सामग्री पर जाएँ
सर्वकोश
वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

पृष्ठ 19, कुल 490 में से

संदर्भ में पढ़ें
पृष्ठ 19

राजशब्दार्थविचारः । १३
सन्तमभिषेकेण संस्कुर्यात् । न त्वदृष्टं यूपत्वं “यूपं तक्षति” इ-
त्यत्र यथा विधीयते तक्षणेन यूपं कुर्यादिति तद्वत् अभिषेकेण
राजानं कुर्यादिति । यूपशब्दस्यालौकिकत्वात् । राजशब्दस्य तु
क्षत्रियवचनत्वेन प्रसिद्धत्वात् । राजधर्मानित्युपक्रम्य-
क्षत्रियस्य परो धर्मः प्रजानां परिपालनम् ।
क्षत्रियस्यापराधेन ब्राह्मणः सीदति क्षुधा ॥
वेदाभ्यासो हि विप्रस्य क्षत्रियस्याभिरक्षणम् ।
क्षत्रियाय ददौ राज्यम्-
इत्याद्युपसंहारस्वरसाच्च क्षत्रियजातावेव राजशब्दः। अत एव-
अनेकार्थकोषोऽपि,
राजा शशाङ्के क्षत्रिये नृपे । इति ।
राज्यकर्त्तरि च वर्णान्तरे लाक्षणिकः। ननु ब्राह्मणस्य कथं
राज्यकर्तृत्वम् ? । उच्यते ।
अजीवंस्तु यथोक्तेन ब्राह्मणः स्वेन कर्मणा ।
जीवेत् क्षत्रियधर्मेण स त्वस्य प्रत्यनन्तरः ॥
इति मनुवचनात् । वस्तुतस्त्वभिषेकादिगुणयुक्तस्य वक्ष्य-
माणधर्माः । तथा च-
मत्स्यपुराणे,
मत्स्यं प्रति मनुरुवाच ।
राज्ञोऽभिषिक्तमात्रस्य किं नु कृत्यतमं भवेत् ।
एतन्मे सर्वमाचक्ष्व सम्यग्वेत्ति यतो भवान् ॥ इति ।
अत्र मात्रपदेन तमपा च अभिषेकानन्तरमेव प्रजापालनं
तदङ्गसम्पत्तिश्च सम्पादनीयेति गम्यते । तदुक्तम्-
तत्रैव
अभिषेकार्द्रशिरसा राज्ञा राज्यावलोकिना ।