण्डालानाम् । ११। स्त्रीरक्षा तज्जीवनं च
वैदेहकानाम् । १२। अश्वसारथ्यं सूतानां । १३। च-
ण्डालानां बहिर्ग्रामनिवसनं मृतचैलधारणमिति वि-
शेषः । १४। सर्वेषां समानजातिभिर्व्यवहारः । १५।
स्वपितृवित्तानुहरणं च । १६।
संकरे जातयस्त्वेताः पितृमातृप्रदर्शिताः ।
प्रच्छन्ना वा प्रकाशा वा वेदितव्याः स्वकर्मभिः । १७।
ब्राह्मणार्थे गवार्थे वा देहत्यागोऽनुपस्कृतः ।
स्त्रीबालाभ्युपपत्तौ च बाह्यानां सिद्धिकारणम् । १८। १६।
पिता चेत्पुत्रान्विभजेत्तस्य स्वेच्छा स्वयमुपार्जिते
ऽर्थे । १। पैतामहे त्वर्थे पितृपुत्रयोस्तुल्यं स्वामित्वम् । २।
15. ॰विवाहः । V¹⁻⁴; विहाराः । C¹,²v. See the C. 18.
स्त्रीबालाद्यवपत्तौ V⁴. See M. X, 62.
10. स्तुतिक्रिया सदसद्गुणकीर्तनं मागधानां वृत्तिः । मागधानां वणिक्-
पथमिति (०थ इति) मनुः । (X, 47). 11. वध्यानां चौरादीनाम् । ...
12. स्त्रीणां नर्तक्यादीनां रक्षा पोषणादि तज्जीवनं तदुपार्जितद्रव्यजीवनं
च... 14. ... इति प्रतिलोमजानां मध्ये चण्डालादीनां विशेषः । ...
15. ...स्वस्वसमानजातिधर्मैः सह विवाहादिर्व्यवहारः । नोत्तमैः । ...
16. सर्वेषामपि प्रतिलोमजानां स्वस्वपितृद्रव्यांशभागित्वमस्ति । ... 18. ...
बाह्यानां प्रतिलोमजानाम्... XVII, 1... यदि पिता कस्यचित्पुत्रस्य
...अधिकं दित्सति तदा स्वेच्छया दद्यात्...
॥ विष्णुस्मृतौ १७ ॥ ४७
पितृविभक्ता विभागानन्तरोत्पन्नस्य भागं दद्युः । ३ ।
अपुत्रधनं पत्न्यभिगामि । ४ । तदभावे दुहितृगामि । ५ ।
तदभावे पितृगामि । ६ । तदभावे मातृगामि । ७ । तद्-
भावे भ्रातृगामि । ८ । तदभावे भ्रातृपुत्रगामि । ९ ।
तदभावे बन्धुगामि । १० । तदभावे सकुल्यगामि । ११ ।
तदभावे सहाध्यायिगामि । १२ । तदभावे ब्राह्मणध-
नवर्जं राजगामि । १३ । ब्राह्मणार्थं ब्राह्मणानाम् ।
१४ । वानप्रस्थधनमाचार्यो गृह्णीयात् । १५ । शिष्यो
वा । १६ ।
संसृष्टिनस्तु संसृष्टी सोदरस्य तु सोदरः ।
दद्यादपहरेच्चांशं जातस्य च मृतस्य च । १७ ।
पितृमातृसुतभ्रातृदत्तमध्यग्न्युपागतमाधिवेदनिकं बन्धु-
दत्तं शुल्कमन्वाधेयकमिति स्त्रीधनम् । १८ । ब्राह्मा-
XVII, 4. अपुत्रस्य धनं C¹'²v. 13. ब्राह्मणवर्जं V¹.
