विष्णु स्मृति (वैष्णव धर्मशास्त्र - नन्दपण्डित कृत वैजयन्ती टीका सहित सटीक)
Vishnu Smriti with Vaijayanti Commentary of Nanda Pandita
महर्षि विष्णु (टीकाकार: नन्दपण्डित, सम्पादक: जूलियस जॉली) द्वारा
६० ॥ विष्णुस्मृतौ २१ ॥
। ८ । स्थानत्रये च प्राग्वत्पिण्डनिर्वपणं कुर्यात् । ९ ।
अन्नदधिघृतमधुमांसैः कर्षूत्रयं पूरयित्वैतत्त इति जपेत्
। १० । एवं मृताह्ने प्रतिमासं कुर्यात् । ११ । संवत्स-
रान्ते प्रेताय तत्पित्रे तत्पितामहाय तत्प्रपितामहाय च
ब्राह्मणान्देवपूर्वान्भोजयेत् । १२ । अत्राग्नौकरणमावा-
हनं पाद्यं च कुर्यात् । १३ । संसृजतु त्वा पृथिवी
समानी व इति च प्रेतपाद्यपात्रे पितृपाद्यपात्रत्रये यो-
जयेत् । १४ । उच्छिष्टसंनिधौ पिण्डचतुष्टयं कुर्यात्
। १५ । ब्राह्मणांश्च स्वाचान्तान्दत्तदक्षिणांश्चानुव्रज्य वि-
सर्जयेत् । १६ । ततः प्रेतपिण्डं पाद्यपात्रोदकवत्पिण्डत्रये
निदध्यात् । १७ । कर्षूत्रयसंनिकर्षेऽप्येवमेव । १८ ।
10. पूरयित्वैतदिति C¹'²v. 21. एकं च C¹'²v.
9... प्राग्वत्कर्षुषु प्रेतनामगोत्राभ्यामेकैकं पिण्डं दद्यात् ॥ 10... प्रत्येकं
कर्षूत्रयं पूरयित्वैतत्ते तत ये च त्वामत्रान्वित्याश्वलायनाद्युक्तं मन्त्रं यथाशाखं
जपेत् । अत्र ततशब्दस्थाने प्रेतशब्दस्योहः ।... 12... तत्र प्रेतादिभ्यश्चतु-
र्भ्यश्चत्वारो वैश्वदैविके च द्वावित्येवं षड्ब्राह्मणान्प्रेतस्यैकोद्दिष्टविधिना भो-
जयेत् ।... 13. अत्र सपिण्डीकरणान्तर्गत एकोद्दिष्टे... 14. पाद्यं च
पात्रं च पाद्यपात्रे प्रेतपाद्यपात्रे प्रेतपाद्यं प्रेतपाद्योदकं पात्रं प्रेतार्घ्यपात्रो-
दकं तदुभयं पितृपाद्योदकत्रये पित्रर्घ्यपात्रोदकत्रये च यथाक्रमं मन्त्राभ्यां
योजयेत् ।... 17. यथा प्रेतपाद्योदकं पितृपाद्योदकत्रयेण प्रेतार्घ्यपात्रोदकं
च पित्रर्घ्यपात्रोदकत्रयेण योजितं तथैव प्रेतपिण्डं त्रिधा विभज्य पित्रा-
दिपिण्डत्रये ताभ्यामेव मन्त्राभ्यां योजयेत् । तदुक्तं काठकारुह्ये ।...
॥ विष्णुस्मृतौ २१ ॥ २२ ॥ ६१
सपिण्डीकरणं मासिकार्थवद्द्वादशाहं श्राद्धं कृत्वा त्रयो-
दशेऽह्नि वा कुर्यात् । १९ । मन्त्रवर्जं हि शूद्राणां द्वाद-
शेऽह्नि । २० । संवत्सराभ्यन्तरे यद्यधिमासो भवेत्तदा
मासिकार्थे दिनमेकं वर्धयेत् । २१ ।
सपिण्डीकरणं स्त्रीणां कार्यमेवं तथां भवेत् ।
यावज्जीवं तथा कुर्याच्छ्राद्धं तु प्रतिवत्सरम् ॥ २२ ॥
अर्वाक्सपिण्डीकरणं यस्य संवत्सरात्कृतम् ।
तस्याप्यन्नं सोदकुम्भं दद्याद्वर्षं द्विजन्मने ॥ २३ ॥ २१ ॥
ब्राह्मणस्य सपिण्डानां जननमरणयोर्दशाहमाशौ-
चम् । १ । द्वादशाहं राजन्यस्य । २ । पञ्चदशाहं वैश्य-
स्य । ३ । मासं शूद्रस्य । ४ । सपिण्डता च पुरुषे सप्तमे
विनिवर्तते । ५ । आशौचे होमदानप्रतिग्रहस्वाध्याया
निवर्तन्ते । ६ । नाशौचे कस्यचिदन्नमश्नीयात् । ७ । ब्रा-
ह्मणादीनामाशौचे यः सकृद्देवान्नमश्नाति तस्य तावद्-
19. मासिकसपिण्डीकरणयोः कालान्तरमप्याह । मासिकभवं मासिकं
तदर्थः प्रेताप्यायनादिः सोऽस्त्यस्मिन्निति मासिकार्थवत् ।... द्वादशाहे द्वाद-
शश्राद्धैः सु कृत्वा त्रयोदशेऽह्नि वा यथोक्तं वा सपिण्डीकरणं कुर्यात् ।...
