सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

'? No, 'त्प्र': त् + प्र!
Yes, the त् is attached to प्र!
Wait! "विश्वोदृश्वत्प्रशंसो"? No, what words mean "whose praise is seen/heard/shining in the universe"?
"विश्वोद्दृश्व..."? दृश्वन् (dṛśvan) means "one who has seen". "विश्वदृश्वा" = all-seeing.
Wait! What about "विश्वोच्छ्वसत्प्रशंसो"?
Look at the characters:
वि (vi)
श्वो (śvo)
Wait, is the second letter 'श्वो'?
It has: व + ो = वो? No, it has श + व + ो = श्वो.
Next: द् or च्?
Then: ब or व or छ?
Wait! Look at the letter in L15:
वि श्बो (विश्वो) द् व श्व त् (or द्वच्छत्?)
Wait, could it be:
विश्वोद्वश्वत् ? No, that's not a word.
Could it be: विश्वोद्वत्प्रशंसो? No, there is an extra letter.
Wait, let's look at the letter:
द with a hook: 'द्'?
Then: 'व' or 'ध'?
Then: 'श्व' or 'न्व'?
Wait, let's look at:
वि (1) श्वो (2) द्ध (3) श्व (4)...
Wait, what if it

वंशवर्णनम् । ७
दाक्षिण्यं क्षितिरक्षणावधि हरौ भक्तिश्च जीवावधि
व्यालुप्तावधि वीरविक्रमरवेः श्रेयः परं वर्द्धते ॥ ३८ ॥
हेमाद्रेः श्रियमन्यथैव कुरुते चक्रे च गौरीं तनुं
कैलासोपरि शोभते पटयति स्पष्टं च दिङ्मण्डलम् ॥
भोगीन्द्रं न दधे श्रुतौ बत जटागूढां च गङ्गां व्यधा-
ल्लोकानाभयमीश्वरोऽस्य यशसस्त्वैश्वर्यमुज्जृम्भते ॥३९॥
श्रीगोपाचलमौलिमण्डलमणिः श्रीदूरवारान्वये
श्रीहंसोदयहंसपण्डित इति ख्यातो द्विजाधीश्वरः ॥
यं लक्ष्मीश्च सरस्वती च विगतद्वन्द्वं चिरं भेजतु-
र्भोक्तारं रभसात्समानमुभयोः साम्राज्यमाढ्यं गुणैः ॥४०॥
षड् दिक्षु विदिक्षु कुर्वतीनां नटलीलां स्फुटकीर्त्तिनर्त्तकीनाम्॥
स्फुरदध्वरधूमधोरणीह च्युतवेणीति जनैरमानि यस्य ॥४१॥
ततोऽनल इवारणेरतुलधामभूर्भूभुजां
शिरोमणिरहोमणिर्धराणिनामवामभ्रुवः ॥
रणी बहुगुणी धनी भुवि वनीपकश्रीखनी
रमारमणमिश्रणी परशुराममिश्रोऽजनि ॥ ४२ ॥
येनागत्य पुरा पुरारिनगरे विद्याऽनवद्यार्जिता
श्रीचण्डीश्वरमग्निहोत्रितिलकं लब्ध्वा गरीयोगुरुम् ॥
शुद्धा सैव महोद्यमेन बहुधा भान्ती भवन्ती स्थिरा
तद्वंश्येषु कियन्न कल्पलतिकेवाद्यापि सूते फलम् ॥ ४३ ॥
आस्यारविन्दमनुपास्य गुरोरपास्य
लास्यं चतुर्मुखमुखेषु सरस्वतीह ॥
सालङ्कृतिश्च सरसा च गुणान्विता च
यस्यातनोति रसनोपरि ताण्डवानि ॥ ४४ ॥
अङ्के लोमलतेव सीमनि दृशोरेकेव रेखाञ्जनी

वीरमित्रोदयस्य राजनीतिप्रकाशे
कस्तूरीमकरीव भालफलके धारेव मूर्द्धन्यालकी ॥
ऊर्द्धं भृङ्गपरम्परेव कबरी सौरभ्यलोभाकुला
यस्यैवाध्वरधूमधोरणिरभूदाशाकुरङ्गीदृशः ॥ ४५ ॥
सुभासुरयशोनिधेः सुनिरवद्यविद्यानिधेः
सुचारुकवितानिधेः स्मृतिनिधेः श्रुतिश्रीनिधेः ॥
अयं सुकृतगौरवात्परशुराममिश्राद्गुणै-
रनूनगरिमा पितुर्जगति मित्रमिश्रोऽजनि ॥ ४६ ॥
धर्मार्थैकनिकेतनं विधिमयं कर्मावनीदर्शनं
स्मृत्यम्भोजमहोदयं श्रुतिमयं श्रीवीरमित्रोदयम् ॥
द्राक्सिद्धीकृतकार्यसिद्धिशतया श्रीवीरसिंहाज्ञया
तेने विश्वमुदे पुरे पुरभिदः श्रीमिश्र मित्रमिश्रः कृती ॥ ४७ ॥
आज्ञप्तो वीरसिंहक्षितिपतितिलकेनादरान्मित्रमिश्रः
श्रद्धावान् ख्यातकीर्त्तिर्विविधबुधजनग्रामसन्तोषकारी ॥
प्राचां वाचां प्रपञ्चैः परिकलितमहाराजधर्मादवान्तः-
सारं निष्कृष्य बुद्ध्या रचयति रुचिरं राजनीतिप्रकाशम् ॥४८॥
राजनीतिप्रकाशे प्राग्राजशब्दार्थनिर्णयः ।
राजप्रशंसा तदनु प्रोक्ता श्रोत्रसुखावहा ॥
राज्याभिषेके कालश्च निषिद्धो विहितस्तथा ।
राज्याधिकारी तत्पश्चादभिषेकविधिः स्मृतः ॥
ऐन्द्री शान्तिः प्रयोगश्च अभिषेकस्य कीर्त्तितः ।
अथाभिषेकमन्त्रेण प्रतिपाद्यैस्तु दैवतैः ॥
कीर्त्तितैर्लभ्यते यत्तु फलं तदनुकीर्त्तितम् ।
ऐतरेयब्राह्मणोक्तं राज्ये चैवाभिषेचनम् ॥
पुष्पाभिषेको जन्मर्क्षेऽभिषेकस्तदनन्तरम् ।