3... विभागानन्तरोत्पन्नस्य भ्रातुः... 10. तेषां भ्रातृपुत्राणामभावे
बन्धवः सपिण्डास्त्वेव सगोत्रा असगोत्राश्च ।... तत्रायं क्रमः । पितृसंताने
भ्रातृपुत्राभावे भ्रातृपौत्रस्तदभावे पितामहस्तत्पुत्रस्तत्पौत्रश्च (तत्प्रपौत्रश्च
V¹ sec. m. in mg.) तदभावे प्रपितामहस्तत्पुत्रस्तत्पौत्रस्तत्प्रपौत्रश्चे-
त्येवम् ... । पितृसपिण्डाभावे मातृसपिण्डा मातामहमातुलतत्सुताद्या
गृह्णीयुः ... । तदभावे मातृबन्धुसुततत्सुताद्याः ।... तेषांबान्धवानामभावे
सकुल्यः पञ्चमादिसंततिस्तद्गामि । ...सकुल्याभावे आचार्यो गृह्णीयात्तद्-
भावे शिष्यः ।... तदभावे वा इत्यत आह ॥ 13... तद्धनं राजा गृह्णीया-
द्ब्राह्मणधनं वर्जयित्वा ।... 19... चतुर्भिर्विवाहैरूढायाम्...
४८ ॥ विष्णुस्मृतौ १७ ॥ १८ ॥
दिषु चतुर्षु विवाहेष्वप्रजायामतीतायां तद्भर्तुः। १९।
शेषेषु च पिता हरेत्। २०। सर्वेष्वेव प्रसूतायां यद्धनं
तद्दुहितृगामि। २१।
पत्यौ जीवति यः स्त्रीभिरलंकारो धृतो भवेत्।
न तं भजेरन्दायादा भजमानाः पतन्ति ते ॥ २२ ॥
अनेकपितृकाणां तु पितृतोऽंशप्रकल्पना।
यस्य यत्पैतृकं रिक्थं स तद्गृह्णीत नेतरः॥ २३ ॥ १७॥
ब्राह्मणस्य चतुर्षु वर्णेषु चेत्पुत्रा भवेयुस्ते पैतृकं रिक्थं
दशधा विभजेयुः। १। तत्र ब्राह्मणीपुत्रश्चतुरोऽंशाना-
दद्यात्। २। क्षत्रियापुत्रस्त्रीन्। ३। द्वावंशौ वैश्यापुत्रः।
४। शूद्रापुत्रस्त्वेकम्। ५। अथ चेच्छूद्रवर्जं ब्राह्मणस्य पुत्र-
त्रयं भवेत्तदा तद्धनं नवधा विभजेयुः। ६। वर्णानुक्र-
मेण चतुस्त्रिद्विभागीकृतानंशानादद्युः। ७। वैश्यवर्ज-
मष्टधाकृतं चतुरस्त्रीनेकं चादद्युः। ८। क्षत्रियवर्जं सप्त-
धाकृतं चतुरो द्वावेकं च। ९। ब्राह्मणवर्जं षड्धाकृतं
21. तद्धनं V⁴. 23. पितृतो भागकल्पना C¹,² (and Y. II, 120);
पितृभागप्रकल्पना v. XVIII, 6. ब्राह्मणपुत्रत्रयं v. V¹⁻³ place
32, 33 before 23.
22. गृहपतिना स्वपत्न्यै स्नुषायै वा विवाहकाले योऽलंकारो दत्तस्ताभि
र्धृतः परिहितो भवेन्न तथैव स्थापयितव्यम्...