द्वादशाह इत्याशौचान्तोपलक्षणम् ।... 22... यावज्जीवं प्रतिसंवत्सरं
मृताहे श्राद्धमपि वक्ष्यमाणविधिना कुर्यात् ।... XXII, 6. होमो वैश्व-
देवः... 7. आशौचिनः सवर्णस्यासवर्णस्य वासपिण्डस्यान्नमन्यो नाश्नीयात् ।
सपिण्डस्य तु न दोषः ।
णं ज प्त्वो त्ती र्य गा य त्र्य ष्ट स ह स्रो ज= 25 characters! Line 6: पेत् । १० । क्ष त्र्रि या शौ चे ब्रा ह्म ण स्त्वे त दे वै ... Let's count: पेत्(1) ।(2) १०(3) ।(4) क्ष(5) त्रि(6) या(7) शौ(8) चे(9) ब्रा(10) ह्म(11) ण(12) स्त्वे(13) त(14) दे(15) If total line is ~25 characters, and we haveकृत्वा(2)शुध्यति(3)। ११ ।(4) at the end: Wait! Line 6 ends atकृत्वा! शुध्यति । ११ ।is at the beginning of line 7! Let's count toकृत्वा: Characters after दे(15) toकृत्वा` (ends at ~25):
That's about 25 - 15 - 2 = 8 characters!
॥ विष्णुस्मृतौ २२ ॥ ६३
यस्य विट्शूद्रयोः पञ्चाहत्रिरात्राभ्याम् । २३ । वैश्यस्य
शूद्रेषु पञ्चाहेण । २४। मासतुल्यैरहोरात्रैर्गर्भस्रावे । २५।
जातमृते मृतजाते वा कुलस्य सद्यः शौचम् । २६ ।
अदन्तजाते बाले प्रेते सद्य एव । २७। नास्याग्निसंस्का-
रो नोदकक्रिया । २८। दन्तजाते त्वकृतचूडे त्वहोरा-
त्रेण । २९। कृतचूडे त्वसंस्कृते त्रिरात्रेण । ३०। ततः
परं यथोक्तकालेन । ३१ । स्त्रीणां विवाहः संस्कारः
। ३२। संस्कृतासु स्त्रीषु नाशौचं पितृपक्षे । ३३ । तत्प्र-
सवमरणे चेत्पितृगृहे स्यातां तदेकरात्रं त्रिरात्रं च
। ३४। जननाशौचमध्ये यद्यपरं जननाशौचं स्यात्तदा
पूर्वाशौचव्यपगमे शुद्धिः । ३५। रात्रिशेषे दिनद्वयेन
। ३६। प्रभाते दिनत्रयेण । ३७। मरणाशौचमध्ये ज्ञा-
तिमरणेऽप्येवम् । ३८ । श्रुत्वा देशान्तरस्थो जननमरणे
आशौचशेषेण शुध्येत् । ३९। व्यतीतेऽशौचे संवत्सरान्त-
39. चाशौच० om. C¹,²v.
25. यावन्तो मासा गर्भस्य तत्समसंख्यैरहोरात्रैर्गर्भस्रावे माता शुध्यति ।
... 26. जात एव मृतो जातमृतो नाभिच्छेदात्पूर्वमेव मृत इति यावत् ।
मृत एव जातो मृतजातः। ... 31. तत उपनयनात्परं स्वस्वकालेन
दशाहादिना सर्वे वर्णाः शुद्ध्येयुः। ... • 34. पित्रोस्त्रिरात्रं बन्धूनामेकरात्रं
ज्ञेयम्। ... 37. प्रभातो रात्रेश्चरमो यामः। ... शातातपोऽपि । रात्रिशेषे
द्वाभ्याञ्छुद्धिर्य्यामशेषे त्र्यहाच्छुद्धिरिति ॥ 39. चाशौचमध्य इत्यनुवर्तते । ...
६४ ॥ विष्णुस्मृतौ २२ ॥
स्त्वेकरात्रेण । ४० । ततः परं स्नानेन । ४१ । आचार्ये
मातामहे च व्यतीते त्रिरात्रेण । ४२ ।
अनौरसेषु पुत्रेषु जातेषु च मृतेषु च ।
परपूर्वासु भार्यासु प्रसूतासु मृतासु च ॥ ४३ ॥
आचार्यपत्नीपुत्रोपाध्यायमातुलश्वशुरश्वशूर्यसहाध्या-
यिशिष्येष्वतीतेष्वेकरात्रेण । ४४ । स्वदेशराजनि च
। ४५ । असपिण्डे स्ववेश्मनि मृते च । ४६ । भृग्वग्न्य-
नाशकाम्बुसंग्रामविद्युन्नृपहतानां नाशौचम् । ४७ । न
राज्ञां राजकर्मणि । ४८ । न व्रतिनां व्रते । ४९ । न
सत्त्रिणां सत्रे । ५० । न कारूणां कारुकर्मणि । ५१ । न
राजाज्ञाकारिणां तदिच्छया । ५२ । न देवप्रतिष्ठावि-
वाहयोः पूर्वसंभृतयोः । ५३ । न देशविभ्रमे । ५४ ।
43. परपूर्वासु नारीषु V⁴. 50—52 om. V¹⁻³; but 53 is
marked ५३. 51. स्वकर्मणि C¹'².
40. दशाहादावाशौचकालेऽतिक्रान्ते पुनर्वर्षमध्ये ज्ञातिमरणश्रवणे
देशान्तरस्थोऽहोरात्रेण शुध्येत् ।... 45. यस्मिन्देशे स्वयमुष्यते स स्वदेश-
स्तस्य राजनि प्रेते... 46. सपिण्डः पूर्वोक्तस्तद्भिन्नोऽसपिण्डस्तस्मिन्स्ववेश्मनि
मृते एकरात्रेण शुद्धिः ॥ 47. भृगुर्गिरिकूटकः ।... 48. ...राज-
कर्मणि प्रजापालनोपयुक्तहोमदानव्यवहारदर्शनादौ नाशौचम् ।... 50...
यजमानानां... सत्रे गवामयनाञ्जसत्रादौ नाशौचम् ।... 53. विष्ण्वादि-
मूर्तिप्रतिष्ठापने ... पूर्वमाशौचात्संभारः प्रारभ्येत ।... 54. देशोपप्लवे
नाशौचं स्पर्शादौ तन्निमित्तशान्त्यादौ च ।...
