उत्तर गीता (आदि गौड़पादाचार्य दीपिका एवं सान्वय हिन्दी टीका)
Uttara Gita with Gaudapadacharya Dipika and Hindi Commentary
आदि गौड़पादाचार्य / महर्षि वेदव्यास द्वारा
प्रथमोऽध्यायः । १९
कायस्थोऽपि न लिप्तः स्या-
त्कायस्थोऽपि न बाध्यते ।
कायस्थोऽपि सुखदुःखादिहेतुभूतदेहसंबन्धोऽपि न लिप्तः
स्यात् सुखदुःखादिसंबन्धरहित इत्यर्थः । कायस्थोऽपि मरण-
धर्मवद्देहस्थोऽपि न बाध्यते न म्रियत इत्यर्थः । अनेन
जन्मादिषड्भावविकारशून्यत्वं दर्शितम् ॥
यदध्यासेन आत्ममोहात्संसृतिः, तदपवादेन तस्यैव देहा-
न्तःकरणादावात्मा विचारणीय इत्याह—
तिलमध्ये यथा तैलं
क्षीरमध्ये यथा घृतम् ॥ २९ ॥
पुष्पमध्ये यथा गन्धः
फलमध्ये यथा रसः ।
काष्ठाग्निवत्प्रकाशेत
आकाशे वायुवच्चरेत् ॥ ३० ॥
आत्मा तिलमध्ये तैलाच्छादकतिलेषु यथा तैलम् , यन्त्रा-
दिना तिले निष्पिष्टे यथा तिलात्पृथक् तैलं शुद्धं भासते,
क्षीरमध्ये घृताच्छादकक्षीराणां मध्ये क्षीरत्वापनोदको-
२० उत्तरगीतायां
पायद्वारा दधिपरिणामे मथनेनापनीते नवनीतादिपरिणाम-
द्वारा अग्निसंयोगात् यथा घृतं प्रतीयते, तथा पुष्पाणां मध्ये
यथा गन्धः प्रतीयते, फलमध्ये त्वगस्थ्यादिहेयांशपरित्या-
गेन यथा रसो भासते, आकाशे यथा वायुः सर्वगतः सन्
वाति संचरति, तथा काष्ठाग्निवत् अरण्यादिस्थिताग्निः
मथनादिना मथिते यथा काष्ठभावं विहाय स्वयंप्रकाशतया
भासते, तद्वदात्मापि अन्नमयादिपञ्चकोशेषु मध्ये हेयां-
शपरित्यागेन आनन्दात्मकतया स्वयंप्रकाशः सन् भासत
इत्यर्थः ॥
एतदेव दार्ष्टान्तिके सर्वं स्पष्टमुपपादयति —
तथा सर्वगतो देही
देहमध्ये व्यवस्थितः ।
मनस्थो देहिनां देवो
मनोमध्ये व्यवस्थितः ॥ ३१ ॥
तथा पूर्वोक्ततैलादिवत् सर्वगतः सर्वव्यापी देही जीवः दे -
हमध्ये नानाभिन्नतिर्यग्देहादिदेहमध्ये व्यवस्थितः नानाभिन्न -
तिलेषु तैलवत् एकत्वेन स्थित इत्यर्थः । देहिनां तत्तद्देहभेदेन
भिन्नानां जीवानां मनस्थः तत्तदन्तःकरणस्थः देवः ईश्वरः
प्रथमोऽध्यायः । २१
मनोमध्ये तत्तद्दुष्टादुष्टान्तःकरणेषु व्यवस्थितः साक्षितया
भासत इत्यर्थः ॥
तादृशब्रह्मापरोक्ष्येण मुच्यन्त इत्याह—
मनस्थं मनमध्यस्थं
मध्यस्थं मनवर्जितम् ।
मनसा मन आलोक्य
स्वयं सिध्यन्ति योगिनः ॥ ३२ ॥
मनस्थं मनोऽवच्छिन्नं मनमध्यस्थं मनःसाक्षिभूतं मध्य-
स्थं सर्वसाक्षिभूतम् मनवर्जितं संकल्पविकल्पादिरहितं मनः
