उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)
Uttararamacharitam of Bhavabhuti with Hindi Commentary
महाकवि भवभूति / पं. रामचन्द्र मिश्र द्वारा
ऽभिवर्तते' । तदात्मनः पुराणश्वशुरमेतावतो मानवस्य राजर्षिवंशस्य प्रस-
वितारं सवितारमपहतपाप्मानं देवं स्वहस्तावचितैः पुष्पैरुपतिष्ठस्व । न च
त्वामवनिष्ठचारिणीमस्मत्प्रभावाद्दनदेवता अपि द्रक्ष्यन्ति किं पुनर्मर्त्याः'
इति । अहमप्याज्ञापिता 'तमसे त्वयि प्रकृष्टप्रेमैव वधूर्जानकी । अतस्त्वमे-
वास्याः प्रत्यनन्तरीभव' इति । साह्मधुना यथोद्दिष्टमनुतिष्ठामि ।
मुरला—अहमप्येतं वृत्तान्तं भगवत्यै लोपामुद्रायै निवेदयामि । राम-
भद्रोऽप्यागत एवेति तर्कयामि ।
तमसा—तदियं गोदावरीह्रदान्निष्क्रम्य
परिपाण्डुदुर्बलकपोलसुन्दरं
दधती विलोलकबरीकमाननम् ।
करुणस्य मूर्तिरथवा शरीरिणी
विरहव्यथेव वनमेति जानकी ॥ ४ ॥
मुरला—इयं हि सा
किसलयमिव मुग्धं बन्धनाद्विप्रलूनं
हृदयकुसुमशोषी दारुणो दीर्घशोकः ।
ग्लपयति परिपाण्डु क्षाममस्याः शरीरं
शरदिश इव घर्मः केतकीगर्भपत्रम् ॥ ५ ॥
( इति परिक्रम्य निष्क्रान्ते । )
शुद्धविष्कम्भकः ।
( नेपथ्ये । ) प्रमादः प्रमादः ।
मङ्गल्ये द्वादशी बन्दपूर्तिः । 'ग्रन्थिहस्तत्रपर्वणो' इति नानार्थमञ्जरी ।
अत एव 'वयसा द्वादशाब्दको' इति सप्तमाङ्के गर्भनाटकसन्दर्शने रामं प्रति
लक्ष्मणेन वक्ष्यते । तत् तस्माद् । पुराणं पुरातनधर्माणां...मानवस्य
मानवसमूहस्य । 'मानवानां तु मानव्यम्' इत्यमरः । प्रसवितारं जनकम् ।
उपतिष्ठस्व सेवस्व । प्रेष्ठेति ध्वति । मर्त्याः रामादय इति भाव । अत
एवाग्रे—'तमसे ओसरह दाव' इति सभयं सीतया वक्ष्यते । प्रत्यनन्तरी-
भव सहाया भवेत्यर्थः ॥ परिपाण्डुदुर्बलेति ॥ ४ ॥ कबरी केश-
पाश ॥ ४ ॥ किसलयमिवेति ॥ ५ ॥ किसलयमिव स्थितमिति शेषः ।
शरीरविशेषणमेतत् । बन्धनात् वृन्तात् । दीर्घशोकः नव्यस्तं पदं मध्यवम् ।
१ 'अनिरुष्टते' ब. २ 'प्रत्यन्तरीभव' व. ३ 'मूर्तिरिव वा' ब.
५४ उत्तररामचरितं [ ३-६
( ततः प्रविशति पुष्पावचयव्यग्रा सशङ्कौत्सुक्यमाकर्णयन्ती सीता । )
सीता-अम्महे जाणामि पियसही मे वासन्दी वाहरदि । अहो
जानामि प्रियसखी मे वासन्ती व्याहरति ।
( पुनर्नेपथ्ये । ) सीतादेव्या स्वकरकलितैः सल्लकीपल्लवाग्रै-
रग्रे लोलः करिकलभको यः पुरा वर्धितोऽभूत् ।
सीता-किं तस्स । किं तस्य ।
( पुनर्नेपथ्ये । ) वध्वा सार्धं पयसि विहरन्सोऽयमन्येन दर्पा-
दुद्दामेन द्विरदपतिना सन्निपत्याभियुक्तः ॥ ६ ॥
सीता-( ससंभ्रमम् । कतिचित्पदानि गत्वा । ) अज्जउत्त परित्ताहि
परित्ताहि मह तं पुत्तअम् । ( स्मृतिमभिनीय सवैक्लव्यम् । ) हद्धी हद्धी ।
ताइ जेव्व चिरपरिचिदाइं अक्खराइँ पञ्चवदीदंसणेण मं मन्दभाइणिं
अंणुबन्धन्ति । हा अज्जउत्त । ( मूर्च्छति । ) आर्यपुत्र परित्रायस्व परित्रा-
यस्व मम तं पुत्रकम् । हा धिक् हा धिक् । तान्येव चिरपरिचितान्यक्षराणि
पञ्चवटीदर्शनेन मां मन्दभागिनीमनुबध्नन्ति । हा आर्यपुत्र ।
प्रविश्य तमसा-वत्से समाश्वसिहि । समाश्वसिहि ।
( नेपथ्ये ) विमानराज अत्रैव स्थीयताम् ।
क्षामं दृशम् ॥ ५ ॥ इति शुद्धविष्कम्भः ॥ औत्सुक्यं उत्कण्ठा । अहो-
जानामि प्रियसखी वासन्ती व्याहरतीति । व्याहरति क्रन्दतीत्यर्थः ॥
सीतादेव्याः स्वकरैरिति ॥ ६ ॥ कलितैः दत्तैः । सल्लकी गजभक्ष्यतरुः ।
'लोलः सास्र' इति कश्चित् । तस्माद् किं तस्य । वध्वा निजकरिण्या ।
सार्धं सह । 'चण्ड उद्दाम उद्भट' इति शब्दार्णवे । 'उद्दामस्य क्ले' इति
गोवर्धनः । अभियुक्तः अभिगृहीतः । 'अभियोगस्त्वभिग्रह' इत्यमरः ॥
॥ ६ ॥ आर्यपुत्र परित्रायस्व परित्रायस्व मम पुत्रकम् । हा धिक् हा धिक्
तान्येव चिरपरिचितान्यक्षराणि पञ्चवटीदर्शनेन मां मन्दभागिनीमनुबध्नन्ति ।
हा आर्यपुत्र । 'पुत्रक कृत्रिमे पुत्रे' इति संसारावर्तेः । अक्खराइ इति
कालिदासादिवत् कवे प्रमादः । 'अक्ष्यादिषु छ' इति गणे पठितत्वात् ।
'दीने च मन्दभाग' इति त्रिकाण्डशेषः । तमसेति-अत्र पात्रासूचनं
कवे प्रमाद इति केचित्, तद्रूसापङ्गन्यायानुकरणम् । 'उत्साहखेदतोषादौ
पात्रासूचन' इति जयदेवोक्तेः ॥ अह्नहे जलभरभरितमेघमन्थरस्तनितगम्भी-
रमासन्नः कुतो नु भारतीनिर्घोषः प्रविशन् कर्णविवरं मामपि मन्दभागिनीम्-
१ 'पोषितः' व-घ. २ 'अणुरन्धन्ति' ( अनुरन्धन्ति ) व.