॥ विष्णुस्मृतौ २२ ॥ ६५
आपद्यति च कष्टायाम्। ५५। आत्मत्यागिनः पतिताश्च
नाशौचोदकभाजः। ५६। पतितस्य दासी मृताहे प-
दापां घटमपवर्जयेत्। ५७। उदन्धनमृतस्य यः पाशं
छिन्द्यात्स तप्तकृच्छ्रेण शुध्यति। ५८। आत्मत्यागिनां
संस्कर्ता च। ५९। तदश्रुपातकारी च। ६०। सर्वस्यैव
प्रेतस्य बान्धवैः सहाश्रुपातं कृत्वा स्नानेन। ६१। अह्न-
तेऽस्थिसंचये सचैलस्नानेन। ६२। द्विजः शूद्रप्रेतानुग-
मनं कृत्वा स्रवन्तीमासाद्य तन्निमग्नस्त्रिरघमर्षणं जप्त्वा-
त्तीर्य गायत्र्यष्टसहस्रं जपेत्। ६३। द्विजप्रेतस्याष्टशतम्
। ६४। शूद्रः प्रेतानुगमनं कृत्वा स्नानमाचरेत्। ६५।
चिताधूमसेवने सर्वे वर्णाः स्नानमाचरेयुः। ६६। मैथुने
दुःस्वप्ने रुधिरेऽपगतकण्ठे वमनंविरेकयोश्च। ६७।
श्मश्रुकर्मणि कृते च। ६८। शवस्पृशं च स्पृष्ट्वा रज-
स्वलाचाण्डालयूपांश्च।६९। भक्ष्यवर्ज्जं पञ्चनखशवं तदस्थि
सस्नेहं च। ७०। सर्वेष्वेतेषु स्नानेषु वस्त्रं नाप्रक्षालितं
बिभृयात्। ७१। रजस्वला चतुर्थेऽह्नि स्नानाच्छुध्यति।
57. मृतेऽह्नि V¹⁻⁴ C¹'²v. 71. पूर्वं वस्त्रं C¹'²v.
55. कष्टापद्दुर्भिक्षरोगादिस्तत्र प्रतिग्रहदानादौ नाशौचम्। ...
57. पतितस्य मरणदिने दासी अपां घटं पदापवर्जयेत्। इदं त्वं पिबेति। ...
63... अष्टाधिकं सहस्रं गायत्रीर्जपेत्। ... 64... पूर्ववदघमर्षणं
जप्त्वाष्टाधिकं शतं गायत्रीर्जपेत्। ... 67... दुःस्वप्ने गर्दभाद्यारोहण्ये...
69. शववाहकां... चाण्डालं तत्समानधर्मं श्वपचादिकं च। ...
9
६६ ॥ विष्णुस्मृतौ २२ ।
। ७२ । रजस्वला हीनवर्णां रजस्वलां स्पृष्ट्वा न तावद-
श्नीयाद्यावन्न शुद्धा । ७३ । सवर्णांमधिकवर्णां वा स्पृष्ट्वा
सद्यः स्नात्वा शुध्यति । ७४ । क्षुत्वा सुप्त्वा भुक्त्वा भोज-
नाध्ययनेषुः पीत्वा स्नात्वा निष्ठीव्य वासः परिधाय
रथ्यामाक्रम्य मूत्रपुरीषे कृत्वा पञ्चनखास्थ्यास्नेहं स्पृष्ट्वा
चाचामेत् । ७५ । चाण्डालम्लेच्छसंभाषणे च । ७६ ।
नाभेरधस्तात्प्रवाहुषु च कायिकैर्मलैः सुराभिर्मद्यैश्चोप-
हतो मृत्तोयैस्तदङ्गं प्रक्षाल्य शुध्येत् । ७७ । अन्येनोप-
हतो मृत्तोयैस्तदङ्गं प्रक्षाल्य स्नानेन । ७८ । वक्त्रोप-
हतस्तूपोष्य स्नात्वा पञ्चगव्येन । ७६ । दशनच्छेदोप-
हतश्च । ८० ।
वसा शुक्रमसृङ्मज्जा मूत्रं विट्कर्णविण्नखाः ।
श्लेष्मास्रु दूषिका स्वेदो द्वादशैते नृणां मलाः ॥ ८१ ॥
गौडी माध्वी च पैष्टी च विज्ञेया त्रिविधा सुरा ।
यथैवैका तथा सर्वा न पातव्या द्विजातिभिः ॥ ८२ ॥
74. सद्यः om. C1,2v Ap. स्नात्वाश्नीयात् V1–3 C1,2. 75. भुक्त्वा
om. C1,2. भोजनाध्ययने C1,2; भोजनेयः v. 77. सुराभिर्वापहतो
C1,2v. 79. is repeated in V1,2,3.
78. उक्ताङ्गेभ्योऽन्यत्र नाभेर्ध्वम्... 81...मज्जा शिरोमध्ये पिण्डि-
त(०तः) स्नेहः (Kullūka) ।... 82...माध्वी मधुविकारः... यथाह
हारीतः... माध्वीकं मधुकं माध्वं मधुना संयुतास्त्रयः ।...
॥ विष्णुस्मृतौ २२ ॥ ६७
माधूकमैक्षवं टाङ्कं कौलं खार्जूरपानसे ।
मृद्वीकारसमाध्वीके मैरेयं नारिकेलजम् ॥ ८३ ॥
अमेध्यानि दशैतानि मद्यानि ब्राह्मणस्य च ।
राजन्यश्चैव वैश्यश्च स्पृष्ट्वैतानि न दुष्यतः ॥ ८४ ॥
गुरोः प्रेतस्य शिष्यस्तु पितृमेधं समाचरन् ।
प्रेताहारैः समं तत्र दशरात्रेण शुध्यति ॥ ८५ ॥
आचार्यं स्वमुपाध्यायं पितरं मातरं गुरुम् ।
निर्हृत्य तु व्रती प्रेतान्न व्रतेन वियुज्यते ॥ ८६ ॥
आदिष्टी नोदकं कुर्यादा व्रतस्य समापनात् ।
समाप्ते तूदकं कृत्वा त्रिरात्रेणैव शुध्यति ॥ ८७ ॥
ज्ञानं तपोऽग्निराहारो मृन्मनो वार्युपाञ्जनम् ।
वायुः कर्मार्ककालौ च शुद्धिकर्तॄणि देहिनाम् ॥ ८८ ॥
सर्वेषामेव शौचानामन्नशौचं परं स्मृतम् ।
योऽन्ने शुचिः स हि शुचिर्न मृद्वारिशुचिः शुचिः॥८९॥
87. त्रिरात्रेण विशुध्यति C^(1, 2) v. See M. v, 88.