प्रतिसंवत्सरं कार्योऽभिषेकोऽथ प्रकीर्तितः ॥
राज्ञां गुणस्ततस्तेषां निषिद्धविहितक्रिये ।
ततो दैनन्दिनं कृत्यं वर्षकृत्यमतः परम् ॥
अथ राज्ञः सहायेषु प्रागमात्यः प्रकीर्तितः ।
सेनापतिस्ततो राज्याध्यक्षरत्नपरीक्षकौ ॥
प्रतीहारश्च दूतश्च रक्षिणस्तदनन्तरम् ।
ताम्बूलधारणाद्येषु नियुक्ताश्च निरूपिताः ॥
अथानुजीविनां वृत्तं राजवासस्थलं ततः ।
दुर्गे पुरस्य निर्माणं क्रमेण परिकीर्तितम् ॥
राष्ट्रं कोषश्च दण्डश्च मित्रं चेत्युदितं क्रमात् ।
सामान्ते कथितो भेदो दानान्ते दण्ड एव च ॥
उपेक्षामाययोरन्त इन्द्रजालः प्रकीर्तितः ।
मन्त्रश्च पौरुषं पश्चाद्राजपुत्रस्य रक्षणम् ॥
सन्ध्यादिचिन्ता परतो राजमण्डलनिर्णयः ।
षाड्गुण्यमथ यात्रोक्ता ततः स्वप्नौ शुभाशुभौ ॥
अथ स्वप्नविपाकस्य कालः सम्परिकीर्तितः ।
अभिमन्त्रणमुक्तं च राजचिह्नेषु तत्परम् ॥
अथेष्टानिष्टशकुनौ निमित्तानि ततः परम् ।
जयाभिषेकस्य विधिः प्रयोगश्च क्रमोदितः ॥
अथ सन्नहनं राज्ञः कार्यमत्र पुरोधसा ।
युद्धार्थं प्रस्थितस्याथ चातुर्मास्येष्ववस्थितिः ॥
विशेषतो देवयात्रा कौमुद्यां च महोत्सवः ।
इन्द्रध्वजोच्छ्रायविधिस्ततो नीराजनाविधिः ॥
पूजनं भद्रकाल्याश्च तदनन्तरमीरितम् ।
राजचिह्नेषु देव्याश्च पूजोक्ता तदनन्तरम् ॥

१० वीरमित्रोदयस्य राजनीतिप्रकाशे
लोहाभिसारिकं कर्म गवोत्सर्गस्ततः परम् ।
वसोर्धाराऽथ शत्रूणां नाशकः कृत्तिकाप्लवः ॥
राजिकासर्षपाभ्यां च होम उक्तोऽरिनाशनः ।
विष्णुधर्मोत्तरोक्तं तत आथर्वणोदितम् ॥
घृतकम्बलमुक्त्वा च प्रकीर्णकमुदाहृतम् ।
राजनीतिप्रकाशाख्ये ग्रन्थेऽस्मिन् विदुषां मुदे ॥
श्रीमित्रमिश्रविदुषा क्रमेणैवं निरूपितम् । इति ।
तत्र महाभारते,
युधिष्ठिर उवाच ।
श्रोतुमिच्छामि भगवन् विस्तरेण महामुने ।
राजधर्मान् द्विजश्रेष्ठ चातुर्वर्ण्यस्य चाखिलान् ॥
इत्युपक्रम्य राजधर्मा उक्ताः ।
अग्निपुराणेऽपि,
अग्निरुवाच ।
पुष्करेण च रामाय राजधर्म हि पृच्छते ।
यदादौ कथितं तद्वद्विशिष्टं कथयामि ते ॥
पुष्कर उवाच
राजधर्मं प्रवक्ष्यामि स्याद्राजा राजधर्मतः ।
मनुस्मृतावपि,
राजधर्मान् प्रवक्ष्यामि यथावृत्तो भवेन्नृपः ।
सम्भवश्च यथा तस्य सिद्धिश्च परमा यथा ॥
इत्युपक्रम्य तत्र तत्र राजधर्मा उक्ताः । तत्र राजशब्दार्थ-
स्तावद्विचार्यते । किमयं राजशब्दो यस्मिन् कस्मिंश्चित्प्रजापालके
वर्त्तते, उत क्षत्रियजातौ, किंवा अभिषिक्तक्षत्रियजातौ वर्त्तत इति।
तत्र अवेष्ट्यधिकरणे “राजा राजसूयेन स्वाराज्यकामो यजेत”