३-८] उत्तररामचरितं ५५
सीता—भगवइ किं मण्णे अवरिफुडेत्ति । सरसंजाएण पच्चाभिजा-
णामि अजउत्तेण एव्वं पुहुं व्याहरिदम् । भगवति किं मन्यसेऽपरिकुटेति ।
सरसयोगेन प्रत्यभिजानामि आर्यपुत्रेणैव एतद्व्याहृतम् ।
तमसा—श्रूयते वत्सव किल शूद्रस्य दण्डधारणार्थमिक्ष्वाको राजा
जनस्थानमागत इति ।
सीता—दिट्ठिआ अपरिहीणधम्मो खलु सो राआ । दिष्ट्या अपरिहीन-
धर्मः खलु स राजा ।
नेपथ्ये । यत्र द्रुमा अपि मृगा अपि बान्धवो मे
यानि प्रियासहचरश्चिरमध्यवात्सम् ।
स्फुटयति । 'मन्थरस्तु मन्दः' इत्यमरशेषः । भरन्दो इति देशीयः शब्दः ।
'भरतो' इति महाराष्ट्राः । ससिताश्चमैति—असमाविदसीतावचनश्रवणा-
दिति भावः ॥ अपरिस्फुटनिस्वाने इति ॥ ७ ॥ निस्वाने ध्वनौ ।
'ध्वनिनादगुदस्वनां' इति शाश्वतः । सानयितौ मेषे । चसिता च उत्कण्ठि-
ता च यस्मिन् कर्मणीति क्रियाविशेषणस्य धर्मपरत्वेऽपि न दोषः । अत एव
'अकुण्ठनीशितं वर्ने' इति माघः ॥ ७ ॥ भगवति किं मन्यसे परिकुटेति ।
सरसयोगेन प्रत्यभिजानामि आर्यपुत्रेणैव एतद्व्याहृतम् । 'दिक्षपे दण्डधारपम्'
इत्यमरमाला । दिश्या अपरिहीनधर्म खल्वेष राजा । यच्छद्वद्वयेन तद्याने
स्रष्टन्ते ॥ यत्र द्रुमा अपीति ॥ ८ ॥ अधीती—सधिवास शक्यार्थेले-
१ 'उण्भावेदि' (उण्णामयति) ग-घ, 'उम्भावेदि' क. २ 'णिमन्दसेत्ति
निनदे' घ, 'विमत्थसेऽवि निनदे' घ, 'निकाने' म-क. ३ 'मय टन सरमंगोएण
पचभिआणिदं अजउत्तेणेव्व व्याहरदि' (मया पुनः सरसयोगेन प्रत्यभिज्ञात मार्य-
पुत्र एव व्याहरति) क-प-घ. ४ 'दण्डधार'वम्' ग. ५ 'रामधन्मो' क-घ-T
५६ उत्तररामचरितं [ ३-९
एतानि तानि बहुनिर्झरकन्दराणि
गोदावरीपरिसरस्य गिरेस्तटानि ॥ ८ ॥
सीता—( दृष्ट्वा ) दिट्ठिआ कहं पहादचन्दमण्डलावाण्डुरपरिक्खामदु-
व्वलेन आआरेण अअं णिअसोम्मगम्भीराणुभावमेत्तपच्चहिजाणिओ अज्ज-
उत्तो जेव्व । भगवदि तमसे धारेहि मं । दिष्ट्या कथं प्रभातचन्द्रमण्डलापाण्डु-
परिक्षामदुर्बलेनाकारेणायं निजसौम्यगम्भीरानुभावमात्रप्रत्यभिज्ञातव्य आर्य-
पुत्र एव । भगवति तमसे धारय माम् । ( इति तमसामाश्लिष्य मूर्च्छति । )
तमसा—वत्से समाश्वसिहि समाश्वसिहि ।
( नेपथ्ये । )
अनेन पञ्चवटीदर्शनेन
अन्तर्लीनस्य दुःखाग्नेरद्योद्दामं ज्वलिष्यतः ।
उत्पीड इव धूमस्य मोहः प्रागावृणोति माम् ॥ ९ ॥
हा प्रिये जानकि ।
तमसा—( स्वगतम् । ) इदं तदाशङ्कितं गुरुजनेन ।
सीता—( समाश्वस्य । ) हा कहं एदं । हा कथमेतत् ।
( पुनर्नेपथ्ये । )
हा देवि दण्डकारण्यवासप्रियसखि विदेहराजपुत्रि ।
सीता—हद्धी हद्धी । मं मन्दभाइणिं वाहरिअ आमीलंतणेत्तणीलुप्पलो
मुच्छिदो जेव्व । हा कहं धरणीउट्ठे णिरुद्धणिस्सामणीसहं विपरहत्थो ।
त्यर्थः । तान्येतानीत्यन्वयः । गोदावरीं परितः सरति व्याप्नोति गोदावरी-
परिसरः । तटानीति प्रमाद् 'तटो भृगु' इत्यमरसिंहेनाभिधानात् । अत
एव । 'तीरे तटोऽस्त्री पुंस्येव भृगौ' इति शब्दमाला । दिष्ट्या कथं प्रभात-
चन्द्रमण्डलपरिक्षाम धूसरेणाकारेणायं निजसौम्यगम्भीरानुभावमात्रप्रत्यभि-
ज्ञातव्य आर्यपुत्र एव । भगवति तमसे धारय माम् ॥ आकारेण
आकृत्या उपलक्षित । 'स्वके नित्ये निजम्' इत्यमर । 'अनुभावः प्रभाव ॥
अन्तर्लीनस्य दुःखाग्नेरिति ॥ ९ ॥ उद्दामं उद्भटं यथा तथा । धूम-
स्योत्पीडः । 'कलिकाङ्कुरयो' इति मकुटः । 'अज्ञानभ्रममूर्च्छादौ मोह' इति
कपिलः । प्राक् आदी ॥ ९ ॥ गुरुजनेन लोपामुद्रयेति पूर्वोक्तमूह्यम् ।
विदेहेति ध्वनि । हा धिक् हा धिक् । मां मन्दभागिनीं व्याहृत्य मीलन्नेत्र-
नीलोत्पलो मूर्च्छित एव । हा कथं धरणीपृष्ठे निरुद्धनिःसहनिश्वास पतितः ।
'समौ निःसहदुःसहौ' इति निकाण्डशेषः । विप्रलब्ध इति पाठे वञ्चित
१ 'मथोद्दाम' घ. २ 'तावद्' न. ३ 'जनेनापि' य-घ.
३-११ ] उत्तररामचरितं ५७
भअवदि तमसे परित्ताएहि परित्ताएहि । जीवावेहि अज्जउत्तं । हा धिक् हा
धिक् । मा मन्दभागिणीं-व्वाहिलामीलितेननीलोत्पलो मूर्छित एव । हा कथं
धरणीपृष्ठे निरुद्धनिःश्वासनिःसहं विपर्यस्तः । भगवति तमसे परित्रायस्व परि-
त्रायस्व । जीवयार्यपुत्रम् । ( इति पादयोः पतति । )
तमसा—त्वमेव ननु कल्याणि सञ्जीवय जगत्पतिम् ।
प्रियस्पर्शो हि पाणिस्ते तत्रैष निरतो जनः ॥ १० ॥ १-४
सीता—जं होदु तं होदु । जहा भअवदी आणवेदि । यद्भवतु तद्भवतु ।
यथा भगवत्याज्ञापयति । ( इति ससम्भ्रमं निष्क्रान्ता । )
( ततः प्रविशति भूम्यां निपतितः सालयां सीतया स्पृश्यमानः साह्लादोच्छ्वासो
रामः । )
सीता—( किञ्चित्प्रहर्षम् । ) जाने ढण पञ्चाअदं विअ जीविदं तैल्लो-
अस्स । जाने पुन प्रत्यागतमिव जीवितं त्रैलोक्यस्य । २
रामः—हन्त भोः किमेतत् ।
१-२श्च्योतनं नु हरिचन्दनपल्लवानां
निष्पीडितेन्दुकरकन्दलजो नु सेकः ।
आतप्तजीवितपुनःपरितर्पणोऽयं
सञ्जीवनौषधिरसो नु हृदि प्रसिक्तः ॥ ११ ॥
इत्यर्थः । जीवितेनेति शेषः । भगवति तमसे परित्रायस्व जीवयार्यपुत्रम् ॥
त्वमेव ननु कल्याणीति ॥ १० ॥ जगत्पतिपदमहिम्ना त्वं लक्ष्मीरिति
भावो व्यज्यते । तथा च रामायणे—'सीता लक्ष्मीर्भवान्विष्णुः' इति । ते ययं
यत्र यस्यां तयोस्त्वर्थे । एष जनः रामः ॥ १० ॥ यद्भवतु तद्भवतु । यथा
भगवती शाज्ञापयति । जाने पुन प्रत्यागतमिव जीवितं त्रैलोक्यस्य । एतेन
रामस्य त्रैलोक्यस्य च एकापन्नधर्मत्वादद्वैतमेव प्रामाणिकमिति कविना वेदान्त-
मार्गो दर्शित इति बोध्यम् । अत एव 'हरिरेव जगज्जगदेव हरिः' इति, 'सर्वं
विष्णुमयं जगत्' इति, 'भूतानि विष्णुर्भुवनानि विष्णुः' इति प्रायः । भो इति
मनः प्रति सम्बोधनम् ॥ अथ स्पर्शं द्वाभ्यां विशिनष्टि ॥ आश्च्योतनं नु
इति ॥ ११ ॥ 'रसादिर्भूतये यत्स्याद्वस्तुनीभिः प्रपीडनम् । तदाश्च्योतनमाश्च्योत-
श्च्योतनं' इति च द्विरूपः । आ समन्ताद् श्च्योतनं गलनं वा । अत एव
'दृष्टोत्तद्भिर्नयनाम्बुभिः' इति भल्लटाख्यातभारतचम्पौ । नु विन्दु । 'पुंसि
वा हरिचन्दनम्' इत्यमरः । करकन्दलः किरणसमष्टिः । 'कन्दे गोले समष्टौ
१ 'तत्रैव निरतो मनः' व; 'तत्रैव नियतो भरः' घ. २ 'त्रैलोक्यनाथस्य'
सं-घ. ३ 'प्रक्षोदनं' घ-व. ४ 'जीविततरोः परी-' व-घ.