83. माधूकं मधूकपुष्पोद्भवम् ।... टाङ्कः कपित्थविशेषः... माध्वीकं मधूद्भवं
माध्वीव्यतिरिक्तम् । मैरेयं धातृपुष्पजं गुड़धान्याम्बुसहितमिति शब्दार्णवे
वाचस्पतिः ।... 84... स्पर्शः पानोपलक्षकः ।... 85... प्रेताहारैः प्रेतस-
पिण्डैः... 86... व्रती ब्रह्मचारी व्रतेन ब्रह्मचर्येण न वियुज्यते न भ्रश्यति ॥
87... आदिष्टी ब्रह्मचारी प्रक्रान्तप्रायश्चित्त इत्यन्ये ।... 88. ज्ञानमाध्या-
त्मिकं बुद्धेः शुद्धिहेतुः ।... आहारः पञ्चगव्यादीनाम् ।... कर्म संध्यादि अहो-
रात्रकृतपापस्य ।... 89... योऽन्ने शुचिः शुच्यन्नदः स शुचिः ।... अर्थशौच-
मिति पाठे ( See M. v, 106 ) ऽप्याहारशुद्ध्यर्थमेवार्थशौचापेक्षेति ।...
६८ ॥ विष्णुस्मृतौ २२ । २३ ॥
क्षान्त्या शुध्यन्ति विद्वांसो दानेनाकार्यकारिणः ।
प्रच्छन्नपापा जप्येन तपसा वेदवित्तमाः ॥ ९० ॥
मृत्तोयैः शोध्यते शोध्यं नदी वेगेन शुध्यति ।
रजसा स्त्री मनोदुष्टा संन्यासेन द्विजोत्तमाः ॥ ९१ ॥
अद्भिर्गात्राणि शुध्यन्ति मनः सत्येन शुध्यति ।
विद्यातपोभ्यां भूतात्मा बुद्धिर्ज्ञानेन शुध्यति ॥ ९२ ॥
एष शौचस्य ते प्रोक्तः शारीरस्य विनिश्चयः ।
नानाविधानां द्रव्याणां शुद्धेः शृणु विनिश्चयम् ॥ ९३ ॥ २२ ॥
शारीरैर्मलैः सुराभिर्मद्यैर्वा यदुपहतं तदत्यन्तोप-
हतम् । १ । अत्यन्तोपहतं सर्वं लोहभाण्डमग्नौ प्रक्षिप्तं
शुध्येत् । २ । मणिमयमश्ममयमब्जं च सप्तरात्रं मही-
निखनेन । ३ । शृङ्गदन्तास्थिमयं तक्षणेन । ४ । दारवं
XXIII, 4. ॰दंष्ट्रा॰ C^(1,2)v.
90. अकार्यं निषिद्धं तत्कारिणः ।... 91. शोध्यममेध्यादिलिप्तमङ्गम् ।
...द्विजोत्तमा ब्राह्मणाः ।... 92. गात्राणि शरीराणि लिप्तान्यद्भिः स्नानैः
शुध्यन्ति । मनः सदसत्संकल्पात्मकमसत्संकल्पादशुद्धं सत्येन सत्संकल्पेन
शुध्यति ।... विद्यातपोभ्यां ... शुद्धिः शरीराभिमानजन्यदुरितनिवृत्तिः ।
बुद्धिः संशयविपर्ययात्मका ज्ञानेन प्रमाणरूपेण... XXIII, 2. लो-
हानि सुवर्णरजतताम्रायस्त्रपुसीसकानि सप्तविधा धातवः सर्वशब्दा-
त्तद्विकाराः पित्तलादयश्च तन्मयं भाण्डम्... 3... अब्जं शङ्खशुक्त्यादि...
4. शृङ्गं खङ्गादीनां दन्तो गजादीनामस्थि कूर्मादीनाम्...
॥ विष्णुस्मृतौ २३ ॥ ६६
मृन्मयं च जह्यात् । ५ । अत्यन्तोपहतस्य वस्त्रस्य य-
त्प्रक्षालितं सद्विरज्यते तच्छिन्द्यात् । ६ । सौवर्णरजता-
ब्जमणिमयानां निर्लेपानामद्भिः शुद्धिः । ७ । अश्मम-
यानां चमसानां ग्रहाणां च । ८ । चरुस्रुक्स्रुवाणामु-
ष्णेनाम्भसा । ९ । यज्ञकर्मणि यज्ञपात्राणां पाणिना
संमार्जनेन । १० । स्फ्यशूर्पशकटमुसलोलूखलानां प्रो-
क्षणेन । ११ । शयनयानासनानां च । १२ । बहूनां
च । १३ । धान्याजिनरज्जुतान्तववैदलसूत्रकार्पासवास-
सां च । १४ । शाकमूलफलपुष्पाणां च । १५ । तृण-
काष्ठशुष्कपलाशानां च । १६ । एतेषां प्रक्षालनेन । १७ ।
अल्पानां च । १८ । ऊषैः कौशेयाविकयोः । १९ । अरि-
ष्टकैः कुतपानाम् । २० । श्रीफलैरंशुपट्टानाम् । २१ । गौर-
6. सद् om. C1.2v.
7. अल्पोपघातशुद्धिमाह ।... निर्लेपानामुच्छिष्टादिमात्रस्पृष्टे... 8...
तेषां निर्लेपानामद्भिरॆव शुद्धिः ।... 9. एतेषां चर्वादिलेपरहितानाम्...
10... कुशैर्दर्भापवित्रेण च... संमार्जनेन ।... 12. स्पर्शशुद्धिमाह ।...