॥ विष्णुस्मृतौ १८ ॥ ४६
त्रीन्दावेकं च । १० । क्षत्रियस्य क्षत्रियावैश्याशूद्रापुत्रे-
ष्वयमेव विभागः । ११ । अथ ब्राह्मणस्य ब्राह्मणक्षत्रियौ
पुत्रौ स्यातां तदा सप्तधा कृताद्धनाद्ब्राह्मणश्चतुरोंशा-
नादद्यात् । १२ । त्रीन् राजन्यः । १३ । अथ ब्राह्मणस्य ब्रा-
ह्मणवैश्यौ तदा षड्धा विभक्तस्य चतुरोंशान्ब्राह्मण-
स्त्वादद्यात् । १४ । द्वावंशौ वैश्यः । १५ । अथ ब्राह्मणस्य
ब्राह्मणशूद्रौ पुत्रौ स्यातां तदा तद्धनं पञ्चधा विभजे-
याताम् । १६ । चतुरोंशान्ब्राह्मणस्त्वादद्यात् । १७ । एकं
शूद्रः । १८ । अथ ब्राह्मणस्य क्षत्रियस्य वा क्षत्रियवैश्यौ
स्यातां तदा तद्धनं पञ्चधा विभजेयाताम् । १९ । त्रीनंशा-
न्क्षत्रियस्त्वादद्यात् । २० । द्वावंशौ वैश्यः । २१ । अथ
ब्राह्मणस्य क्षत्रियस्य वा क्षत्रियशूद्रौ पुत्रौ स्यातां तदा
तद्धनं चतुर्धा विभजेयाताम् । २२ । त्रीनंशान्क्षत्रियस्त्वा-
दद्यात् । २३ । एकं शूद्रः । २४ । अथ ब्राह्मणस्य क्षत्रि-
यस्य वैश्यस्य वा वैश्यशूद्रौ पुत्रौ स्यातां तदा तद्धनं
त्रिधा विभजेयाताम् । २५ । द्वावंशौ वैश्यस्त्वादद्यात् ।
२६ । एकं शूद्रः । २७ । अथैकपुत्रा ब्राह्मणस्य ब्राह्म-
णक्षत्रियवैश्याः सर्वहराः । २८ । क्षत्रियस्य राजन्य-
वैश्यौ । २९ । वैश्यस्य वैश्यः । ३० । शूद्रः शूद्रस्य ।
३१ । द्विजातीनां शूद्रस्त्वेकः पुत्रोऽर्धहरः । ३२ ।
7
५० ॥ विष्णुस्मृतौ १८ ॥
अपुत्ररिक्थस्य या गतिः साचार्धस्य द्वितीयस्य । ३३ ।
मातरः पुत्रभागानुसारेण भागापहारिण्यः । ३४ ।
अनूढाश्च दुहितरः । ३५ । समानवर्णाः पुत्राः समा-
नंशानादद्युः । ३६ । ज्येष्ठाय श्रेष्ठमुद्धारं दद्युः । ३७ ।
यदि द्वौ ब्राह्मणीपुत्रौ स्यातामेकः शूद्रापुत्रस्तदा नव-
धा विभक्तस्यार्थस्य ब्राह्मणीपुत्रावष्टौ भागानादद्याता-
मेकं शूद्रापुत्रः । ३८ । अथ शूद्रापुत्रावुभौ स्यातामेको
ब्राह्मणीपुत्रस्तदा षड्धा विभक्तस्यार्थस्य चतुरोऽंशा-
न्ब्राह्मणस्त्वादद्याद्द्वावंशौ शूद्रापुत्रौ । ३९ । अनेन क्र-
मेणान्यत्राप्यंशकल्पना भवति । ४० ।
विभक्ताः सह जीवन्तो विभजेरन्पुनर्यदि ।
समस्तच विभागः स्याज्ज्यैष्ठ्यं तत्र न विद्यते ॥ ४१ ॥
अनुपघ्नन्पितृद्रव्यं श्रमेण यदुपार्जयेत् ।
स्वयमीहितलब्धं तन्नाकामो दातुमर्हति ॥ ४२ ॥
33. सार्धस्य V¹.³,⁴. 38. नवधा विभक्तस्यार्थस्य om. C¹.³v.
XVIII, 33. अपुत्रधनं पत्न्यभिगामीत्यादिना (XVII, 4 seq.)
येऽपुत्रधनाधिकारिणोऽभिहितास्तैरेव क्रमेणेदमर्धं गृह्णीयुः ।... 34. यज्जा-
तीयस्य पुत्रस्य यो भाग उक्तस्तदनुसारेणैव तज्जातीया माताप्यंशं हरेत् ।
ब्राह्मणी चतुरोऽंशानाहरेत् । क्षत्रिया त्रीन् । वैश्या द्वौ । शूद्रेकमिति ।...
37. उद्धारं विंशांशादिवज्ज्येष्ठाय सर्वापेक्षया कनीयांसो दद्युः ।...
