उत्तर गीता (आदि गौड़पादाचार्य दीपिका एवं सान्वय हिन्दी टीका)
Uttara Gita with Gaudapadacharya Dipika and Hindi Commentary
आदि गौड़पादाचार्य / महर्षि वेदव्यास द्वारा
पृष्ठ 58, कुल 86 में से
संदर्भ में पढ़ेंद्वितीयोऽध्यायः । ४९
इलानाडी वामनिश्व्याससोममण्डलगोचरा वामनासापुट-
मार्गेण चन्द्रमण्डलं प्राप्ता वाममाश्रित्य तिष्ठति, मूलाधारा-
दारभ्य वामभागतः सहस्रारपर्यन्तं गता या नाडी सा
पितृयानमिति ज्ञेया पुनरावृत्त्यनुकूलधूममार्ग इति ज्ञेये-
त्यर्थः ॥
एवमिलापिङ्गलानाड्योः स्थानं स्वरूपं च अभिधाय
सुषुम्नानाडीस्वरूपं निरूपयितुं तत्सम्बन्धिन्याः ब्रह्मदण्ड्याः
स्वरूपमाह—
गुदस्य पृष्ठभागेऽस्थि-
न्वीणादण्डस्य देहभृत् ।
दीर्घास्थि मूर्ध्निपर्यन्तं
ब्रह्मदण्डीति कथ्यते ॥ १३ ॥
अस्मिन् देहे गुदस्य मूलाधारस्य पृष्ठभागे पश्चिमभागे
वीणादण्डस्य देहभृत् वीणायास्तन्त्याधारभूतो यो दण्डः
तदाकारभृत तद्रूत्स्थितं मूर्ध्निपर्यन्तं सहस्रारपर्यन्तव्याप्तं य-
दीर्घास्थि दीर्घं पृष्ठभागस्थितम् , तत् ब्रह्मनाडीति कथ्यते
ब्रह्मैक्यप्रतिपादकसुषुम्नाधारत्वादिति भावः ॥
इतः परं सुषुम्नानाडीस्वरूपमाह—