राजशब्दार्थविचारः । ११
इत्यत्र पूर्वपक्षे लिखितम्—
राज्यस्य कर्त्ता राजेति सर्वलोकेषु गीयते ।
महाविषयता चैवं शास्त्रस्यापि भविष्यति ॥
तस्माद्ब्राह्मणादयो राज्यं कुर्वाणा राजान इति । राज्यं
तु जनपदपरिपालनम् । लोकप्रयोग एव शब्दार्थावधारणे प्रमा-
णम् । लोके च ब्राह्मणादिषु राज्यकर्त्तृषु राजशब्दो वर्त्तते ।
यास्कोऽपि, राजा राजतेरिति ब्रुवन् यौगिकं राजशब्दमी-
श्वरवचनमेवाभ्युपैति । राजनोत्कर्षश्च प्रजापरिपालनादिरेव ।
वेदेऽपि, “सोमोऽस्माकं ब्राह्मणानां राजा” “यो राजा
वर्षणीनां” “सोमो वै राजा गन्धर्वेषु”
इत्यादावपि ईश्वरवचन एव राजशब्दः प्रतीयते ।
कोषेऽपि,
राजा तु प्रणताशेषसामन्तः स्यात् ।
तथा,
अथ राजकम् ।
राजन्यकं च नृपतिक्षत्रियाणां गणे क्रमात् ॥ इति ।
अत्र यदि राजन्यशब्दवद्राजशब्दोऽपि क्षत्रियवचन एव
स्यात्तदा राजकं राजन्यकं च क्षत्रियगणे इत्येव ब्रूयान्नतु नृ-
पतिगणे इति पृथगुपाददीत । तस्माद्राजशब्दो नृपतीनां वाचक
इति केचित् ।
अपरे त्वाहुः । राजशब्दः क्षत्रियजातिवचनः । मन्वादयो
हि राजधर्मान् प्रवक्ष्यामीत्युपक्रम्य जनपदपरिपालनरूपं राज्यं
क्षत्रियस्यैव स्मरन्ति । तत्र—
मनुः,
ब्राह्मं प्राप्तेन संस्कारं क्षत्रियेण यथाविधि ।

१२ वीरमित्रोदयस्य राजनीतिप्रकाशे
सर्वस्यास्य यथान्यायं कर्त्तव्यं परिरक्षणम् ॥
ब्रह्म वेदस्तत्कृतः श्रवणाध्ययनजन्यो ग्रहणावबोधलक्षणः
संस्कारो ब्राह्मः । यद्वा ब्रह्म वेदस्तत्प्राप्त्यर्थ उपनयनादिः
संस्कारो ब्राह्मः । यथाविधि यथाशास्त्रम् । एतच्च प्राप्तेनेत्यने-
नान्वितम् । यथान्यायं वक्ष्यमाणदण्डप्रणयनशास्त्रमनतिक्रम्ये-
त्यर्थः । परिरक्षणं दुर्बलानां बलवद्भिरनभिभवः । अनेन क्ष-
त्रिय एव मुख्यो राज्याधिकारीति दर्शितम् । अत एव क्षत्रि-
यस्य क्षितिरक्षाजीवनार्थं शस्त्रास्त्रभृत्त्वं चोक्तम्—
मार्कण्डेयपुराणे,
दानमध्ययनं यज्ञः क्षत्रियस्याप्ययं त्रिधा ।
धर्मः प्रोक्तः क्षिते रक्षा शस्त्राजीवोऽस्य जीविका ॥
जीविका कराद्यादानद्वारा ।
तथा याज्ञवल्क्यः,
प्रधानं क्षत्रिये कर्म प्रजानां परिपालनम् । इति ।
प्रधानं धर्मार्थं वृत्त्यर्थं च ।
पाणिनिरपि, राज्ञः कर्मणिष्यञं विदधाति-“गुणवचन-
ब्राह्मणादिभ्यः कर्मणि च” इति “पत्यन्तपुरोहितादिभ्यो यक्”
इति यकं वा । तेन राज्ञः क्षत्रियस्य कर्म राज्यमिति मन्वाद्ये-
कवाक्यत्वात्सिद्धं भवति ।
तथा, “राजश्वशुराद्यत्” “राज्ञोऽपत्ये जातौ” इति सूत्र-
वार्त्तिकाभ्यां राजशब्दः क्षत्रियवचनोऽवसीयते । तन्निष्पन्नराज-
न्यशब्दस्य क्षत्रियपर्यायेषु पाठात् । जातिश्चेह क्षत्रियजातिर्गृह्यते
राज्ञः क्षत्रियापत्ये यत्, स च जातिग्रहणात् वैश्यापत्ये निवार्यते ।
तथा, “राजानमभिषेचयेत्” इत्यत्राभिषेकोऽपि क्षत्रियस्यैव
विज्ञायते। दृष्टं हि राजत्वमुद्दिश्याभिषेको विधीयते। तेन राजानं

राजशब्दार्थविचारः । १३
सन्तमभिषेकेण संस्कुर्यात् । न त्वदृष्टं यूपत्वं “यूपं तक्षति” इ-
त्यत्र यथा विधीयते तक्षणेन यूपं कुर्यादिति तद्वत् अभिषेकेण
राजानं कुर्यादिति । यूपशब्दस्यालौकिकत्वात् । राजशब्दस्य तु
क्षत्रियवचनत्वेन प्रसिद्धत्वात् । राजधर्मानित्युपक्रम्य-
क्षत्रियस्य परो धर्मः प्रजानां परिपालनम् ।
क्षत्रियस्यापराधेन ब्राह्मणः सीदति क्षुधा ॥
वेदाभ्यासो हि विप्रस्य क्षत्रियस्याभिरक्षणम् ।
क्षत्रियाय ददौ राज्यम्-
इत्याद्युपसंहारस्वरसाच्च क्षत्रियजातावेव राजशब्दः। अत एव-
अनेकार्थकोषोऽपि,
राजा शशाङ्के क्षत्रिये नृपे । इति ।
राज्यकर्त्तरि च वर्णान्तरे लाक्षणिकः। ननु ब्राह्मणस्य कथं
राज्यकर्तृत्वम् ? । उच्यते ।
अजीवंस्तु यथोक्तेन ब्राह्मणः स्वेन कर्मणा ।
जीवेत् क्षत्रियधर्मेण स त्वस्य प्रत्यनन्तरः ॥
इति मनुवचनात् । वस्तुतस्त्वभिषेकादिगुणयुक्तस्य वक्ष्य-
माणधर्माः । तथा च-
मत्स्यपुराणे,
मत्स्यं प्रति मनुरुवाच ।
राज्ञोऽभिषिक्तमात्रस्य किं नु कृत्यतमं भवेत् ।
एतन्मे सर्वमाचक्ष्व सम्यग्वेत्ति यतो भवान् ॥ इति ।
अत्र मात्रपदेन तमपा च अभिषेकानन्तरमेव प्रजापालनं
तदङ्गसम्पत्तिश्च सम्पादनीयेति गम्यते । तदुक्तम्-
तत्रैव
अभिषेकार्द्रशिरसा राज्ञा राज्यावलोकिना ।