42... यच्च स्वयमीहितं वाञ्छितं सन्मित्रादिभ्यो लब्धं तदकामोऽनिच्छ-
न्मात्रादिभ्यो दातुं नार्हति । यथाह योगीश्वरः (Y. II, 118)...
॥ विष्णुस्मृतौ १८ । १९ ॥ ५९
पैतृकं तु यदा द्रव्यमनवाप्तं यदाप्नुयात् ।
न तत्पुत्रैर्भजेत्सार्धमकामः स्वयमर्जितम् ॥ ४३ ॥
वस्त्रं पत्त्रमलंकारः कृतान्नमुदकं स्त्रियः ।
योगक्षेमं प्रचारश्च न विभाज्यं च पुस्तकम् ॥ ४४ ॥ १८ ॥
—————
मृतं द्विजं न शूद्रेण निर्हारयेत् । १ । न शूद्रं द्वि-
जेन । २ । पितरं मातरं च पुत्रा निर्हरेयुः । ३ । न
द्विजं पितरमपि शूद्राः । ४ । ब्राह्मणमनाथं ये ब्राह्मणा
निर्हरन्ति ते स्वर्गलोकभाजः । ५ । निर्हृत्य च बान्धवं
प्रेतं सत्कृत्याप्रदक्षिणेन चितामभिगम्याप्सु सवाससो
निमज्जनं कुर्युः । ६ । प्रेतस्योदकनिर्वपणं कृत्वैकां पिण्डं
कुशेषु दद्युः । ७ । परिवर्तितवाससश्च निम्बपत्राणि
विदश्य द्वार्यश्मनि पद्न्यासं कृत्वा गृहं प्रविशेयुः । ८ ।
—————
43. अनवाप्य C¹˒²v. XIX, 6. सत्कृत्य प्रदक्षिणेन v.
—————
43... यच्च स्वयं विद्याशौर्यादिनार्जितं तदकामः स्वपुत्रैः सह न वि-
भजेत् ।... 44. ... पत्त्रं वाहनं यद्येनाऽऽरूढं । धृष्ट्वादिपत्त्रं वा ।...
XIX, 1. ...शूद्रेण सपिण्डेनाऽसपिण्डेन वा न निर्हारयेत् ॥ 5. अनाथं
सपिण्डादिरहितम्... 6. ... चितामप्रदक्षिणेनाभिगम्य... 7. पिण्डो-
दकदानानन्तर्यविधानेन प्रथमदिनादिकर्तव्यता बोधिता ।...
५२ ॥ विष्णुस्मृतौ १९ ॥
अक्षतांश्चाग्नौ क्षिपेयुः । ९ । चतुर्थे दिवसेऽस्थिसंचयनं
कुर्युः । १० । तेषां गङ्गाम्भसि प्रक्षेपः । ११ । यावत्संख्य-
मस्थि पुरुषस्य गङ्गाम्भसि तिष्ठति तावद्वर्षसहस्राणि
स्वर्गलोकमधितिष्ठति । १२ । यावदाशौचं तावत्प्रेत-
स्योदकं पिण्डमेकं च दद्युः । १३ । क्रीतलभ्याशनाश्च
भवेयुः । १४ । अमांसाशनाश्च । १५ । स्थण्डिलशायिनः ।
१६ । पृथक्शयिनश्च । १७ । ग्रामान्निष्क्रम्याशौचान्ते
कृतश्मश्रुकर्माणस्तिलकल्कैः सर्षपकल्कैर्वा स्नाताः
परिवर्तितवाससो गृहं प्रविशेयुः । १८ । तत्र शान्तिं
कृत्वा ब्राह्मणानां च पूजनं कुर्युः । १९ । देवाः परोक्ष-
देवाः प्रत्यक्षदेवा ब्राह्मणाः । २० । ब्राह्मणैर्लोका
धार्यन्ते । २१ ।
ब्राह्मणानां प्रसादेन दिवि तिष्ठन्ति देवताः ।
ब्राह्मणाभिहितं वाक्यं न मिथ्या जायते क्वचित् । २२ ।
10. चतुर्थेऽह्नि V¹⁻³. संचयं C¹-²v. 12. स्वर्गलोके महीयते v.
