सामग्री पर जाएँ
सर्वकोश
उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)

उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)

Uttararamacharitam of Bhavabhuti with Hindi Commentary

महाकवि भवभूति / पं. रामचन्द्र मिश्र द्वारा

DevanagariSanskritpublished439 पृष्ठ

पृष्ठ 23, कुल 439 में से

संदर्भ में पढ़ें
पृष्ठ 23

नायते । सूत्रधार — अलमतिविस्तरेण । अद्य खलु भगवत काल
प्रियानाथस्य यात्रायामार्थमिश्रान्विज्ञापयामि—एवमत्रभवन्तो विदांकुर्वन्तु ।
अस्ति खलु तत्रभवान्काश्यप श्रीकण्ठपदलाञ्छन पदवाक्यप्रमाणज्ञो भव
भूतिर्नाम जातूकर्णीपुत्रै ।-
यं ब्रह्माणमियं देवी वाग्वश्येवानुवर्तते ।
उत्तर रामचरितं तत्प्रणीतं प्रयोक्ष्यते ॥ २ ॥
र्त्मानं वर्णयन् नाटकीयेतिवृत्तसंक्षेपादिकं संग्रहेणोपक्रमते —नान्द्यन्त इत्यादि ।
भगवत षाड्गुण्यपरिपूर्र्णस्य । कालप्रियेति तत्रत्यदेव्या नाम । पुराणगम्यैषा
कथा । यात्रा महोत्सवप्रयुक्तेति भाव । आर्य्येषु ज्ञानवृद्धेषु । मिश्रान् पूज्यान् ।
एवं वक्ष्यमाणप्रकारेण । अत्र रूपके । विदांकुर्व्वन्तु जानन्तु । भगवान्
कीर्त्तिमान् । काश्यप कश्यपवंशाभव काश्यप । मङ्गिनाथप्रयोगात्
श्रीकण्ठ इति पदं नाम लाञ्छनं व्यवहार यस्य श्रीकण्ठाख्य इत्यर्थ ।
श्रीकण्ठस्य शिवस्य पदे पादावेव लाञ्छनं चिह्न यस्येति वाथ । शिवपा
दाब्जनिरत इति यावत् । ‘पदं स्थानाङ्घ्रिनामादौ’ इति, ‘लाञ्छन व्यवहारोऽभिध
देषु’ इति रुद्रकेशवौ ॥ ‘शम्भो कालप्रियानाथ श्रीकण्ठ’ इति शशि शेखरे
पुष्पद्दन्तस्तवे । प्रमाणानि कोशादय । ‘कोशवानाचार्य’ इति स्मरणात् ।
भवात् शिवात् भूति भस्म सम्पद यस्य ईश्वरेणैव जातु दिनद्वयेण विभू
तिर्दत्ता, तदाप्रभृति भवभूतिरिति प्रसिद्धो जात इति च परावरविदो विदन्ति ॥
यं ब्रह्माणमियं देवीति ॥२॥ ब्राह्मण पद्मकमनिरतम् । अनेनान्तर्मुखेऽप्युच्चदु
ल्लसद्रतौ कालिदासस्वभावसूवादाय भृतकविना अनुसन्धेयम् । अन्य
वर्तत इति प्रचुरं पाठमङ्गीकृत्य केचित् व्याचक्षु । तन्न, अस्ति खल्विति वाक्य
विरोधात् अनुवर्तत इत्येव पाठ । तत्प्रणीतमित्यविचारितरमणीय पाठ ।
कविरस्ति यमिति तत्प्रणीतमिति च पूर्वोत्तरवाक्याना परस्परमसङ्गतत्वात् । यत्प्र
णीतमिति युक्त पाठ । पूर्ववाक्ये कविरस्तीति कथनेन उत्तरवाक्ययो यमिति
यत्प्रणीतमिति कथनस्य सामीच्याद्यात् । अत एव, ‘अम्भोजनभूराविरासीत् ।
आभाति यत्कृति’ इत्यस्मद्व्याख्यातभोजचम्पौ । शिष्यविज्ञापने विशेषज्ञा प्रमा-
णम् । प्रयोक्ष्यते मयेति शेष ॥ अत्र पुन —‘उत्तरे रामचरिते भवभूतिर्विशिष्यते’
इति विन्मद्वचनविश्राशिन केचिदलङ्कारियायिन वदन्ति । तन्न विशेषत-
१ 'कालप्रियनाथस्य' इति व-घ-क २ 'खलु इति नास्ति व-पुस्तके
३ '०प्रमाणतत्वज्ञ' इति व ४ 'नतूकर्णीपुत्र' इति न ५ 'अन्ववर्त्तत इति न
६ 'प्रयुज्यते' इति व-घ