सामग्री पर जाएँ
सर्वकोश
उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)

उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)

Uttararamacharitam of Bhavabhuti with Hindi Commentary

महाकवि भवभूति / पं. रामचन्द्र मिश्र द्वारा

DevanagariSanskritpublished439 पृष्ठ

पृष्ठ 32, कुल 439 में से

संदर्भ में पढ़ें
पृष्ठ 32

१-१८ ] उत्तररामचरितं १३
रामः—सुश्लिष्टमेतत् ।
जनकानां रघूणां च सम्बन्धः कस्य न प्रियः ।
यत्र दाता ग्रहीता च स्वयं कौशिकनन्दनः ॥ १७ ॥
सीता—एदे क्खु तत्कालिदगोदाणमङ्गला चत्तारो भादरो विआहिद-
क्खिदा तुम्हे । अह्मो जाणामि तस्सिं जेव्व पदेसे तस्सिं जेव्व काले
वत्तामि । [एते खलु तत्कालकृतगोदानमङ्गलाश्चत्वारो भ्रातरो विवाहदीक्षिता
यूयम् । अहो जानामि तस्मिन्नेव प्रदेशे तस्मिन्नेव काले वर्ते ।]
रामः—एवम् ।
समयः स वर्तत इवैष यत्र मां
समनन्दयत्सुमुखि गौतमार्पितः ।
अयमांगृहीतकमनीयकङ्कण-
स्तव मूर्तिमानिव महोत्सवः करः ॥ १८ ॥
लक्ष्मणः—इयमार्या । इयमप्यार्या माण्डवी । इयमपि वधूः श्रुतकीर्तिः।
सीता—वच्छ इअं वि अवरा का । [वत्स इयमप्यपरा का ।]
लक्ष्मणः—( सलज्जास्मितम् । अपवार्य ) अये ऊर्मिलां पृच्छत्यार्या ।
भवतु । अन्यतः सञ्चारयामि । ( प्रकाशम् ) आर्ये द्रष्टव्यमेतत् ।
अयं च भगवान्भार्गवः ।
नप्तृबालस्य रामस्य दयानिविर्जगदीश्वर शण्डवार्हविष्णुब्रह्माद्यप्यरावणदुर्वह-
शरासनोऽभूदिति प्रामाणिका । अत एव ‘बालक्रीडनमिन्दुशेखरधनुर्भङ्गादवधि’
इति भगवान् बोधायनः । ‘श्रीमत्- शितिकण्ठस्य कुल हि दुरतिकमम्’
इत्युत्तररामायणे च विप्रहृवदर्शस्य रामस्यैव वाक्यं इति दिक् । सुतरां
स्निग्धं युक्तमित्यर्थः ॥ जनकानां रघूणामिति ॥ १७॥ यज्ञसबन्धे । तथा च
'जनक देहि कन्या गृहाण राम' इति वक्तुं कारयितुं च स्वयं स एव एव सर्व-
शतश्च इति भावः ॥१७॥ एते खलु तत्कालकृतगोदानमङ्गलाश्चत्वारोऽपि भ्रातरो
विवाहदीक्षिता यूयम् । कालकृतेति ध्वनिः । अह्मो जानामि तस्मिन्नेव काले
वर्ते इति । एवं बाढमित्यर्थः ॥ समयस्स वर्तत इति ॥१८॥ यत्र समये ।
आदरागृहीतथासी कमनीयकङ्कण इति विवेकः । अयमागृहीतेति ध्वनिः ॥
॥ १८ ॥ आर्या सीता । माण्डवी भरतपत्नी श्रुतकीर्तिः शत्रुघ्नपत्नी ।
इयमपरा का । 'रहोऽन्येन सहोक्तौ स्यादपवार्यं जनान्तिकम्' इति लक्ष-
णात् प्रकृते वन्येन सह भाषणाभावात् कवे प्रमादः । अपवारि 'स्वमनसा
१ 'द्रष्टव्यमेतद्' न-च; 'दृष्टमेतद्' इति घ. २ 'सुगृहीत' इति प-घ. ३
'सटरामि' इति घ.
३ उ०