५८ उत्तररामचरितं [ ३-१२
अपि च।
स्पर्शः पुरा परिचितो नियतं स एव
सञ्जीवनश्च मनसः परितोषणश्च ।
सन्तापजां सपदि यः परिहृत्य मूर्च्छा-
मानन्दनेन जडतां पुनरातनोति ॥ १२ ॥
सीता-(ससाध्वसोत्कम्पमपसृत्य ।) एत्तिअं जेव्व दाणिं मे बहुदरं ।
एतावदेवेदानीं मे बहुतरम् ।
रामः-(उपविश्य ।) न खलु वत्सलया सीतादेव्याभ्युपपन्नोऽस्मि ।
सीता-हद्धी हद्धी । किं त्ति मं अणउत्तो मग्गिस्सदि । हा धिक् हा
धिक् । किमिति मामार्यपुत्रो मार्गिष्यते ।
रामः-भवतु । पश्यामि ।
सीता-भअवदि तमसे ओसरह्म दाव । मं पेक्खिअ अणब्भणुण्णादेण
संणिहाणेण राजा अहिअं कुप्पिस्सदि । भगवति तमसे अपसरावस्तावत् ।
मां प्रेक्ष्यानभ्यनुज्ञातेन संनिधानेन राजाधिकं कोपिष्यति ।
तमसा-अयि वत्से भागीरथीप्रसादाद्वनदेवतानामप्यदृश्यासि संवृत्ता।
सीता-हुम्, अत्थि एदं । हुम्, अस्त्येतत् ।
च कन्दल' इति संसारावर्त्तः । आ समन्तात् तप्तं च तत् जीवितं ।
पुनः परि परितः तर्पयतीति तर्पण इत्यर्थः । 'तर्पणं प्रीणावने' इत्यमरः ।
प्रकर्षेण सिञ्च प्रशब्दः पादपूरणे इति केचित् । 'सम्प्रो नु माया नु' इत्यस्यव्या-
ख्यातशाकुन्तलश्लोकानुकारणामिव एतत्पद्यानुकारयोः पुनरुक्तिः क्षन्तव्या ॥
॥ ११ ॥ स्पर्शः पुरा परिचित इति ॥ १२ ॥ नियतं नियमप्राप्तं यथा
तथा । सम्यक् जीवयतीति सञ्जीवनः । स स्पर्शः । आनन्दनेन आनन्द-
प्रापणेन सभाजनेन वा । जडतां शीतलतां स्तब्धतां वा ॥ १२ ॥ एतावदे-
वेदानीं मे बहुतरं एतावज्जीवनमिति भावः । बहुतरं सुखमिति शेषः । 'व-
त्सलस्तु प्रसन्न' इति हारावली । अभ्युपपन्नः अनुगृहीतः ॥ हा धिक्
हा धिक् कयमार्यपुत्रो मां निर्दिशति । भगवति तमसे अपसरावस्तावत् ।
मां प्रेक्ष्य अनभ्यनुज्ञातसन्निधाना राजा कोपिष्यति । वनदेवतानामपीति-
किमुत अन्यजनानामिति भावः । हुं अस्त्येतत् । हुमित्याकर्षणेनाभिनयः ।
'रामो नाम बभूव हु' इति लीलांशुकः । ससाध्वसगद्गदमिति कथन
१ 'मोहनश्च' इति क-घ, 'मोदनश्च' इति घ.
३-१२] उत्तररामचरितं ५९
रामः—हा प्रिये जानकि ।
सीता—( ससाध्वंमगद्गदम् ।) अअउत्त असदिसं क्खु एदं इमस्स
वुत्तन्तस्स । ( साखम् ।) अहवा किं त्ति वज्जमई जन्मान्तरेसु वि पुणो असं-
भाविददुलहदंसणस्स मं लेइअ मन्दभाइणिं उद्दिसिअ वच्छलस्स १ एव्वंवा-
दिणो अज्जउत्तस्स उवरि णिरणुकोसा भविस्सं ।' अहं एदस्स हिअअं
जाणामि ममावि एसो । आर्यपुत्र असदृशं खल्वेतदस्य वृत्तान्तस्य । अथवा
किमिति वज्रमयी जन्मान्तरेष्वपि ३ पुनरसम्भावितदुर्लभदर्शनस्य मामेव मन्द-
भागिनीमुद्दिश्य वत्सलस्यैवंवादिन २ आर्यपुत्रस्योपरि निरनुक्रोशा भविष्यामि ।
अहमेतस्य हृदयं जानामि ममाप्येषः ।
रामः—( सर्वतोऽवलोक्य सनिर्वेदम् ।) हा न किंचिदत्र ।
सीता—भगवदि तमसे तदा णिक्कारणपरिच्चाइणो वि एदस्स एव्वंवि-
रामेणाहं दृष्टासीति भ्रान्तेति बोध्यम् । 'गद्गदं स्खलिताक्षरम्' इति अम-
रमाळा। आर्यपुत्र आर्यपुत्र असदृशं खल्वेतदस्य वृत्तान्तस्य । 'वृत्तान्तस्तु
प्रयोगे च व्यवहारे च' इति पद्ममाला । तथा वृत्तान्तस्य प्रिये जानकि
प्रयोगस्य व्यवहारस्य वा । एतत् निरूपणं अभिनयं वेति शेषः । असदृशं
अनुचितं जात्यित्यर्थे ॥ अथ स्वमानसं प्रत्याह-अहवेति । अथवा किमिति
वज्रमयी जन्मान्तरेषु पुनरसम्भाविततुलाप्रलब्ध्यदर्शनस्य मा मन्दभागिनीमु-
द्दिश्यैवं वत्सलस्यैवंवादिन आर्यपुत्रस्योपरि निरनुक्रोशा भविष्यामि । अहमेवैतस्य
हृदयं जानामि । एतेषामपि मम । वज्रमयी अतिकठोरेति यावत् । ज-
न्मान्तरेषु आगामिजन्मसु । पुनस्संभावितं तुलाप्रलब्धस्येव घटाशिखर-
शलाकाया इव । अवधानविशेषलभ्यं दर्शनं यस्य । 'तुला घटा' इति, 'शि-
खराग्रलयोरग्रं' इति, 'लब्धं प्राप्ते तुलानास्थ्यशालाकायां च' इति मेदिनी-
हैमकेदाराः । मन्दं च तत् भागः धीसमूहः सोऽस्या अस्तीति मन्दभा-
गिनी । तदिदं कोकनीलादिमुरारिप्रयोगमहृदनीयम् । एवमविशयेन वत्स-
लस्य प्रसन्नस्य । एवं प्रिये जानकि इत्यादिप्रेमपुरस्सरमिति यावत् । निरनु-
क्रोशा निर्दया । ममेति हृदयं जानातीत्यर्थे । अत्र षष्ठ्यर्थे बहवः प्रांशुतर-
श्रीप्रहर्तुक्षाममुपागर्वजववृत्तीदवाच्याभ्यंचे इति दिक् ॥ भगवति तदा नि-
ष्कारणपरित्यागिनोऽपि नामितस्य एवंविधेन दर्शनेन कीदृशी मे हृदयावस्था ।
'नाम प्रसिद्धौ खेदादौ' इति जयः । एवंविधेन निष्फलेनेत्यर्थः । अवस्थां
१ 'समन्यु-' क-घ-च. २ 'एतद्वचनम्' क-घ-च. ३ 'जन्मान्तरे समा-
वित-' घ.
