उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)
Uttararamacharitam of Bhavabhuti with Hindi Commentary
महाकवि भवभूति / पं. रामचन्द्र मिश्र द्वारा
पृष्ठ 30, कुल 439 में से
संदर्भ में पढ़ें१–१४ ] उत्तररामचरितं १२
रामः—जानामि वत्स दुर्मनायमानां देवीं विनोदयितुम् । तत्कियन्त-
मवधिं यावत् ।
लक्ष्मणः—यावदार्याया हुताशने विशुद्धिः ।
रामः—शान्तं पापम् । ( मसान्त्ववचनम् )
उत्पत्तिपरिपूतायाः किमस्याः पावनान्तरैः ।
तीर्थोदकं च वह्निश्च नान्यतः शुद्धिमर्हतः ॥ १३ ॥
देवि देवयजनसम्भवे प्रसीद । एष ते जीवितावधिः प्रवादः ।
कष्टो जनः कुलधनैरनुरञ्जनीय-
स्तन्नो यदुक्तमशिवं न हि तत्क्षमं ते ।
नैसर्गिकी सुरभिणः कुसुमस्य सिद्धा
मूर्ध्नि स्थितिर्न चरणैरवताडनानि ॥ १४ ॥
सीता—होदु अज्जउत्त होदु । एहि । पेक्खह्म दाव दे चरिदम् । भव-
त्वार्यपुत्र भवतु । एहि । प्रेक्षामहे तावत्ते चरितम् । (इत्युत्थाय परिक्रामति ।)
लक्ष्मणः—इदं तदालेख्यम् ।
सीता—( निर्वर्ण्य । ) के एदे उवरि णिरन्तरट्ठिदा उवत्थुवन्ति विअ
अज्जउत्तम् । क एते उपरि निरन्तरस्थिता उपस्तुवन्तीवार्यपुत्रम् ।
लक्ष्मणः—देवि, एतानि तानि सरहस्यानि जृम्भकास्त्राणि यानि भगवतः
कृशाश्वात्कौशिकमृषिमुपसंक्रान्तानि तेन च ताटकावधे प्रसादीकृतान्यार्यस्य ।
चित्रपत्रिका' इति त्रिकाण्डशेषः । अवधिः अवसानम् ॥ उत्पत्तिपरिपू-
ताया इति ॥ १३ ॥ पावनान्तरैः पवित्रतापादकवस्तुभेदैः ॥ १३॥ देवानां
यजनं यत्र । यज्ञभूमिरित्यर्थः । जीवितं अवधौ अवसाने यस्य यावज्जीवमे-
त्यर्थः ॥ कष्टो जन इति ॥ १४ ॥ 'व्यात्कटं कृच्छ्रमाभीखं विषेषा भेद्यवानि
गत्' इत्यमरः । कुलधनैः कुलीनैः । नः अस्माकम् । यत् अशिवं निष्ठु-
रम्, उक्तं हुताशनशुद्धिरिति भाषितम् । तत् ते तव न क्षमं न योग्यम् ।
तुशब्दः पादपूरणे ॥ अत्र दृष्टान्तमाह—नैसर्गिकी स्वभावसिद्धा ॥१४॥ आर्य-
पुत्र पश्यामस्ते चरितम् । चरिदं इत्यत्र 'तो दः' इति दत्वम् । निर्वर्ण्य
दृष्ट्वा । क इदानीमेते उपरि निरन्तरस्थिता उपस्तुवन्तीवार्यपुत्रम् । ठिदा
इत्यत्र 'स्थास ठः' इति ठत्वम् । थु(यु)वन्तीत्यत्र 'ष्ण्य यः' इति यत्वं च ।
१ 'कियानवधिः' इति ग. २ पादपूर ( यमान्त्ववचनम् )' इत्येतन्नास्ति
ङ-पुस्तके, 'शान्तं शान्तम्' इति घ ३ कष्टं' इति क, 'द्विष्टो' इति ग.
'तन्मे' इति घ, 'जनो दुरात्मा' इति घ. ५ 'अशुभं' च क. इति ग. ६ 'कामक-'
इति ग-घ. ७ 'शुश्रूषायाम्' इति ग. ८ 'केत्ति दिट्ठस्य णि० दिट्ठानिमित्तं' इति क.