एषां चाण्डालादिस्पर्शेऽपि प्रोक्षणेनैव शुद्धिः ॥ 14... वैदलं वेणुविदलंछतं
व्यजनादि ।... वासो नवमचिरयन्त्रनिर्मुक्तं क्षालनासहं कौसुम्भादिरक्तं
च ।... एतेषां बहूनामपि चाण्डालादिस्पर्शे प्रोक्षणेन शुद्धिः ।... 16...
शुष्कं गोमयपिण्डः । पलाशं पर्णं मधूकपलाशादेः । एतेषां चाण्डालादिस्पर्शे
ऽपि... 17. एतेषां शयनादीनां पलाशान्तानां विष्ठादिलिप्तानां प्रक्षाल्येन लेपा-
पनोदकेन द्रव्याविनाशेन च क्षालनेन शुद्धिः ।... 18. येषां धान्यवासःप्रभृ-
तीनां बहूनां स्पर्शे प्रोक्षणमुक्तं तेषामेवाल्पानां तत्रैव क्षालनेन शुद्धिः । नेदं
लेपशुद्धौ पूर्वसूत्रेणैव विधानात् ।... 21. अंशुपट्टाः वल्कलतन्तुनिर्मिताः...
७० ॥ विष्णुस्मृतौ २३ ॥
सर्षपैः क्षौमाणाम् ।२२। शृङ्गास्थिदन्तमयानां च । २३ ।
पद्माक्षैर्मृगलोमिकानाम् । २४ । ताम्ररीतित्रपुसीसम-
यानामम्लोदकेन । २५ । भस्मना कांस्यलोहयोः । २६ ।
तक्षणेन दारवाणाम् । २७ । गोवालैः फलसंभवानाम् ।
। २८ । प्रोक्षणेन संहतानाम् । २९ । उत्पवनेन द्रवा-
णाम् । ३० । गुडादीनामिक्षुविकाराणां प्रभूतानां गृह-
निहितानां वार्यभिदानेन । ३१ । सर्वलवणानां च । ३२ ।
पुनःपाकेन मृन्मयानाम् । ३३ । द्रव्यवत्कृतशौचानां
देवतार्चानां भूयःप्रतिष्ठापनेन । ३४ । असिद्धस्यान्नस्य
यन्मात्रमुपहृतं तन्मात्रं परित्यज्य शेषस्य कण्डनप्रक्षा-
लने कुर्यात् । ३५ । द्रोणाभ्यधिकं सिद्धमन्नमुपहतं न
दुष्यति । ३६ । तस्योपहतमात्रमपास्य गायत्र्याभिम-
35. यावन्मात्रम् C¹, ². 36. द्रोणाधिकं V¹, ²; द्रोणाद्यधिकं C¹, ².
24. मृगलोमिकानि मृगलोमोद्भवानि राङ्कवादीनि ।... 28. फलानि
नारिकेलालाबुबिल्वादीनि तत्संभवानां पात्राणां गोवालैर्गोपुच्छकेशैर्घर्षणेन
शुद्धिः ।... 30. कीटाद्युपहतौ शुद्धिमाह । ...द्रवाणां घृततैलदुग्धा-
दीनाम् ।... 31... प्रभूतानां द्रोणाधिकानाम् ...वारिदानं प्रोक्षणं
तत्पूर्वकप्रक्षालनं पर्याप्तिदर्शकम् ।... 32. सर्वेषां शाम्भरसामुद्रसैन्धवसौव-
र्चलादीनां लवणानां कीटाद्युपहतौ... 33. पुनर्पाकशुद्धिमाह ।... 34.
देवतार्चा देवप्रतिमास्तासाममेध्यादिलेपे यद्द्रव्या तन्मूर्त्तिस्तत्तच्छुद्धिविहितै-
र्द्रव्यैस्तत्तद्द्रव्योक्तशुद्धीनां पुनःप्राणप्रतिष्ठया शुद्धिः पूज्यत्वम् । ...सुवर्णा-
दिधातुप्रतिमानां सुवर्णवदेव शुद्धिः ।... 36... श्वाकाकाद्युपहतमन्नं न
दुष्यति न त्यज्यते ।...द्रोणवचनान्न्यूनस्य त्यागः ।...
॥ विष्णुस्मृतौ २३ ॥ ७१
न्वितं सुवर्णाम्भः प्रक्षिपेत्। बस्तस्य प्रदर्शयेदग्नेश्च । ३७।
पक्षिजग्धं गवा घ्रातमवधूतमवक्षुतम् ।
दूषितं केशकीटैश्च मृत्प्रक्षेपेण शुध्यति ॥ ३८ ॥
यावन्नापैत्यमेध्याक्ताद्गन्धो लेपश्च तत्कृतः ।
तावन्मृद्वारि देयं स्यात्सर्वासु द्रव्यशुद्धिषु ॥ ३९ ॥
अजाश्वं मुखतो मेध्यं न गौर्न नरजा मलाः ।
पन्थानश्च विशुध्यन्ति सोमसूर्यांशुमारुतैः ॥ ४० ॥
रथ्याकर्दमतोयानि स्पृष्टान्यन्त्यश्ववायसैः ।
मारुतेनैव शुध्यन्ति पक्केष्टकचितानि च ॥ ४१ ॥
प्राणिनामथ सर्वेषां मृद्भिरद्भिश्च कारयेत् ।
अत्यन्तोपहतानां च शौचं नित्यमतन्द्रितः ॥ ४२ ॥
भूमिष्ठमुदकं पुण्यं वैतृष्ण्यं यत्र गोर्भवेत् ।
अव्याप्तं चेदमेध्येन तद्वदेव शिलागतम् ॥ ४३ ॥
मृतपञ्चनखात्कूपादत्यन्तोपहतात्तथा ।
आपः समुद्धरेत्सर्वाः शेषं वस्त्रेण शोधयेत् ॥ ४४ ॥
37. वत्तस्य च प्रदर्शयेदग्नेः । C¹². 38. मृदः क्षेपेण C¹²v. 44.
om. C¹²v.