१४ वीरमित्रोदयस्य राजनीतिप्रकाशे
सहायवरणं कार्यं तत्र राज्यं प्रतिष्ठितम् ॥
सहाया अमात्यादयः । मेधातिथिस्तु राजशब्दश्च नेह
क्षत्रियजातिवचनः । किं तर्हि, अभिषेकाधिपत्यादिगुणयोगिनि
पुरुषे वर्तते । उल्लूकभट्टोऽपि राजशब्दो नात्र क्षत्रियजाति-
वचनः किं त्वभिषिक्तजनपदपरिपालनकर्तृवचन इति ।
राजा सर्वस्येष्टे ब्राह्मणवर्जमिति गौतमव्याख्याने हरदत्तो
ऽपि राजा अभिषिक्तः क्षत्रिय इति ।
विज्ञानेश्वरोऽपि राजधर्मादावाह-साधारणान् गृहस्थध-
र्मानुक्त्वा इदानीं राज्याभिषेकादिगुणयुक्तस्य गृहस्थस्य विशे-
षधर्मानाहेति ।
एष्वपि पक्षेषु “राजधर्मान् प्रवक्ष्यामि” इत्यादिराजधर्मप्र-
तिपादकवचनेषु राजशब्दो जनपदैश्वर्यवन्नृपतिं लक्षणया प्र-
तिपादयतीति पक्षः साधुः । उक्तयुक्त्या क्षत्रियसामान्यवा-
चित्वात् । तथा च--
बृहत्पराशरः,
अथातो नृपतेर्धर्मं वक्ष्यामि हितकाम्यया । इति ।
तथा विज्ञानेश्वरोऽपि, अभिषेकादिगुणयुक्तस्य राज्ञः
प्रजापालनं परो धर्मः ।
तथापि नृपग्रहणसमभिव्याहारादनाभिषिक्तेऽपि जनपदै-
श्वर्यवति लोकप्रसिद्ध्या राजशब्दो वर्तते ।
तथा, यद्यपि राजानमधिकृत्यायं राजधर्मकलाप उक्त-
स्तथापि वर्णान्तरस्यापि कियन्मण्डलादिपरिपालनाधिकृतस्यायं
राजधर्मो वेदितव्यः । “ राजधर्मान् प्रवक्ष्यामि ” “ यथावृत्तो
भवेन्नृप ” इति पृथक् नृपग्रहणात्करग्रहणस्य रक्षार्थत्वाच्च रक्ष-
णस्य दण्डप्रणयनायत्तत्वादिति ।

राजप्रशंसा । १५
तथा, नृप इति न क्षत्रियमात्रस्यायं धर्मः किन्तु
प्रजापालनेऽधिकृतस्यान्यस्यापि । तदेवमुक्तदिशा वक्ष्यमाणवै-
दिकाभिषेकानधिकृतस्य पौराणोऽमन्त्रको वाऽभिषेको विधेयः ।
तथा चाभिषेकार्द्रशिरसेत्यादि सङ्गच्छते ।
अपरार्कस्तु-प्रजापालनादि क्षत्रियस्य राज्यं कुर्वतो वि-
हितम् । यदा पुनरक्षत्रियोऽपि क्षत्रियकार्यं करोति तेनाप्ये-
तत्सर्वमनुष्ठेयम् । तत्कार्यापत्त्या तद्धर्मलाभात् इति वदन् प्रजा-
पालनादिविधिषु राजशब्दोऽभिषिक्तक्षत्रियवचन इति मन्यते ।
तच्च पूर्वोक्तयुक्तिनिचयबलादयुक्तम् ।
तदेवं राजधर्मान् प्रवक्ष्यामीत्यत्र राजशब्दः प्रजापाल-
नाधिकृतपरो, धर्मशब्दः कर्त्तव्यतावचनः यद्राज्ञा कर्त्तव्यं
दृष्टादृष्टार्थरूपं षाड्गुण्याद्यग्निहोत्रादि तद्वक्ष्यामि । तत्र प्राधा-
न्येनासाधारणं दृष्टार्थमुपदिश्यते । अदृष्टार्थस्य साधारणधर्मे-
षूक्तत्वात् । अत एवोक्तम्-
मनुव्याख्यायाम्, “साधारणं वेदोक्तसंस्कारं प्राप्यासा-
धारणं प्रजापालनादि कर्त्तव्यम्” इति। “स यथावृत्तो यथाचारो
भवेत् तानाचारान्, यथा च तस्य सम्भवः राजानमसृजत्प्रभु-
रित्यादिना उत्पत्तिस्तत्, यथा च तस्योत्कृष्टा ऐकाधिपत्यल-
क्षणा सिद्धिस्तत्सर्वं वक्ष्यामि” इति च ।
अथ राजप्रशंसा ।
तत्र मनुः,
अराजके हि लोकेऽस्मिन् सर्वतोऽभिद्रुते भयात् ।
रक्षार्थमस्य सर्वस्य राजानमसृजत्प्रभुः ॥
अराजके राजरहिते । सर्वतः पञ्चम्यन्तात्तसिः सर्व-
स्माद्बलवतः । अभिद्रुते पीडिते । अस्य लोकस्य । प्रभुर्ब्रह्मा ।

