उत्तर गीता (आदि गौड़पादाचार्य दीपिका एवं सान्वय हिन्दी टीका)

उत्तर गीता (आदि गौड़पादाचार्य दीपिका एवं सान्वय हिन्दी टीका)
Uttara Gita with Gaudapadacharya Dipika and Hindi Commentary
आदि गौड़पादाचार्य / महर्षि वेदव्यास द्वारा
DevanagariSanskritpublished86 पृष्ठ
पृष्ठ 64, कुल 86 में से
संदर्भ में पढ़ेंपृष्ठ 64
द्वितीयोऽध्यायः । ५५
हृदि हृदये अग्निलोकः अग्न्यादिदेवावासभूतो लोकः ज्ञेयः
वर्तत इति शेषः ॥
याम्या संयमनी श्रोत्रे
यमलोकः प्रतिष्ठितः ।
नैर्ऋतो ह्यथ तत्पार्श्वे
नैर्ऋतो लोक आश्रितः ॥ २२ ॥
श्रोत्रे दक्षिणे कर्णे याम्या यमसंबन्धिनी संयमिन्याख्यो
यमलोकः यमादिदेववासभूतो लोकः प्रतिष्ठितः अस्ती-
त्यर्थः । अथ तत्पार्श्वे दक्षिणकर्णभागे नैर्ऋतः निर्ऋति-
संबन्धो नैर्ऋत्याख्यो लोकः आश्रितः अस्तीत्यर्थः ॥
किंच --
विभावरी प्रतीच्यां तु
पृष्ठे वारुणिका पुरी ।
वायोर्गन्धवती कर्ण-
पार्श्वे लोकः प्रतिष्ठितः ॥ २३ ॥
प्रतीच्यां पश्चिमदिशि पृष्ठे पश्चिमभागे विभावरीसंज्ञका
वारुणिका पुरी वरुणसंबन्धिनी पुरी वर्तत इति शेषः ।