सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)

Uttararamacharitam of Bhavabhuti with Hindi Commentary

महाकवि भवभूति / पं. रामचन्द्र मिश्र द्वारा

DevanagariSanskritpublished439 पृष्ठ

[१-३ ] उत्तररामचरितं ३

जगदवलोकयेन्न तदा मलान्तरप्रस्याभावाद्वैरबुद्धि ( द्वि १ ) यथातथायं स
परब्रह्मणोऽपि, 'संभवामि युगे युगे' इति प्रतिज्ञया लीलामानुषविग्रहस्य श्रीरामस्य
चरितं चिकीर्षु र्बविघ्नपरिपूरणाय प्रतिभाविशेपाय च पूर्वाधोत्तरार्धाभ्या गजा-
ननसरस्वतीप्रणाम्मकं मङ्गलं चरीकर्ति इदं कविभ्य पूर्वेभ्य इति ॥ १ ॥ इदमिति
सामान्ये नपुंसकम् । अत एव 'शक्यमञ्जलिभि पातु वाता केतकगन्धिन ।'
इति वाल्मीकिः । 'शक्यमरविन्दसुरभि ' इति भर्तृमीड्य । इदं नमोवाकं
नम इत्युक्तिम् । 'नमोवक्तौ नमोवाक ' इत्यगस्त्यः । पूर्वेभ्यः पुरातनेभ्य-
अलौकिकेभ्य इत्यर्थ । वैदिकेभ्य इति यावत् । वेदाना लोकपूर्बत्वादिति भाव ।
'मस्य निश्वसितं वेदा' इति स्मरणात् । कविभ्य. कवये गणपतये इत्यर्थ ।
'गणपति हवामहे कवि कवीनाम्' इत्यादिश्रुते । 'कविरुक्तजानभौ' इति
जयः। कविभ्य इति पूजाया बहुत्वम् । तथा च 'स्मरन्ति ताता अपि माम्' इति
विक्रमार्कचरिते श्रीनाथः । प्रशास्महे ब्रूमहे । 'प्रशासनं तु निर्देशव्याहारा
चरणादिषु' इति लिङ्गानुशासनम् । आशास्महे इति वार्थ । केचित्तु-इमे व
ते कवय इति एकपदमाहु , तन्न । पूर्वेभ्य इति विशेपणापेक्षया इदं कविभ्य इति
विशेप्यस्य बहुधर्मघटितत्वान्नान्दीप्रारम्भ एव क्लिष्टकल्पनाया अन्याय्यत्वाच्च । पूर्वे-
भ्य प्राचेतसादिभ्य इत्यन्ये प्राहु । तदपि न साधीय , अनुग्राह्यकवाक्यपेक्षया
अनुग्राह्यप्राचेतसादिभ्य प्रथम प्रणामस्यानुपयुक्तत्वात् ॥ न च -'कवीन्द्रा
कल्पन्ते कथमपि विरिञ्चिप्रभृतय ' इति भगवत्पादैरभिधानात् पूर्वेभ्य इत्यर्थे
इति वाच्यम् । हसीभूतविष्णुविधानादि (१) केतकीकुसुमसाक्षिणे विरिश्चस्य पर
मेश्वररूपा चकादिदानप्रसादपात्रनारायणसमक्षमेव प्रणामादिप्रतिष्टया दूरीकृत-
त्वात् । 'शम्भुश्चाच्युतशङ्करप्रभृतिभि ' इति वचसा वाच्यपेक्षयाऽनभ्र्यहितत्वाच्च ।
एवमालोच्य पूर्वार्धस्य गणपतिपरत्वमेव सङ्गतमिति विशेषज्ञा इति दिक् ॥
अमृतां शाश्वतीम् , यज्ञशेषसुधामोक्षरूपाम्। भीमो भीमसेन इत्यादिवन्नामैक-
देशे नामग्रहणम् । 'यज्ञशेषसुधामोक्षेष्वमृतं शाश्वते त्रिपु' इति विक्रमार्कः ।
आत्मनः परब्रह्मण । 'परब्रह्मणि चात्मा' इति संसारावर्तः । कलां श-
क्तिम् । 'विद्याया कालभेदे च शक्तौ शिल्पे कला' इति शाश्वतः । तां प्रसि-
द्धाम्, अनिर्वाच्या वा । वाणीं सरस्वतीं च वन्देमहि इत्येकपदो बहुवचनो
धातु । 'प्रसिद्धेनाप्रसिद्धं बोधयेत्' इति न्यायेन वन्देमहीत्यस्य प्रणाम इत्यर्थो
बोध्य । वयमिति शेष । 'वन्देमहि महादेवं मन्देतरधियो वयम्' इति हास
मिश्रः। नान्दीपदनियमं न खलु कवयो गणयन्ति। अथान्दन द्वादशपदी नान्दी
सेहृता । कलात्मशब्दाभ्या सीतारामौ सूच्येते ॥ 'अर्थतः शब्दतो वापि मना
क्काव्यार्थसूचनम्।' इति लक्षणात् ॥१॥ अथ कवि , 'कविकाव्यनटादीनां प्रशंसा
तु प्ररोचना' इति, 'प्ररोचना चङ्गतदा प्रयुज्यते' इति च लक्षणादवश्यकत्वाद-

नायते । सूत्रधार — अलमतिविस्तरेण । अद्य खलु भगवत काल
प्रियानाथस्य यात्रायामार्थमिश्रान्विज्ञापयामि—एवमत्रभवन्तो विदांकुर्वन्तु ।
अस्ति खलु तत्रभवान्काश्यप श्रीकण्ठपदलाञ्छन पदवाक्यप्रमाणज्ञो भव
भूतिर्नाम जातूकर्णीपुत्रै ।-
यं ब्रह्माणमियं देवी वाग्वश्येवानुवर्तते ।
उत्तर रामचरितं तत्प्रणीतं प्रयोक्ष्यते ॥ २ ॥
र्त्मानं वर्णयन् नाटकीयेतिवृत्तसंक्षेपादिकं संग्रहेणोपक्रमते —नान्द्यन्त इत्यादि ।
भगवत षाड्गुण्यपरिपूर्र्णस्य । कालप्रियेति तत्रत्यदेव्या नाम । पुराणगम्यैषा
कथा । यात्रा महोत्सवप्रयुक्तेति भाव । आर्य्येषु ज्ञानवृद्धेषु । मिश्रान् पूज्यान् ।
एवं वक्ष्यमाणप्रकारेण । अत्र रूपके । विदांकुर्व्वन्तु जानन्तु । भगवान्
कीर्त्तिमान् । काश्यप कश्यपवंशाभव काश्यप । मङ्गिनाथप्रयोगात्
श्रीकण्ठ इति पदं नाम लाञ्छनं व्यवहार यस्य श्रीकण्ठाख्य इत्यर्थ ।
श्रीकण्ठस्य शिवस्य पदे पादावेव लाञ्छनं चिह्न यस्येति वाथ । शिवपा
दाब्जनिरत इति यावत् । ‘पदं स्थानाङ्घ्रिनामादौ’ इति, ‘लाञ्छन व्यवहारोऽभिध
देषु’ इति रुद्रकेशवौ ॥ ‘शम्भो कालप्रियानाथ श्रीकण्ठ’ इति शशि शेखरे
पुष्पद्दन्तस्तवे । प्रमाणानि कोशादय । ‘कोशवानाचार्य’ इति स्मरणात् ।
भवात् शिवात् भूति भस्म सम्पद यस्य ईश्वरेणैव जातु दिनद्वयेण विभू
तिर्दत्ता, तदाप्रभृति भवभूतिरिति प्रसिद्धो जात इति च परावरविदो विदन्ति ॥
यं ब्रह्माणमियं देवीति ॥२॥ ब्राह्मण पद्मकमनिरतम् । अनेनान्तर्मुखेऽप्युच्चदु
ल्लसद्रतौ कालिदासस्वभावसूवादाय भृतकविना अनुसन्धेयम् । अन्य
वर्तत इति प्रचुरं पाठमङ्गीकृत्य केचित् व्याचक्षु । तन्न, अस्ति खल्विति वाक्य
विरोधात् अनुवर्तत इत्येव पाठ । तत्प्रणीतमित्यविचारितरमणीय पाठ ।
कविरस्ति यमिति तत्प्रणीतमिति च पूर्वोत्तरवाक्याना परस्परमसङ्गतत्वात् । यत्प्र
णीतमिति युक्त पाठ । पूर्ववाक्ये कविरस्तीति कथनेन उत्तरवाक्ययो यमिति
यत्प्रणीतमिति कथनस्य सामीच्याद्यात् । अत एव, ‘अम्भोजनभूराविरासीत् ।
आभाति यत्कृति’ इत्यस्मद्व्याख्यातभोजचम्पौ । शिष्यविज्ञापने विशेषज्ञा प्रमा-
णम् । प्रयोक्ष्यते मयेति शेष ॥ अत्र पुन —‘उत्तरे रामचरिते भवभूतिर्विशिष्यते’
इति विन्मद्वचनविश्राशिन केचिदलङ्कारियायिन वदन्ति । तन्न विशेषत-
१ 'कालप्रियनाथस्य' इति व-घ-क २ 'खलु इति नास्ति व-पुस्तके
३ '०प्रमाणतत्वज्ञ' इति व ४ 'नतूकर्णीपुत्र' इति न ५ 'अन्ववर्त्तत इति न
६ 'प्रयुज्यते' इति व-घ