घेण दंसणेण केरिसी' मे हिअभवावत्था । भगवति तमसे तया निष्कारणपरि-
त्यागिनोऽप्येतस्यैवंविधेन दर्शनेन कीदृशी मे हृदयावस्था ।
तमसा—जानामि वत्से जानामि ।
तटस्थं नैराश्यादपि च कलुषं विप्रियवशा-
द्वियोगे दीर्धेऽस्मिञ्झटिति घटनात्स्तम्भितमिव ।
प्रसन्नं सौजन्याद्दयितकरुणैर्गाढकरुणं
द्रवीभूतं प्रेम्णा तव हृदयमस्मिन्क्षण इव ॥ १३ ॥
रामः—देवि
प्रसाद इव मूर्तस्ते स्पर्शः स्नेहाईशीतलः ।
अद्याप्यानन्दयति मां त्वं पुनः क्वासि नन्दिनि ॥ १४ ॥
सीता—एदे क्खु ते अगाधमाणसंदंसिदसिणेहसंभारा आणन्दणिस्स-
न्दिणो सुहामआ अज्जउत्तस्स उल्लावा । जाणे पच्चएण णिकारणपरिच्चाअ-
सल्लिदोवि बहुमदो मह जम्मलाहो । एते खलु तेऽगाधमानसदर्शितस्नेहस-
म्भारा आनन्दनिष्यन्दिनः सुधामया आर्यपुत्रस्योल्लापाः । येषां प्रत्ययेन
निष्कारणपरित्यागशलितोऽपि बहुमतो मम जन्मलाभः ।
वर्णयति ॥ तटस्थं नैराश्यादिति ॥ १३ ॥ नैराश्यात् निराशत्वात् ।
तटस्थं उदासीनम् । विप्रियं परित्याग । तद्वशात् । कलुषं आविलम् ।
झटिति सहसा । घटनात् निष्फलसम्बन्धादपि । स्तम्भितं संजातस्त-
म्भम् । 'स्तम्भो जडीभावे' इति नन्ददधि ( ? ।) तस्य रामस्य । करुण-
रसैः । गाढकरुणं भृशदयम् । क्षणे कालविशेषे । द्रवीभूतमिव । हृदयं
एक सदपि परित्यागतानानावस्थं वर्तत इति भावः ॥ १३ ॥ प्रसाद इव
मूर्त इति ॥ १४ ॥ मूर्तः मूर्तिमान् । स्नेहाद्वैत्वत्र सन्धिसङ्कटं घटनात्
स्तम्भित इव क्षन्तव्यम् । आनन्दयति तोषयति । नन्दिनीति कवेरचा-
तुर्यम् । तथापि नन्दयतीति धातुबलादवान्तरभेद ऊह्यः । नन्दिनी प्रथ-
मैकवचनम् । नन्दिनी त्वं पुन क्ववासि इत्यर्थः । पुनश्शब्दो वाक्यालङ्कारे ।
नन्दिनि इति सम्बोधन इति केचित् । तन्न । देवीति सम्बोधनरयैव प्राद्य-
स्यात् ॥ १४ ॥ एवे खलु ते अगाधमानसदर्शितस्नेहसम्भवाः आनन्दनिष्य-
न्दिनः सुधामया आर्यपुत्रस्यालापा । येषा प्रत्ययेन निष्कारणपरित्यागश-
१ 'कीदिसो विअ मे हिअआणुबन्धोत्ति ण आणामि' ( कीदृश इव मे हृदयानु-
बन्ध इति न जानामि) क-ख-घ. २ 'घटनोत्तम्भितमिव' घ-घ. ३ 'अद्याप्योऽ
ह्लादयति' घ-घ. ४ 'नन्दिनि' क-घ-न-व. ५ 'अगाधदसिद' क-घ-घ.
३-१४] उत्तररामचरितं ६१
रामः-अथवा कुतः प्रियतमा । नूनं सङ्कल्पाभ्यासपाटवोपादान एव
रामभद्रस्य भ्रमः । -
(नेपथ्ये) अहो महान्प्रमादः प्रमादः । ('सीतादेव्याः सकरकलितैः'
इत्यर्धं पठ्यते ।)
रामः-(सकरुणौत्सुक्यम् ।) किं तत् ।
(पुनर्नेपथ्ये । 'वध्वा सार्धं' इत्युत्तरार्धं पठ्यते ।)
सीता-को दाणिं अहिटंविस्सइ । क इदानीमभियोक्ष्यते ।
रामः-क्वासौ क्वासौ दुरात्मा यः प्रियायाः पुत्रकं वधूट्वितीयमभिभ-
वति । (इत्युत्तिष्ठति ।)
प्रविश्य सम्भ्रान्ता । वासन्ती-केयं देवो रघुनन्दनः ।
सीता-कहं पिअसही मे बामन्ती । कथं प्रियसखी मे वासन्ती ।
वासन्ती-जयतु जयतु देवः ।
रामः-(निरूप्य ।) कथं देव्याः प्रियसखी वासन्ती ।
वासन्ती-देव त्वर्यतां त्वर्यताम् । इतो जटायुशिखरस्य दक्षिणेन
सीतातीर्थेन गोदावरीमवतीर्य सम्भावयतु देव्याः पुत्रकं देवः ।
सीता-हा ताद जडाओ सुण्णं तुए विणा इदं जणहाणम् । हा तात
जटायो शून्यं त्वया विनेदं जनस्थानम् ।
रामः-अहह हृदयमर्मच्छिदः खल्वमी कथोद्घाताः ।
वासन्ती-इत इतो देवः ।
स्यतोऽपि बहुमतो जन्मलाभः । सम्भवः उत्पत्तिः शल्यतः शल्यादपि ।
तथा च ईदृशशल्यनिवारणाय शरीरपातोऽस्तु, एतादृशप्रियवदनायोपभोगाय
पुनर्न्जन्मलाभोऽस्त्विति सीताया भाव इति बोध्यम् ॥ सङ्कल्पस्यावभासे
भासने यत् पाटवं सामर्थ्यं तदेव उपादानं साधकतमं यस्य, 'करणं सा-
धकतममुपादानं' इति विक्रमार्कः । उपादानमिति ध्वनिः । विभ्रमः सीता-
सम्बन्धरूपो विलास इत्यर्थः ॥ 'प्रमादोऽनवधानता' इत्यमरः । क इदानी-
मभिभविष्यति । कथं प्रियसखी मे वासन्ती । जटायुरित्यदन्तोऽपि शब्दः
'जटायुषु जटायुवत्' इति लिङ्गनिर्णयः । हा तात जटायो शून्यं त्वया
जनस्थानम् । मर्मं छिन्दन्ति मर्माच्छिदः । 'उपोद्घात उदाहारः' इति,
१ 'पाटवोत्पादितः' घ; 'पाटवोत्पादः' च. २ 'अभिजुञ्जइ' (अभिजुञ्जे) न.
३ 'देव त्वरंतां त्वर्यताम्' इति न. ४ 'जटायुशिखरिदक्षिणेन' व; 'जटायुगिरि' घ.
६ उ०
सीता—भववदि सचं जेव्व वणदेवदा वि म न पेक्खन्ति । भगवति
सत्यमेव वनदेवता अपि मां न प्रेक्षन्ते ।
तमसा—अयि वत्से सर्वदेवताभ्यः प्रकृष्टतममैश्वर्यं मन्दाकिनीदेव्या-
स्तत्किमित्याशङ्कसे ।
सीता—उदो अणुसरम्ह । ततोऽनुसराव । ( इति परिक्रामति । )
रामः—भगवति गोदावरि नम॑स्ते ।
वासन्ती—( निरूप्य । ) देव मोदस्व विजयिना वधूटितीयेन देव्याः
पुत्रकेण ।
रामः—विजयतामायुष्मान् ।
सीता—अम्महे ईंदिसो मे पुत्तओ संवुत्तो । अहो ईदृशो मे पुत्रकः
संवृत्तः ।
रामः—हा देवि दिष्ट्या वर्धसे ।
येनोद्गच्छद्बिसकिसलयस्निग्धदन्ताङ्कुरेण
व्याकृष्टस्ते सुतनु लवलीपल्लवः कर्णमूलात् । १
सोऽयं पुत्रस्तव मदमुचां वारणानां विजेता
यत्कल्याणे वयसि तरुणे भाजनं तस्य जातः ॥ १५ ॥
सीता—अविउत्तो दाणिं अअं दीहाउ इमाए सोम्मदंसणाए होदु ।
अवियुक्त इदानीमय दीर्घायुरनया सौम्यदर्शनया भवतु ।
रामः—सखि वासन्ति पश्य पश्य कान्तानुवृत्तिचातुर्यमपि शिक्षितं
वत्सेन ।
उद्घात इति पाठे 'उद्घात आरम्भ' इति चामरः ॥ भगवति सर्वथा वन-
देवता अपि मां न द्रक्ष्यन्ति । ऐश्वर्यं वनदेवतामाहात्म्यमिति यावत् ।
मन्दाकिन्याः भागीरथ्या 'गङ्गा मन्दाकिनी भागीरथी च वियदापगा'
इति रत्नमाला । ततोऽनुसराव । अञ्चहे ईदृशो मे पुत्रकरसंवृत्तः ॥ येनो-
द्गच्छदिति ॥ १५ ॥ उद्गच्छत् उदयच्च तत् बिसं मृणालं तदेव किस-
लयम्, तद्वत् स्निग्धो मसृणः दन्ताङ्कुरः यस्य । किसलयमिति पदं ब-
र्हिमांक्ष्ण्यमानसूचकम् । लवलो 'राय आवळी' इति महाराष्ट्राः । कर्ण-
मूलात् धवखोरादिभागात् । ध्वनिश्च । तस्य कल्याणस्य करुण्यनुवर्तना-
दिरूपस्य इत्यर्थ ॥ १५ ॥ अयि पुत्र इदानीं दीर्घायुरनया सौम्यदर्शनया
करिण्या सह भवतु । अयीति वासन्तीं प्रति सम्बोधनम् । वत्सेन करि-
१ 'कर्णपूरात्' घ-प.
