विष्णु स्मृति (वैष्णव धर्मशास्त्र - नन्दपण्डित कृत वैजयन्ती टीका सहित सटीक)

विष्णु स्मृति (वैष्णव धर्मशास्त्र - नन्दपण्डित कृत वैजयन्ती टीका सहित सटीक)
Vishnu Smriti with Vaijayanti Commentary of Nanda Pandita
महर्षि विष्णु (टीकाकार: नन्दपण्डित, सम्पादक: जूलियस जॉली) द्वारा
DevanagariSanskritpublished392 पृष्ठ
पृष्ठ 51, कुल 392 में से
संदर्भ में पढ़ेंपृष्ठ 51॥ विष्णुस्मृतौ १५ ॥ ४६
XV, 3. चोत्पादितः V¹⁻⁴. 5. यस्त्वस्याः V⁴v. 6. पुत्रिका-
॥ विष्णुस्मृतौ १५ ॥ ४६
अथ द्वादश पुत्रा भवन्ति । १ । स्वे क्षेत्रे संस्कृतायामु-
त्पादितः स्वयमौरसः प्रथमः । २ । नियुक्तायां सपिण्डे-
नोत्तमवर्णेन वोत्पादितः क्षेत्रजो द्वितीयः । ३ । पुत्रिका-
पुत्रस्तृतीयः । ४ । यस्तस्याः पुत्रः स मे पुत्रो भवेदिति
या पित्रा दत्ता सा पुत्रिका । ५ । पुत्रिकाविधिनाप्रति-
पादितापि भ्रातृविहीना पुत्रिकैव । ६ । पौनर्भवश्च-
तुर्थः । ७ । अक्षता भूयः संस्कृता पुनर्भूः । ८ । भूय-
स्त्वसंस्कृतापि परपूर्वा । ९ । कानीनः पञ्चमः । १० ।
पितृगृहेऽसंस्कृतयैवोत्पादितः । ११ । स च पाणिग्राह-
स्य । १२ । गृहे च गूढोत्पन्नः षष्ठः । १३ । यस्य तल्प-
जस्तस्यासौ । १४ । सहोढः सप्तमः । १५ । या गर्भिणी
संस्क्रियते तस्याः पुत्रः । १६ । स च पाणिग्राहस्य । १७ ।
XV, 3. चोत्पादितः V¹⁻⁴. 5. यस्त्वस्याः V⁴v. 6. पुत्रिका-
विधिना प्रतिपादिता पितृभ्रातृविहीना C¹'²; पु० प्रतिपादितापि पितृ-
भ्रातृविहीना V.
XV, 3. ... भार्यायां ... पुत्रोत्पत्त्यर्थं गुरुभिर्नियुक्तायां गुर्वनुज्ञातेनैव
देवरेण कनिष्ठेन ज्येष्ठेन वा भर्तुर्भ्रात्रा तदभावे सपिण्डेन तस्याप्यभावे
सगोत्रेण तस्याप्यभावे समानप्रवरेण तस्याप्यभावे उत्तमवर्णेन ब्राह्मणेन
वोत्पादितः ।... 9. या तु संस्कारात्प्रागेव परपूर्वा परोपभुक्ता सा यद्यपि
भूयो न संस्क्रियते क्रियमाणसंस्कारस्यैव प्रथमत्वात्तथापि पुनर्भूर्भवति पुन-
र्मिथुनीभवनात् ।... स्वैरिण्याः पुनःसंस्कारश्चोपपादितोऽस्माभिः सविस्तरं
मिताक्षराटीकायां प्रतीताक्षरायामिति नेहोच्यते ॥