१-२] उत्तररामचरितं ५
धृष्टोऽस्मि कार्यवशादायोध्यकस्तदानीन्तनश्च संवृत्तः । ( समन्तादवलो-
क्य । ) भो भो यथा तावदत्रभवतः पौलस्त्यकुलधूमकेतोर्महाराजरामस्या-
यमभिषेकसमयो रात्रिदिवमसंहुतानन्दनान्दीकस्तमिदानीं विश्रान्तचार-
णानि चत्वरस्थानानि ।
प्रविश्य । नटः—भाव प्रेषिताः स्मोऽतः स्वगृहान्महाराजेन लङ्कानगरसुहृदो
महात्मानः प्लवङ्गमराक्षसाः सभाजनोपस्थायिनश्च नानादिगन्तागता ब्रह्म-
र्षयो राजर्षयश्च यत्समाराधनायैतावतो दिवसानुत्सव आसीत् ।
हृदयङ्गमम् । यत —'कनिष्ठिकाधिष्ठितकालिदासा' इति, 'घटानां निर्मातुं ' इति,
'जानीते जयदेव एव' इति, 'जानीते नितरांसौ' इति, 'यो हि (धोयी ?) कवि-
क्ष्मापतिः' इति, 'दण्डिनः पदलालित्यं भारवेरर्थगौरवम् । उपमा कालिदा-
सस्य माघे सन्ति त्रयो गुणा......॥'...शो धनंजय ' इति, 'सूक्ति सुधास्य-
न्दिनी' इत्यादिभिर्गाम्भीर्य्याद्यस्तुतिपरनिन्दासंवादात्तकलापिनः सर्वे एव कवयो
गर्वेनिगृढोऽमीषु के...स्तिरुषा एते तूष्णींशीलै स्सल्लिनविग्याभिनन्दनी-
यगुणीगुम्फः । अत एव, 'सर्वं विनश्यति विहाय कविप्रसङ्गं...कवयेन नाहूम्'
इति, 'रूपा..रते काव्यम्' इति प्राञ्च, इत्यलमतिविस्तरेण ॥ ननु तदिदं नाटक-
कमेव न भवति शृङ्गारवीरयोरन्यतरस्य रसस्य प्राधान्यमिति नियमात्, करुणरस-
स्यैव भूरस्तरत्वादिति चेत्, सत्यम् । शृङ्गारवीराभ्यवत्यान्तिश्च, अन्येवानङ्ग-
त्वेन प्रवेशो यद्यपि, तथापि, 'प्रधानं वो. वरुरुरता । अन्ये त्वङ्गानि शृङ्गार-
वीरौ तु प्रासिद्धां क्वचित् ॥' इति रूपकदर्शो...नाटकनिग्देवानुभाव्यनालङ्का-
रिकैः ॥ २ ॥ वशात् अधीनत्वात् । अयोध्यासम्बन्धी आयोध्याकः । तदा-
नीम्भवश्च । एतेन पुरातन स्यावृत्तंसार्थैव प्रद्योतय इति तत्सप्ताताभिनय...यो
व्यज्यते । अये आश्चर्य । 'मङ्गलेऽपि च नान्दी' इति रत्नमाला । विशेषेण
श्रान्तानि चरपानि संचरा येषु । 'सञ्चारचरणं.. चत्वरं राजाङ्गणम् । 'हजा-
री' इति महाराष्ट्राः। स्थानानि तदन्तस्स्थलानि । नटो गारिष पारिपार्श्वकः ।
इति नाट्यपद्धतिः । माषस्तु...रिति हैमः । 'भावुजी' इति महाराष्ट्राः । 'गृहाः
पुंसि च भूम्येव' इत्यमरः । दनेति सध्येति च ध्वनी । सभाजने आनन्दन-
विद्यते । उपस्थायिन उप...एव येषात ऽरा इति यावत् । दिवसानिति कला-
१ 'षटोऽहं' इति घ. २ 'ऋद्दिबशात्' इति न. ३ 'तत्रभवतः' इति व. ४
'रहमभिषेक' इति न. ५ 'असंहुडनान्दीकः' इति न. ६ 'प्रेषिता हि स्म०' न-ब.
७ 'कनकतोयस्थादिनो' इति घ. ८ 'दिगन्तरारना' इति न-ब. ९ 'प्रमोद'
इति न.

६ उत्तररामचरितं [ १-५
सूत्रधारः—आं अस्त्येतन्निमित्तम्।
नटः—अन्यच्च ।
वसिष्ठाधिष्ठिता देव्यो गता राघवमातरः ।
अरुन्धतीं पुरस्कृत्य यज्ञे जामातुराश्रमम् ॥ ३ ॥
सूत्रधारः—वैदेशिकोऽस्मीति पृच्छामि। कः पुनरसौ जामाता।
नटः—कन्यां दशरथो राजा शान्तां नाम व्यजीजनत् ।
अपत्यकृतिकां राज्ञे रोमपादाय यां ददौ ॥ ४ ॥
विभाण्डकसुतस्तामृष्यशृङ्ग उपयेमे। तेन च सांप्रतं द्वादशवार्षिकं सत्र-
मारब्धम्। तदनुरोधात्कठोरगर्भीमपि जानकीं विमुच्य गुरुजनस्तत्र गतः।
सूत्रधारः—तत्किमनेन। एहि राजद्वारमेव स्वजातिसमयेनोपतिष्ठावः ।
• नटः—तेन हि निरूपयतु राज्ञः सुपरिशुद्धामुपस्थानयोग्यपद्धतिं भावः ।
सूत्रधारः—मारिष
सर्वथा व्यवहर्तव्यं कुतो ह्यवचनीयता ।
यथा स्त्रीणां तथा वाचां साधुत्वे दुर्जनो जनः ॥ ५ ॥
नटः—अतिदुर्जन इति वक्तव्यम् ।
ध्वनोरिति द्वितीया। आः कोपपीडयो ॥ वसिष्ठाधिष्ठिता इति ॥३॥ वसिष्ठः
अधिष्ठितः पुरस्कृत याभिः । यज्ञे सति ॥ ३ ॥ वैदेशिकः विदेशस्थ ।
पारदेशिको विदेशस्थ ॥ कन्यां दशरथो राजेति ॥४॥ व्यजीजनत् जनया
मास अपत्यकृतिकां दुहितृप्रायां तदुदरजातामिव स्थितामिति यावत्। क...
त्यमरमाला । शान्ता दशरथस्यापत्य इत्येतत्पुस्तकान्तरपाठाभिप्रायकं युगा
न्तरविषयकं वा । अत एव शतमुखसहस्रमुखरावणकथेतीतरा । पृथक् कुम्भ-
कर्णघातिनौ रामलक्ष्मणौ, इति रामायणभारतयोश्च इति दिक् ॥ ४ ॥ उपयेमे
विवहति स्म । द्वादशवर्षक्रियमाणं द्वादशवार्षिकम् । तदनुरोधात् ऋष्य-
शृङ्गानुवर्तनात् । कठोरः पूर्ण इति यावत् । राजद्वारमिति ध्वनिः । राजगृह-
द्वारमिति भाव । समयेन मर्यादाया । अन तुहिचादय प्रायेन पादपूरने
वाक्यालङ्कारे वा यथोचित ज्ञेया ॥ सर्वथा व्यवहर्तव्य इति ॥५॥ सर्वथा
सर्वप्रकारेण । कुतः कस्मात् । साधुत्वे शुद्धौ । 'साधु शुद्धौ रम्ये च' इति हला-
युधः । जनः लोक ॥ ५ ॥ दुर्मतिरिति अनिदुर्मतिरिति चोत्तरा पठन्ति ॥
१ एतद्वाक्य नास्ति च-घ-पुस्तकयो. २ 'पुनर्जामाता' इति न-च. ३
'लोमपादाय' इति घ-घ. ४ 'ताम्' इति न.

