उत्तर गीता (आदि गौड़पादाचार्य दीपिका एवं सान्वय हिन्दी टीका)
Uttara Gita with Gaudapadacharya Dipika and Hindi Commentary
आदि गौड़पादाचार्य / महर्षि वेदव्यास द्वारा
४८ उत्तरगीतायां
अर्चिरादिमार्ग गन्तुः पुनरावृत्तिराहित्यम्, धूमादिमार्ग
गन्तुः पुनरावृत्तिं च, निरूपयितुं योगधारणया तदुभयमा-
र्गस्वरूपमाह--
दक्षिणे पिङ्गला नाडी
वह्निमण्डलगोचरा ।
देवयानमिति ज्ञेया
पुण्यकर्मानुसारिणी ॥ ११ ॥
दक्षिणे देहस्य दक्षिणे भागे वह्निमण्डलगोचरा वह्नि-
मण्डलं संप्राप्ता पुण्यकर्मानुसारिणी पुण्यकर्मभिः प्राप्तुं यो-
ग्या पिङ्गलानाम नाडी मूलाधारादारभ्य दक्षिणभागतः
सहस्रारपर्यन्तं व्याप्ता या नाडी सा देवयानमिति ज्ञेया
पुनरावृत्तिरहितार्चिरादिमार्ग इति ज्ञेयेत्यर्थः ॥
धूमादिमार्गप्रापकेष्ठनाडीस्वरूपमाह—
इला च वामनिश्वासः
सोममण्डलगोचरा ।
पितृयानमिति ज्ञेयं
वाममाश्रित्य तिष्ठति ॥ १२ ॥
द्वितीयोऽध्यायः । ४९
इलानाडी वामनिश्व्याससोममण्डलगोचरा वामनासापुट-
मार्गेण चन्द्रमण्डलं प्राप्ता वाममाश्रित्य तिष्ठति, मूलाधारा-
दारभ्य वामभागतः सहस्रारपर्यन्तं गता या नाडी सा
पितृयानमिति ज्ञेया पुनरावृत्त्यनुकूलधूममार्ग इति ज्ञेये-
त्यर्थः ॥
एवमिलापिङ्गलानाड्योः स्थानं स्वरूपं च अभिधाय
सुषुम्नानाडीस्वरूपं निरूपयितुं तत्सम्बन्धिन्याः ब्रह्मदण्ड्याः
स्वरूपमाह—
गुदस्य पृष्ठभागेऽस्थि-
न्वीणादण्डस्य देहभृत् ।
दीर्घास्थि मूर्ध्निपर्यन्तं
ब्रह्मदण्डीति कथ्यते ॥ १३ ॥
अस्मिन् देहे गुदस्य मूलाधारस्य पृष्ठभागे पश्चिमभागे
वीणादण्डस्य देहभृत् वीणायास्तन्त्याधारभूतो यो दण्डः
तदाकारभृत तद्रूत्स्थितं मूर्ध्निपर्यन्तं सहस्रारपर्यन्तव्याप्तं य-
दीर्घास्थि दीर्घं पृष्ठभागस्थितम् , तत् ब्रह्मनाडीति कथ्यते
ब्रह्मैक्यप्रतिपादकसुषुम्नाधारत्वादिति भावः ॥
इतः परं सुषुम्नानाडीस्वरूपमाह—
३. तृतीय अध्याय: जीवन्मुक्ति, अद्वैत-स्थिति व उपसंहार
५० उत्तरगीतायां
तस्यान्ते सुषिरं सूक्ष्मं
ब्रह्मनाडीति सूरिभिः ।
तस्य ब्रह्माण्डस्याख्याश्वः अन्ते अग्रे सूक्ष्मं सुषिरं रन्ध्रं
वर्तेत इति शेषः, तद्गता नाडी सूरिभिः विवेकिभिः ब्रह्म-
नाडीति ब्रह्मैक्यप्रतिपादिका नाडीति कथ्यत इति शेषः ॥
तामेव नाडीं निरूपयति—