See the C. 20. प्रत्यक्षा v.
12. यस्य पुरुषस्य यत्संख्याकान्यस्थीनि गङ्गातोये तिष्ठन्ति स तावद्वर्ष-
सहस्राणि स्वर्गलोके वसति ॥ 14. क्रीतमयाचितलब्धं वा ... 19.
शान्तिसूक्तपाठं कृत्वा ... 22. ...ब्राह्मणाभिहितशापानुग्रहादिवाक्यैर्दुष्ट-
निग्रहशिष्टानुग्रहाभ्यामनुगृहीता जनाश्च भुवीति लोकाधार्यत्वमुपपन्नम् ।
वाक्यमात्रस्य कार्य फलसाधकतेत्यत आह ॥
॥ विष्णुस्मृतौ १९ । २० ॥ ५३
यद्ब्राह्मणास्तुष्टतमा वदन्ति
तद्देवताः प्रत्यभिनन्दयन्ति ।
तुष्टेषु तुष्टाः सततं भवन्ति
° प्रत्यक्षदेवेषु परोक्षदेवाः ॥ २३ ॥
दुःखान्वितानां मृतबान्धवानाम्
आश्वासनं कुर्युरदीनसत्त्वाः ।
वाक्यैस्तु यैर्भूमि तवाभिधास्ये
वाक्यान्यहं तानि मनोऽभिरामे ॥ २४ ॥ १९ ॥
यदुत्तरायणं तदहर्देवानाम् । १। दक्षिणायनं रात्रिः ।
२ । संवत्सरोऽहोरात्रः । ३ । तत्रिंशता मासः । ४ ।
मासा द्वादश वर्षम् । ५ । द्वादश वर्षशतानि दिव्यानि
कलियुगम् । ६ । द्विगुणानि द्वापरम् । ७ । त्रिगुणानि
त्रेता । ८ । चतुर्गुणानि कृतयुगम् । ९ । द्वादश वर्षसह-
स्राणि [दिव्यानि] चतुर्युगम् । १० । चतुर्युगानामेकसप्त-
XX, 10. वर्षसहस्राणि दिव्यानि V¹⁻⁴ C¹,²; दिव्यानि seems to
have crept in from the C. चातुर्युगं V¹⁻⁴v.
23. पूजादिना तुष्टतमा विप्रा यस्मै यत्पुत्रपशुधनाद्यस्त्विति वदन्ति
तद्देवतास्तथास्त्विति वाक्यैः प्रत्यभिनन्दयन्ति । स्वार्थे णिच् । प्रत्यभिनन्द-
न्तीत्यर्थः ।... 24. न दीनं सत्त्वं धैर्यं येषां ते धैर्यवन्तः ।... XX, 6.
...तत्र शतद्वयं संध्यासंध्यांशयोर्वर्षसहस्रमेव च युगम् ।
५४ ॥ विद्यासुरतौ २० ॥
तिर्मन्वन्तरम् । ११। चतुर्युगसहस्रं च कल्पः। १२। स
च पितामहस्याहः। १३। तावती चास्य रात्रिः। १४।
एवंविधेनाहोरात्रेण मासवर्षगणनया सर्वस्यैव ब्रह्मणो
वर्षशतमायुः। १५। ब्रह्मणायुषा च परिच्छिन्नः पौरुषो
दिवसः। १६। तस्यान्ते महाकल्पः। १७। तावत्येवास्य
निशा। १८। पौरुषाणामहोरात्राणामतीतानां संख्यैव
नास्ति। १९। न च भविष्याणाम्। २०। अनाद्यनन्तत्वा-
त्कालस्य। २१।
एवमस्मिन्निरालम्बे काले सततयायिनि ।
न तद्भूतं प्रपश्यामि स्थितिर्यस्य भवेद्ध्रुवा ॥ २२ ॥
गङ्गायाः सिकताधारास्तथा वर्षति वासवे ।
शक्या गणयितुं लोके न व्यतीताः पितामहाः ॥ २३ ॥
चतुर्दश विनश्यन्ति कल्पे कल्पे सुरेश्वराः ।
सर्वलोकप्रधानाश्च मनवश्च चतुर्दश ॥ २४ ॥
21. अनाद्यन्तता C¹,²v.