१-८ ] उत्तररामचरितं ७
देव्यामपि हि वैदेह्यां सापवादो यतो जनः । -
रक्षोगृहस्थितिमूलमग्निशुद्धौ त्वनिश्चयः ॥ ६ ॥
सूत्रधारः—यदि पुनरियं किंवदन्ती महाराजं प्रति स्यन्देत ततः कष्टं
स्यात् ।
नटः—सर्वथा ऋषयो देवताश्च श्रेयो विधास्यन्ति । ( परिक्रम्य ) भो
भोः केदानीं महाराजः । ( आकर्ण्य ) एवं जनाः कथयन्ति—
स्नेहात्सभाजयितुमेत्य दिनान्यमूनि
नीत्वोत्सवेन जनकोऽद्य गतो विदेहान् ।
देव्यास्ततो विमनसः परिसान्त्वनाय
धर्मासनाद्विशति वासगृहं नरेन्द्रः ॥ ७ ॥
( निष्क्रान्तौ । )
प्रस्तावना ।
( ततः प्रविशत्युपविष्टो रामः सीता च । )
रामः—देवि वैदेहि, समाश्वसिहि । न हि गुरवो न शक्नुवन्ति विहातु-
मस्मान् ।
किं त्वनुष्ठाननित्यत्वं स्वातन्त्र्यमपकर्षति ।
• सङ्कटा ह्यग्निहोत्रीणां प्रत्यवायैर्गृहस्थता ॥ ८ ॥
दुर्जनत्वं दुर्मतित्वं वा स्थियातो वर्णयति-देव्या अपीति ॥६॥ वैदेह्याः कृते
इति शेषः । 'देव्या वैदेह्या' इति च पाठः । हि प्रसिद्धौ । अपवादे अतिदुर्जन-
नत्वं अतिदुर्मतित्वं वा-उपपादयति—रक्ष इति । अग्नौ, पुरा युद्धदृष्टहृष्ट-
तायामित्यर्थः ॥ ६ ॥ प्रतिष्ठते प्राप्नोति इति यावत् । एवं वक्ष्यमाणोऽनुवाद
इत्यर्थः ॥ स्नेहात्सभाजयितुमिति ॥ ७ ॥ सभाजयितुं रामं इति शेषः ।
विदेहान् देशान् । ध्वनिध्र । धर्मासनात् न्यायविचारसिंहासनात् । नरेन्द्रः
रामः । एतेन द्वयोश्शेषावानप्रवेशौ सूचितौ ॥ 'स्वकार्यं प्रस्तुताक्षेपि विलोक्य
रगमुद्रामुखम् । प्रस्तावना वा तत्र स्यात्' इति, 'नासूचितस्य पात्रस्य प्रवेशो निर्ग-
मोऽपि वा' इति लक्षणात् ॥७॥ इति प्रस्तावना ॥ किन्त्वनुष्ठाननित्यत्वमि-
ति ॥८॥ नित्यत्वं नियमेन करणम् । स्वातन्त्र्यं स्वच्छन्दविहारम् । प्रत्यवायैः
अकरणे प्रायश्चित्तैः । गृहस्थता गार्हस्थ्यम् । गृहपतित्वमिति यावत् । अग्निहोत्रिण
१ 'रक्षोगृहे' इति घ. २ 'महाराजं प्रति स्युन्देत्' इति घ, 'महाराजं स्पृशेत्'
इति क. ३ 'सन्ति करिष्यन्ति' इति घ. ४ 'नित्यत्वात्' इति घ.

८ उत्तररामचरितं [ १-८
सीता—जाणायि अय्यउत्त जाणामि । किंदु संदावआरिणो बन्धुअणवि-
प्पओआ होन्ति । जानामि आर्यपुत्र जानामि । किं तु सन्तापकारिणो बन्धु-
जनविप्रयोगा भवन्ति ।
रामः—एवमेतत् । एते हि हृदयमर्मच्छिदः संसारभावाः । येभ्यो बीभ-
त्समानाः संत्यज्य सर्वान्कामानरण्ये विश्राम्यन्ति मनीषिणः ।
प्रविश्य । कञ्चुकी—रामभद्र-( इत्यर्धोक्ते साशङ्कम् ) महाराज ।
रामः—( सस्मितम् । ) आर्य ननु रामभद्र इत्येव मां प्रत्युपचारः शो-
भते तात परिजनस्य । तद्यथाभ्यस्तमभिधीयताम् ।
कञ्चुकी—देव ऋष्यशृङ्गाश्रमादष्टावक्रः संप्राप्तः ।
सीता—अज्ज तदो किं विळम्बीअदि । आर्य ततः किं विलम्ब्यते ।
रामः—त्वरितं प्रवेशय ।
( कञ्चुकी निष्क्रान्तः । )
प्रविश्य । अष्टावक्रः—स्वस्ति वाम् ।
रामः—भगवन्, अभिवादये । इत आस्यताम् ।
सीता—भववं णमो दे । अवि कुसळं सजामातुअरस गुरुअणस्स
अज्जाए सन्ताए अ । भगवन् नमस्ते । अपि कुशलं सजामातृकस्य गुरुजन-
स्यार्यायाः शान्तायाश्च ।
रामः—निर्विघ्नः सोमपीथी आवुत्तो मे भगवानृष्यशृङ्गः आर्या च
शान्ता ।
सीता—अम्हे वा सुमरदि । अस्मान् वा स्मरति ।
अष्टावक्रः—( उपविश्य ) अथ किम् । देवि कुलगुरुर्भगवान्वसिष्ठस्त्वा-
मिदमाह—
गृहस्थस्य मुख्यो धर्म इति भावः । तथा च 'अग्निहोत्रफला वेदा' इति भारते ।
अनुष्ठानेति छविः । 'अनुष्ठानन्तरङ्गे'ति भर्तृमीढ (प्र २) योग्यत् क्षन्तव्य-
॥ ८ ॥ जानाम्यार्यपुत्र किन्तु सन्तापकारिणो भवन्ति गुरुजनविप्रयोगाः । अ-
य्यउत्तेत्यत्र 'सर्वत्र ल्पोप्वाराणां' इति रलोप 'वर्गचतुर्थपञ्चमानाम प्रायो लोपः'
इति पलोपश्च । अज्जउत्तेति पाठे 'यस्य ज' इति जत्वम् । येभ्यः भोगेभ्यः ।
सर्वान् भोगान् ॥ प्रविश्य इति प्रवेशासूचन प्रमाद ॥ किं विलम्ब्यते ।
नमस्ते । अपि कुशलं मे सजामातृकाय गुरुजनाय । जामाता ऋष्यशृ-
ङ्गः। जामातुरस्तीति वचन कवे प्रमादः । 'पितृभ्रातृजामातृणामर' इत्यरादेशात्
१ 'सोमपीथी' इति व-ग्र २ 'आवुत्तो' इति न. ३ 'वि' इति न-प्र.

१-१०] उत्तररामचरितं ९
विश्वम्भरा भगवती भवतीमसूत
राजा प्रजापतिसमो जनकः पिता ते ।
तेषां वधूस्त्वमसि नन्दिनि पार्थिवानां
येषां कुलेषु सविता च गुरुर्वयं च ॥ ९ ॥
तत्किमन्यदाशास्महे । केवलं वीरप्रसवा भूयाः ।
रामः—अनुगृहीताः स्मः ।
लौकिकानां हि साधूनामर्थं वागनुवर्तते ।
ऋषीणां पुनराद्यानां वाचमर्थोऽनुधावति ॥ १० ॥
अष्टावक्रः—इदं च भगवत्यारुन्धत्या देवीभिः शान्तया च भूयो भूयः
सन्दिष्टम् । यः कश्चिद्गर्भदोहदो भवत्यस्याः सोऽवश्यमचिरात्सम्पादयितव्य
इति ।
रामः—क्रियते यथैषा कथयति ।
अष्टावक्रः—ननान्दुः पत्या च देव्याः सन्दिष्टमप्यूढेन—वत्से कठोर-
गर्भेति नानीतासि । वत्सोऽपि रामभद्रस्त्वद्विनोदार्थमेव स्थापितः । तदुत्पुत्र-
पूर्णोत्सङ्गामायुष्मतीं द्रक्ष्याम इति ।
रामः—( सहर्षलज्जास्मितम् । ) तथास्तु । भगवता वसिष्ठेन न किंचि-
दादिष्टोऽस्मि ।
अष्टावक्रः—श्रूयताम् ।
जामातरस्तेति कथनं युक्तम् । 'चतुर्थ्यां षष्ठी' षष्ठीनिर्देशः । 'सोमपीथी
तु सोमपः' इत्यमरः । भगवान् माहात्म्यवान् । 'कीर्तिमाहात्म्ययोर्भगः'
इति पदार्थमाला । आर्या च शान्तेति ध्वनिः । अस्मानपि स्मरति ।
अथ किं अङ्गीकारे । आह स्मेति शेषः ॥ विश्वम्भरा भगवतीति ॥ ९ ॥
वधूः स्नुषा, सविता सूर्यः । गुरुः आदिकारणम् । वयं च गुरव इत्युक्तम् ।
पुरोहिता इत्यर्थः । 'गुरुर्नापितिपितादौ' इत्यमरः । कुलेषु वयमिति च पूजायां
बहुत्वम् । भगवती प्रजापतिरिति च ध्वनिः ॥ 'ध्रुवार्थे केवलं त्रिषु' इति नाम-
माला ॥९॥ वीरस्य पुत्रस्य प्रसवः प्रसूतिः यस्याः । 'वीरः पुत्रः' इति वैदनि-
घण्टुः ॥ लौकिकानां हि इति ॥ १० ॥ लौकिकानां सर्वदिक्षितानाम् । वाक्तु,
ब्राह्मीरूपा । आद्यानां मुख्यानाम् । 'ऋषयस्सत्यवचसः' इति, 'आद्यः प्रथममुख्य-
योः' इत्यमरसारस्वतौ ॥ अनुवर्तते प्रतीक्षत इति माठरः ॥१०॥ इदं
१ 'गृहेषु' इति व. २ 'अनुवर्त्तते' इति म. ३ 'गर्भदोर्हृदरदो' इति म.
४ 'संदेशा' इति क-घ.

