सामग्री पर जाएँ
सर्वकोश
वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

पृष्ठ 20, कुल 490 में से

संदर्भ में पढ़ें
पृष्ठ 20

१४ वीरमित्रोदयस्य राजनीतिप्रकाशे
सहायवरणं कार्यं तत्र राज्यं प्रतिष्ठितम् ॥
सहाया अमात्यादयः । मेधातिथिस्तु राजशब्दश्च नेह
क्षत्रियजातिवचनः । किं तर्हि, अभिषेकाधिपत्यादिगुणयोगिनि
पुरुषे वर्तते । उल्लूकभट्टोऽपि राजशब्दो नात्र क्षत्रियजाति-
वचनः किं त्वभिषिक्तजनपदपरिपालनकर्तृवचन इति ।
राजा सर्वस्येष्टे ब्राह्मणवर्जमिति गौतमव्याख्याने हरदत्तो
ऽपि राजा अभिषिक्तः क्षत्रिय इति ।
विज्ञानेश्वरोऽपि राजधर्मादावाह-साधारणान् गृहस्थध-
र्मानुक्त्वा इदानीं राज्याभिषेकादिगुणयुक्तस्य गृहस्थस्य विशे-
षधर्मानाहेति ।
एष्वपि पक्षेषु “राजधर्मान् प्रवक्ष्यामि” इत्यादिराजधर्मप्र-
तिपादकवचनेषु राजशब्दो जनपदैश्वर्यवन्नृपतिं लक्षणया प्र-
तिपादयतीति पक्षः साधुः । उक्तयुक्त्या क्षत्रियसामान्यवा-
चित्वात् । तथा च--
बृहत्पराशरः,
अथातो नृपतेर्धर्मं वक्ष्यामि हितकाम्यया । इति ।
तथा विज्ञानेश्वरोऽपि, अभिषेकादिगुणयुक्तस्य राज्ञः
प्रजापालनं परो धर्मः ।
तथापि नृपग्रहणसमभिव्याहारादनाभिषिक्तेऽपि जनपदै-
श्वर्यवति लोकप्रसिद्ध्या राजशब्दो वर्तते ।
तथा, यद्यपि राजानमधिकृत्यायं राजधर्मकलाप उक्त-
स्तथापि वर्णान्तरस्यापि कियन्मण्डलादिपरिपालनाधिकृतस्यायं
राजधर्मो वेदितव्यः । “ राजधर्मान् प्रवक्ष्यामि ” “ यथावृत्तो
भवेन्नृप ” इति पृथक् नृपग्रहणात्करग्रहणस्य रक्षार्थत्वाच्च रक्ष-
णस्य दण्डप्रणयनायत्तत्वादिति ।