उत्तर गीता (आदि गौड़पादाचार्य दीपिका एवं सान्वय हिन्दी टीका)
Uttara Gita with Gaudapadacharya Dipika and Hindi Commentary
आदि गौड़पादाचार्य / महर्षि वेदव्यास द्वारा
पृष्ठ 66, कुल 86 में से
संदर्भ में पढ़ेंद्वितीयोऽध्यायः । ५७
ज्ञेयः; मूर्ध्नि शिरसि ब्रह्मपुरी ब्रह्मलोकः ज्ञेयः; एवं ब्रह्मा-
ण्डं सर्वजगज्जातं देहमाश्रितं देह एव वर्तत इत्यर्थः ॥
देहे एव लोकादिकल्पनामाह--
पादादधः शिवोऽनन्तः
कालाग्निप्रलयात्मकः ।
अनामयमधश्चोर्ध्वं
मध्यमं तु बहिः शिवम् ॥ २६ ॥
पादादधः पादाधःप्रदेशे अनन्तः महाशेषः वर्तते, स तु
कीदृशः ? शिवः रुद्रात्मकः ; पुनः कीदृशः ? कालाग्निप्रलया-
त्मकः प्रलयकालाग्न्यात्मक इत्यर्थः ; 'त्रिलोक्यां दह्यमानायां
संकर्षणमुखाग्निना' इति स्मृतेरिति भावः । तदधः किमि-
त्याशङ्क्याह--अधश्चोर्ध्वमिति अधोदेशे ऊर्ध्वदेशे मध्यदेशे
बहिर्देशे च सर्वत्र अनामयं निरञ्जनं शिवं मङ्गलात्मकं
ब्रह्मैव वर्तत इत्यर्थः ॥
शेषोपरि अतलादिलोककल्पनामाह--
अधः पदोऽतलं विद्या-
त्पादं च वितलं विदुः ।