इलापिङ्गलयोर्मध्ये
सुषुम्ना सूक्ष्मरूपिणी ।
सर्वं प्रतिष्ठितं यस्मि-
न्सर्वगं सर्वतोमुखम् ॥ १४ ॥
इडापिङ्गळनाड्योर्मध्ये सूक्ष्मरूपिणी अतिसूक्ष्मबिस-
तन्तुरूपिणी मूलाधारादारभ्य स्वाधिष्ठानादिचक्रद्वारा सह-
स्रारपर्यन्तं गता कुण्डलिनी शक्तिरिति प्रसिद्धा या सुषुम्ना
नाडी, तस्याः अग्रे उपरि सर्वं सर्वात्मकं विश्वतोमुखं सर्वद्रष्टृ
सर्वगं सर्वव्याप्तं यत्तेजः ब्रह्मज्योतिः, तत् प्रतिष्ठितं विद्यत
इत्यर्थः, ‘तस्याः शिखाया मध्ये’ इति श्रुतेः । ‘शतं चैका च
हृदयस्य नाड्यस्तासां मूर्धानमभिनिःसृतैका । तयोर्ध्वमाय-
न्नमृतत्वमेति—’ इत्यादिश्रुतेः ॥
द्वितीयोऽध्यायः । ५१
सुषुम्नामार्गगतस्य ब्रह्मप्राप्तिं निरूपयितुं तस्याः कुण्डलि-
न्याः सकलजगदात्मकत्वं सकलजगदाधारत्वं सर्वदेवात्मकत्वं
सर्ववेदाधारकत्वं च आह—
तस्य मध्यगताः सूर्य-
सोमाग्निपरमेश्वराः ।
भूतलोका दिशः क्षेत्र-
समुद्राः पर्वताः शिलाः ॥ १५ ॥
द्वीपाश्च निम्नगा वेदाः
शास्त्रविद्याकलाक्षराः ।
स्वरमन्त्रपुराणानि
गुणाश्चैते च सर्वशः ॥ १६ ॥
बीजं बीजात्मकास्तेषां
क्षेत्रज्ञाः प्राणवायवः ।
सुषुम्नान्तर्गतं विश्वं
तस्मिन्सर्वं प्रतिष्ठितम् ॥ १७ ॥
सूर्यसोमाग्निपरमेश्वराः सूर्यमण्डलसोममण्डलवह्निमण्ड-
लानि तन्मध्यस्थितेश्वरश्च, भूतलोकाः पञ्चमहाभूतानि व्यो-
५२ उत्तरगीतायां
मादीनि, चतुर्दश भुवनानि भूर्भुवःसुवरादीनि, दिशः
पूर्वादयः, क्षेत्राणि वाराणस्यादीनि, समुद्राः लवणेक्ष्वादयः,
पर्वताश्च मेर्वादयः, शिलाः यज्ञशिलाः वित्तशिलादयः,
द्वीपाः जम्ब्वादयः, निम्नगाः जाह्नव्यादयः, वेदाः ऋग्वेदा-
दयः, शास्त्राणि मीमांसादीनि, कलाः चतुःषष्टिकलाः, अक्ष-
राः ककारादीनि, स्वराः अकारादयः, मन्त्राः गायत्र्यादयः,
पुराणानि ब्रह्माण्डादीनि, गुणाः सत्त्वादयः, बीजं प्रधानम्,
बीजात्मकाः महदादयः, क्षेत्रं जानन्तीति क्षेत्रज्ञाः जीवाः,
प्राणवायवः—प्राणादयः पञ्च नागादयः पञ्च आहत्य दश-
वायवः, सर्व एते तस्य सुषुम्नानाडीविशेषस्य मध्यगताः
यस्मात्, तस्मात्कारणात् सर्वं जगज्जातं सुषुम्नान्तर्गतं कुण्ड-
लिनीशक्त्यन्तर्भूतमित्यर्थः । अत एव तस्मिन् सर्वं प्रतिष्ठिति-
रम् इति, 'तस्यान्ते सुषिरं सूक्ष्मं तस्मिन्सर्वं प्रतिष्ठितम्'