१६ वीरमित्रोदयस्य राजनीतिप्रकाशे
षिद्रुत इति क्वचित्पाठः । विद्रुते धर्मात्प्रचलिते । सप्तम्यन्तात्त-
सिः । चक्षुर्धर्मस्य सर्वस्येति मेधातिथौ पाठः । तदा भयाद्धर्म-
भयात् धर्मस्य चक्षुर्द्रष्टारं प्रवर्त्तकमितियावत् । राजा धर्मस्य
कारणमितिवचनात् ।
इन्द्रानिलयमार्काणामग्नेश्च वरुणस्य च ।
चन्द्रवित्तेशयोश्चैव मात्रा निर्हृत्य शाश्वतीः ॥
अनिलो वायुः । वित्तेशः कुबेरः । मात्रा अंशान् । निर्हृत्य
निष्कास्य । शाश्वतीः सारभूताः स्थिरा वा । तथा—
बृहतपराशरोऽपि,
सुत्रामानलवायूनां यमस्येन्दोर्विवस्वतः ।
वारिवित्तेशयोर्ब्रह्म मात्राभ्यो निर्ममे नृपम् ॥ इति ।
तत्रैवेशानमात्राप्यधिकोक्ता ।
इन्द्राग्नियमवित्तेशवारीशमातरिश्वनाम् ।
शीतांश्वीशानदात्राश्च ब्रह्मादायासृजन्नृपम् ॥ इति ।
मनुः
यस्मादेषां सुरेन्द्राणां मात्राभ्यो निर्मितो नृपः ।
तस्मादतिभवत्येष सर्वभूतानि तेजसा ॥
यस्मादेषां देवश्रेष्ठानामिन्द्रादीनां मात्राभ्योऽंशसमुदायेभ्यो-
ऽशान् सारभूतान्निर्हृत्य निर्मित उत्पादित इति तेजसा सर्वभूता-
न्यतिशेते सर्वोत्कृष्टो भवतीत्यर्थः । अथ वा इन्द्रानिलेत्यस्यारा-
जके हीत्यनेन सम्बन्धः । मात्रा निर्हृत्य राजानमसृजत् इत्य-
न्वयः । यस्मादेषामित्यत्र मात्राभिरिति वा पाठः ।
तपत्यादित्यवच्चैव चक्षूंषि च मनांसि च ।
न चैनं भुवि शक्नोति कश्चिदप्यभिवीक्षितुम् ॥
अयं स्वतेजसा पश्यतां सूर्य इव चक्षूंषि मनांसि च तापयति ।

राजप्रशंसा । १७
तपिरन्तर्भावितण्यर्थः । दुर्निरीक्ष्यमुखत्वादेवमुच्यते । तदाह-न
चैनमिति । एनं राजानं पृथिव्यां कश्चिदप्यभिमुख्येन वीक्षितुं न
क्षमते । अत्र मेधातिथिः- "ब्राह्मणा जात्युत्कृष्टा ब्रह्मवर्च-
स्विनोऽपि नैनमभिमुखं वीक्षितुं शक्नुवन्ति । तदुक्तम्-
गौतमेन, तमुपर्यासीनमधस्तादुपासीरन" इति व्याच-
ख्यौ । तदयुक्तम् । अन्ये ब्राह्मणेभ्य इति वाक्यशेषविरोधात् ।
तथा च-
गौतमः, तमुपर्यासीनमधस्तादुपासीरन्नन्ये ब्राह्मणेभ्यस्ते-
ऽप्येनं मन्येरन्निति ।
तं राजानम् उपर्यासीनं सिंहासनस्थितम् अधस्तात् भूमावेव उ-
पासीरन् अन्ये ब्राह्मणेभ्यः ब्राह्मणातिरिक्ताः । ब्राह्मणास्त्वाशी-
र्वादादिभिरभिपूजयेयुः । वस्तुतस्तु तमुपर्यासीनमित्यस्य विधि-
रूपत्वात् भिन्नविषयत्वाच्च "न चैनं भुवि शक्नोति" इत्यस्य सम्म-
तिरूपत्वमेवायुक्तम् । दृष्टेनापि दोषेण राज्ञोऽवज्ञा न युज्यते इ-
त्येतन्निषेधार्थवादत्वात्पूर्वोक्तश्लोकानाम् । इन्द्रादिमात्रा निर्हृत्य
कृतत्वात् तस्यापि तद्रूपतामाह-
सोऽग्निर्भवति वायुश्च सोऽर्कः सोमः स धर्मराट् ।
स कुबेरः स वरुणः स महेन्द्रः प्रभावतः ॥
धर्मराट् यमः । अग्न्याद्यंशसम्भवत्वात्तत्कार्यकारित्वाच्च
ताद्रूप्यम् । प्रभावोऽलौकिकी शक्तिः । ततश्च-
बालोऽपि नावमन्तव्यो मनुष्य इति भूमिपः ।
महती देवता ह्येषा नररूपेण तिष्ठति ॥
एतेन देवतावमानने यो दोषः स राजावज्ञायामित्यदृष्ट-
दोष उक्तः । इदानीं दृष्टदोषमाह-
३