37... हेमाम्भः प्रक्षिपेत्... अजोऽश्वोपलक्षणम् ( See ४०) ।... 38.
पक्षिभिः स्पृष्टाः.... भक्ष्याश्च... केशैर्मनुष्यैः.... 42... प्राणिनां मनुष्या-
णाम्... कारयेदुपदिशेदाचार्यः ॥ 43. अमेध्येन केशादिना... अव्याप्त-
मत्यन्तसंपर्करहितम्... यत्र गोरेकस्या वैतृष्ण्यं भवेदवशिष्येच्च तत्। ...
शिलागतं पर्वतादिशिरोभवम्। ... 44. मृताः शीर्णाः पञ्चनखा मनुष्या-
दयोऽभक्ष्या यस्मिन् ।... शेषमपां वस्त्रेण शोधयेदपनयेत् ।...
७२ ॥ विष्णुस्मृतौ २३ ॥
वह्निप्रज्वालनं कुर्यात्कूपे पक्वेष्टकाचिते ।
पञ्चगव्यं न्यसेत्पश्चान्नवतोयसमुद्भवे ॥ ४५ ॥
जलाशयेष्वथल्पेषु स्थावरेषु वसुंधरे ।
कूपवत्कथिता शुद्धिर्महत्सु च न दूषणम् ॥ ४६ ॥
त्रीणि देवाः पवित्राणि ब्राह्मणानामकल्पयन् ।
अदृष्टमद्भिर्निर्णिक्तं यच्च वाचा प्रशस्यते ॥ ४७ ॥
नित्यं शुद्धः कारुहस्तः पण्यं यच्च प्रसारितम् ।
ब्राह्मणान्तरितं भैक्षमाकराः सर्व एव च ॥ ४८ ॥
नित्यमास्यं शुचि स्त्रीणां शकुनिः फलपातने ।
प्रस्रवे च शुचिर्वत्सः श्वा मृगग्रहणे शुचिः ॥ ४९ ॥
श्वभिर्हतस्य यन्मांसं शुचि तत्परिकीर्तितम् ।
क्रव्याद्भिः श्वहतस्यान्यैश्चण्डालाद्यैश्च दस्युभिः ॥ ५० ॥
45... इ
An accurate, line-by-line transcription of the Sanskrit text from the page (Vishnu Smriti, Chapter 23, verses 51–58 and footnotes):
॥ विष्णुस्मृतौ २३ ॥ ७३
ऊर्ध्वं नाभेर्यानि खानि तानि मेध्यानि निर्दिशेत् ।
यान्यधस्तान्यमेध्यानि देहाच्चैव मलाश्च्युताः ॥ ५१ ॥
मक्षिका विप्रुषश्छाया गौर्जाश्वमरीचयः ।
रजो भूर्वायुरग्निश्च मार्जारश्च सदा शुचिः ॥ ५२ ॥
नोच्छिष्टं कुर्वते मुख्या विप्रुषोऽङ्गे पतन्ति याः ।
न श्मश्रूणि गतान्यास्यं न दन्तान्तरवेष्टितम् ॥ ५३ ॥
स्पृशन्ति विन्दवः पादौ य आचामयतः परान् ।
भौमिकैस्ते समा ज्ञेया न तैरप्रयतो भवेत् ॥ ५४ ॥
उच्छिष्टेन तु संस्पृष्टो द्रव्यहस्तः कथंचन ।
अनिधायैव तद्द्रव्यमाचान्तः शुचितामियात् ॥ ५५ ॥
मार्जनोपाञ्जनै
७४ ॥ विष्णुस्मृतौ २३ ॥ २४ ॥
षडङ्गमेतत्परमं मङ्गल्यं सर्वदा गवाम् ।
शृङ्गोदकं गवां पुण्यं सर्वाघविनिसूदनम् ॥ ५९ ॥
गवां कण्डूयनं चैव सर्वकल्मषनाशनम् ।
गवां ग्रासप्रदानेन स्वर्गलोके महीयते ॥ ६० ॥
गवां हि तीर्थे वसतीह गङ्गा
पुष्टिस्तथासां रजसि प्रवृत्ता ।
लक्ष्मीः करीषे प्रणतौ च धर्म-
स्तासां प्रणामं सततं च कुर्यात् ॥ ६१ ॥ २३ ॥
अथ ब्राह्मणस्य वर्णानुक्रमेण चतस्रो भार्या भवन्ति
। १ । तिस्रः क्षत्रियस्य । २ । द्वे वैश्यस्य । ३ । एका
शूद्रस्य । ४ । तासां सवर्णवेदने पाणिर्ग्राह्यः । ५ । अस-
वर्णवेदने शरः क्षत्रियकन्यया । ६ । प्रतोदो वैश्य-
कन्यया । ७ । वसनदशान्तः शूद्रकन्यया । ८ । न
सगोत्रां न समानार्षप्रवरां भार्यां विन्देत । ९ । मातृ-
61. तथा सा C¹'²; तथा v. प्रवृद्धा V¹ C¹'²v. XXIV, 9.
विन्देता V¹⁻³; विन्देत् C¹'²v.
59... गोशृङ्गोदकेन स्नानं मार्जनं च पुण्यं पुण्यजननम् ।... 61. तीर्थे
गोमूत्रे...रजसि खुरोद्धूते... XXIV, 9. गोत्रमगस्त्याद्यष्टर्षिपर्यन्तं
तत्समानमेकवंशप्रवर्तकं यस्य यस्याश्च सा सगोत्रा ।... न समानार्षेति
भृगोरङ्गिरसश्च यद्वंशकरमपत्यं जमदग्निगौतमभरद्वाजव्यतिरिक्तमाद्ये द्वे या-
मुद्गलादि तदार्षं समानमार्षमुक्त्तरीत्या यस्याः सा समानार्षा । न त्वेवं
गोत्रार्षभेदेऽपि प्रवरैक्ये विवाहः स्यादित्यत आह ।... प्रवरास्तत्तद्वंशेषु
मन्त्रकृतो मन्त्रदृशो वा ऋषयः ।... 10... पृथगयं निषेधः...