इति श्रुतेः ॥
तस्मात्सर्वजगदुत्पत्तिकारणमाह—
नानानाडीप्रसवकं
सर्वभूतान्तरात्मनि ।
ऊर्ध्वमूलमधः शाखं
वायुमार्गेण सर्वगम् ॥ १८ ॥
द्वितीयोऽध्यायः । ५१
सर्वभूतानां सर्वप्राणिनाम् अन्तरात्मनि देहे नानानाडी-
प्रसवकं नानानाड्युत्पत्तिस्थानभूतम् , ऊर्ध्वमूलं ऊर्ध्वं ब्रह्म
तदेव मूलं उत्पत्तिस्थानं यस्य तत् , अधःशाखं हिरण्यगर्भा-
दिसृष्टिपरंपराख्याधःप्रसृततिर्यगादिशाखम्, वायुमार्गेण प्रा-
णापानादिवायुमार्गेण, सर्वगं सर्वव्याप्तं सत् जगदुपादानत-
या तिष्ठतीत्यर्थः ॥
ब्रह्मोपासनस्थानतया इतरनाड्याधिक्यमाह--
द्विसप्ततिसहस्राणि
नाड्यः स्युर्वायुगोचराः ।
कर्ममार्गेण सुषिरा-
स्तिर्यञ्चः सुषिरात्मकाः ॥ १९ ॥
अधश्चोर्ध्वगतास्तासु
नव द्वाराणि शोधयन् ।
वायुना सह जीवोर्ध्व-
ज्ञानी मोक्षमवाप्नुयात् ॥ २० ॥
वायुगोचराः वायुसंचारानुकूलाः नाड्यः सिराः द्विस-
प्ततिसहस्राणि द्व्यधिकसप्ततिसहस्राणि कर्ममार्गेण सुषिराः
५४ उत्तरगीतायां
पुनरावृत्तिप्रापकसुषिरखयः; अत एव तिर्यञ्चः तिर्यग्भूताः
सुषिरात्मकाः रन्ध्रप्रधानाः अधश्चोर्ध्वगताः अधोभागमू-
र्ध्वभागं च गताः सर्वत्र व्याप्ताः; तासु नाडीषु मध्ये सुषु-
म्नानाड्या नव द्वाराणि शोधयन् प्राणायामेन मुखादिसर्व-
द्वाराणि शोधयन्; जीवः वायुना सह सुषुम्नामार्गगतवायु-
ना सह ऊर्ध्वज्ञानी ब्रह्मापरोक्षज्ञानी सन् मोक्षमवाप्नुयात्
ब्रह्मैक्यं प्राप्नुयादित्यर्थः । 'तयोर्ध्वमायन्नमृतत्वमेति' इत्या-
दिश्रुतेरिति भावः ॥
तस्याः कुण्डलिन्याः सकलजगदाधाररूत्वेन च उपासनां
कर्तुमस्यामेव सर्वाणीन्द्रादिपुराणि कल्पयति--
अमरावतीन्द्रलोको-
ऽस्मिन्नासाग्रे पूर्वतो दिशि ।
अग्निलोको हृदि ज्ञेय-
श्चक्षुस्तेजोवती पुरी ॥ २१ ॥
अस्मिन्नाडीविशेषे पूर्वतो दिशि पूर्वस्यां दिशि नासाग्रे
नासिकाग्रभागे अमरावती अमरावत्याख्यः इन्द्रलोकः इन्द्रा-
दिदेवावासभूतो लोकः वर्तत इति शेषः । तथा अनन्तरं
चक्षुः दक्षिणं नेत्रं तेजोवती तेजोवती नाम पुरीति प्रसिद्ध;
द्वितीयोऽध्यायः । ५५
हृदि हृदये अग्निलोकः अग्न्यादिदेवावासभूतो लोकः ज्ञेयः
वर्तत इति शेषः ॥
याम्या संयमनी श्रोत्रे
यमलोकः प्रतिष्ठितः ।
नैर्ऋतो ह्यथ तत्पार्श्वे
नैर्ऋतो लोक आश्रितः ॥ २२ ॥