अवबोधात्मकं देवं मनसा परिशुद्धान्तःकरणेन आलोक्य
तद्गोचरापरोक्षचरमवृत्तिं लब्ध्वा योगिनः स्वयमेव सि-
ध्यन्ति निवृत्ताविद्यका मुक्ता भवन्तीत्यर्थः ॥
तेषां लक्षणमाह—
आकाशं मानसं कृत्वा
मनः कृत्वा निरास्पदम् ।
निश्चलं तद्विजानीया-
त्समाधिस्थस्य लक्षणम् ॥ ३३ ॥
61606
१२ उत्तरगीतायां
आकाशवन्मानसं मनो निर्मलं कृत्वा मनः संकल्पविक-
ल्पात्मकं निरास्पदम् निर्विषयं कृत्वा निश्चलं निष्क्रियमी-
श्वरं यो विजानीयात्, स एव समाधिस्थः । तादृशज्ञानमेव
समाधिस्थस्यापि लक्षणमित्यर्थः ॥
आरूढस्य लक्षणमुक्तम् ; आरुरुक्षोरुपायमाह—
योगामृतरसं पीत्वा
वायुभक्षः सदा सुखी ।
यममभ्यस्यते नित्यं
समाधिर्मृत्युनाशकृत् ॥ ३४ ॥
योगामृतरसं पीत्वा यमनियमाद्यष्टाङ्गयोगामृतपानं कृ-
त्वा तत्प्रतिपादकशास्त्रमभ्यस्येत्यर्थः, वायुभक्षः वायुमात्रा-
हारः, उपलक्षणमेतत् , हितमितमेध्याशी, सदा सुखी सर्वदा
संतुष्टः सन् , यं यमं मनोनिग्रहं नित्यमभ्यस्यते, स समा-
धिरित्युच्यते । स समाधिः मृत्युनाशकृत् जननमरणसं-
सारनाशकृदित्यर्थः ॥
तादृशसमाधौ स्थितस्य लक्षणमाह—
ऊर्ध्वशून्यमधःशून्यं
मध्यशून्यं यदात्मकम् । ६५: ईश्वर
प्रथमोऽध्यायः । २३
सर्वशून्यं स आत्मेति
समाधिस्थस्य लक्षणम् । ३५ ॥
ऊर्ध्वशून्यम् ऊर्ध्वदेशपरिच्छेदरहितम् अधःशून्यं मध्य-
शून्यम् अधोमध्यदेशपरिच्छेदरहितं सर्वशून्यं देशकाला-
दिपरिच्छेदरहितं यदात्मकं यत्स्वरूपम्, स आत्मेति भावना
समाधिस्थस्य लक्षणमित्यर्थः ॥
एतस्यैकान्तिकदृष्टेः विधिनिषेधातीतत्वमाह—
शून्यभावितभावात्मा
पुण्यपापैः प्रमुच्यते ।
शून्यमिति सर्वपरिच्छेदरहितमिति भावितः वासितः
भावः अभिप्रायो यस्यात्मनः तादृशः सन् शून्यभावित-
भावात्मा योगी पुण्यपापैः विधिनिषेधप्रयुक्तैः प्रमुच्यते
मुक्तो भवतीत्यर्थः ॥
एवं भगवदुपदिष्टसमाधौ विरोधमसम्भवं च आह—
अर्जुन उवाच—
अदृश्ये भावना नास्ति
दृश्यमेतद्विनश्यति ॥ ३६ ॥
२४ उत्तरगीतायां
अवर्णमस्वरं ब्रह्म
कथं ध्यायन्ति योगिनः ।
अदृश्ये ज्ञानागोचरे वस्तुनि भावना ध्यानं नास्ति ; ननु
तर्हि दृश्यं भवत्विति चेत्, दृश्यमेतत्सर्वं विनश्यति नाशं
प्राप्नोति शुक्तिकारूप्यवत् । तथा च अवर्णं रूपरहितम्
अस्वरं शब्दागोचरं ब्रह्म योगिनः कथं ध्यायन्ति, ध्यानस्य
स्मृत्यात्मकत्वेनाननुभूते तदयोगात् इति भावः ॥
न हि सावयवमूर्त्यादिमत्त्वेन वयं ध्यानं ब्रूमः येन त्वयो-
