सामग्री पर जाएँ
सर्वकोश
उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)

उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)

Uttararamacharitam of Bhavabhuti with Hindi Commentary

महाकवि भवभूति / पं. रामचन्द्र मिश्र द्वारा

DevanagariSanskritpublished439 पृष्ठ

पृष्ठ 33, कुल 439 में से

संदर्भ में पढ़ें
पृष्ठ 33

१४ उत्तररामचरितं [ १-२०
सीता—( ससम्भ्रमम् ) कंपिदह्मि । कम्पितास्मि ।
रामः—ऋषे नमस्ते ।
लक्ष्मणः—आर्ये पश्य पश्य । अयमसावार्येण ( इत्यर्धोक्ते )
रामः—( साधिक्षेपम् ) अयि वत्स बहुतरं द्रष्टव्यम् । अन्यतो दर्शय ।
सीता—( सस्नेहबहुमानं निर्वर्ण्य । ) सुट्ठु सोहसि अज्जउत्त एदिणा
विणअमाहप्पेणं । सुष्ठु शोभसे आर्यपुत्र एतेन विनयमाहात्म्येन ।
लक्ष्मणः—एते वयमयोध्यां प्राप्ताः ।
रामः—( सास्रम् ) स्मरामि हन्त स्मरामि ।
जीवत्सु तातपादेषु नवे दारपरिग्रहे ।
मातृभिश्चिन्त्यमानानां ते हि नो दिवसा गताः ॥ १९ ॥
इयमपि तदा जानकी
पतनविरलैः प्रान्तोन्मीलन्मनोहरकुन्तलै-
र्दशनमुकुलैर्मुग्धालोकं शिशुर्दधती मुखम् ।
ललितललितैर्ज्योत्स्नाप्रायैरकृत्रिमविभ्रमै-
रकृत मधुरैरङ्गानां मे कुतूहलमङ्गलैः ॥ २० ॥
लक्ष्मणः—एषा मन्थरा ।
रामः—( सत्वरमन्यतो दर्शयन् । ) देवि वैदेहि
सह' इति द्वयया समाधेयम् । 'आत्मगतं स्वगत' इति वा पाठ साधु ।
ऊर्मिला लक्ष्मणस्य पत्नी । भार्गवः जामदग्न्य । कम्पितास्मि । सा-
धिक्षेपमिति—स्वोत्कर्षं परानुत्कर्षञ्च न श्रोतव्य इति भावः । शोभते आ-
र्यपुत्र एतेन विनयमाहात्म्येन । 'पाल्यमानानां' इति पाठ साधु ॥ जी-
वत्सु तातपादेष्विति ॥ १९ ॥ नः अस्माकम् ॥ १९ ॥ पतनविरलै-
रिति ॥ २० ॥ मध्ये मध्ये दन्ताना पतनेन विरलेः श्लैषामन्तरैरिति
भाव । मन्दः स्वल्प आलोकः द्योतः यस्मिन्मुखे । ललितललितैरिति
वीप्साया द्विरुक्ति भृशं ललितैरित्यर्थः । ज्योत्स्नाप्रायैः चन्द्रिकाप्रचुरै-
तद्वच्छीतलै सुखकरैश्चेति भाव । विभ्रमो विलास । अकृत चकार ।
मधुरैः मनोज्ञै । मुग्धा सुन्दरीति परिहासः । मुदैत्यर्थः । 'शृगपरस्नु-
१ 'भीदम्हि' इति घ-घ २ 'माहम्मेण' इति क. ३ 'नूतने दारसंग्रहे न
४ 'प्रतनु' इति घ-छ-क. ५ 'कुद्दरै.' इति न. ६ 'लहानाम्' इति न
७ 'अनुचरमन्यतो गत्वा' इति घ-घ.