जामातुर्यज्ञेन वयं निरुद्धास्त्वं बाल एवासि नवं च राज्यम् ।
युक्तः प्रजानामनुरञ्जने स्यास्तस्माद्यशो यत्परमं धनं वः ॥११॥
रामः—यथा समादिशति भगवान्मैत्रावरुणिः।
स्नेहं दयां च सौख्यं च यदि वा जानकीमपि ।
आराधनाय लोकानां मुञ्चतो नास्ति मे व्यथा ॥ १२ ॥
सीता—अदो जेव्व राहवकुलधुरंधरो अज्जउत्तो । अत एव राघवकुल-
धुरंधर आर्यपुत्र ।
रामः—कः कोऽत्र भोः । विश्राम्यतामष्टावक्रः ।
अष्टावक्रः—( उत्थाय परिक्रम्य च । ) अये कुमारलक्ष्मणः प्राप्त ।
( इति निष्क्रान्त )
प्रविश्य । लक्ष्मणः—जयति जयत्यार्यः । आर्य तेन चित्रकरिणास्मदुप-
दिष्टमार्यस्य चरितमस्यां वीथिकायामभिलिखितम् । तत्पश्यत्वार्यः ।
वक्ष्यमाणम् । देवीभिः कौसल्यादिभिरित्यर्थ । भूयोभूयः पुनः पुनः ।
'पुनर्भूयार्थयोर्भूय' इति संसारावर्त्तः 'भूयोभूयो नमाम्यहम्' इति प्राञ्च ।
'दोहदं दोहदेऽपि स्यादिच्छायां गर्भकौतुके' इति विक्रमार्कः। यदि चेदित्यर्थ ।
ननान्दु रामभगिनीत्वाच्छान्ताया । पत्या भर्त्रा ॥ 'ननान्दा तु स्वसा पत्यु '
इत्यमर । ननान्दुरिति यथोक्त तथेल्यर्थ ॥ जामातुर्यज्ञेन वयमिति ॥ ११ ॥
यज्ञेनेति तृतीया । वयमिति मातरोऽहमरुन्धती च सर्वे वयमित्यर्थ । बालः
कुमारः युवैवेत्यर्थ. । अत एव 'कौमारहर शचीदेव्या' इति नीलकण्ठः ।
'बाल. कुमारे च' इति शब्दमञ्जरी । युवा त्वमेवासि इति च पाठ । यत्
यस्मात्कारणात् । वः रघूणा युष्माकम् । स्वस्मात् आत्मनोऽपि । यशः प्रजा-
नुरञ्जनरूपम् । परमं शाश्वतम् । धनं तद्युक्त. स्या दित्यर्थ । तथा च—'यौवनं
धनसंपत्ति प्रभुत्वम्' इति विपत्त्रयं त्वयि जागति । तस्मादविवेकता मास्तु, साव-
धानेन पथा सञ्चरस्तेनि भाव ॥११॥ 'वसिष्ठे च मैत्रावरुणि' इति हारावली ।
अगस्त्य इति पूर्वोत्तरसन्दर्भमूढ कोऽपि बभ्राम ॥ स्नेहं दयां चेति ॥ १२ ॥
यदि वा अथवा 'आहो उताहो यदिवा' इति रत्नमाला । जानकीमपीत्यादीनि
वचनानि रामस्य भाव्यर्थसूचकानीति तत्र तत्र सूक्ष्मबुद्धिभिरवगन्तव्यम् ॥१२॥
अत एव राघवकुलधुरन्धरः । राघवेत्यत्र 'अनादिनामसंयुक्ताना रा-ध थ-
ष-फ भो ह' इति हाथम् । 'श्रेष्ठौ धुर्या धुरन्धरा' इति मेदिनी । 'आलेख्यं वीथिका
१ 'दद्याद् भगवान्' इति व-घ २ 'लोकस्य' इति ग-व-घ. ३ 'वीथ्याम्'
इति क-ग.

१–१४ ] उत्तररामचरितं १२
रामः—जानामि वत्स दुर्मनायमानां देवीं विनोदयितुम् । तत्कियन्त-
मवधिं यावत् ।
लक्ष्मणः—यावदार्याया हुताशने विशुद्धिः ।
रामः—शान्तं पापम् । ( मसान्त्ववचनम् )
उत्पत्तिपरिपूतायाः किमस्याः पावनान्तरैः ।
तीर्थोदकं च वह्निश्च नान्यतः शुद्धिमर्हतः ॥ १३ ॥
देवि देवयजनसम्भवे प्रसीद । एष ते जीवितावधिः प्रवादः ।
कष्टो जनः कुलधनैरनुरञ्जनीय-
स्तन्नो यदुक्तमशिवं न हि तत्क्षमं ते ।
नैसर्गिकी सुरभिणः कुसुमस्य सिद्धा
मूर्ध्नि स्थितिर्न चरणैरवताडनानि ॥ १४ ॥
सीता—होदु अज्जउत्त होदु । एहि । पेक्खह्म दाव दे चरिदम् । भव-
त्वार्यपुत्र भवतु । एहि । प्रेक्षामहे तावत्ते चरितम् । (इत्युत्थाय परिक्रामति ।)
लक्ष्मणः—इदं तदालेख्यम् ।
सीता—( निर्वर्ण्य । ) के एदे उवरि णिरन्तरट्ठिदा उवत्थुवन्ति विअ
अज्जउत्तम् । क एते उपरि निरन्तरस्थिता उपस्तुवन्तीवार्यपुत्रम् ।
लक्ष्मणः—देवि, एतानि तानि सरहस्यानि जृम्भकास्त्राणि यानि भगवतः
कृशाश्वात्कौशिकमृषिमुपसंक्रान्तानि तेन च ताटकावधे प्रसादीकृतान्यार्यस्य ।
चित्रपत्रिका' इति त्रिकाण्डशेषः । अवधिः अवसानम् ॥ उत्पत्तिपरिपू-
ताया इति ॥ १३ ॥ पावनान्तरैः पवित्रतापादकवस्तुभेदैः ॥ १३॥ देवानां
यजनं यत्र । यज्ञभूमिरित्यर्थः । जीवितं अवधौ अवसाने यस्य यावज्जीवमे-
त्यर्थः ॥ कष्टो जन इति ॥ १४ ॥ 'व्यात्कटं कृच्छ्रमाभीखं विषेषा भेद्यवानि
गत्' इत्यमरः । कुलधनैः कुलीनैः । नः अस्माकम् । यत् अशिवं निष्ठु-
रम्, उक्तं हुताशनशुद्धिरिति भाषितम् । तत् ते तव न क्षमं न योग्यम् ।
तुशब्दः पादपूरणे ॥ अत्र दृष्टान्तमाह—नैसर्गिकी स्वभावसिद्धा ॥१४॥ आर्य-
पुत्र पश्यामस्ते चरितम् । चरिदं इत्यत्र 'तो दः' इति दत्वम् । निर्वर्ण्य
दृष्ट्वा । क इदानीमेते उपरि निरन्तरस्थिता उपस्तुवन्तीवार्यपुत्रम् । ठिदा
इत्यत्र 'स्थास ठः' इति ठत्वम् । थु(यु)वन्तीत्यत्र 'ष्ण्य यः' इति यत्वं च ।
१ 'कियानवधिः' इति ग. २ पादपूर ( यमान्त्ववचनम् )' इत्येतन्नास्ति
ङ-पुस्तके, 'शान्तं शान्तम्' इति घ ३ कष्टं' इति क, 'द्विष्टो' इति ग.
'तन्मे' इति घ, 'जनो दुरात्मा' इति घ. ५ 'अशुभं' च क. इति ग. ६ 'कामक-'
इति ग-घ. ७ 'शुश्रूषायाम्' इति ग. ८ 'केत्ति दिट्ठस्य णि० दिट्ठानिमित्तं' इति क.

१२ उत्तररामचरित [ १-१६
रामः-वन्दस्व देवि दिव्यास्त्राणि ।
ब्रह्मादयो ब्रह्महिताय तप्त्वा परःसहस्राः शरदस्तपांसि ।
एतान्यपश्यन्गुरवः पुराणाः स्वान्येव तेजांसि तपोमयानि ॥१५॥
सीता-णमो एदाणं । नम एतेभ्य ।
रामः-सर्वथेदानीं त्वत्प्रसूतिमुपस्थास्यन्ति ।
सीता-अणुगहिदह्नि । अनुगृहीतास्मि ।
लक्ष्मणः-एष मिथिलावृत्तान्तः ।
सीता-अम्महे दलन्तणवणीलुप्पळसामलणिणिद्धमसिणसोहमाणमंस-
ळेण देहसोहग्गेण विम्हअत्थिमिवताददीसन्वसोम्मसुन्दरसिरी अणादररडि-
देसंकरसरासणो सिहण्डमुद्धमुहमण्डलो जणउत्तो आलिहिदो । अहो
दलनवनीलोत्पलश्यामलास्निग्धमसृणशोभमानमांसलेन देहसौभाग्येन विस्मय-
स्तिमिततातदृश्यमानसौम्यसुन्दरधीरनादरखण्डितशङ्करशरासन शिखण्डमुग्ध-
मुखमण्डल आर्यपुत्र आलिखित ।
लक्ष्मणः-आर्ये पश्य पश्य ।
सम्बन्धिनो वसिष्ठादीनेष तातस्तवार्चति ।
गौतमश्च शतानन्दो जनकानां पुरोहितः ॥ १६ ॥
तानि प्रसिद्धानि । रहस्यैः शरसन्धानमोक्षणोपसंहारादिमन्त्रैः सहितानि
जृम्भकानामस्त्राणि । मित्रं सखायम् । उपसंक्रान्तानि प्राप्तानीति या-
वत् । तेन विश्वामित्रेण ॥ ब्रह्मादय इति ॥ १५॥ ब्रह्महिताय ब्राह्मणसाद्याय ।
स्वानि स्वीयानि ॥१५॥ नम एतेभ्यः । त्वत्प्रसवं त्वत्सुतम् । अनुगृ-
हीतास्मि । अहो आश्चर्यं ॥ दलितनवनीलोत्पलश्यामलास्निग्धमसृणमासलदेह-
सौभाग्येन विस्मयस्तिमिततातनगरजनदृश्यमानसोमसुन्दरश्री अनायासखण्डि
तशङ्करशरासन शिखण्डमुग्धमण्डनः आर्यपुत्र आलिखित । 'मसृक् स्निग्धं'
इत्यमरोक्ते स्निग्धमसृणयोरेकार्थता, तदपि असमबाणहृदिच्छालभ-
जिकाप्रथमोल्लूप्रणयप्ररूढप्रेमादीनामिव स्निग्धमसृणयोस्तत्त्वानुमद्विम्बाऽश
न्तरभेदो द्वयथा कल्पनीय । सर्वथैवमूढम् । मांसलं सान्द्रम् । सोमवत् श्रीः
शोभा 'सोमवत्प्रियदर्शन' इति रामायणे । अनायासेन लीलया ।
'शिखण्डो बर्हचूडयो' इत्यमरः । खण्डितेत्यत्र केचन शिवद्रोहिण पाषण्डा-
परिहसन्तो दन्तान् दर्शयन्ति, तत्तुच्छम् ॥ रावणदुर्वहोऽपि शक्त्या हतो लक्ष्मण
यथा भक्त्याय हनुमते लघुरभवत् तथा शिवलिंगप्रतिष्ठातेति 'अत्र पूर्वं महादेव
प्रसादमकरोत्प्रभुः' इत्यादिबचनेन शिवगीतोक्तरिजादीक्षानुग्रहेण च शिष्य-
१ 'सर्वथैतानि' इति क. २ 'सुदिन' इति घ-य, 'सुद्विद' इति ग.