क्तं घटेत, किं तु निर्विशेषपरब्रह्मण एव निर्मलं निष्कलमित्या-
दिना, वेदान्तजन्यवृत्तिगोचरत्वेन तत्संभवतीत्यभिप्रायेणाह-
श्रीभगवानुवाच-
ऊर्ध्वपूर्णमधःपूर्णं
मध्यपूर्णं यदात्मकम् ॥ ३७ ॥
सर्वपूर्णं स आत्मेति
समाधिस्थस्य लक्षणम् ।
ऊर्ध्वाधोमध्यपूर्णशब्दैः सर्वदेशतः सर्वकालतः परिच्छेदं
व्यावर्तयति । यदात्मकं यत् एतादृशं वस्तु सर्वत्र परिपूर्णं च
प्रथमोऽध्यायः । २५
आत्मेति यो ध्यायति, स समाधिस्थः । तस्य लक्षणमपि
तदेवेत्यर्थः ॥
नन्वयं सालम्बनयोगो निरालम्बनयोगो वेति द्वेधा वि-
कल्प्य तत्र दोषमाशङ्क्याह --
अर्जुन उवाच—
सालम्बस्याप्यनित्यत्वं
निरालम्बस्य शून्यता ॥ ३८ ॥
उभयोरपि दुष्टत्वा-
त्कथं ध्यायन्ति योगिनः ।
सालम्बस्य मूर्त्याधारादिसहितस्य अनित्यत्वं विनाशित्व-
म् , निरालम्बस्य मूर्त्याधारादिरहितस्य शून्यता शशविषा-
णायितत्वम् , एवमुभयोरपि दुष्टत्वात् दोषघटितत्वात् यो-
गिनः कथं ध्यायन्तीति प्रश्नार्थः ॥
यज्ञदानादिना शुद्धान्तःकरणस्य वेदान्तजन्यनिर्विशेष-
ब्रह्मगोचरवृत्तिसंभवात् न शून्येत्यभिप्रायेणाह—
श्रीभगवानुवाच—
हृदयं निर्मलं कृत्वा
चिन्तयित्वाप्यनामयम् ॥ ३९ ॥
२६ उत्तरगीतायां
अहमेव इदं सर्व-
मिति पश्येत्परं सुखम् ।
हृदयं चित्तं निर्मलं ज्ञानविरोधिरागादिदोषरहितं कृत्वा
अनामयं चिन्तयित्वा ईश्वरं ध्यात्वा परं सुखी सन् परमा-
नन्दात्मकः सन् एक एवाहमिदं सर्वं जगज्जालमहमेव न
मत्तो व्यतिरिक्तमन्यत् इति पश्येत् अपरोक्षानुभवं प्रा-
प्नुयात् इत्यर्थः ॥
अर्थात्मकस्य जगतः शब्दनिरूप्यत्वेन शब्दस्य वर्णात्म-
कत्वेन वर्णानां प्रणवात्मकत्वेन प्रणवस्य बिन्द्वात्मकत्वेन
बिन्दोः नादात्मकत्वेन नादस्य ब्रह्मध्यानस्थानात्मककलात्म-
कत्वेन ब्रह्मणि समन्वयेन बिन्दुनादकलातीतं ब्रह्म ध्याये-
दिति भगवतोक्तम्, तद्विविच्य ज्ञातुं पृच्छति—
अर्जुन उवाच—
अक्षराणि समात्राणि
सर्वे बिन्दुसमाश्रिताः ॥ ४० ॥
बिन्दुभिर्भिद्यते नादः
स नादः केन भिद्यते ।
हे भगवन् समात्राणि अक्षराणि अकारादीनि सर्वे स-
२. द्वितीय अध्याय: प्रणव (ॐ) साधना, कुण्डलिनी व नादानुसन्धान
र्वाणि, लिङ्गव्यत्ययः आर्षः, बिन्दुसमाश्रिताः बिन्दुसन्मात्रा-
णीत्यर्थः । बिन्दुस्तु नादेन भिद्यते नादतन्मात्रः सन् तत्र
समन्वेतीत्यर्थः । स नादः कलायां समन्वेति । सा कला
कुत्र समन्वेति इति प्रश्नार्थः । यद्यपि श्लोके स नादः केन