॥ विष्णुस्मृतौ २४ ॥ ७५
त्यक्त्वा पञ्चमातृपुरुषात्पितृतश्चासप्तमात् । १० । नाकु-
लीनाम् । ११ । न च व्याधिताम् । १२ । नाधिका-
ङ्गीम् । १३ । न हीनाङ्गीम् । १४ । नातिकपिलाम्
। १५ । न वाचाटाम् । १६ । अथाष्टौ विवाहा भवन्ति
। १७ । ब्राह्मो दैव आर्षः प्राजापत्यो गान्धर्व आसुरो
राक्षसः पैशाचश्चेति । १८ । आहूय गुणवते कन्या-
दानं ब्राह्मः । १९ । यज्ञस्थऋत्विजे दैवः । २० । गो-
मिथुनग्रहणेनार्षः । २१ । प्रार्थितप्रदानेन प्राजापत्यः
। २२ । द्वयोः सकामयोर्मातांपितृरहितो योगो गा-
न्धर्वः । २३ । क्रयेणासुरः । २४ । युद्धहरणेन राक्षसः । २५ ।
सुप्तप्रमत्ताभिगमनात्पैशाचः । २६ । एतेषामाद्याश्चत्वारो
धर्म्याः । २७ । गान्धर्वोऽपि राजन्यानाम् । २८ । ब्रा-
ह्मोपुत्रः पुरुषानेकविंशतिं पुनीते । २९ । दैवीपुत्रश्चतु-
र्दशः । ३० । आर्षीपुत्रश्च सप्त । ३१ । प्राजापत्यश्चतुरः । ३२ ।
३२. प्राजापत्यीपुत्र० V.
11. कर्षकराजसेवकादीनां कुलमकुलम्... 13. अधिकाङ्गमङ्गुल्या-
दिकं यस्यास्तां न ॥ 23. द्वयोः कन्यावरयोः सकामयोरन्योन्यानुरक्तयो-
र्मातापितृभ्यां रहितोऽननुज्ञातो योगः... 26... प्रमत्ता मदातिशयेन
नष्टचेतना तस्या अभिगमनं मैथुनं तस्मात्पैशाचः । सु० इति मनुस्मरणात्
(III, 34) असंविज्ञातोपसंगमनात्पैशाच इति गौतमस्मरणाच्च (IV,
13) ।... 29. ब्राह्मोढापुत्रो दशावरान्दश परान्दातारं चैकविंशं
पुनाति वक्ष्यमाणश्लोकाहरान्नरोति ।... 32. प्राजापत्येभवः प्राजापत्यः...
७६ ॥ विष्णुस्मृतौ २४ ॥ २५ ॥
ब्राह्मेण विवाहेन कन्यां दद्ब्रह्मलोकं गमयति । ३३ ।
दैवेन स्वर्गम् । ३४ । आर्षेण वैष्णवम् । ३५ । प्राजा-
पत्येन देवलोकम् । ३६ । गान्धर्वेण गन्धर्वलोकं गच्छ-
ति । ३७ । पिता पितामहो भ्राता सकुल्यो माता-
महो माता चेति कन्याप्रदाः । ३८ । पूर्वाभावे
प्रकृतिस्थः परः पर इति । ३९ ।
ऋतुत्रयमुपास्यैव कन्या कुर्यात्स्वयं वरम् ।
ऋतुत्रये व्यतीते तु प्रभवत्यात्मनः सदा ॥ ४० ॥
पितृवेश्मनि या कन्या रजः पश्यत्यसंस्कृता ।
सा कन्या वृषली ज्ञेया हरंस्तां न विदुष्यति ॥ ४१ ॥ २४ ॥
अथ स्त्रीणां धर्माः । १ । भर्तुः समानव्रतचारित्वम्
। २ । श्वश्रूश्वशुरगुरुदेवतातिथिपूजनम् । ३ । सुसंस्कृ-
33-37 om. v. 35 om. C^{1,2}. 39. परः परः। C^{1,2}.
41. विदुष्यति all. XXV, 3. ॰देवपादवन्दनादिनातिथि॰ V^{1-3}.
पादवन्दनादिना from the C.
33... ब्रह्मलोकं गमयति स्वयं च गच्छति... 37. गान्धर्वेण कन्यां
दद्गन्धर्वलोकं स्वयमेव गच्छति ।... 41... सा वृषली तद्भर्तुः पातको
राजदण्डो वा नास्ति ।... XXV, 2. भर्तुर्व्रतेन भर्तृसंकल्पेन समान-
व्रतचारिणी समानसंकल्पा भवेत् । भर्तृसंकल्पानुसारशीला स्यादित्यर्थः ।...
3... गुरुज्येष्ठादिः ।... तेषां पूजां पादवन्दनादिना कुर्यात् ।...
॥ विष्णुस्मृतौ २५ ॥ २६ ॥ ७७
तोपस्करता । ४ । अमुक्तहस्तता । ५ । सुगुप्तभाण्डता
। ६ । मूलक्रियास्वनभिरतिः । ७ । मङ्गलाचारतत्पर-
ता । ८ । भर्तरि प्रवसितेऽप्रतिकर्मक्रिया । ९ । परगृहे-
ष्ष्वनभिगमनम् । १० । द्वारदेशगवाक्षेष्वनवस्थानम् । ११ ।
सर्वकर्मस्वस्वतन्त्रता । १२ । बाल्ययौवनवार्धक्येष्वपि
पितृभर्तृपुत्राधीनता । १३ । मृते भर्तरि ब्रह्मचर्यं तद-
न्वारोहणं वा । १४ ।
नास्ति स्त्रीणां पृथग्यज्ञो न व्रतं नाप्युपोषितम् ।
पतिं शुश्रूषते यत्तु तेन स्वर्गे महीयते ॥ १५ ॥
पत्यौ जीवति या योषिदुपवासव्रतं चरेत् ।
आयुः सा हरते भर्तुर्नरकं चैव गच्छति ॥ १६ ॥
मृते भर्तरि साध्वी स्त्री ब्रह्मचर्ये व्यवस्थिता ।
स्वर्गं गच्छत्यपुत्रापि यथा ते ब्रह्मचारिणः ॥ १७ ॥ २५ ॥
सवर्णासु बहुभार्यासु विद्यमानासु ज्येष्ठया सह धर्म-
- उपोषणम् C1,2v. See M. v, 155.