१-१८ ] उत्तररामचरितं १३
रामः—सुश्लिष्टमेतत् ।
जनकानां रघूणां च सम्बन्धः कस्य न प्रियः ।
यत्र दाता ग्रहीता च स्वयं कौशिकनन्दनः ॥ १७ ॥
सीता—एदे क्खु तत्कालिदगोदाणमङ्गला चत्तारो भादरो विआहिद-
क्खिदा तुम्हे । अह्मो जाणामि तस्सिं जेव्व पदेसे तस्सिं जेव्व काले
वत्तामि । [एते खलु तत्कालकृतगोदानमङ्गलाश्चत्वारो भ्रातरो विवाहदीक्षिता
यूयम् । अहो जानामि तस्मिन्नेव प्रदेशे तस्मिन्नेव काले वर्ते ।]
रामः—एवम् ।
समयः स वर्तत इवैष यत्र मां
समनन्दयत्सुमुखि गौतमार्पितः ।
अयमांगृहीतकमनीयकङ्कण-
स्तव मूर्तिमानिव महोत्सवः करः ॥ १८ ॥
लक्ष्मणः—इयमार्या । इयमप्यार्या माण्डवी । इयमपि वधूः श्रुतकीर्तिः।
सीता—वच्छ इअं वि अवरा का । [वत्स इयमप्यपरा का ।]
लक्ष्मणः—( सलज्जास्मितम् । अपवार्य ) अये ऊर्मिलां पृच्छत्यार्या ।
भवतु । अन्यतः सञ्चारयामि । ( प्रकाशम् ) आर्ये द्रष्टव्यमेतत् ।
अयं च भगवान्भार्गवः ।
नप्तृबालस्य रामस्य दयानिविर्जगदीश्वर शण्डवार्हविष्णुब्रह्माद्यप्यरावणदुर्वह-
शरासनोऽभूदिति प्रामाणिका । अत एव ‘बालक्रीडनमिन्दुशेखरधनुर्भङ्गादवधि’
इति भगवान् बोधायनः । ‘श्रीमत्- शितिकण्ठस्य कुल हि दुरतिकमम्’
इत्युत्तररामायणे च विप्रहृवदर्शस्य रामस्यैव वाक्यं इति दिक् । सुतरां
स्निग्धं युक्तमित्यर्थः ॥ जनकानां रघूणामिति ॥ १७॥ यज्ञसबन्धे । तथा च
'जनक देहि कन्या गृहाण राम' इति वक्तुं कारयितुं च स्वयं स एव एव सर्व-
शतश्च इति भावः ॥१७॥ एते खलु तत्कालकृतगोदानमङ्गलाश्चत्वारोऽपि भ्रातरो
विवाहदीक्षिता यूयम् । कालकृतेति ध्वनिः । अह्मो जानामि तस्मिन्नेव काले
वर्ते इति । एवं बाढमित्यर्थः ॥ समयस्स वर्तत इति ॥१८॥ यत्र समये ।
आदरागृहीतथासी कमनीयकङ्कण इति विवेकः । अयमागृहीतेति ध्वनिः ॥
॥ १८ ॥ आर्या सीता । माण्डवी भरतपत्नी श्रुतकीर्तिः शत्रुघ्नपत्नी ।
इयमपरा का । 'रहोऽन्येन सहोक्तौ स्यादपवार्यं जनान्तिकम्' इति लक्ष-
णात् प्रकृते वन्येन सह भाषणाभावात् कवे प्रमादः । अपवारि 'स्वमनसा
१ 'द्रष्टव्यमेतद्' न-च; 'दृष्टमेतद्' इति घ. २ 'सुगृहीत' इति प-घ. ३
'सटरामि' इति घ.
३ उ०

१४ उत्तररामचरितं [ १-२०
सीता—( ससम्भ्रमम् ) कंपिदह्मि । कम्पितास्मि ।
रामः—ऋषे नमस्ते ।
लक्ष्मणः—आर्ये पश्य पश्य । अयमसावार्येण ( इत्यर्धोक्ते )
रामः—( साधिक्षेपम् ) अयि वत्स बहुतरं द्रष्टव्यम् । अन्यतो दर्शय ।
सीता—( सस्नेहबहुमानं निर्वर्ण्य । ) सुट्ठु सोहसि अज्जउत्त एदिणा
विणअमाहप्पेणं । सुष्ठु शोभसे आर्यपुत्र एतेन विनयमाहात्म्येन ।
लक्ष्मणः—एते वयमयोध्यां प्राप्ताः ।
रामः—( सास्रम् ) स्मरामि हन्त स्मरामि ।
जीवत्सु तातपादेषु नवे दारपरिग्रहे ।
मातृभिश्चिन्त्यमानानां ते हि नो दिवसा गताः ॥ १९ ॥
इयमपि तदा जानकी
पतनविरलैः प्रान्तोन्मीलन्मनोहरकुन्तलै-
र्दशनमुकुलैर्मुग्धालोकं शिशुर्दधती मुखम् ।
ललितललितैर्ज्योत्स्नाप्रायैरकृत्रिमविभ्रमै-
रकृत मधुरैरङ्गानां मे कुतूहलमङ्गलैः ॥ २० ॥
लक्ष्मणः—एषा मन्थरा ।
रामः—( सत्वरमन्यतो दर्शयन् । ) देवि वैदेहि
सह' इति द्वयया समाधेयम् । 'आत्मगतं स्वगत' इति वा पाठ साधु ।
ऊर्मिला लक्ष्मणस्य पत्नी । भार्गवः जामदग्न्य । कम्पितास्मि । सा-
धिक्षेपमिति—स्वोत्कर्षं परानुत्कर्षञ्च न श्रोतव्य इति भावः । शोभते आ-
र्यपुत्र एतेन विनयमाहात्म्येन । 'पाल्यमानानां' इति पाठ साधु ॥ जी-
वत्सु तातपादेष्विति ॥ १९ ॥ नः अस्माकम् ॥ १९ ॥ पतनविरलै-
रिति ॥ २० ॥ मध्ये मध्ये दन्ताना पतनेन विरलेः श्लैषामन्तरैरिति
भाव । मन्दः स्वल्प आलोकः द्योतः यस्मिन्मुखे । ललितललितैरिति
वीप्साया द्विरुक्ति भृशं ललितैरित्यर्थः । ज्योत्स्नाप्रायैः चन्द्रिकाप्रचुरै-
तद्वच्छीतलै सुखकरैश्चेति भाव । विभ्रमो विलास । अकृत चकार ।
मधुरैः मनोज्ञै । मुग्धा सुन्दरीति परिहासः । मुदैत्यर्थः । 'शृगपरस्नु-
१ 'भीदम्हि' इति घ-घ २ 'माहम्मेण' इति क. ३ 'नूतने दारसंग्रहे न
४ 'प्रतनु' इति घ-छ-क. ५ 'कुद्दरै.' इति न. ६ 'लहानाम्' इति न
७ 'अनुचरमन्यतो गत्वा' इति घ-घ.

