सामग्री पर जाएँ
सर्वकोश
वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

पृष्ठ 23, कुल 490 में से

संदर्भ में पढ़ें
पृष्ठ 23

राजप्रशंसा । १७
तपिरन्तर्भावितण्यर्थः । दुर्निरीक्ष्यमुखत्वादेवमुच्यते । तदाह-न
चैनमिति । एनं राजानं पृथिव्यां कश्चिदप्यभिमुख्येन वीक्षितुं न
क्षमते । अत्र मेधातिथिः- "ब्राह्मणा जात्युत्कृष्टा ब्रह्मवर्च-
स्विनोऽपि नैनमभिमुखं वीक्षितुं शक्नुवन्ति । तदुक्तम्-
गौतमेन, तमुपर्यासीनमधस्तादुपासीरन" इति व्याच-
ख्यौ । तदयुक्तम् । अन्ये ब्राह्मणेभ्य इति वाक्यशेषविरोधात् ।
तथा च-
गौतमः, तमुपर्यासीनमधस्तादुपासीरन्नन्ये ब्राह्मणेभ्यस्ते-
ऽप्येनं मन्येरन्निति ।
तं राजानम् उपर्यासीनं सिंहासनस्थितम् अधस्तात् भूमावेव उ-
पासीरन् अन्ये ब्राह्मणेभ्यः ब्राह्मणातिरिक्ताः । ब्राह्मणास्त्वाशी-
र्वादादिभिरभिपूजयेयुः । वस्तुतस्तु तमुपर्यासीनमित्यस्य विधि-
रूपत्वात् भिन्नविषयत्वाच्च "न चैनं भुवि शक्नोति" इत्यस्य सम्म-
तिरूपत्वमेवायुक्तम् । दृष्टेनापि दोषेण राज्ञोऽवज्ञा न युज्यते इ-
त्येतन्निषेधार्थवादत्वात्पूर्वोक्तश्लोकानाम् । इन्द्रादिमात्रा निर्हृत्य
कृतत्वात् तस्यापि तद्रूपतामाह-
सोऽग्निर्भवति वायुश्च सोऽर्कः सोमः स धर्मराट् ।
स कुबेरः स वरुणः स महेन्द्रः प्रभावतः ॥
धर्मराट् यमः । अग्न्याद्यंशसम्भवत्वात्तत्कार्यकारित्वाच्च
ताद्रूप्यम् । प्रभावोऽलौकिकी शक्तिः । ततश्च-
बालोऽपि नावमन्तव्यो मनुष्य इति भूमिपः ।
महती देवता ह्येषा नररूपेण तिष्ठति ॥
एतेन देवतावमानने यो दोषः स राजावज्ञायामित्यदृष्ट-
दोष उक्तः । इदानीं दृष्टदोषमाह-
३