भिद्यत इति नादस्यैव समन्वयः पृष्ट इति भाति, तथापि
नादस्य कलासमन्वय इति प्रसिद्धत्वात् नादपदं कलोप-
लक्षणम् ॥
एवं पृष्टो भगवान् ब्रह्मणि समन्वेति इति उत्तरमाह-
श्रीभगवानुवाच-
अनाहतस्य शब्दस्य
तस्य शब्दस्य यो ध्वनिः ॥ ४१ ॥
ध्वनेरन्तर्गतं ज्योति-
र्ज्योतिरान्तर्गतं मनः ।
तन्मनो विलयं याति
तद्विष्णोः परमं पदम् ॥ ४२ ॥
अनाहतस्य शब्दस्य परावस्थापन्नप्रणवस्य यः ध्वनिः
नादः तस्य नादस्य ज्योतिः अन्तर्गतम् । तेन तेजोरूप-
कलायां नादस्यान्तर्भाव इति तात्पर्यम्। कलान्तर्भावमाह-
२८ उत्तरगीतायां
ज्योतिरन्तर्गतं मन इति । मनसः ज्योतिष्यन्तर्भावो नाम
तन्मात्रया तत्र व्याप्तिः । तथा च मनसि ज्योतिषः कला-
याः समन्वय इति भावः । तत् मनः शब्दादिप्रपञ्चका-
रणभूतं मनः यत्र विलयं याति, यत्र ब्रह्मणि वेदान्तजन्य-
निर्विकल्पकब्रह्मगोचरमनोवृत्तिः लयं याति, तत् वृत्तिलय-
स्थानं वृत्तिलयात्मकं वा विष्णोः परमम् उत्कृष्टं पदं स्वरूप-
मिति । तदुक्तम्—मनः कायाग्निना हन्तीत्यादिना ॥
पुनस्तदेव विशिनष्टि—
ओंकारध्वनिनादेन
वायोः संहरणान्तिकम् ।
निरालम्बं समुद्दिश्य
यत्र नादो लयं गतः ॥ ४३ ॥
ओंकारध्वनिनादेन ओंकारध्वन्यात्मकनादेन सह वायोः
संहरणान्तिकं रेचकपूरकादिक्रमेण नियमितवायोरुपसंहार-
पर्यन्तं निरालम्बं निर्विशेषं ब्रह्म समुद्दिश्य लक्ष्यं कृत्वा
ध्यायेत् । यत्र स नादो लयं गतः नाशं प्राप्नुयात् , तत्
नादनाशाधिकरणात्मकं नादनाशात्मकं वा विष्णोः परमं
पदमित्यर्थः ॥
प्रथमोऽध्यायः । २९
एवं ध्यानप्रकारेण शुद्धान्तःकरणस्य आरूढस्य पुण्य-
पापे विधूय ब्रह्मसायुज्येऽभिहिते, आरुरुक्षोरपरिशुद्धान्तःक-
रणत्वेन ब्रह्मसायुज्यासम्भवे धर्माधर्मविधूननासम्भवेन तद्द्वारा
जननमरणान्तिकमवश्यं भाव्यमिति मनसि निश्चित्य पुनरा-
वृत्तिप्रकारं पृच्छति—
अर्जुन उवाच—
भिन्ने पञ्चात्मके देहे
गते पञ्चसु पञ्चधा ।
प्राणैर्विमुक्ते देहे तु
धर्माधर्मौ क्व गच्छतः ॥ ४४ ॥
पञ्चात्मके पञ्चभूतात्मके देहे स्थूलशरीरे भिन्ने गते
सति, पञ्चसु पञ्चभूतेषु पञ्चधा तत्तत्पृथिव्याद्याकारेण स्थि-
तेषु सत्सु, देहे प्राणैः प्राणादिपञ्चवायुभिः वियुक्ते सति,
धर्माधर्मौ पुण्यपापे क्व गच्छतः कुत्र यास्यतः ॥
एवं पृष्टो भगवान् लिङ्गशरीराधारतया तिष्ठत इत्युत्तर-
माह—
श्रीभगवानुवाच—
धर्माधर्मौ मनश्चैव
पञ्चभूतानि यानि च ।
U 3.