श्रोत्रे दक्षिणे कर्णे याम्या यमसंबन्धिनी संयमिन्याख्यो
यमलोकः यमादिदेववासभूतो लोकः प्रतिष्ठितः अस्ती-
त्यर्थः । अथ तत्पार्श्वे दक्षिणकर्णभागे नैर्ऋतः निर्ऋति-
संबन्धो नैर्ऋत्याख्यो लोकः आश्रितः अस्तीत्यर्थः ॥
किंच --
विभावरी प्रतीच्यां तु
पृष्ठे वारुणिका पुरी ।
वायोर्गन्धवती कर्ण-
पार्श्वे लोकः प्रतिष्ठितः ॥ २३ ॥
प्रतीच्यां पश्चिमदिशि पृष्ठे पश्चिमभागे विभावरीसंज्ञका
वारुणिका पुरी वरुणसंबन्धिनी पुरी वर्तत इति शेषः ।
५६ उत्तरगीतायां
कर्णपार्श्वे वामकर्णसमीपे गन्धवती गन्धवतीपुर्याख्या वायो-
र्लोकः प्रतिष्ठितः अस्तीत्यर्थः ॥
किंच--
सौम्या पुष्पवती सौम्ये
सोमलोकस्तु कण्ठतः ।
वामकर्णे तु विज्ञेयो
देहमाश्रित्य तिष्ठति ॥ २४ ॥
सौम्ये उत्तरदिशि कण्ठतः कण्ठदेशादारभ्य वामकर्णे
वामश्रोत्रे सौम्या कुबेरसंबन्धिनी पुष्पवती पुष्पवत्याख्या
सोमलोकः एवं देहमाश्रित्य तिष्ठतीति विज्ञेयः ॥
किंच--
वामे चक्षुषि चैशानी
शिवलोको मनोन्मनी ।
मूर्ध्नि ब्रह्मपुरी ज्ञेया
ब्रह्माण्डं देहमाश्रितम् ॥ २५ ॥
वामे चक्षुषि वामनेत्रे ऐशानी ईशानसंबन्धिनी मनो-
न्मनी मनोन्मनीपुर्याख्यः शिवलोकः शिवावासभूतो लोकः
द्वितीयोऽध्यायः । ५७
ज्ञेयः; मूर्ध्नि शिरसि ब्रह्मपुरी ब्रह्मलोकः ज्ञेयः; एवं ब्रह्मा-
ण्डं सर्वजगज्जातं देहमाश्रितं देह एव वर्तत इत्यर्थः ॥
देहे एव लोकादिकल्पनामाह--
पादादधः शिवोऽनन्तः
कालाग्निप्रलयात्मकः ।
अनामयमधश्चोर्ध्वं
मध्यमं तु बहिः शिवम् ॥ २६ ॥
पादादधः पादाधःप्रदेशे अनन्तः महाशेषः वर्तते, स तु
कीदृशः ? शिवः रुद्रात्मकः ; पुनः कीदृशः ? कालाग्निप्रलया-
त्मकः प्रलयकालाग्न्यात्मक इत्यर्थः ; 'त्रिलोक्यां दह्यमानायां
संकर्षणमुखाग्निना' इति स्मृतेरिति भावः । तदधः किमि-
त्याशङ्क्याह--अधश्चोर्ध्वमिति अधोदेशे ऊर्ध्वदेशे मध्यदेशे
बहिर्देशे च सर्वत्र अनामयं निरञ्जनं शिवं मङ्गलात्मकं
ब्रह्मैव वर्तत इत्यर्थः ॥
शेषोपरि अतलादिलोककल्पनामाह--
अधः पदोऽतलं विद्या-
त्पादं च वितलं विदुः ।
५८ उत्तरगीतायां
नितलं पादसंधिश्च
सुतलं जङ्घमुच्यते ॥ २७ ॥
महातलं तु जानु स्या-
दूरुदेशो रसातलम् ।
कटिस्तालतलं प्रोक्तं
सप्त पातालसंज्ञया ॥ २८ ॥
पदः पादस्याधोदेशे अतललोकं विद्यात्; पादं तु वितलं