13. यः कल्प इत्युक्तः स एष पितामहस्य ब्रह्मणोऽह्नःसंज्ञो भवति।
15. एवंविधेन कल्पद्वयपरिमितेनाहोरात्रेण त्रिंशत्संख्येन मासस्तैर्द्वाद-
शभिर्मासैर्वर्षं तानि शतं वर्षाणि सर्वस्यैव यो यो यदा यदा ब्रह्मा जायते
तदा तदा तस्य तस्यायुर्भवति।... 22. ...निरालम्बे निरूपादानके सतत-
यायिनि नित्ये काले भगवति न तद्भूतं पृथिव्याद्यन्यतममप्यस्ति... 23. ...
या वा वासवे वर्षति जलधारास्ता अपि लोके गणयितुं शक्यन्ते न त्वतीताः
पितामहा ब्रह्माणः... 24. एकैकस्मिन्कल्पे ब्रह्मदिवसे चतुर्दश देव-
प्रधाना इन्द्रा मनुष्यप्रधाना मनवश्च विनश्यन्ति ॥
॥ विष्णुस्मृतौ २० ॥ ५५
बहूनीन्द्रसहस्राणि दैत्येन्द्रनियुतानि च ।
विनष्टानीह कालेन मनुजेष्वथ का कथा ॥ २५ ॥
राजर्षयश्च बहवः सर्वे समुदिता गुणैः ।
देवा ब्रह्मर्षयश्चैव कालेन निधनं गताः ॥ २६ ॥
ये समर्था जगत्स्मिन्त्सृष्टिसंहारकारणे ।
तेऽपि कालेन लीयन्ते कालो हि दुरतिक्रमः ॥ २७ ॥
आक्रम्य सर्वः कालेन परलोकं च नीयते ।
कर्मपाशवशो जन्तुस्तत्र का परिवेदना ॥ २८ ॥
जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च ।
अर्थे दुष्परिहार्येऽस्मिन्नास्ति लोके सहायता ॥ २९ ॥
शोचन्तो नोपकुर्वन्ति मृतस्येह जना यतः ।
अतो न रोदितव्यं हि क्रियाः कार्याः स्वशक्तितः ॥ ३० ॥
- नीयन्ते V¹⁻⁴.
२६. एकैकस्मिन्कल्पे चतुर्दश चतुर्दशेत्येवं कल्पानामानन्
itized by eGangotri/Sarayu Trust. Funding IKS-MoE-Grant-2 Equipment Heritage Foundation, Jalga
५६ ॥ विष्णुस्मृतौ २० ॥
सुकृतं दुष्कृतं चोभौ सहायौ यस्य गच्छतः ।
बान्धवैस्तस्य किं कार्यं शोचद्भिरथवा न वा ॥ ३१ ॥
बान्धवानामशौचे तु स्थितिं प्रेतो न विन्दति ।
अतस्त्वभ्येति तानेव पिण्डतोयप्रदायिनः ॥ ३२ ॥
अर्वाक्सपिण्डीकरणात्प्रेतो भवति यो मृतः ।
प्रेतलोकगतस्यान्नं सोदकुम्भं प्रयच्छत ॥ ३३ ॥
पितृलोकगतस्यान्नं श्राद्धे भुङ्क्ते स्वधासमम् ।
पितृलोकगतस्यास्य तस्माच्छ्राद्धं प्रयच्छत ॥ ३४ ॥
देवत्वे यातनास्थाने तिर्यग्योनौ तथैव च ।
मानुष्ये च तथाप्नोति श्राद्धं दत्तं स्वबान्धवैः ॥ ३५ ॥
प्रेतस्य श्राद्धकर्तुश्च पुष्टिः श्राद्धे कृते ध्रुवम् ।
तस्माच्छ्राद्धं सदा कार्यं शोकं त्यक्त्वा निरर्थकम् ॥ ३६ ॥
एतावदेव कर्तव्यं सदा प्रेतस्य बन्धुभिः ।
नापकुर्यान्नरः शोचन्प्रेत्यात्मान एव वा ॥ ३७ ॥
34. स्वधामयम् । C1,2; समंचवाम् v. 37. शोकात् C1,2.