३-१६] उत्तररामचरितं ६३
लीलोत्खातमृणालकाण्डकवलच्छेदेषु सम्पादिताः
पुष्यत्पुष्करवासितस्य पयसो गण्डूषसंक्रान्तयः ।
सेकः शीकरिणा करेण विहितः कामं विरामे पुन-
र्यत्स्नेहादनरालनालनलिनीपत्रातपत्रं धृतम् ॥ १६ ॥
सीता—भअवदि तमसे अयं दाव ईरिसो जादो । दे उण ण जाणामि
कुसलवा एत्तिपण कालेण केरिसा संवुत्तेत्ति । भगवति तमसे अय तावदीदृशो
जातः । तौ पुनर्न जानामि कुशलवावेतावता कालेन कीदृशौ संवृत्ताविति ।
तमसा—यादृशोऽय तादृशौ तावपि ।
सीता—ईरिसी अहं मन्दभाइणी जाए ण केवलं णिस्सहो अज्जउत्त-
विरहो पुत्तविरहो वि । ईदृशह मन्दभागिनी यस्या न केवलं निःसह आर्य-
पुत्रविरहः पुत्रविरहोऽपि ।
तमसा—भवितव्यतेयमीदृशी ।
सीता—किंवा मए पसूदाए जेण तारिसवि मह पुत्तआणं ईसिणिरल-
कोमलधवलदसणुंजलकवोलं अणुपद्धमुद्धकाअलीविहसिदं णिवद्धकाअसि-
खण्डअं अमलमूहपुण्डरीअजुभलं ण परिचुम्बियं अज्जउत्तेण । किं वा मया
प्रसूतया येन तादृशमपि मम पुत्रकयोरीषद्विरलकोमलधवलदशनोज्ज्वलंक-
पोलमनुबद्धमुग्धकाकलीविहसितं निबद्धकाकशिखण्डकमलमुखपुण्डरीकयुगलं
न परिचुम्बितमार्यपुत्रेण ।
पुनस्तेन ॥ लीलोत्खातमृणालेति ॥ १६ ॥ यत् यस्मात्कारणात् । छे-
देषु भङ्गेषु । कवलार्थरूपदानविभागेषु इति यावत् । 'छेदो विभजने भङ्ग-
व्वदौ' इति मङ्कटः । पुष्यच्च तत् पुष्करे इत्याग्रे वासितं सजात-
वासम् । कामं यथेप्सितम् । विरामे विश्रान्तिसमये 'विश्रान्तौ च विरामे'
इति नन्दी । अनरालं अवक्रम् ॥ १६ ॥ भगवति तमसे अयं तावदीदृशो
जातः । तौ पुनर्न जानामि एतावता कालेन कीदृशौ संवृत्ताविति । ईदृशस्मि
मन्दारिक्किनी (मन्दभागिनी ३) यस्या न केवलं निस्सह आर्यपुत्रविरहः, पुत्रविर-
हश्च । किं वा मया प्रसूतया यस्या मम पुत्रयोस्तादृशमीषद्विरलद्गलितधवल-
दशनोज्ज्वलितकपोलमनुबद्धमुग्धकाकलीहासितस्योज्ज्वलं मुखपुण्डरीकं न चु-
म्बितमार्यपुत्रेण । विरलं यथा तथा फुल्लप्रलिते प्रसादसूचको धवलशब्दः ।
'प्रसादे तु धवलता' इति समयपद्धतिः । काकलीतुरुनिहासितमिति
विवेकः । 'काकली तु कले सूक्ष्मे ध्वनौ' इत्यमरः । 'मुखस्य दर्पणान्जेन्दुपु-
१ 'सम्पादिता' घ. २ 'लीलातपत्रम्' घ. ३ 'दसाणुबद्धमज्जन' (दशानुबद्धमज्जन) न.
६४ उत्तररामचरितं [३-१८
तमसा—अस्तु देवताप्रसादात् ।
सीता—भगवदि तमसे एदिणा अवच्चमेसुमरणेण उस्ससिदपण्डुद-
त्थणी दांणि वच्चाणं पितुणो संणिहाणेण खणमेत्तं संसारिणीम्हि संवृत्ता ।
भगवति तमसे एतेनापत्यसम्मरणेनोच्छ्वसितप्रस्रुतस्तनी इदानीं वत्सयोः पितुः
संविधानेन क्षणमात्रं संसारिण्यस्मि संवृत्ता ।
तमसा—किमत्रोच्यते । प्रसवः खलु प्रकर्षपर्यन्तः स्नेहस्य । परं चैत-
दन्योन्यसंश्लेषणं पित्रोः।
अन्तःकरणतत्त्वस्य दम्पत्योः स्नेहसंश्रयात् ।
आनन्दग्रन्थिरकोऽयमपत्यमिति बध्यते ॥ १७ ॥
वासन्ती—इतोऽपि देवः पश्यतु ।
अनुदिवसमवर्धयत् प्रिया ते
यमचिरनिर्गतमुग्धलोलबर्हम् ।
मणिमुकुट इवोच्छिखः कदम्बे
नदति स एष वधूसखः शिखण्डी ॥ १८ ॥
सीता—( सकौतुकस्नेहास्रम् ) एसो सो एसो सो । एष स एष सः ।
न्दरीकादय' इति शृङ्गारमञ्जरी । अस्तु इति युज्यतमित्यनेनानुग्रहः ।
भगवति तमसे एतेनापत्यसम्मरणेन उच्छ्वासितप्रस्रुतस्तनी इदानीं वत्सपितु-
स्सन्निधानेन क्षणमात्रं संसारिण्यस्मि सवृत्ता । उच्छ्वसितं उद्भूतं प्रस्रुतं
स्रव ययोस्तादृशौ स्तनौ यस्या । वत्सयोः कुशलवयोः । पितुः निजभर्तुः
रामस्येत्यर्थः । एतेन कपिना निजं द्राविडत्वमाविष्कृतमिति बोध्यम् । क्षणेवि-
क्ये प्रमादः । क्षणेति साधु । क्षणस्य अङ्ग्यादिगणे पठितत्वात् । प्रसवः
सन्तान । स्नेहस्य प्रेम्ण । प्रकर्षः उत्कर्ष । पर्यन्तः अवधि यस्य ।
प्रसदिति प्रसव इत्यभिधेयं अपत्यमित्यर्थ । परं उत्कृष्टं वक्तुमशक्यमिति
भावः । पित्रोः संश्लेषणं सुरतारम्भकं उपगूहनमिति यावत् ॥ तदेव विशि-
नष्टि— ॥ अन्तःकरणतत्त्वस्येति ॥ १७ ॥ दम्पत्योः तरुणस्त्रीपुरुषयोः ।
अन्तःकरणमिति यत्तत्त्वं इन्द्रियं तस्य स्नेहेन प्रेम्णा सह संश्रयात्
संमेलनाद्धेतोः । अयमनुभवसिद्धः । आनन्दस्य ग्रन्थिः बीजं तस्य रेक-
रैचनं तदेवापत्यमित्यर्थ । तथा च दम्पत्योरन्त करणप्रेमपूर्वसभोगस्खलित-
आनन्दरस एवापत्यमिति भाव । 'तत्त्वं तु ब्रह्मण इन्द्निये' इति, 'ग्रन्थिः
पर्वेणि बीजे च' इति, 'उत्सर्गो रेकरेचने' इति हारावलीकपिलविक्र-
मार्काः ॥ १७ ॥ अनुदिवसमवर्धयदिित ॥ १८ ॥ यं शिखण्डिनम्।
१ 'ताणं अ' क-च; 'ताणं च' घ. २ 'प्रसृष्ट' ब. ३ 'घटयते' न. ४ 'अल-
ङ्गसमदताण्डवोल्लसत्वान्तषदमचिरोद्गतमुग्धलोलबर्हः' घ-द.