लोकमिति विदुः योगिन इति शेषः; पादसंधि तु गुल्फ-
स्थानं नितलं विद्यात्; जङ्घं सुतलमित्युच्यते; जानुदेशः
महातलं स्यात्; ऊरुदेशः रसातलं विद्यात्; कटिदेशः तला-
तलं प्रोक्तम्; एवं देहावयवाः सप्त पातालादिलोकसंज्ञया
कल्पनीया इत्यर्थः ॥
किंच--
कालाग्निनरकं घोरं
महापातालसंज्ञया ।
पातालं नाभ्यधोभागो
भोगीन्द्रफणिमण्डलम् ॥ २९ ॥
द्वितीयोऽध्यायः । ५९
वेष्टितः सर्वतोऽनन्तः
स बिभ्रज्जीवसंज्ञकः ।
घोरं भयंकरं कालाग्निनरकं कालाग्निदेशवत् कालाग्न्या-
कारा ह्यानरकदेशवत् भोगीन्द्रफणिमण्डलं भोगीन्द्राः सर्प-
राजानः फणयः इतरे सर्पाः तेषां मण्डलं समूहवत् यत् पा-
तालम्, तत् नाभ्यधोभागे नाभ्यधःप्रदेशे महापातालसंज्ञया
ऽभिहितमिति विद्यात्; स जीवसंज्ञकः जीवसंज्ञावान् शेषः
सर्वतः सर्वं वेष्टितः सन् बिभ्रन्सन् स्थितः कुण्डलाकारेणा-
वृत्य वर्तत इत्यर्थः ॥
भूलोकं नाभिदेशं तु
भुवर्लोकं तु कुक्षितः ॥ ३० ॥
हृदयं स्वर्गलोकं तु
सूर्यादिग्रहतारकाः ।
हृदयं स्वर्गलोकं विद्यात्, तत्र सूर्यादिग्रहाः नक्षत्राणि च
तिष्ठन्तीत्यर्थः । शेषं स्पष्टम् ॥
किंच—
सूर्यसोमसुनक्षत्रं
बुधशुक्रकुजाङ्गिराः ॥ ३१ ॥
६० उत्तरगीतायां
मन्दश्च सप्तमो ह्येष
ध्रुवोऽन्तः स्वर्गलोकतः ।
सूर्यसोमेत्यादि सूर्यादिग्रहनक्षत्रमित्यस्य व्याख्यानम् ।
ध्रुवोऽन्तः स्वर्गलोकतः स्वर्गलोकस्यान्ते ध्रुवो वर्तत इत्यर्थः ॥
एवं कल्पनाफलमाह
हृदये कल्पयन्योगी
तस्मिन्सर्वसुखं लभेत् ॥ ३२ ॥
योगी हृदये एव सूर्यादिग्रहनक्षत्रादीनि कल्पयन् तस्मिन्
हृदि कल्पनाविशेषेण सर्वसुखं लभेत्; तत्तल्लोकगतसुखानि
प्राप्नोतीत्यर्थः ॥
किंच--
हृदयस्य महर्लोकं
जनोलोकं तु कण्ठतः ।
तपोलोकं भ्रुवोर्मध्ये
मूर्ध्नि सत्यं प्रतिष्ठितम् ॥ ३३ ॥
हृदयस्योपरीति शेषः । स्पष्टमन्यत् ॥
द्वितीयोऽध्यायः । ६१
एवं देहे एव सर्वलोककल्पनामुक्त्वा तल्लयप्रकारमाह--
ब्रह्माण्डरूपिणी पृथ्वी
तोयमध्ये विलीयते ।
अग्निना पच्यते तोयं
वायुना ग्रस्यतेऽनलः ॥ ३४ ॥
आकाशं तु पिबेद्वायुं
मनश्चाकाशमेव च ।
बुद्ध्यहंकारचित्तं च
क्षेत्रज्ञः परमात्मनि ॥ ३५ ॥
अत्र तामसाहंकारकार्याणां पृथिव्यादीनां सात्त्विकाहंका-
रकार्ये मनसि क्रमेण लयकथनं मनोवृत्तिविषयत्वाधीनव्यव-
हारगोचरत्वादुपचारात् इति मन्तव्यम् । तच्च मनो बुद्धौ