१-२३ ] उत्तररामचरितं १५

इङ्गुदीपादपः सोऽयं शृङ्गवेरपुरे पुरा ।
निषादपतिना यत्र स्निग्धेनासीत्समागमः ॥ २१ ॥
लक्ष्मणः—( विहस्य । स्वगतम् ।) अये मध्यममाम्बावृत्तमन्तरितमार्येण ।
सीता—अम्मो एशो जडासंजमणवुत्तन्तो । अहो एष जटासंयमन-
वृत्तान्तः ।
लक्ष्मणः—पुत्रसंक्रान्तलक्ष्मीकैर्यद्वृद्धेष्वाक्षुभिर्धृतम् ।
धृतं बाल्ये तदार्येण पुण्यमारण्यकव्रतम् ॥ २२ ॥
सीता—एसा पसण्णपुण्णसलिला भअवदी भाइरही । एषा प्रसन्नपुण्य-
सलिला भगवती भागीरथी ।
रामः—देवि रघुकुलदेवते नमस्ते ।
तुरगविचयव्यग्रानुर्वीभिदः सगराध्वरे
कपिलमहसांप्लोष्टान्पितुश्च पितामहान् ।
अगणिततनूतापं तप्त्वा तपांसि भगीरथो
भगवति तव स्पृष्टानद्भिःशिवादुदतीतरत् ॥ २३ ॥
सा त्वमस्य स्नुषायामरुन्धतीव सीतायां शिवानुध्याना भव ।
न्दरमूढयो' इति यादवः ॥ २० ॥ इङ्गुदीपादप इति ॥ २१ ॥ 'इङ्गुदी
तापसतरुः' इत्यमरः । यत्र पादपं पादपप्रदेशे इत्यर्थः । यत्र शृङ्गवेर-
पुरे इति केचित् । तन्न । सोऽयं पादप इति वाक्यविरोधात् । 'स्निग्धस्तुहृत्'
इति वामनः ॥ २१ ॥ 'मध्यमयाम्बा कैकेयी । उत्तमयाम्बा नेति व्यज्यते ।
वृत्तं । वृत्तान्तं इति भ्रान्तः पाठः । वृत्तान्त इत्यमरः । अन्तर्हितमिति-
मातृनिन्दा मा भूदिति भावः । एष जटासंयमनवृत्तान्त ॥ पुत्रसंक्रान्तेति
॥ २२ ॥ यद्वृद्धेष्वाक्षुभिरित्यादि सन्धिषडष्टकम् । अन्तर्ज्वलन्तिकिरीटेति प्राहु-
र्द्वाक्षरेति च काव्यप्रकाशविद्धसालभञ्जिकाभारतचम्पूप्रयोगयोरदर्शनी-
यम् । बाल्ये कौमारदशायाम् । आरण्यका वनवासिन. ॥ २२ ॥ एषा
प्रसन्नपुण्यसलिला भगवती भागीरथी ॥ तुरगविचयव्यग्रइति ॥ २३ ॥ वि-
चये अन्वेषणे । कपिल एव महः तेज . । तेन रुश्रा । रोषाद्धेतोः ।
१ 'स्पृष्टानम्भस्तैरदन्' इति न; 'स्पृष्टानोज्ज्वलितः' इति क. २ 'हृत्'
इति घ. ३ 'आरण्यकं व्रतम्' इति घ-ड. ४ 'रोषात्' इति म. ५ 'पुरा
प्रपितामहान्' इति घ-क; 'पितुः प्रपितामहान्' इति घ. ६ 'तनूताप' इति म;
'तनुतापं' इति घ-घ. ७ 'उददीधरद्' इति घ-घ; 'उदपीपरत्' इति क.

१६ उत्तररामचरितं [ १-२४
लक्ष्मणः-अयमसो भरद्वाजावेदितचित्रकूटयायिनि वर्त्मनि वनस्पतिः
कालिन्दीतटे वटः श्यामो नाम ।
रामः-( सस्नेहमवलोकयति । )¹
सीता-सुमरदि वा एदं पदेसं अज्जउत्तो । सरति वैतं प्रदेशमार्यपुत्र ।
रामः-अयि कथं विस्मर्यते ।
अलसललितमुग्धान्यध्वसम्पातखेदा-
दशिथिलपरिरम्भैर्दत्तसंवाहनानि ।
परिमृदितमृणालीदुर्बलान्यङ्गकानि
त्वमुरसि मम कृत्वा यत्र निद्रामवाप्ता ॥ २४ ॥
लक्ष्मणः-एष विन्ध्याटवीमुखे विराघसंरोधः ।
सीता-अलं दाव एदिणा । पेक्खामि दाव अज्जउत्तसंहत्थघरिदतालव-
म्तोदवत्तनिवारिदादप अत्तणो दक्खिणारण्णप्पवेसारम्भम् । अलं तावदेतेन ।
प्रेक्षे तावदार्यपुत्रसङ्ग्रहस्तधारिततालवृन्तातपनिवारितातपमात्मनो दक्षिणारण्य-
प्रवेशारम्भम् ।
दुष्टान् दग्धान् । पितुः भगीरथजनकस्य । प्रपितामहान् सगरपुत्रान् ।
उदतीतरत् उत्तारयामास ॥ २३ ॥ अरुन्धतीव स्थिता सा प्रतिष्ठा
लमिति ॥ अथवा-यथा अरुन्धती तथा सा त्वमित्यर्थ । शिवं मङ्गलं
अनुध्यानं अनुचिन्तनं यस्या । 'वानप्रस्थं फलं पुष्पंत्तरपुष्पाद्धनस्पतिः'
इत्यमरः ॥ सरति वा एनं प्रदेशमार्यपुत्र । अलसललितेति ॥ २४ ॥
यत्र प्रदेशे अध्वसम्पातखेदात् अलसानि आलस्ययुक्तानि जडानीति
यावत् । स्वभावतस्तु ललितेन विलासेन मुग्धानि मनोज्ञानीत्यर्थः ॥ 'संपातो
चातिपतनमतिपातोऽप्यतिक्रम ।' इति त्रिरूपः । अशथिलपरिरम्भैः
दृढालिङ्गनै । संवाहनं मर्दनम् । अन्योन्यसंघट्टनवशादिति भाव । परि-
मृदिताः क्लिष्टाश्च ता । 'मृणालं नपु' इति विक्रमार्कः । 'पाणौ मृणा-
लीलता' इत्यसबाध्यातनिङ्कसाळमञ्जिकायाम् । तस्सादितरविस्मरणेऽपि
नेदं विस्मर्यत इति भावः ॥ २४ ॥ अटवीमुखे वनपुर प्रदेशे ॥ अलमेतेन
पश्यामि तावदार्यपुत्रसङ्ग्रहस्तधारिततालवृन्तातप( न्त ² )निवारितातपं आत्मन
अग्रिभ्रव्या दक्षिणारण्यपविक्कतुम् ॥ तालवृन्तेति कवे प्रमाद । 'ता
१ एतन्नास्ति ख-ग-पुस्तक्रयो . २ 'सजात' इति ख-घ-क ३ 'संवाद.'
इति न. ४ 'भज्जउत्तहत्थ' इति ब-घ ५ 'तालेण्टा०' इति घ, 'ताल्लवे-
ण्टादवत्त' इति व, 'तालवुन्तादवत्त' इति न. ६ 'अत्तणो अञ्चादिद दक्खिणार-
ण्णदढिअचणम्' इति न.

प्रथम अङ्क: चित्रदर्शन (सीता-राम चित्रदर्शन)

१-२७ ] उत्तररामचरितं १७
रामः—एतानि तानि गिरिनिर्झरिणीतटेषु
वैखानसाश्रिततरूणि तपोवनानि ।
येष्वातिथेयपरमा यमिनो भजन्ते
नीवारमुष्टिपचना गृहिणो गृहाणि ॥ २५ ॥
लक्ष्मणः—अयमविरलानोकहनिबद्दनिरन्तरस्निग्धनीलपरिसरारण्यपरि-
गद्धगोदावरीमुखरकन्दरः सततनिरिष्यन्दमानमेघमेदुरितनीलिमा जनस्था-
नमध्यगो गिरिः प्रस्रवणो नाम ।
रामः—स्मरसि सुतनु तस्मिन्पर्वते लक्ष्मणेन
प्रतिविहितसपर्यासुस्थयोस्तान्यहानि ।
स्मरसि सरसनीरां तत्र गोदावरीं वा
स्मरसि च तदुपान्तेष्वावयोर्वर्तनानि ॥ २६ ॥
किं च । किमपि किमपि मन्दं मन्दमातर्कयोगा-
दविरलितकपोलं जल्पतोरक्रमेण ।
अशिथिलपरिरम्भव्यापृतैकैकदोषो-
र्नविदितगतयामा रात्रिरेव व्यरंसीत् ॥ २७ ॥
लक्ष्मणः—एषा पञ्चवट्यां शूर्पणखा ।
स्तन्तेऽथ' इत्यनुशासनात् 'तालव्योऽन्ते'ति कथनस्यैव न्याय्यत्वात् । 'भ-
विहि' इति 'द्विवचने बहुवचनं' इति बहुत्वं 'भक्तिाहिं' इति च प्रमादः।
'अस्यादिषु छः' इति छलविधानात् 'अच्छिद्दं' इति साधीयान् पाठः ॥
एतानि तानीति ॥ २५ ॥ निर्झरिणीनां गिरिनदीनाम् । येषु तपो-
वनेषु ॥ 'कव्यादिव्यानिधेयातिथ्यर्थेऽत्र साधुनि ।' इत्यमरः । यमिनः
नियमवन्तः । गृहिणः गृहस्थाः ॥ २५ ॥ अनोकहनिबहाः वृक्षसङ्घाः । तैः
निरन्तरं सान्द्रं यथा तथा, स्निग्धनीलानि मसृणानि श्यामलानि च तानि
परिसरारण्यानि तैः परिसरारण्यतया सान्द्रायां गोदावर्या मुखराः
यस्य पूर्वार्धमुपलक्षणम् चित्रे मुखरकन्दरत्वोपचारः इति बोध्यम् । अनि-
ष्यन्दमानाः प्रस्रवन्तः ये मेघाः तैर्मेदुरितः निबिडीकृतः नीलिमा
नील्यं यस्य ॥ स्मरसि सुतन्विति ॥ २६ ॥ लक्ष्मणेन प्रतिविहितेत्या-
दिकं 'रतेर्गृहीतानु नयेन' इतिवत्समाधेयम् । वर्तितानि वर्तनानीत्यर्थः ।
द्वितीयपादादौ यमकमङ्गः । स्मरसीति त्रिः पुनरुक्तं च ॥ २६ ॥ किमपि
किमपीति ॥ २७ ॥ किमपि अनिर्वाच्यं यथा तथा, किमपि किंचित् ।
१ 'शनिनो' इति घ-घ-क. २ 'मुखरन्दर.' इति न. ३ 'सरसदीराम्'
इति घ-घ. ४ 'स्मरसि' इति घ-घ. ५ 'लक्ष्मः...शूर्पणखाविवादः' इति ग.