१८ वीरमित्रोदयस्य राजनीतिप्रकाशे
एकमेव दहत्यग्निर्नरं दुरुपसर्पिणम् ।
कुलं दहति राजाग्निः सपशुद्रव्यसञ्चयम् ॥
योऽग्नेरतिसमीपमनवहितः समुपसर्पति तमेकमेवाग्निर्दह-
ति न तत्पुत्रादिकमिति । अन्यैस्तु दुःखेन मरणाद्युद्यतम् अ-
ग्निसमीपगामिनमिति व्याख्यातम् । एतद्व्याख्याद्वितयादपि
दुरुपसर्पिणं स्वापराधं ज्ञात्वापि बलात्तत्सद्दिग्ये प्रवृत्तमग्निरेकमेव
दहति तम्, अन्यायपथगामिनं ज्ञात्वा क्रुद्धो राजा तं तदीयकुलं
च पुत्रभ्रात्रादिरूपं पशुभिर्धनसञ्चयैश्च सहितं नाशयतीति व्या-
ख्यानं युक्तम् । एवमेकविषयतापि लभ्यते ।
कार्याण्यवेक्ष्य शक्तिं च देशकालौ च तत्त्वतः ।
कुरुते धर्मसिद्धयर्थं विश्वरूपं पुनः पुनः ॥
कार्यं सोऽवेक्ष्येति क्वचित्पाठः । कार्यम् अनुग्रहनिग्रहादि-
योग्यताम्, शक्तिं बलम्, देशं दूरनिकटादिकम्, कालं सुभि-
क्षदुर्भिक्षादिमवेक्ष्यात्मानं विश्वरूपं नानारूपं करोति । क्षणे
तुष्टः क्षणे रुष्टः । अशक्तौ क्षान्तः शक्तौ उन्मूलकः । स्वकार्या-
नुरोधेन शत्रुर्मित्रं उदासीनो वा भवति । अत एव—
कस्य राजा भवेन्मित्रं कानि मित्राणि राजनि ।
राजा मित्रं केन दृष्टं श्रुतं वा ।
इत्युक्तम् । तेन मैत्र्यादिनापि नावमन्तव्यः ।
यस्य प्रसादे पद्मा श्रीर्विजयश्च पराक्रमे ।
मृत्युश्च वसति क्रोधे सर्वतेजोमयो हि सः ॥
श्रीकामेन श्रीप्राप्त्यै शत्रुमता शत्रुहननाय जीवितार्थिना
जीवस्थित्यै राजा सेव्यः । अत्र मेधातिथ्यादयः-पद्माशब्दः
श्रीपर्यायोऽपि महत्त्वप्रतिपादनाय, अर्थाद्वैय्यर्थं पद्माशब्दस्य ।
वस्तुतस्तु पद्मा लक्ष्मीः, श्रीः शरीरशोभा । तथा च-“श्रीश्च ते

राजप्रशंसा । १९
लक्ष्मीश्च पत्न्यौ"इत्यत्र व्याख्यातम्-श्रीः शरीरशोभा लक्ष्मीः
प्रसिद्धेति । यद्वा प्रसादे पद्मा, पराक्रमे श्रीर्विजयश्च । दिक्पा-
लरूपत्वात्तस्य तत्कार्यकारित्वमाह-
स एव,
इन्द्रस्यार्कस्य वातस्य यमस्य वरुणस्य च ।
सोमस्याग्नेः पृथिव्याश्च तेजोवृत्तं नृपश्चरेत् ॥
तेजोवृत्तम् इन्द्राद्यंशसदृशमाचरणम् ।
वार्षिकांश्चतुरो मासान् यथेन्द्रोऽभिप्रवर्षति ।
तथाऽभिवर्षेत्तद्राष्ट्रं कामैरिन्द्रव्रतं चरन् ॥
चतुरः श्रावणादीन् ।
अष्टौ मासान् यथाऽऽदित्यस्तोयं हरति रश्मिभिः ।
तथा हरेत्करं राष्ट्रात्सम्‍यगर्कव्रतं हि तत् ॥
अष्टौ मार्गशीर्षादीन् ।
प्रविश्य सर्वभूतानि यथा चरति मारुतः ।
तथा चारैः प्रवेष्टव्यं व्रतमेतद्धि मारुतम् ॥
यथा यमः प्रियेद्वेष्यौ प्राप्ते काले नियच्छति ।
तथा राज्ञा नियन्तव्यः सर्वस्तद्धि यमव्रतम् ॥
वरुणेन यथा पाशैर्बद्ध एव हि दृश्यते ।
तथा पापान्निगृह्णीयाद्व्रतमेतद्धि वारुणम् ॥
परिपूर्णं यथा चन्द्रं दृष्ट्वा हृष्यन्ति मानवाः ।
तथा प्रकृतयो यस्मिन् स चन्द्रव्रतिको नृपः ॥
प्रतापयुक्तस्तेजस्वी नित्यं स्यात्पापकर्मसु ।
दुष्टसामन्तहिंस्रश्च तदाग्नेयं व्रतं स्मृतम् ॥
यथा सर्वाणि भूतानि धरा धारयते समम् ।
तथा सर्वाणि भूतानि बिभ्रतः पार्थिवं व्रतम् ॥

१. प्रथम प्रकाश: राजा के गुण, राज्याभिषेक विधान, मन्त्री एवं अमात्य-परीक्षा

२० वीरमित्रोदयस्य राजनीतिप्रकाशे
यथा सर्वाणि स्थावरजङ्गमानि उत्कृष्टनिकृष्टानि पृथिवी धार-
यति तथा सर्वाणिकरदायिदीनानाथार्तादीनि रक्षणादिना धारय-
तः पृथिवीसम्बन्धि व्रतम् ।
एतैरुपायैरन्यैश्च युक्तो नित्यमतन्द्रितः ।
स्तेनान् राजा निगृह्णीयात्स्वराष्ट्रे पर एव च ॥
अतन्द्रितोऽनलसः । स्तेनान् चौरान् । इयं च पूर्वोक्तदे-
वांशरूपता महाराजस्यैव ।
पञ्च रूपाणि राजानो धारयन्त्यमितौजसः ।
अग्नेरिन्द्रस्य सोमस्य यमस्य धनदस्य च ॥
इतीयं नारदोक्तपञ्चरूपता तु कियन्माण्डलिकस्य भूपस्य ।
अत एव—
बृहत्पराशरेण,
हर्यश्ववह्न्यन्तकविश्वनाथशीतांशुरूपाणि हि बिभ्रतीह ।
सर्वेऽपि भूपास्त्विह पञ्चरूपास्तत्कथ्यमानं शृणुत द्विजेन्द्राः॥
इत्यत्र सामान्यवाचि सर्वपदमुपात्तम् । हर्यश्व इन्द्रः । अ-
ग्न्यादिकार्यकारित्वेन तत्तद्रूपतां द्रढयति—
नारदः,
कारणान्निर्निमित्तं वा यदा क्रोधवशं गतः ।
प्रजा दहति भूपालस्तदाग्निरभिधीयते ॥
बृहत्पराशरोऽपि,
अकारणात्कारणतोऽपि चैष प्रजा दहेत्कोपसमिद्धरोचिः ।
यदा तदैनं नृपनीतिविज्ञास्तनूनपातं प्रवदन्ति भूपम् ॥ इति ।
अकारणादिति दुष्टनृपविषयम् ।
नारदः,
यदा तेजः समालम्बेद्विजिगीषुरुदायुधः ।

