विष्णु स्मृति (वैष्णव धर्मशास्त्र - नन्दपण्डित कृत वैजयन्ती टीका सहित सटीक)
Vishnu Smriti with Vaijayanti Commentary of Nanda Pandita
महर्षि विष्णु (टीकाकार: नन्दपण्डित, सम्पादक: जूलियस जॉली) द्वारा
पृष्ठ 65, कुल 392 में से
संदर्भ में पढ़ें॥ विष्णुस्मृतौ २० ॥ ५७
दृष्ट्वा लोकमनाकन्दं म्रियमाणांश्च बान्धवान् ।
धर्ममेकं सहायार्थं वरयध्वं सदा नराः ॥ ३८ ॥
मृतोऽपि बान्धवः शक्तो नानुगन्तुं नरं मृतम् ।
जायावर्जं हि सर्वस्य याम्यः पन्था विरुध्यते ॥ ३९ ॥
धर्म एकोऽनुयात्येनं यत्र क्वचनगामिनम् ।
नन्वसारे नृलोकेऽस्मिन्धर्मं कुरुत माचिरम् ॥ ४० ॥
श्वः कार्यमद्य कुर्वीत पूर्वाह्ने चापराह्निकम् ।
न हि प्रतीक्षते मृत्युः कृतं वास्य न वाकृतम् ॥ ४१ ॥
क्षेत्रे वापि गृहे सक्तमन्यत्रगतमानसम् ।
वृकीवोरणमासाद्य मृत्युरादाय गच्छति ॥ ४२ ॥
न कालस्य प्रियः कश्चिद्द्वेष्यश्चास्य न विद्यते ।
आयुष्ये कर्मणि क्षीणे प्रसह्य हरते जनम् ॥ ४३ ॥
नाप्राप्तकालो म्रियते विद्धः शरशतैरपि ।
कुशाग्रेणापि संस्पृष्टः प्राप्तकालो न जीवति ॥ ४४ ॥
38. आक्रन्दः पृष्ठरक्षकः मृतस्य लोके पश्चात्क्रियानुष्ठानेनोपकर्ता तद्र-
हितोऽयं लोको यतः प्रतिदिनं म्रियमाणा एव बान्धवा दृश्यन्ते अतः
स्वस्यासहायतां ज्ञात्वा इहामुत्र च सहायार्थं धर्ममेवेकं भो नराः सदा
वरयध्वम् ॥ 39. सह मृतानामपि ...क्व सहायोपयोगः ... । जायायाः
प्रत्येकशरीरत्वेन... व्यालग्राही यथा व्यालं बलादुद्धरते बिलात् । तद्वदुद्धृत्य
सा नारीत्याद्युपकारश्रवणाच्च तां विनान्यस्य सर्वस्यापि यमलोकमार्गेऽनु-
मरणं विरुद्धमेव ।... 42...गृहे चेदं कृतमिदमकृतमित्यादि... अन्यत्र
पुत्रदुहित्राद्युपनयनविवाहादौ गतमानसम् ... 43... तस्य प्रियः प्राप्ते
काले रक्षणीयो द्वेष्यश्चाप्राप्ते काले मारणीयो वा नास्ति ।
8