१८ उत्तररामचरितं [ १-२८
सीता—हा अज्जाउत्त एत्तिअं दे दंसणम् । हा आर्यपुत्र एतावत्ते दर्शनम् ।
रामः—अयि विप्रयोगत्रस्ते चित्रमेतत् ।
सीता—जहा तहा होदु । दुज्जणो असुहं उप्पादेइ । यथा तथा भवतु ।
दुर्जनोऽसुखमुत्पादयति ।
रामः—हन्त वर्तमान इव मे जनस्थानवृत्तान्तः प्रतिभाति ।
लक्ष्मणः—अथेदं रक्षोभिः कनकहरिणच्छद्मविधिना
तथा वृत्तं पापैर्व्यथयति यथा क्षालितमपि ।
जनस्थाने शून्ये विकलकरणैरार्यचरितै-
रपि ग्रावा रोदित्यपि दलति वज्रस्य हृदयम् ॥ २८ ॥
सीता—( साश्रमात्मगतम् । ) अयि देव रहुकुलानन्द एव्व मम कार-
णादो क्लिन्तो १ आसि । अयि देव रघुकुलानन्द एवं मम कारणात्क्लान्त
आसीः ।
लक्ष्मणः—( रामं निर्वर्ण्य साकूतम् । ) आर्य किमेतत् ।
ईषदिति यावत् । मन्दं मन्दं शनैः शनैः । आसक्तियोगात् अभिनिवेश-
सत्त्वे । अविरलितौ मिथो नीरन्ध्रीकृतौ कपोलौ यस्मिन् कर्मणि ।
अनुक्रमेण मदनावेशपारवश्यात्पूर्वोत्तरसम्बन्धाभावेनेत्यर्थः । एकैकदोष्णोः
परस्परभुजयोः । अविदिताः गतयामाः अतिक्रान्तप्रहरा यस्याः ।
रात्रिरेव व्यरंसीत् विरामा । न तु सर्वावकदेशोऽपीति भावः ॥ २७ ॥
आर्यपुत्र एतावत्ते दर्शनम् । यथा तथा वा भवतु । दुर्जनः अशुभमुत्पाद-
यति ॥ अथेदं रक्षोभिरिति ॥ २८ ॥ यथानन्तरं इदमेतत् । अथेदमिति
वाक्यखण्ड । वृत्तं आचरितम् । 'वृत्तमाचरितातीतपद्यचारित्रवस्तुषु' इति
मेदिन्याः । क्षालितं निःशेषितमपि वृत्तमित्यनुषज्यते । शून्ये सजातीयर-
हिते । विकलकरणैः विवशेन्द्रियैः । आर्यस्य रामस्य चरितैः प्रहसितर-
तैरित्यर्थः । अत एव ग्रावा शैलोऽपि रोदिति प्रतिध्वनिव्याजेनेत्युक्तम् ।
इतोऽपि न्येत्याह—वज्रस्य कुलिशस्य । हृदयं गर्भः । दलति स्फुटति ।
अपिः सम्भावनायाम् । तथा च कदाचिदचलवज्रादीना माऽव (२) सान् ।
न तु तेषा दुरात्मनामासीदिति भावः । 'हृदयं हृदि गर्भे च' इति पद्म-
माला ॥ 'हन्त रोदिति शैलोऽपि वज्रगर्भोऽपि दीर्यते । प्रकम्पतेऽपि वि-
ष्ण्दण्डमण्डलं रोदनेस्तव ॥' इति महानाटके मेघनादोत्पत्तौ भगवान् यो
धायनः ॥ २८ ॥ अम्हो दिनकरकुलनन्दन एतावन्मम कारणात् क्लान्त
आसीत् । एतावदिति क्रियाविशेषणम् । कारणात् हेतोः । निर्वर्ण्य
१ 'वन्तो ' प-घ २ 'कन्द्रितोनि' इति प-घ क.

१-३०] उत्तररामचरितं १९
अयं तावद्बाष्पस्त्रुटित इव मुक्तामणिसरो
विसर्पन्धाराभिर्लुठति धरणीं जर्जरकणः ।
निरुद्धोऽप्यावेगः स्फुरदधरसापुटतया
परेषांमुन्नेयो भवति च भेराध्मातहृदयः ॥ २९ ॥
राम —हन्त
तत्काल प्रियजनविप्रयोगजन्मा
तीव्रोऽपि प्रतिकृतिवाञ्छया निसॊढः ।
दुःखानिर्मनसि पुनर्विवच्यमानो
हृन्मर्मव्रण इव वेदनां करोति¹ ॥ ३० ॥
सीता—हद्धी हद्धी । अह वि अदिभूमिं गदेन रणरणएण अज्जउत्त
सुण्ण विअ अत्ताणं पेक्खामि । हा धिक् हा धिक् । अहमप्यतिभूमिं गतेन
रणरणकेना॑र्यपुत्रशून्यमिवात्मानं पश्यामि ।
लक्ष्मण—( स्वगतम् । ) भवत्वन्यत क्षिपामि । ( चित्रं विलोक्य
प्रकाशम् । ) अयंतन्मन्द्वन्तरपुरातनवृत्तान्तस्य तन्त्रमस्तमातुलजटायुषश्चरित्र-
विभोदाहरणम् ।
दृष्ट्वा ॥ अयं तावद्बाष्प इति ॥ २९ ॥ तावत् प्रस्तावरे । मुक्तामणीनां
मणिनिकुरम्बानाम्, सर एकावली । मुक्तामगि पुनरुक्त इति रुचित् ॥
तन्न ॥ 'रत्नमूर्द्विशौरत्नवार्त मुक्तादिकेष्वपि च' इति अमरसिंहेनाभिधानात्
'मौक्तिकमणीत्यादि' इत्यस्याप्यातनिष्टसात्त्वभाविकायाम् । धरणी
मुद्दिश्य । धरणी इति च पाठः । धरणीतनयेनेति लक्षणा । निरुद्ध आच्छा-
दितोऽपि । 'आवेगो भयसम्भ्रम ' इति अमरमाला । जनेषु योग्य उन्नेयः ।
आध्मातं पूरित विर( क ? )²र्धित हृदय येन ॥ २९ ॥ तत्काले प्रि-
यजनेति ॥ ३० ॥ स वणी काल तत्काले प्रियजनस्य सीताया तीव्रो
तीक्ष्ण प्रतिकृति रावणावहाररूप प्रतीकार । निसोट मर्षित । वि-
शेपेण पच्यमान हृन्मर्मत्रण हृदयमर्मच्छिद्रा । 'मर्म तु ग्रन्थिदेपयो'
दति रभस ॥ ३० ॥ हा धिक् हा धिक् अहमप्यतिभूमि गतेन रणरणकेन
श्वायंपुत्रशून्यमिवात्मान पश्यामि । अतिभूमि आधिक्यम् । रणरणशब्दो
औत्सुक्यप्रभवकॊ देशीय । य ( प ) हद्दीती महाराष्ट्रा । 'चरित्रमपि
चारित्रम्' इत्युभयरूप ॥ हा तात निष्प्यूडेन्डाइसस्नेह । निर्व्यूढ निर्वाह