बुद्धिरहंकारे अहंकारं चित्ते चित्तं क्षेत्रज्ञे क्षेत्रज्ञः, परमात्मनि
एवं सर्वात्मनि प्रविलापयेदित्यर्थः ॥
एवं योगाभ्यासेन ब्रह्मैक्यानुसंधानवतः सकलदुरितनि-
वृत्तिरित्याह--
U, 5
६२ उत्तरगीतायां
अहं ब्रह्मेति मां ध्याये-
देकाग्रमनसा सकृत् ।
सर्वं तरति पाप्मानं
कल्पकोटिशतैः कृतम् ॥ ३६ ॥
स्पष्टोऽर्थः ॥
जीवस्य मुक्तिस्वरूपमाह--
घटसंवृतमाकाशं
नीयमाने घटे यथा ।
घटो नश्यति नाकाशं
तद्वज्जीव इहात्मनि ॥ ३७ ॥
घटे नीयमाने पूर्वदेशादन्यदेशं प्राप्यमाने घटे नष्टे च
यथा घटाकाशं महाकाशे ऐक्यं प्राप्नोति, तद्वज्जीवः परमा-
त्मनीत्यर्थः ॥
किंच--
घटाकाशमिवात्मानं
विलयं वेत्ति तत्त्वतः ।
स गच्छति निरालम्बं
ज्ञानालोक्यं न संशयः ॥ ३८ ॥
द्वितीयोऽध्यायः । ६३
यः आत्मानं जीवं घटाकाशमिव परमात्मनि लयं गतं
तत्त्वतः यथार्थतया वेत्ति, सः ज्ञानी निरालम्बं निःसंगं
ज्ञानालोक्यं ब्रह्मप्रकाशात्मतत्त्वं गच्छति प्राप्नोति, न संशयः
संदेहो नास्तीत्यर्थः ॥
एतस्य ज्ञानयोगस्य किमपि न तुल्यमित्याह--
तपेद्वर्षसहस्राणि
एकपादस्थितो नरः ।
एकस्य ध्यानयोगस्य
कलां नार्हन्ति षोडशीम् ॥ ३९ ॥
आलोच्य चतुरो वेदा-
न्धर्मशास्त्राणि सर्वदा ।
यो वै ब्रह्म न जानाति
दर्वी पाकरसं यथा ॥ ४० ॥
यथा खरश्चन्दनभारवाही
‘ सारस्य वाही न तु चन्दनस्य ।
एवं हि शास्त्राणि बहून्यधीत्य
सारं त्वजानन्खरवद्वहेत्सः ॥ ४१ ॥
६४ उत्तरगीतायां
चन्दनभारवाही श्रीचन्दनकाष्ठभारवाही खरः चन्दन-
सारवाही न भवति तद्गन्धानुभववान्न भवति, एवं बहूनि
शास्त्राण्यधीत्यापि सारं तु अजानन् ब्रह्म न जानन् खरवत्
शोच्यः आक्रोश्य इत्यर्थः ॥
ब्रह्मज्ञानपर्यन्तं सर्वमनुष्ठेयम्, ज्ञाते तु सर्वं व्यर्थमित्याह--
अनन्तकर्म शौचं च
जपो यज्ञस्तथैव च
तीर्थयात्रादिगमनं
यावत्तत्त्वं न विन्दति ॥ ४२ ॥
देहे भिन्नेऽप्यात्मैक्यं दृष्टान्तेनाह--
गवामनेकवर्णानां
क्षीरं स्यादेकवर्णकम् ।
क्षीरवद्दृश्यते ज्ञानं
देहिनां च गवां यथा ॥ ४३ ॥
अनेकवर्णानां शुक्लादिभिन्नभिन्नवर्णानां गवां क्षीरं यथा
एकवर्णम्, मीमांसकमते गुणव्यक्तेरेकत्वादिति भावः; तथा
भिन्नभिन्नानां देहिनां ज्ञानं ब्रह्म एकं दृश्यत इत्यर्थः ॥
द्वितीयोऽध्यायः । ६५
अहं ब्रह्मेति नियतं
