उत्तर गीता (आदि गौड़पादाचार्य दीपिका एवं सान्वय हिन्दी टीका)

उत्तर गीता (आदि गौड़पादाचार्य दीपिका एवं सान्वय हिन्दी टीका)
Uttara Gita with Gaudapadacharya Dipika and Hindi Commentary
आदि गौड़पादाचार्य / महर्षि वेदव्यास द्वारा
DevanagariSanskritpublished86 पृष्ठ
पृष्ठ 73, कुल 86 में से
संदर्भ में पढ़ेंपृष्ठ 73
६४ उत्तरगीतायां
चन्दनभारवाही श्रीचन्दनकाष्ठभारवाही खरः चन्दन-
सारवाही न भवति तद्गन्धानुभववान्न भवति, एवं बहूनि
शास्त्राण्यधीत्यापि सारं तु अजानन् ब्रह्म न जानन् खरवत्
शोच्यः आक्रोश्य इत्यर्थः ॥
ब्रह्मज्ञानपर्यन्तं सर्वमनुष्ठेयम्, ज्ञाते तु सर्वं व्यर्थमित्याह--
अनन्तकर्म शौचं च
जपो यज्ञस्तथैव च
तीर्थयात्रादिगमनं
यावत्तत्त्वं न विन्दति ॥ ४२ ॥
देहे भिन्नेऽप्यात्मैक्यं दृष्टान्तेनाह--
गवामनेकवर्णानां
क्षीरं स्यादेकवर्णकम् ।
क्षीरवद्दृश्यते ज्ञानं
देहिनां च गवां यथा ॥ ४३ ॥
अनेकवर्णानां शुक्लादिभिन्नभिन्नवर्णानां गवां क्षीरं यथा
एकवर्णम्, मीमांसकमते गुणव्यक्तेरेकत्वादिति भावः; तथा
भिन्नभिन्नानां देहिनां ज्ञानं ब्रह्म एकं दृश्यत इत्यर्थः ॥