३-२१ ] उत्तररामचरितं ६५
रामः—मोदस्व वत्स मोदस्व ।
सीता—एव्वं होदु । एवं भवतु ।
रामः—भ्रमिषु कृतपुटान्तमण्डलावृत्तिचक्षुः-
प्रचलितचटुलभ्रूताण्डवैर्मण्डयन्त्या ।
करकिसलयतालैर्मुग्धया नर्त्यमानं
सुतमिव मनसा त्वां वत्सलेन स्मरामि ॥ १९ ॥
हन्त तिर्यञ्चोऽपि परिचयमनुरुध्यन्ते ।
कतिपयकुसुमोद्गमः कदम्बः
प्रियतमया परिवर्धितोऽयमासीत् ।
सीता—(निरूप्य सास्रम् ।) सुट्ठु पच्चहिआणिदं अज्जउत्तेण । सुष्ठु
प्रत्यभिज्ञातमार्यपुत्रेण ।
रामः—स्मरति गिरिमयूर एष देव्याः
स्वजन इवात्र यतः प्रमोदमेति ॥ २० ॥
वासन्ती—अत्र तावदासनपरिग्रहं करोतु देवः ।
(राम उपविशति ।)
वासन्ती—
नीरन्ध्रबालकदलीवनमध्यवर्ति
कान्तासखस्य शयनीयशिलातलं ते ।
अत्र स्थिता तृणमदार्द्रदृशो यदेभ्यः
सीता ततो हरिणकैर्न विमुच्यते स्म ॥ २१ ॥
मनेति ध्वनिः । मकुटेनि भ्रान्तः पाठः । 'अमकुडादिषु' इति प्राकृतव्याकरणे
वररुचिज्ञासनाद् मुकुटेति साधुः । शिखावला कदम्ब्ये नीपवृक्षे ॥ एष स
वत्सेति मयूरं प्रति संबोधनम् ॥ भ्रमिषु कृतपुटेति ॥ १९ ॥ भ्रमिषु
भ्रमणेपु । कृतपुटान्तः नेत्रकोशान्तरे यासां मण्डलानां मण्डलाकारैर्हि-
ण्डानाम् । आवृत्तिः पौनःपुन्यं तादृशं यच्चक्षुः नेत्रं तेन सह प्रचलिता
कम्पिता या चतुला चतुरा भ्रूः तस्याः ताण्डवैः दृष्टिरूपैः नर्तनैः कर-
गेन । एकपदमेतत् । त्वां मण्डयन्त्या भूषयन्त्या । आवृत्तीति चतुरिति
च पदद्वयं विशेषणविशेष्यरूपं कर्म । ताण्डवैर्मण्डयन्त्येति वार्थः ॥ अनुरु-
ध्यन्ते अनुवर्तन्ते । यमेतिध्वनिः । सुष्ठु प्रत्यभिज्ञातमार्यपुत्रेण । देव्याः
इतीदं मातृः स्मरतीतिवदुपपन्नम् ॥ कतिपयकुसुमेति ॥ २० ॥ यतः
यस्माद् ॥ २० ॥ नीरन्ध्रबालेति ॥ २१ ॥ प्रथमचरणमेकपदम् । 'तृणाया-
१ 'कृतचक्षुः' घ, 'मण्डलावृत्ति चक्षु.' ग. २ 'य आसीद्' घ-च. ३ 'दत्त-
ऽनेन कदली०' क-घ-च. ४ 'वनगोचरैस्स्मः' म-टी
रामः-इदं तावदशक्यमेव द्रष्टुम् । ( इत्यन्यतो रुदन्नुपविशति । )
सीता-सहि वासन्दि किं तुए किदं अज्जउत्तस्स मह अ एवं दंसअ-
न्तीए। हद्धी हद्धी । सो जेव्व अज्जउत्तो तं जेव्व पञ्चवटीवणं सा जेव्व
पियसही वासन्दी दे जेव्व विविहविस्सम्भसक्खिणो गोदावरीकाणणुद्देसा दे
जेव्व जादणिव्विसेसा मिगपक्खिपादवा सा जेव्व चाहम् । मह उण मन्द-
भाइणीए दीसन्तं वि सव्वं जेव्व एदं णत्थि त्ति सा ईरिसो जीवलोअस्स
परिणामो संवुत्तो। सखि वासन्ति किं त्वया कृतमार्यपुत्रस्य मम चैतद्दर्शय-
न्त्या । हा धिक् हा धिक् । स एवार्थपुत्रस्तदेव पञ्चवटीवनं सैव प्रियसखी
वासन्ती त एव विविधविस्रम्भसाक्षिणो गोदावरीकाननोद्देशास्त एव जातनिर्वि-
शेषा मृगपक्षिपादपा सैव चाहम् । मम पुनर्मन्दभाग्योया दृश्यमानमपि सर्वमे-
वैतन्नास्तीति तदीदृशो जीवलोकस्य परिणाम संवृत्त' ।
वासन्ती-सखि सीते कथं न पश्यसि रामभद्रस्यावस्थाम् ।
नवकुवलयस्निग्धैरङ्गैर्ददन्नयनोत्सवं
सततमपि नः स्वेच्छादृश्यो नवो नव एव यः ।
विकलकरणः पाण्डुच्छायः शुचा परिदुर्बलः
कथमपि स इत्युन्नेतव्यस्तथापि दृशोः प्रियः ॥ २२ ॥
सीता-पेक्खामि सहि पेक्खामि । प्रेक्षे सखि प्रेक्षे ।
तमसा-पश्यन्ती प्रियं भूयाः ।
सीता-हा देव्व एसो मए विणा अहं वि एदेण विणेत्ति सिविणेवि
वनगोचरा' इति कपिला । ततः अनन्तरम् । हरिणकैः बालहरिणै । न
विमुच्यते स्म न विमुक्ता ॥ २१ ॥ वासन्ति किं त्वया कृतं आर्यपुत्राय
ममैतद्दर्शयन्त्या । हा धिक् हा धिक्, स एवार्थपुत्र, तदेव पञ्चवटीवनम्,
सैव प्रियसखी वासन्ती, त एव विविधविस्रम्भसाक्षिणो गोदावरीकाननोद्देशाः,
त एव जातनिर्विशेषा मृगपक्षिण । मम पुनर्मन्दभागिन्याः दृश्यमानमपि
सर्वमेवैतन्नास्ति । ईदृशो जीवलोकस्य परिणामस्संवृत्त । एतत् शिलातल-
मित्यर्थ । जातः निर्विशेषः अस्मतसाधारण्य येषु । निर्भया इति भाव ॥
नवकुवलय इति ॥ २२ ॥ ददत् वितरन् । ददन् इति वोडपि यन्नाम ।
विकलानि असमर्थानि करणानि इन्द्रियाणि यस्य । परि अन्तर्बहिश्च ।
तथापि स्वभावादिति शेष ॥ २२ ॥ पश्यामि सखि पश्यामि । प्रियं प-
श्यन्ती भूयाः इत्यन्वय । हा दैव एष मया विना अहमपि एतेन विनेति
१ 'परिवत्तो' ( परिवर्त्त: ) क-घ-च. २ 'कुवलयदल' क-घ-म. ३ 'ददौ'
घ-म. ४ 'ते' च-प्र. ५ 'नव नवमेव य.' घ-छ. ६ 'पाण्डुः सोय'-
घ-घ. ७ 'पश्य प्रिय भूय:' न.
३-२४] उत्तररामचरितं ६७
केण मंमाविदं आसी । ता मुहुत्तमेत्तं जम्मन्ररादो विअ लद्धेदंसणं बाहस-
लिलन्तरेपु पेक्खामि दाव वच्छलं अज्जउत्तम् । (इति पश्यन्ती स्थिता ।)
हा देव एप मया विना अहमन्येतेन विनेति स्वप्नेपि केन सम्भावितमासीत् ।
तन्मुहूर्त्तमात्रं जन्मान्तरादिव लब्धदर्शनं बाष्पसलिनान्तरेषु प्रेक्षे तावद्वत्सल-
मार्यपुत्रम् ।
तमसा-(परिष्वज्य साश्रम् ।)
विलोलितमतिपूरैर्बाष्पमानन्दशोक-
प्रभवमवसृजन्ती पक्ष्मलोत्तानदीर्घा ।
स्रपयति हृदयेशं स्नेहनिष्यन्दिनी ते
धवलमधुरमुग्धा दुग्धकुल्येव दृष्टिः ॥ २३ ॥
वासन्ती-ददतु तरवः पुष्पैर्घ्यं फलैश्च मधुश्च्युतः
स्फुटितकमलामोदप्रायाः प्रवान्तु वनानिलाः ।
कलमरिरलं रज्यत्कण्ठाः क्वणन्तु शकुन्तयः
पुनरिदमयं देवो रामः स्वयं वनमागतः ॥ २४ ॥
रामः-एहि सखि वासन्ति मन्वितः स्थीयताम् ।
वासन्ती-(उपविश्य साश्रम् ।) महाराज अपि कुशलं कुमारलक्ष्मणस्य ।
स्वप्नेऽपि केन संभाविनासीत् । तत्सन्मुहूर्तमपि जन्मान्तरतोऽपि लब्धिस-
रणीयदर्शनं बाष्पसल्लिनान्तरेषु पश्यामि तावद्वत्सलमार्यपुत्रम् । केन संभा-
वितं न केनापीत्येकोऽर्थः । केन ब्रह्मणा संभावितमित्यन्योऽर्थः । 'शे
ब्रह्मा' इत्येकाक्षरः । सलिलानामन्तरेषु अमृतप्तिदृशासु । 'अन्तर प्रा-
गभावादौ' इति ससारार्त. ॥ विलोलितमतिपूरैरिति ॥ २३ ॥ विलोलितं
विशेषेण तरङ्गितम् । आनन्दशोकाभ्यां दर्शनपरित्यागजन्मभ्यामित्यर्थः ।
पक्ष्मला पक्ष्मनिबिडा उत्ताना चासौ दीर्घा । 'निम्नं गभीरं गम्भीरमुत्तानं
तद्विपर्यये' इत्यमरः । हृदयेशं रामम् । 'मधुरमङ्गलः' इति रत्नमाला ।
'कुल्या कृत्रिमा सरित्' इत्यमरः ॥ २३ ॥ ददतु तरवः पुष्पैश्चेति
॥ २४ ॥ मधूनि च्युतानि एभ्यस्तैः फलैः । 'अर्धंयुष्फलादिभिः' इति
स्मृतेः । आमोदानां परिमलानां प्रायो भूमा येषु । अविरलं सान्द्रम् ।
१ 'अनुत्दृदंसना' ध., 'दुल्लहदंस०' न. २ 'तुष्पलोत्तान' च-घ. ३ 'र-
ड्ढ' घ-व. ४ 'रत्युत्कण्ठाः' प-घ.