राजप्रशंसा । २१
अभियाति परान् राजा तदेन्द्रः समुदाहृतः ॥
तथा बृहत्पराशरः,
यदा जिगीषुर्घृतशस्त्रपाणिस्त्विषं समालम्ब्य सचित्तसैन्यः ।
सर्वान्सपत्नानिह जेतुकामस्तदा स हर्यश्व इवेह भाति ॥ इति ।
नारदः,
विगतक्रोधसन्तापो हृष्टरूपो यदा नृपः ।
प्रजानां दर्शनं याति सोम इत्युच्यते तदा ॥
तथा बृहत्पराशरः,
समस्तशीतांशुगुणप्रयुक्तो यदा प्रजामेष शुभाय पश्येत् ।
प्रसन्नमूर्त्तिर्गतमत्सरः संस्तदोच्यते सोम इति क्षितीशः ॥
नारदः,
धर्मासनगतः श्रीमान् दण्डं धत्ते यदा नृपः ।
समः सर्वेषु भूतेषु तदा वैवस्वतो यमः ॥
तथा बृहत्पराशरः,
धर्मासनस्थः श्रुतशास्त्रदृष्ट्या शुभाशुभाचारविचारकृत्स्यात् ।
धर्मेषु दानं त्वथ कृत्स्नदण्डं तदाऽवनीशस्त्विह धर्मराजः ॥
नारदः,
यदा त्वर्थिगुरून् प्राज्ञान् भृत्यादीन् पृथिवीपतिः ।
अनुगृह्णाति दानेन तदा धनद उच्यते ॥
बृहत्पराशरोऽपि,
यदा त्वमात्यद्विजपावकादीन् प्रहृष्टचित्तश्च यथोचितेन ।
धनप्रदानेन करोति हृष्टान् भूभृत्तदाऽसौ द्रविणेशवत्स्यात् ॥
अग्न्यादिपञ्चरूपत्वमुक्त्वाऽनाद्यनन्तात्मकविष्णुरूपत्वमाह—
नारदः,
अनादिश्चाप्यनन्तश्च द्विपदां पृथिवीपतिः ।

२२ वीरमित्रोदयस्य राजनीतिप्रकाशे
दीप्तत्वाच्च शुचित्वाच्च यद्यसौ न पथश्च्युतः ॥
पथश्च्युतो भ्रष्टाचारः ।
अशुचिर्वचनाद्यस्य शुचिर्भवति पूरुषः ।
शुचिश्चैवाशुचिः सद्यः कथं राजा न दैवतम् ॥
अशुचिरित्यादिः तस्मात्तं नावजानीयादित्यस्याग्रेतन-
स्यार्थवादः ।
तस्मात्तं नावजानीयान्नाक्रोशेन विशेषयेत् ।
वस्त्रालङ्कारादिभिस्तमपेक्ष्यात्मानं नाधिकं कुर्यात् ।
आज्ञया तस्य तिष्ठेत्तु मृत्युः स्यात्तद्व्यतिक्रमे ॥
आज्ञा तेजः पार्थिवानां सा च वाचि प्रतिष्ठिता ।
स यद्ब्रूयादसत्सद्वा स धर्मो व्यवहारिणाम् ॥
राजा नाम चरत्येष भूमौ साक्षात्सहस्रदृक् ।
न तस्याज्ञामतिक्रम्य प्रतिष्ठेरन्निमाः प्रजाः ॥
रक्षाधिकारादीशत्वाद्भूतानुग्रहदर्शनात् ।
यदेव कुरुते राजा तत्प्रमाणमिति स्थितिः ॥
निर्गुणोऽपि यथा स्त्रीणां पूज्य एव पतिः सदा ।
प्रजानां निर्गुणोऽप्येवं पूज्य एव नराधिपः ॥
राज्ञामाज्ञाभयाद्यस्मान्न च्यवन्ते पथः प्रजाः ।
व्यवहारस्ततो ज्ञेयः शंसतो राजशासनम् ॥
राजशासनं राजाज्ञाम् ।
स्थित्यर्थं पृथिवीपालैश्चारित्रविधयः कृताः ॥
चारित्रविधयः राजकृता भागादिव्यवस्थाः ।
चारित्रेभ्योऽप्यतः प्राहुर्गरीयो राजशासनम् ॥
तपःक्रीताः प्रजा राज्ञः प्रभुरासां नराधिपः ।
तस्मात्तद्वचसि स्थेयं वार्ता तासां तदाश्रया ॥