मोक्षहेतुर्महात्मनाम् ।
द्वे पदे बन्धमोक्षाय
न ममेति ममेति च ॥ ४४ ॥
ममेति बध्यते जन्तु-
र्न ममेति विमुच्यते ॥
ममेति ममताविषयत्वेन स्वीकृतं सर्वं बन्धाय भवति ;
न ममेति ममत्वं विहाय त्यक्तं मोक्षायैवेत्यर्थः । स्पष्टम-
न्यत् ॥
अहंकारत्यागकार्यमाह —
मनसो ह्युन्मनीभावा-
द्द्वैतं नैवोपलभ्यते ।
यदा यात्युन्मनीभावं
तदा तत्परमं पदम् ॥ ४५ ॥
मनसः चित्तस्य उन्मनीभावात् अहंकारत्यागात् द्वैतं नैवो-
पलभ्यते, अहंकारोपाधिकत्वाद्भेदस्येति भावः । तथा च यदा
उन्मनीभावं मनो याति निष्कृष्टाहंकारचैतन्यं भवति, तदा
तदेव परमं पदं मोक्ष इत्याभिधीयते ॥
६८ उत्तरगीतायां
तदुक्तम् ‘आलोड्य सर्वशास्त्राणि’ इत्यादि। उक्तं च हरि-
वंशे — ‘असत्कीर्तनकान्तारपरिवर्तनपांसुभिः। वाचं हरि-
कथालापगङ्गायैव पुनीमहे’ इति। तत्र दृष्टान्तमाह—हंसो
यथा अम्बुमिश्रत्वेऽपि अम्ब्त्वंशं विहाय क्षीरमेवोपादत्ते तद्व-
दिति भावः ॥
तस्मात्पाण्डित्यं निर्विद्येत्यादिश्रुत्या पाण्डित्यप्रकटनस्य
ब्रह्मोपासनाप्रतिबन्धकत्वेन सर्वमपि पाण्डित्यं हेयमित्याह—
पुराणं भारतं वेद-
शास्त्राणि विविधानि च।
पुत्रदारादिसंसारो
योगाभ्यासस्य विघ्नकृत् ॥ २ ॥
योगाभ्यासस्य आत्मैक्ययोगाभ्यासस्य। शेषं स्पष्टम् ॥
किं च आत्मविचारमन्तरेण इतरशास्त्राणि न विचारयि-
तव्यानीत्याह--
इदं ज्ञानमिदं ज्ञेयं
यः सर्वं ज्ञातुमिच्छति।
अपि वर्षसहस्रायुः
शास्त्रान्तं नाधिगच्छति ॥ ३ ॥
तृतीयोऽध्यायः । ६९
सहस्रवर्षपरिमितायुष्मानपि एकैकस्य शास्त्रस्य अन्त॑
पारं भावनिश्चयं वा नाधिगच्छति; किमुत वक्तव्यम् स-
र्वाणि शास्त्राणि नाधिगच्छतीति भावः ॥ ३ ॥
तर्हि सर्वमपि विहाय अधिगन्तव्यं वा किमित्याश-
ङ्क्याह—
विज्ञेयोऽक्षरसन्मात्रं
जीवितं चापि चञ्चलम् ।
विहाय शास्त्रजालानि
यत्सत्यं तदुपास्यताम् ॥ ४ ॥
अक्षरसन्मात्रं नाशरहितसत्तामात्रात्मक आत्मा विज्ञेयः ।
तत्र च वैराग्यार्थं जीवितमपि चञ्चलमिति विज्ञेयम् , ‘चर-
मश्वासवेलायां यत्कृत्यं तत्सद्य कुरु’ इति न्यायात् । तस्मा-
च्छास्त्रजालानि विहाय यत्सत्यं तदेवोपास्यतामिति ॥
इन्द्रियजये वैराग्यं स्वत एव जायत इत्याह—
पृथिव्यां यानि भूतानि
जिह्वोपस्थनिमित्तकम् ।
जिह्वोपस्थपरित्यागे
पृथिव्यां किं प्रयोजनम् ॥ ५ ॥