६८ उत्तररामचरितं [ ३-२६
रामः—( अश्रुतिमभिनीय । )
करकमलवितीर्णैरम्बुनीवारशष्पै-
स्तरुशकुनिकुरङ्गान्मैथिली यानपुष्यत् ।
भवति मम विकारस्तेषु दृष्टेषु कोऽपि
द्रव इव हृदयस्य प्रस्तरोद्भेदयोग्यः ॥ २५ ॥
वासन्ती—महाराज ननु पृच्छामि अपि कुशलं कुमारलक्ष्मणस्येति ।
रामः—( आत्मगतम् । ) अये महाराजेति निष्प्रणयमामन्त्रणपदं
सौमित्रिमात्रे च बाष्पस्खलिताक्षरः कुशलप्रश्नः । तया मन्ये विदित-
सीतावृत्तान्तेयमिति । ( प्रकाशम् । ) भद्रे कुशलं कुमारस्य ।
वासन्ती—( रुदती । ) अयि देव १किं परं दारुण एवासि ।
सीता—सहि वासन्दि किं तुमं एव्वंवादिणी होसि । पिओरहो क्खु
सव्वस्स अज्जउत्तो विसेसदो मह पिअसहीए । सखि वासन्ति किं त्वमेवंवा-
दिनी भवसि । पूजार्हः खलु सर्वस्यार्यपुत्रो विशेषतो मम प्रियसख्याः ।
वासन्ती—त्वं जीवितं त्वमसि मे हृदयं द्वितीयं
त्वं कौमुदी नयनयोरमृतं त्वमङ्गे ।
इत्यादिभिः प्रियशतैरनुरुध्य मुग्धां
तामेव शान्तमथवा किमिहोत्तरेण ॥ २६ ॥
( इति मूर्च्छति । )
तमसा—६स्थाने बाष्पनिवृत्तिर्मोहश्च ।
रज्यत्कण्ठाः । फलं मधुरस्फुटं यथा तथा फणन्तु ॥ २४ ॥ करक-
मलवितीर्णैरिति ॥ २५ ॥ अम्बुभिः तरुशकुनीन् वृक्षविहङ्गान् । नी-
वाराः तृणधान्यानि । तेषां शष्पैः बालतृणैः कुरङ्गान् इति क्रमालङ्कारः ।
शष्पैरिति ध्वनिरप्यतिशिरकर इति भावः । अत एव-'गङ्गाप्रपातान्तनिषूढ-
शष्पम्' इति ईश्वरकृष्णमिश्रः । विकारः ममता । प्रस्रवः इत्युपचारः ।
उद्भेदः उदयः ॥ २५ ॥ अपरमिति ध्वनिः ॥ सखि वासन्ति किमिति त्व-
मेववादिनी । पूजार्हं खलु सर्वस्यार्यपुत्र, विशेषत पुनर्मम प्रियसख्याः ॥
त्वं जीवितं त्वमसीति ॥ २६ ॥ जीवितं जीवः । द्वितीयं स्त्रीरूपकम् ।
कौमुदी आनन्दयिनी । अमृतं अमरत्वसाधनम् । 'वपुष्यवयवे त्वङ्गम्'
इति नन्दी । अत्र त्वच्छब्दानयमधिकम् । मुग्धां मूढां च तामेव लब्ध्वा-
१ 'अनाकर्णनम्' न. २ 'प्रस्रवोद्भेद' न. ३ 'किमिति' च; 'किमिति दा-
रुणो दारुणः' घ. ४ 'पूआरहो' (पूजार्हः) नं. ५ 'किमतः परेण' न.
६ 'स्थाने...मोहश्च' इत्येतद्रामवाक्यमिति च-घ.
३-२८ ] उत्तररामचरितं ६९
रामः—सखि समाश्वसिहि समाश्वसिहि ।
वासन्ती—( समाश्वस्य ।) तत्किमिदमकार्यमनुष्ठितं देवेन ।
सीता—सहि वासन्दि विरम विरम । सखि वासन्ति विरम विरम ।
रामः—लोको न मृष्यतीति ।
वासन्ती—कस्य हेतोः ।
रामः—स एव जानाति किमपि ।
तमसा—विरामोपालम्भः ।
वासन्ती—अयि कठोर यशः किल ते प्रियं
किमपयशो ननु घोरमतः परम् ।
किमभवद्विपिने हरिणीदृशः
कथय नाथ कथं बत मन्यसे ॥ २७ ॥
सीता—तुमं जेव्व सहि वासन्दि दारुणा कठोरा अ जा एव्वं अज्जउत्तं
पदिउत्तं पदीवेसि । त्वमेव सखि वासन्ति दारुणा कठोरा च यैवमार्यपुत्रं
प्रदीप्तं प्रदीपयसि ।
तमसा—प्रजय एवं व्याहरति शोकश्च ।
रामः—सखि किमत्र मन्तव्यम् ।
प्रस्तैकेहायनकुरङ्गविलोलदृष्टे-
स्तस्याः परिस्फुरितगर्भभरालसायाः ।
ज्योत्स्नामयीव मृदुबालमृणालकल्पा
क्रव्याद्भिरङ्गलतिका नियतं विलुप्ता ॥ २८ ॥
नसांनि भावः ॥ २६ ॥ स्थाने युक्तम् । निवृत्तिः कुण्ठनम् । चतुर्थचरणं
पूरयति–शान्तमिति । गतमित्यर्थः । अतः त्यागादपि । अन्याय्यं न्या-
यादपेतम् । सखि वासन्ति विरम विरम । कस्य हेतोः केन हेतुनेत्यर्थः ।
‘विस्मृतं कस्य हेतोः’ इति मुद्राराक्षसः । लज्जावशात् किमपीत्युक्तम् ॥
अयि कठोर यश इति ॥ २७ ॥ कठोर इति संबोधनम् । अतः पत्नी-
त्यागात् । किं चरितमिति शेषः ॥ २७ ॥ त्वमेव सखि वासन्ति दारुणा
कठोरा च या एवं विप्रलपन्ती पर्यात्तं विप्रलापयसि । विप्रलापवन्तं करोषीति
यावत् । अय्यउत्तं इति शेषः । आर्यपुत्रमित्यर्थः । विप्रलापो विरोधोक्तिः,
पर्यात्तं यथेप्सितम् ॥ प्रस्तैकहायनेति ॥ २८ ॥ एकहायनः । एकव-
त्सर इत्यर्थः । तृतीयचरणेन विरहपाण्डिमा । कव्याद्भिः राक्षसैः । विक्षे-
१ ‘तत्कस्य’ घ-च. २ ‘टचित्तसमुपा’ घ-च. ३ ‘पडवन्तं पढावेसि’
( प्रलपन्तं प्रलापयसि ) न. ४ ‘मुग्ध’ च-प.
७० उत्तररामचरितं [३-३०
सीता-अज्जउत्त धरामि एसा धरामि । आर्यपुत्र प्रिये एषा प्रिये ।
रामः-हा प्रिये जानकि क्वासि ।
सीता-हद्धी हद्धी । अण्णो विअ अज्जउत्तो पमुक्तकण्ठं रोइदि ।
हा धिक् हा धिक् । अन्य इवार्यपुत्रः प्रमुक्तकण्ठं रोदिति ।
तमसा-वत्से सांप्रतिकमेवैतत् । कर्तव्योनि खलु दुःखितैर्दुःखनिर्व्वा-
पणानि ।
पूरोत्पीडे तटाकस्य परीवाहः प्रतिक्रिया ।
शोकक्षोभे च हृदयं प्रलापैरेव धार्यते ॥ २९ ॥
विशेषतो रामभद्रस्य बहुप्रकारकष्टो जीवलोकः ।
इदं विश्वं पाल्यं विधिवदभियुक्तेन मनसा
प्रियाशोको जीवं कुसुममिव घर्मो म्लपयति ।
स्वयं कृत्वा त्यागं विलपनविनोदोऽप्यसुलभ-
स्तदद्याप्युच्छ्वासो भवति ननु लाभो हि रुदितम् ॥ ३० ॥
रामः-कष्टं भो कष्टम् ।
येन तृप्ता ॥ २८ ॥ धरामि आर्यपुत्र धरामि । जीवामीत्यर्थः । 'द्वौ मासा-
वहं धरामि दिने दिने' इति बोधायनरामायणे ॥ हा धिक् हा धिक् अन्य
इवार्यपुत्र प्रमुक्तकण्ठं प्ररुदितः । प्रकृष्टं अधिकं रुदितं अस्य । अन्य इवा-
र्यपुत्र इति ध्वनि । सांप्रतं इदानीम् । तत्सम्बन्धि सांप्रतिकं योग्यमिति-
यावत् । 'त्रिषु सांप्रतिकं योग्यं' इति विक्रमार्कः । एतन् प्ररुदितम् ।
निर्वापणानि प्रमार्जनानि ॥ पूरोत्पीडे तटाकस्येति ॥ २९ ॥ पूरैः
उत्पीडे उत्पीडने सति परीवाहः जलनिर्गमः । शोकेन क्षोभे सती-
त्यर्थः । 'प्रलापोऽनर्थकं वचः' इत्यमरः ॥ २९ ॥ बहुप्रकारं कष्टं यस्मिन्
स जीवलोकः मर्त्यभुवनम् ॥ तदेवोपपादयति-इदं विश्वं पाल्यमिति
॥ ३० ॥ विश्वं जगत् । विधिवत् यथाराजधर्मम् । पाल्यं रामेणेति
शेषः । अभियुक्तेन अभितो युक्तेन न्यायकरणात् । उचितेनेत्यर्थः । जीवं
असुधारणम् । रामस्येत्यनुषङ्गः । त्यागं तव सीताया इति बोध्यम् । असु-
लभ इति तस्यैव अनर्थमूलकत्वादिति भावः । तत् तस्मात् । उच्छ्वास
इति दुःखातिशयतः । 'श्वासो महानुच्छ्वास' इत्यमरशेषः ॥ उच्छ्वासोऽस्तु
रुदिते किं फलमत आह-न्विति । रुदितं लाभो हि । तथा च रुदिते
कृते दुःखस्य न्यूनतैव लाभो हि इति भावः ॥ ३० ॥ भो इति मनःप्रति
१ 'निर्धारणानि' न. २ 'अवधार्यते' न. ३ 'रामभद्रस्य यस्य' क ४ 'बहुतर'
क-घ-च. ५ 'म्लमयति' घ-च.