4... उपस्कराः शूर्पादयः ।... 6...भाण्डानि गृहोपकरणानि मुस-
लोलूखलादीनि ।... 7. मूलक्रिया वशीकरणादिकार्य्याणि ।... 9. प्रति-
कर्मालंकरणं क्रिया क्रीडादिश्च... 10. भर्तरि प्रवसिते परेषां पितृ-
श्वशुरभ्रातृमातुलादिव्यतिरिक्तानां गृहेष्वनभिगमनमगमनाभावः ।... 11.
द्वारदेशो द्वारचत्वरः ।... 16. या... स्वातंत्र्यणोपवासश्च व्रतं च तयोः
समाहारस्तं कुर्यात् ।... 17... यथा ते नैष्ठिकब्रह्मचारिणः ।...
अध्याय ११-३० (वर्णाश्रम धर्म, संस्कार, विवाह एवं साक्षी-प्रमाण)
७८ ॥ विष्णुस्मृतौ २६ ॥ २७ ॥
कार्यं कुर्यात् । १ । मिश्रासु च कनिष्ठयापि समान-
वर्णया । २ । समानवर्णाया अभावे त्वनन्तरयैवापदि
च । ३ । न त्वेव द्विजः शूद्रया । ४ ।
द्विजस्य भार्या शूद्रा तु धर्मार्थं न भवेत्क्वचित् ।
रत्यर्थमेव सा तस्य रागान्धस्य प्रकीर्तिता ॥ ५ ॥
हीनजातिस्त्रियं मोहादुद्वहन्तो द्विजातयः ।
कुलान्येव नयन्त्याशु ससंतानानि शूद्रताम् ॥ ६ ॥
दैवपित्र्यातिथेयानि तत्प्रधानानि यस्य तु ।
नाश्नन्ति पितृदेवास्तु न च स्वर्गं स गच्छति ॥ ७ ॥ २६ ॥
गर्भस्य स्पष्टताज्ञाने निषेककर्म । १ । स्पन्दनात्पुरा
पुंसवनम् । २ । षष्ठेऽष्टमे सीमन्तोन्नयनम् । ३ । जाते
च दारके जातकर्म । ४ । आशौचव्यपगमे नामधेयम् ।
XXVI, 3. समानवर्णाभावे C¹·². च om. V¹⁻⁴v. See the C.
7. नादन्ति C¹·²v. See M. III, 18. XXVII, 3. ऽष्टमे वा C¹·².
वा from the C. V¹⁻³ place 5—12 between 20 and 21.
XXVI, 3. सवर्णाभावे आपदि च सवर्णाप्रतीक्षणे प्रधानबाधप्रसङ्गे
चानन्तरयैव विप्रस्य क्षत्रियैव क्षत्रियस्य वैश्यैव नैकान्तरा द्व्यन्तरा च ॥
4. विप्रस्यैकान्तराभ्यनुज्ञायायाह ।... 7... पितृदेवा बहुवचनादतिथ-
यश्च... XXVII, 1. गर्भो ऋतुः ।...तस्य स्पष्टतां प्रादुर्भावं ज्ञात्वा ।
निषेको गर्भादानाख्यं कर्म कार्यम् ।... इदं च क्षेत्रसंस्कारत्वात्सकृत्कर्तव्यम् ।
अथ ऋतुमत्याः प्राजापत्यमृतौ प्रथम इति परिशिष्टात् ।... 3... षष्ठे
ऽष्टमे वा मासि... यथाकुलधर्मं विकल्पः ।...
॥ विष्णुस्मृतौ २७ ॥ ७६
। ५ । माङ्गल्यं ब्राह्मणस्य । ६ । बलवत्क्षत्रियस्य । ७ ।
धनोपेतं वैश्यस्य । ८ । जुगुप्सितं शूद्रस्य । ९ । चतुर्थे
मास्यादित्यदर्शनम् । १० । षष्ठेऽन्नप्राशनम् । ११ ।
तृतीयेऽब्दे चूडाकरणम् । १२ । एता एव क्रियाः
स्त्रीणाममन्त्रकाः । १३ । तासां समन्त्रको विवाहः । १४।
गर्भाष्टमेऽब्दे ब्राह्मणस्योपनयनम् । १५ । गर्भेकादशे
राज्ञः । १६ । गर्भद्वादशे विशः । १७ । तेषां मुञ्जज्या-
वल्वजमयो मौञ्ज्यः । १८ । कार्पासशणाविकान्युपवी-
तानि वासांसि च । १९ । मार्गवैयाघ्रवास्तानि चर्माणि
। २० । पालाशखादिरौदुम्बरा दण्डाः । २१ । केशान्त-
ललाटनासादेशतुल्याः । २२ । सर्व एव वा । २३ ।
अकुटिलाः सत्वचश्च । २४ । भवदाद्यं भवन्मध्यं भवदन्तं
च भैक्षचरणम् । २५ ।
आ षोडशाद्ब्राह्मणस्य, सावित्री नातिवर्तते ।
आ द्वाविंशात्क्षत्रबन्धोराचतुर्विंशतेर्विशः ॥ २६ ॥
अत ऊर्ध्वं त्रयोऽप्येते यथाकालमसंस्कृताः ।
24 om. C^{l, 2}. 25. तदन्तं च V^s.
10... जन्मतश्चतुर्थे मासि... 13... एता एव जातकर्मादिकाः
क्रियाः स्त्रीणां कन्यानाम्... 15... गर्भाष्टमं जन्माष्टमप्यनुकल्पम् ।...
23. सर्वेषां सर्व एव वा दण्डा भवन्ति ।... 25. आदिमध्यावसानेषु
भवच्छब्दो भैक्षचरणे क्रमेण योज्यः ॥