32. ...पिण्डतोयप्रदायिनो बान्धवानेव... 33. वक्ष्यमाणेषु सपिण्डी-
करणात्कालेषु यावत्सपिण्डीकरणं भवति तावन्मृतो जन्तुः प्रेतः क्षुत्तृष्णाजनित-
दुःखानुभववान्भवति । 34. ...श्राद्धे पार्वणादौ पुत्रादिदत्तमन्नपानादि
स्वधया पितृभोग्येनामृतविशेषेण समं तुल्यं भुङ्क्ते ।... 37. शोकेन श्राद्धम्
अकुर्वन्... प्रतिकूलं कुर्यात्... एतावत्पूर्वोक्तं श्राद्धादि...
CC-0. In Public Domain Sri Aurobindo Library, Pondicherry
॥ विष्णुस्मृतौ २० ॥ ५७
दृष्ट्वा लोकमनाकन्दं म्रियमाणांश्च बान्धवान् ।
धर्ममेकं सहायार्थं वरयध्वं सदा नराः ॥ ३८ ॥
मृतोऽपि बान्धवः शक्तो नानुगन्तुं नरं मृतम् ।
जायावर्जं हि सर्वस्य याम्यः पन्था विरुध्यते ॥ ३९ ॥
धर्म एकोऽनुयात्येनं यत्र क्वचनगामिनम् ।
नन्वसारे नृलोकेऽस्मिन्धर्मं कुरुत माचिरम् ॥ ४० ॥
श्वः कार्यमद्य कुर्वीत पूर्वाह्ने चापराह्निकम् ।
न हि प्रतीक्षते मृत्युः कृतं वास्य न वाकृतम् ॥ ४१ ॥
क्षेत्रे वापि गृहे सक्तमन्यत्रगतमानसम् ।
वृकीवोरणमासाद्य मृत्युरादाय गच्छति ॥ ४२ ॥
न कालस्य प्रियः कश्चिद्द्वेष्यश्चास्य न विद्यते ।
आयुष्ये कर्मणि क्षीणे प्रसह्य हरते जनम् ॥ ४३ ॥
नाप्राप्तकालो म्रियते विद्धः शरशतैरपि ।
कुशाग्रेणापि संस्पृष्टः प्राप्तकालो न जीवति ॥ ४४ ॥
38. आक्रन्दः पृष्ठरक्षकः मृतस्य लोके पश्चात्क्रियानुष्ठानेनोपकर्ता तद्र-
हितोऽयं लोको यतः प्रतिदिनं म्रियमाणा एव बान्धवा दृश्यन्ते अतः
स्वस्यासहायतां ज्ञात्वा इहामुत्र च सहायार्थं धर्ममेवेकं भो नराः सदा
वरयध्वम् ॥ 39. सह मृतानामपि ...क्व सहायोपयोगः ... । जायायाः
प्रत्येकशरीरत्वेन... व्यालग्राही यथा व्यालं बलादुद्धरते बिलात् । तद्वदुद्धृत्य
सा नारीत्याद्युपकारश्रवणाच्च तां विनान्यस्य सर्वस्यापि यमलोकमार्गेऽनु-
मरणं विरुद्धमेव ।... 42...गृहे चेदं कृतमिदमकृतमित्यादि... अन्यत्र
पुत्रदुहित्राद्युपनयनविवाहादौ गतमानसम् ... 43... तस्य प्रियः प्राप्ते
काले रक्षणीयो द्वेष्यश्चाप्राप्ते काले मारणीयो वा नास्ति ।
8
itized by eGangotri/Sarayu Trust. Funding IKS-MoE-Grant-2 Equipment Heritage Foundation, Jalga
५८ ॥ विष्णुस्मृतौ २० ॥
नौषधानि न मन्त्राश्च न होमा न पुनर्जपाः ।
त्रायन्ते मृत्युनोपेतं जरया वापि मानवम् ॥ ४५ ॥
आगामिनमनर्थं हि प्रविधानशतैरपि ।
न निवारयितुं शक्तास्तत्र का परिवेदना ॥ ४६ ॥
यथा धेनुसहस्रेषु वत्सो विन्दति मातरम् ।
तथा पूर्वकृतं कर्म कर्तारं विन्दते ध्रुवम् ॥ ४७ ॥
अव्यक्तादीनि भूतानि व्यक्तमध्यानि चाप्यथ ।
अव्यक्तनिधनान्येव तत्र का परिवेदना ॥ ४८ ॥
देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा ।
तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति ॥ ४९ ॥
गृह्णातीह यथा वस्त्रं त्यक्त्वा पूर्वधृतं नरः ।
गृह्णात्येवं नवं देही देहं कर्मनिबन्धनम् ॥ ५० ॥
नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः ।
न चैनं क्लेदयन्त्यापो न शोषयति मारुतः ॥ ५१ ॥
अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च ।
नित्यः सततगः स्थाणुरचलोऽयं सनातनः ॥ ५२ ॥
45—47 om. v.