१ 'डे बाष्पोप ' इति च-प २ 'निराध्मात०' इति न ३ 'तनोति' न

२० उत्तररामचरितं [ १-३१
सीता—हा ताद णिव्वूढो दे अवधिसिणेहो । हा तात निर्व्यूढस्तेऽप-
त्नेहः ।
रामः—हा तात काश्यप शकुन्तराज क्व नु खलु पुनस्त्वादृशस्य महत-
स्तीर्थभूतस्य साधोः सम्भवः ।
लक्ष्मणः—अयमसो जनस्थानस्य पश्चिमतश्चित्रश्रवऽवाङ्गो३ दनुकव-
न्धाधिष्ठितो दण्डकारण्यभागः । तदिदमृष्यमूकपर्वते मतङ्गाश्रमपदम् ।
इयं च श्रमणा नाम सिद्धा शबरतापसी । तदेतत्पम्पाभिधानं पद्मसिरः ।
सीता—एत्थ क्खि अज्जउत्तेण विच्छिण्णामरिसधीरत्तणं पमुक्तकण्ठं
रण्णं आसि । यत्र किलायंयपुत्रेण विच्छिन्नामर्षधैर्य्य प्रमुक्तकण्ठं रुदितमासीत् ।
रामः—देवि रमणीयमेतत्सरः ।
पम्पाश्लोकः
एतस्मिन्मदकलमल्लिकाक्षपक्ष-
व्याधूतस्फुरदुरुदण्डपुण्डरीकाः ।
बाष्पाम्भःपरिपतनोद्गमान्तराले
सन्दृष्टाः कुवलयिनो भुवो विभागाः ॥ ३१ ॥
लक्ष्मणः—अयमार्यो हनूमान् ।
सीता—एषो सो चिरणिव्वूढजीवलोअपत्तुद्धरणगुरुओवआरी महाणु-
भावो मारुदी । एष स चिरनिर्व्यूढजीवलोकप्रत्युद्धरणगुरूपकारी महानुभावो
मारुतिः ।
गत प्राणपर्यन्तमिति शेष ॥ तीर्थभूतस्य शुद्धप्रायस्य । जनस्थानं पश्चि-
मतः जनस्थानस्य पश्चिमभागे इत्यर्थ । शबरेषु तापसी शबरीत्यर्थ ॥
यत्र किल आर्यपुत्रेण विच्छिन्नामर्षधैर्येण प्रमुक्तकण्ठं प्ररुदितमासीत् । धीर-
मित्यत्र 'ई धैर्ये' इति, 'तुर्यधैर्यसौन्दर्याधैर्यपर्यन्तेषु र' इति च ईत्त्वं रत्वं च ।
रमणीय इति ध्वनि ॥ एतस्मिन्मदकल इति ॥ ३१ ॥ 'मलिना मलि-
काक्षा' इत्यमरः । तेषा पक्षै व्याधूतानि कम्पितानि । स्फुरन्ति
शोभमानानि उरुदण्डानि विपुलनालानि पुण्डरीकाणि येषु ते । बा-
ष्पाम्भसां पतनोद्गयोरन्तराले अवान्तरदशायामित्यर्थ । विभागाः
प्रदेशा ॥ ३१ ॥ अयमार्य इति पनि. ॥ एष स चिरनिर्व्यूढजीवलोक-
प्रत्युद्धरणगुरुकोपकारो महानुभाव गुरुरेव गुरुकः स्वार्थे क । प्रत्युद्धरण-
१ 'वीर्यस्य' ग-घ-क. २ 'जनस्थानपश्चिम' व-घ. ३ 'कुञ्जवान्नाम प-
र्व्वतो' न. ४ 'तदिदममुष्य परिसरे' न. ५ 'सिद्धशबरी' व-घ. ६ 'मदा' न.
७ 'णिन्विण्णा' क-घ-च.

रामः-दिष्ट्या सोऽयं महाबाहुरञ्जनानन्दवर्धनः ।
यस्य वीर्येण कृतिनो वयं च भुवनानि च ॥ ३२ ॥
सीता-वच्छ एसो कुसुमिदकअम्बतरुतण्डविभमहिणो किंनामधेओ
गिरि जत्थ अणुभावसोहग्गमेत्तपरसेसधूमरसिरी मुहुत्तं मुच्छन्तो तुए पहदि-
णेण अवलम्बिदो तरुतले अज्जउत्तो आलिहिदो । वत्स एष कुसुमितकदम्ब-
तरुताण्डवितबर्हिणः किंनामधेयो गिर्यत्राद्भावसौभाग्यमात्रपरिशेषधूसरश्री-
र्मुहूर्तं मूर्च्छन्त्वया प्रह्रदितेनावलम्बितस्तरुतल आर्यपुत्र आलिखितः ।
लक्ष्मणः-सोऽयं शैलः ककुभसुरभिर्मास्यवान्नाम यस्मि-
न्नीलः स्निग्धः श्यति शिखरं नूतनस्तोयवाहः ।
आर्येणास्मिन्
रामः-विरम विरमतः परं न क्षमोऽस्मि
प्रत्यावृत्तः पुनरिव स मे जानकीविप्रयोगः ॥ ३३ ॥
लक्ष्मणः-अत परमार्येण तत्रभवता कपिराक्षसानां त्रासदाता-
न्युत्तरोत्तराणि कर्माश्चर्याणि । परिश्रान्ता चेयमार्या । तद्विज्ञापयामि
विश्राम्यतामिति ।
सीता-अज्जउत्त एदिणा चित्तदंसणेण पवुप्पन्नदोहलाए अत्थि मए
विण्णप्पं । आर्यपुत्र एतेन चित्रदर्शनेन प्रत्युत्पन्नदोहदाया अस्ति मम विज्ञाप्यम् ।
रामः-नन्वाज्ञापय ।
मेव गुरुषु विपुल उपहार यस्य सोऽयं शोभत इति शेष ॥ दिष्ट्या
सोऽयमित्यादि ॥ ३२ ॥ कृतिनः कृतकृत्या । कुशलानीति भुवनपक्षे
॥ ३२ ॥ वत्स एष कुसुमितकदम्बताण्डवितमयूर किंनामधेयो गिरिः ।
यत्राद्भावसौभाग्यमात्रपरिशेषधूसरधी मूर्छन् त्वया प्रह्रदितेनावलम्बितस्त-
रुतले आर्यपुत्र आलिखित । कदम्ब्याः नीपवृक्षा । मोरो इति वक्तव्ये
मऊरो इति कथन कवे प्रमाद । तथापि शेषसमस्कृतारि (ति) सूत्रेण दय
नीयोऽयं प्रयोग । प्रकृष्टं रुदितं यस्य ॥ सोऽयं शैल इति ॥ ३३ ॥
अतः आर्येणास्मिन् इति वाक्यात् परं अन्यत् वक्ष्यमाणम् श्रोतुमिति शेष ।
स. अनिर्वाच्य । प्रत्यावृत्तः आगत इवेत्यर्थ । तृतीयचरणे राम इति
व्यवधाने सतीप नाटकादौ न दोष इत्यालङ्कारियाणा समय । अत एव
विक्रमचरिते-'देवाकर्णय' इति शुकवाक्यप्रस्तावान्तरे 'तिष्ठति पतगेति'
१ 'सुन्दरसिरी' न. २ एतन्नास्ति क-घ-ब-पुस्तकेषु. ३ 'वरसेतस्मादि-
रम' इति क-घ-ब. ४ 'पुनरपि' ब-घ. ५ 'विष्णावइज्ज' क-न.

२२ उत्तररामचरितं [ १-३४
सीता-जाणे पुणोवि पसण्णगम्भीरासु वणराइंसु विहरिस्सं पवित्रणि-
म्मेळसिसिरावगाहां भअवदिं भाइरहिं ओगाहिस्सं त्ति । जाने पुनरपि प्रस-
न्नगम्भीरासु वनराजिषु विहरिष्यामि पवित्रनिर्मलशिशिरावगाहा भगवतीं भा-
गीरथीमवगाहिष्य इति ।
रामः-वत्स लक्ष्मण !
लक्ष्मणः-पृष्टोऽस्मि १
रामः-वत्स अचिरं सम्पादनीयोऽस्या दोहद इति संप्रत्येव गुरुभिः
सन्दिष्टम् । तदस्खलितसुखसम्पातं रथमुपस्थापय ।
सीता-अज्जउत्त तुम्हेहि वि आगन्तव्वं । आर्यपुत्र युष्माभिरपि आग-
न्तव्यम् ।
रामः-अयि कठिनहृदये एतदपि वक्तव्यमेव ।
सीता-तेण हि पिअं मे पिअं मे । तेन हि प्रियं मे प्रिय मे ।
लक्ष्मणः-यथाज्ञापयत्यार्यः । ( इति निष्क्रान्तः । )
रामः-प्रिये अत्र वातायनोपकण्ठे मुहूर्तं संविष्टा भवावः २ ।
सीता-एवं होदु । ओहरिदम्हि क्खु परिस्समजणिदाए णिद्दाए । एवं
भवतु । अपहृतास्मि खलु परिश्रमजनितया निद्रया ।
रामः-तेन हि निरन्तरमवलम्बस्व मामनुगमनाय ३ ।
जीवयन्निव ससाध्वसभ्रमस्वेदविन्दुरधिकण्ठमर्प्यताम् ।
बाहुरैन्दवमयूखचुम्बितस्यन्दिचन्द्रमणिहारविभ्रमः ॥ ३४ ॥
( तथा कारयन्सानन्दम् । ) प्रिये किमेतत् !
भट्टीनाभिधानादिति दिक् ॥ ३३ ॥ यथार्येति ध्वनि ॥ आर्यपुत्र एतेन
चित्रदर्शनेन प्रत्युत्पन्नदोहदाया विज्ञाप्य मेऽस्ति । दोहदाए इत्यत्र 'दोहदे ल'
इति लत्वम् ॥ जाने पुनरपि प्रसन्नगम्भीरासु वनराजिषु विहरिष्यामि । पवि-
त्रनिर्मल शिशिरावगाहां भगवतीं भागीरथीमवगाहिष्ये इति ॥ तत् तस्मात् ।
सम्पातः चक्रभ्रमणादिना पार्श्वदिषु कुण्ठनमित्यर्थः । उपस्थापयेति ध्वनि ॥
आर्यपुत्र युष्माभिरप्यागन्तव्यम् । तेन हि प्रियं मे प्रियं मे । एवं भवतु ।
अपहृतास्मि खलु निद्रया । अनुगमनायेति ध्वनि ॥ जीवयन्निवेति
॥ ३४ ॥ चन्द्रमणयः चन्द्रकान्ता । विभ्रमः विलासः । बाहुरधिक-
ण्ठमर्प्यताम् अन्यथेदिति ध्वनि ॥ ३४ ॥ प्रियेति-यथा सीता अधिक-
१ 'सोऽस्मि' क-घ-च. २ 'इतो वातायनोपकण्ठे' घ-च. ३ 'संविष्टा भव'
न. ३ 'मामत्र शयनाय' क-घ-च.