३-३३ ] उत्तररामचरितं ७१
दलति हृदयं गाढोद्वेगं द्विधा तु न भिद्यते
वहति विकलः कायो मोहं न मुञ्चति चेतनाम् ।
ज्वलयति तनूमन्तर्दाहः करोति न भस्मसा-
त्प्रहरति विधिर्मर्मच्छेदी न कृन्तति जीवितम् ॥ ३१ ॥
सीता—एवं णेदं । एवं निवेदम् ।
रामः—हे भवन्तः पौरजानपदाः ।
न किल भवतां देव्याः स्थानं गृहेऽभिमतं तत-
स्तृणमिव वने शून्ये त्यक्ता न चाप्यनुशोचिता ।
चिरपरिचितास्ते ते भावाः परिद्रवयन्ति मा-
मिदमशरणैरद्याक्रन्दैः प्रसीदत रुद्यते ॥ ३२ ॥
वासन्ती—( स्वगतम् । ) अतिगम्भीरमापूरणं मन्युसम्भारस्य । ( प्र-
काशम् । ) देव अतिक्रान्ते धैर्यमवलम्ब्यताम् ।
रामः—सखि किमुच्यते धैर्यमिति ।
देव्या शून्यस्य जगतो द्वादशः परिवत्सरः ।
प्रणष्टमिव नामापि न च रामो न जीवति ॥ ३३ ॥
सबोधनम् ॥ दलति हृदयमिति ॥ ३१ ॥ 'दलति स्फुटति' इति माठरः ।
उद्वेगः तीव्रता । विकलं अवयवभूतम् । मोहं मूर्च्छां । चेतनां ज्ञप्तिम् ।
अन्तर्दाहः अवाङ्मुखसन्तापः । तनूं भस्मसात् भस्माधीनम् न करोति ।
विधिः दैवम् । जीवितं जीवम् । अत्र तुशब्दः पादपूरणे ॥ ३१ ॥ एव-
मेतद् सत्यमिति भावः ॥ न किल भवतामिति ॥ ३२ ॥ स्थानं वासः ।
ततः तस्मात् । नातिशोचिता किञ्चिच्छोचितेति यावत् । अपिस्संभा-
वनायाम् । पूरणे इति केचित् । ते ते विविधाः । 'भावाः सञ्चारिणः क्रियाः'
इति वामनः । परि परितः द्रवयन्ति आर्दीकुर्वन्तीति यावत् । अस्मा-
भिरिदमिति भवद्भिः श्रूयमाणं यथा तथैत्यर्थः । प्रसिद्धमिति केचित् । अशर-
णमगतिकम् । रुद्यते प्रसीदत रोदनाय किल भवद्भिरेवावकाशो निर्मित
इति भावः ॥ ३२ ॥ मन्युसंभारस्य दैन्यसामग्र्याः । आपूरणं पूर्ति ।
अतिक्रान्ते गते सतीत्यर्थः । कार्ये इति शेषः ॥ देव्या शून्यस्येति ॥ ३३ ॥
'संवत्सरो वत्सरश्च परिवत्सरः' इति द्विरूपः । नाम देव्या इति शेषः ।
गानास्या इति वा पाठः । रामो न जीवतीति न जीवत्येवेत्यर्थः । चकारः
१ 'शोकोद्वेगात्' न, 'गाढोद्वेगः' टी. २ 'तथा द्रवयन्ति' न, 'परिस्पन्दन्ति'
.घ. ३ 'मद्याप्येवं' व-घ. ४ 'अवधूतः शोकसंभारस्य' व-घ, 'मन्युभारस्य' न.
५ 'तुत दीर्यते' घ.
७२ उत्तररामचरितं [३-३६
सीता-मोहिदम्हि एदेहिं अज्जउत्तवअणेहिं । मोदितास्म्येतैरायंपुत्र-
वचनैः ।
तमसा-एवमेव वत्से ।
नैताः प्रियतमा वाचः स्नेहार्द्राः शोकदारुणाः ।
एतास्ता मधुनो धाराः क्ष्योतन्ति सविषास्त्वयि ॥ ३४ ॥
रामः-अयि वासन्ति मया खलु
यथा तिरश्चीनमलातशल्यं
प्रत्युप्तमन्तः सविषश्च दंशः ।
तथैव तीव्रो हृदि शोकशनु-
र्मर्माणि कृन्तन्नपि किं न सोढः ॥ ३५ ॥
सीता-एव्वं ह्मि मन्दभाइणी पुणोवि आभासभारिणी अज्जउत्तस्स
एवमस्मि मन्दभागिनी पुनरप्यायासकारिणी आर्यपुत्रस्य ।
रामः-एवमतिनिष्कंपस्तम्भिमान्तःकरणस्यापि मम संस्तुतवेत्तप्रिय
वस्तुदर्शनाद्दुर्वारोयमवेगः । तथाहि
हेलोल्लोलक्षुभितकरणोज्जृम्भणस्तम्भनार्थे
यो यो यत्नः कथमपि मया धीयते तं तमन्तः ।
भित्त्वा भित्त्वा प्रसरति बलात्कोऽपि चेतोविकार-
स्तोयस्येवाप्रतिहतरयः सैकतं सेतुमोघः ॥ ३६ ॥
पूरणे । नैष इति वा पाठः ॥ ३३ ॥ मोदितेवार्यपुत्रस्य प्रियवचने. ॥ नैताः
प्रियतमा इति ॥ ३४ ॥ शोकदारुणतया नैताः प्रियतमाः । अत्र भ-
ङ्ग्यन्तरेण निदर्शनमाह-एता इति । यद्यपि मधुनो धाराः । तथापि
सविषाः क्ष्योतन्ति गलन्तीत्यर्थ ॥ ३४ ॥ धैर्यमवलम्बितमेव मयेत्याह-
यथा तिरश्चीनमिति ॥ ३५ ॥ सविषः विषेण सहित अप्रदेशो यस्य
सन् । सविषाप्रदेश । तिर्यग्भवं तिरश्चीनम् । अलातशल्यं अङ्गारा-
प्तसंबन्धलोहाग्रं यथा अन्तः आत्मनि प्रत्युप्तम् । अत्र सविषत्वं तिरश्ची-
नत्वमलाताग्निसंबन्धश्च बाधानिश्चयद्योतनायोक्त इति सूक्ष्मदृष्टिभिरूह्यम् ।
तथैव हृदि तीव्रः तीक्ष्ण. न सोढः किं सोढ एवेत्यर्थ ॥ ३५ ॥ एव-
मस्मि मन्दभागिनी । अहं पुन पुन. आयासकारिण्यार्यपुत्रस्य । संस्तुताः
परिचिताश्च ते वर्गा वृक्षादीनां वर्गा. । 'संस्तव स्यात्परिचय' इत्यमर । 'सं-
स्तुता नुता.' इति कोपि बभ्राम ॥ हेलोल्लोलेति ॥ ३६ ॥ हेलया लीलया ।
१ 'दन्त.' न. २ 'अतिगूढ' न. ३ 'संस्तुतवहुतर' घ, 'संस्तुतप्रियव-
स्तु०' न. ४ 'अपायमावेग' न-च. ५ 'लोलोल्लोल' क-घ-च, 'हेलेल्लोल'
टी. ६ 'करणो०' प-टी. ७ 'समाधीयते' न. ८ 'हित्वा हित्वा' भ.