46... उपायशतैः... 49... धीरो धीमान् ।... 52... नित्योऽवि-
नाशी । सततगः सर्वकालवर्ती । स्थाणुः स्थिररूपो रूपान्तरापत्तिशून्यः ।
अचलः पूर्वदेशापरित्यागी । सनातनोऽनादिः ।...
CC-0. In Public Domain Sri Aurobindo Library, Pondicherry
॥ विष्णुस्मृतौ २० ॥ २१ ॥ ५९
अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते ।
तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि ॥ ५३ ॥ २० ॥
अथाशौचव्यपगमे सुस्नातः सुप्राक्षालितपाणिपादः
स्वाचान्तस्त्वेवंविधान्ब्राह्मणान्यथाशक्त्युदङ्मुखान्गन्ध-
माल्यवस्त्रांलङ्कारादिभिः पूजितान्भोजयेत् । १ । एक-
वन्मन्त्रानूहेदेकोद्दिष्टे । २ । उच्छिष्टसंनिधावेकमेव त-
न्नामगोत्राभ्यां पिण्डं निर्वपेत् । ३ । भुक्तवत्सु ब्राह्मणेषु
दक्षिणायाभिपूजितेषु प्रेतनामगोत्राभ्यां दत्ताक्षय्योदक-
श्चतुरङ्गुलपृथ्वीस्तावदन्तरास्तावदधःखाता वितस्त्याय-
तास्तिस्रः कर्षूः कुर्यात् । ४ । कर्षूसमीपे चाग्निचयमुप-
समाधाय परिस्तीर्य तत्रैकैकस्मिन्नाहुतित्रयं जुहुयात्
। ५ । सोमाय पितृमते स्वधा नमः । ६ । अग्नये कव्य-
वाहनाय स्वधा नमः । ७ । यमायाङ्गिरसे स्वधा नमः ।
XXI, 1. ॰चाचान्त॰ C¹,²v. 2. ऊहेतै॰ C¹,²v.
॰XXI, 1... तत्राशौचानन्तरदिनकर्तव्यमाह ।... सुस्नातो मन्त्रवत्स्नात-
स्नानः ।...तत्र संख्याविशेषविधानाय यथाशक्तीति ।... आदिशब्दाद्धूपदीपा-
दिग्राह्यम् ।... 2. प्रकृतौ पार्वणे बहुवचनान्ता मन्त्रास्ते विकृतावप्येकोद्दिष्टे
एकवचनान्तत्वेनोह्याः । वचनमुपलक्षणं तेन प्रकृतेरप्यूहः ।...3. प्रेतोद्देशेनैव
न तत्पित्रादीनां तन्नामगोत्राभ्यामेव दद्यात्ते इति मात्रेण निर्वर्त्तयेत् ।
4... उत्तिष्ठतामित्यक्षय्योदकं तेषु दत्त्वाभिरम्यतामिति तान्विसृज्य...
5. तेष्वग्निष्वेकैकस्मिन्नाहुतित्रयमौदनस्य जुहुयात् । तत्र मन्त्रानाह ॥