सामग्री पर जाएँ
सर्वकोश
विष्णु स्मृति (वैष्णव धर्मशास्त्र - नन्दपण्डित कृत वैजयन्ती टीका सहित सटीक)

विष्णु स्मृति (वैष्णव धर्मशास्त्र - नन्दपण्डित कृत वैजयन्ती टीका सहित सटीक)

Vishnu Smriti with Vaijayanti Commentary of Nanda Pandita

महर्षि विष्णु (टीकाकार: नन्दपण्डित, सम्पादक: जूलियस जॉली) द्वारा

DevanagariSanskritpublished392 पृष्ठ

पृष्ठ 64, कुल 392 में से

संदर्भ में पढ़ें
पृष्ठ 64

itized by eGangotri/Sarayu Trust. Funding IKS-MoE-Grant-2 Equipment Heritage Foundation, Jalga
५६ ॥ विष्णुस्मृतौ २० ॥
सुकृतं दुष्कृतं चोभौ सहायौ यस्य गच्छतः ।
बान्धवैस्तस्य किं कार्यं शोचद्भिरथवा न वा ॥ ३१ ॥
बान्धवानामशौचे तु स्थितिं प्रेतो न विन्दति ।
अतस्त्वभ्येति तानेव पिण्डतोयप्रदायिनः ॥ ३२ ॥
अर्वाक्सपिण्डीकरणात्प्रेतो भवति यो मृतः ।
प्रेतलोकगतस्यान्नं सोदकुम्भं प्रयच्छत ॥ ३३ ॥
पितृलोकगतस्यान्नं श्राद्धे भुङ्क्ते स्वधासमम् ।
पितृलोकगतस्यास्य तस्माच्छ्राद्धं प्रयच्छत ॥ ३४ ॥
देवत्वे यातनास्थाने तिर्यग्योनौ तथैव च ।
मानुष्ये च तथाप्नोति श्राद्धं दत्तं स्वबान्धवैः ॥ ३५ ॥
प्रेतस्य श्राद्धकर्तुश्च पुष्टिः श्राद्धे कृते ध्रुवम् ।
तस्माच्छ्राद्धं सदा कार्यं शोकं त्यक्त्वा निरर्थकम् ॥ ३६ ॥
एतावदेव कर्तव्यं सदा प्रेतस्य बन्धुभिः ।
नापकुर्यान्नरः शोचन्प्रेत्यात्मान एव वा ॥ ३७ ॥
34. स्वधामयम् । C1,2; समंचवाम् v. 37. शोकात् C1,2.
32. ...पिण्डतोयप्रदायिनो बान्धवानेव... 33. वक्ष्यमाणेषु सपिण्डी-
करणात्कालेषु यावत्सपिण्डीकरणं भवति तावन्मृतो जन्तुः प्रेतः क्षुत्तृष्णाजनित-
दुःखानुभववान्भवति । 34. ...श्राद्धे पार्वणादौ पुत्रादिदत्तमन्नपानादि
स्वधया पितृभोग्येनामृतविशेषेण समं तुल्यं भुङ्क्ते ।... 37. शोकेन श्राद्धम्
अकुर्वन्... प्रतिकूलं कुर्यात्... एतावत्पूर्वोक्तं श्राद्धादि...
CC-0. In Public Domain Sri Aurobindo Library, Pondicherry