वार्ता कृषिपाशुपाल्यादिवृत्तिः ।
मनुः,
यस्तु तं द्वेष्टि सम्मोहात्स विनश्यत्यसंशयम् ।
तस्य ह्याशु विनाशाय राजा प्रकुरुते मनः ॥
तं राजानम् । द्वेष्टि तदाज्ञाभङ्गं करोति । स विनश्यति रा-
जकृतवधभाग्भवतीत्यर्थः ।
बृहत्पराशरोऽपि,
आज्ञा नृपाणां परमं हि तेजो यस्तां न मन्येत स शस्त्रवध्यः।
श्रूयाच्च कुर्याच्च वदेच्च भूभृत्तदेव कार्यं भुवि सर्वलोकैः ॥
दुर्धर्षतीव्रांशुसमानदीप्तेर्भूयान्मनुष्यः परुषं नृपस्य ।
यस्तस्य तेजोऽप्यवमन्यमानः सद्यः स पञ्चत्वमुपैति पापात् ॥
योऽह्नाय सर्वं विदधाति पश्येत् शृणोति जानाति चकास्ति शास्ति ।
कस्तस्य चाज्ञां न बिभर्त्ति राज्ञः समस्तदेवांशभवः स यस्मात् ॥
अह्नाय शीघ्रम् ।
तस्माद्धर्मं यमिष्टेषु संव्यवस्येनराधिपः ।
अनिष्टं चाप्यनिष्टेषु तं धर्मं न विचालयेत् ॥
यतः सर्वतेजोमयो राजा तस्माद्धेतोरिष्टेषु वल्लभेषु मन्त्रिपु-
रोहितादिषु यं धर्मं यां व्यवस्थां स्मृत्याचाराविरुद्धां व्यवस्येत्
निश्चित्य स्थापयेत् तां न विचालयेत् । सा तादृशी राज्ञ आज्ञा
अनतिक्रमणीया । अद्य सर्वैरुत्सवः कर्त्तव्यः मन्त्रिगृहे वि-
वाहो वर्तते तत्र सर्वैः सन्निधातव्यम्, तथा सौनिकैरद्य पश-
वो न हन्तव्याः न शकुन्तयो बन्धायितव्याः, नर्त्तका धनि-
कैरुपरोधनीया एतावन्त्यहानि । एवमनिष्टेष्वपि-एतेन सह सं-
सर्गो न विधेयः, एतस्य गृहे प्रवेशो न देयः । एवंविधो धर्मः
स्पृहादोषादिना राजादिष्टो नातिक्रमणीयः । न त्वग्निहोत्रादि-

२४ वीरमित्रोदयस्य राजनीतिप्रकाशे
धर्मव्यवस्थायै वर्णाश्रमिणां राजा प्रभवति स्मृत्यन्तरविरोधप्र-
सङ्गात् । अविरोधे चास्मिन् विषये वचनस्यार्थवत्त्वात् ।
बृहस्पतिः,
बलेन चतुरङ्गेण यतो रञ्जयति प्रजाः ।
दीप्यमानः स वपुषा तेन राजाऽभिधीयते ॥
बलने सेनया । चतुरङ्गेण हस्त्यश्वरथपादातेन ।
अङ्गिराः,
गुरुवद्येन भूपाळः पापं दण्डेन भूयसा ।
संस्करोत्यवनाच्चैव तेनासौ गुरुरुच्यते ॥
पापं पापकारिणम् । संस्करोति शुद्धं करोति । शुद्धं कृत्वा-
ऽवति च ।
बृहत्पाराशरे,
अथातो नृपतेर्धर्मम्-इत्युपक्रम्य ।
भूभृत् भूम्यां परो देवः पूज्योऽसौ परदेववत् ।
स विधाता च सर्वस्य रक्षिता शासिताऽपि सः ॥
परो देवः स्वाराध्यदेवः ।
महाभारते,
अराजकेषु राष्ट्रेषु धर्मो न व्यवतिष्ठते ।
परस्परं च खादन्ति सर्वथा धिगराजकम् ॥
इन्द्रमेव प्रवृणुते यद्राजानमिति श्रुतिः ।
यथैवेन्द्रस्तथा राजा सम्पूज्यो भूतिमिच्छता ॥
नाराजकेषु राष्ट्रेषु वस्तव्यमिति रोचये ।
नाराजकेषु राष्ट्रेषु हव्यमग्निर्वहेत्युत ।
अथ चेदभिवर्तेत राज्यार्थं बलवत्तरः ॥
अराजकानि राष्ट्राणि हतवीर्याणि वा पुनः ॥

राजप्रशंसा । २५
न हि पापातपरतरमस्ति किञ्चिदराजकात् ।
स चेत्समनुपश्येत समग्रं कुशलं भवेत् ॥
श्रीरामायणे,
नाराजके जनपदे योगः क्षेमं प्रवर्त्तते ।
न चाप्यराजके सेना शत्रून् विषहते परान् ॥
अराजके राजरहिते । अलब्धलाभो योगः । लब्धस्य र-
क्षणं क्षेमम् । विषहते तन्निवारणक्षमा भवति ।
विपालाश्च यथा गावो यथा चातृणकं वनम् ।
विपाला रक्षकरहिताः ।
अजलाश्च यथा नद्यस्तथा राष्ट्रमराजकम् ॥
अन्धं तम इवेदं स्यान्नेह ज्ञायेत किञ्चन ।
राजा चेन्न भवेल्लोके विभजन् साध्वसाधुनी ।
गरुडपुराणे,
धनिनः श्रोत्रियो राजा नदी वैद्यस्तु पञ्चमः ।
पञ्च यत्र न विद्यन्ते तत्र वासं न कारयेत् ॥
श्रीमहाभारते,
राजा प्रगल्भं पुरुषं करोति राजा कृशं बृंहयते मनुष्यम् ।
राजाभिपन्नस्य कुतः सुखानि राजाऽभ्युपेतं सुखिनं करोति ॥
राजा प्रजानां हृदयं गरीयो गतिः प्रतिष्ठा सुखमुत्तमं च ।
यमाश्रिता लोकमिमं परं च जयन्ति सम्यक् पुरुषा नरेन्द्र ॥
राजाभिपन्नस्य राज्ञा अभिपन्नस्य कृताभियोगस्य ।
राजधर्मे,
बृहस्पतिरुवाच ।
राजमूलो महाप्राज्ञ धर्मो लोकस्य लक्ष्यते ।
प्रजा राजभयादेव न खादन्ति परस्परम् ॥
४