सामग्री पर जाएँ
सर्वकोश
उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)

उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)

Uttararamacharitam of Bhavabhuti with Hindi Commentary

महाकवि भवभूति / पं. रामचन्द्र मिश्र द्वारा

DevanagariSanskritpublished439 पृष्ठ

पृष्ठ 39, कुल 439 में से

संदर्भ में पढ़ें
पृष्ठ 39

२० उत्तररामचरितं [ १-३१
सीता—हा ताद णिव्वूढो दे अवधिसिणेहो । हा तात निर्व्यूढस्तेऽप-
त्नेहः ।
रामः—हा तात काश्यप शकुन्तराज क्व नु खलु पुनस्त्वादृशस्य महत-
स्तीर्थभूतस्य साधोः सम्भवः ।
लक्ष्मणः—अयमसो जनस्थानस्य पश्चिमतश्चित्रश्रवऽवाङ्गो३ दनुकव-
न्धाधिष्ठितो दण्डकारण्यभागः । तदिदमृष्यमूकपर्वते मतङ्गाश्रमपदम् ।
इयं च श्रमणा नाम सिद्धा शबरतापसी । तदेतत्पम्पाभिधानं पद्मसिरः ।
सीता—एत्थ क्खि अज्जउत्तेण विच्छिण्णामरिसधीरत्तणं पमुक्तकण्ठं
रण्णं आसि । यत्र किलायंयपुत्रेण विच्छिन्नामर्षधैर्य्य प्रमुक्तकण्ठं रुदितमासीत् ।
रामः—देवि रमणीयमेतत्सरः ।
पम्पाश्लोकः
एतस्मिन्मदकलमल्लिकाक्षपक्ष-
व्याधूतस्फुरदुरुदण्डपुण्डरीकाः ।
बाष्पाम्भःपरिपतनोद्गमान्तराले
सन्दृष्टाः कुवलयिनो भुवो विभागाः ॥ ३१ ॥
लक्ष्मणः—अयमार्यो हनूमान् ।
सीता—एषो सो चिरणिव्वूढजीवलोअपत्तुद्धरणगुरुओवआरी महाणु-
भावो मारुदी । एष स चिरनिर्व्यूढजीवलोकप्रत्युद्धरणगुरूपकारी महानुभावो
मारुतिः ।
गत प्राणपर्यन्तमिति शेष ॥ तीर्थभूतस्य शुद्धप्रायस्य । जनस्थानं पश्चि-
मतः जनस्थानस्य पश्चिमभागे इत्यर्थ । शबरेषु तापसी शबरीत्यर्थ ॥
यत्र किल आर्यपुत्रेण विच्छिन्नामर्षधैर्येण प्रमुक्तकण्ठं प्ररुदितमासीत् । धीर-
मित्यत्र 'ई धैर्ये' इति, 'तुर्यधैर्यसौन्दर्याधैर्यपर्यन्तेषु र' इति च ईत्त्वं रत्वं च ।
रमणीय इति ध्वनि ॥ एतस्मिन्मदकल इति ॥ ३१ ॥ 'मलिना मलि-
काक्षा' इत्यमरः । तेषा पक्षै व्याधूतानि कम्पितानि । स्फुरन्ति
शोभमानानि उरुदण्डानि विपुलनालानि पुण्डरीकाणि येषु ते । बा-
ष्पाम्भसां पतनोद्गयोरन्तराले अवान्तरदशायामित्यर्थ । विभागाः
प्रदेशा ॥ ३१ ॥ अयमार्य इति पनि. ॥ एष स चिरनिर्व्यूढजीवलोक-
प्रत्युद्धरणगुरुकोपकारो महानुभाव गुरुरेव गुरुकः स्वार्थे क । प्रत्युद्धरण-
१ 'वीर्यस्य' ग-घ-क. २ 'जनस्थानपश्चिम' व-घ. ३ 'कुञ्जवान्नाम प-
र्व्वतो' न. ४ 'तदिदममुष्य परिसरे' न. ५ 'सिद्धशबरी' व-घ. ६ 'मदा' न.
७ 'णिन्विण्णा' क-घ-च.