३० उत्तरगीतायां
इन्द्रियाणि च पञ्चैव
याश्चान्याः पञ्च देवताः ॥ ४५ ॥
ताश्चैव मनसा सर्वे
नित्यमेवाभिमानतः।
जीवेन सह गच्छन्ति
यावत्तत्त्वं न विन्दति ॥ ४६ ॥
धर्माधर्मौ पुण्यपापे मनश्च अन्तःकरणं यानि च पञ्चभू-
तानि पृथिव्यादीनि यानि च पञ्चेन्द्रियाणि चक्षुरादीनि
वागादीनि ज्ञानकर्मात्मकानि च याश्चान्याः पञ्चदेवताः प-
ञ्चेन्द्रियाभिमानिन्यः दिग्वातादयः, तदुक्तम्—दिग्वातार्क-
प्रचेताश्विवह्निप्राप्यप्रलीयकाः इति, ता देवताः, एते सर्व-
भूतादयः मनसा अन्तरिन्द्रियेण नित्यमेव सर्वदा अभिमा-
नतः ममताहंकारविषयत्वेन यावत्तत्त्वं न विन्दति अपरोक्ष-
ब्रह्मानुभवं न प्राप्नोति, तावज्जीवेन सह जीवोपाधिना
लिङ्गेन सह गच्छन्ति गतागतं प्राप्नुवन्तीत्यर्थः ॥
एवं स्थूलदेहप्रलयेऽपि धर्माधर्मौ लिङ्गशरीरमाश्रित्य ति-
ष्ठत इत्युक्ते, लिङ्गशरीरभङ्गः कदेति पृच्छति—
प्रथमोऽध्यायः । ३१
अर्जुन उवाच—
स्थावरं जङ्गमं चैव
यत्किंचित्सचराचरम् ।
जीवा जीवेन सिध्यन्ति
स जीवः केन सिध्यति ॥ ४७ ॥
स्थावरजङ्गमात्मकं सचराचरं चराचरसहितं जगज्जालं
सर्वस्मिन् ये जीवाः अभिमानवन्तः स्थूलदेहाभिमानिनो
विश्वात्मका जीवाः जीवेन लिङ्गशरीराभिमानिना तैज-
सेन सिध्यन्ति विश्वाभिमानं त्यजन्ति । स जीवः तैजसा-
भिमानी केन हेतुना सिध्यति स्वाभिमानं त्यजतीति
प्रश्नार्थः ॥
एवं पृष्टे सति प्राज्ञेन तैजसः सिध्यति, प्राज्ञस्तुरीयेणे-
त्येवं क्रमेण सिध्यतीत्युत्तरमाह—
श्रीभगवानुवाच—
मुखनासिकयोर्मध्ये
प्राणः संचरते सदा ।
आकाशः पिबते प्राणं
स जीवः केन जीवति ॥ ४८ ॥
३२ उत्तरगीतायां
मुखनासिकयोर्मध्ये मुखनासिकाभ्यतः सदा सर्वदा
यावदहष्टं प्राणवायुः संचरते अजपामन्त्रात्मकत्वेन एकैकस्य
दिनस्य षट्शताधिकैकविंशतिसहस्रसंख्यया संचरति, तावत्प-
र्यन्तमंदृष्टमहिम्ना लिङ्गमपि वर्तते । यदा तु योगमहिम्ना ब्रह्म-
ज्ञानानन्तरं जीवस्यादृष्टनिवृत्तिः, तदा आकाशः जीवत्वनि-
मित्तं प्राणं पिबते, तदा जीवः केन जीवति जीवत्वापादका-
विद्यानिवृत्त्या निरञ्जनब्रह्मभावे जाते जीवत्वमेव नास्ती-
त्यर्थः ॥
ननु ब्रह्माण्डाद्युपाधिविशिष्टस्य सर्वगतस्य ब्रह्मणः कथं
निरञ्जनत्वमिति पृच्छति—
अर्जुन उवाच—
ब्रह्माण्डव्यापितं व्योम
व्योम्ना चावेष्टितं जगत् ।
अन्तर्बहिश्च तद्व्योम
कथं देवो निरञ्जनः ॥ ४९ ॥
हे भगवन् व्योम आकाशं ब्रह्माण्डव्यापितं ब्रह्माण्डाव-
च्छिन्नमित्यर्थः । व्योम्ना च आकाशेन जगत् आवेष्टितं
व्याप्तम् , तस्मात्कारणात् अन्तर्बहिश्च व्योमैव वर्तते, एवं
प्रथमोऽध्यायः । ३३
सति देवः ईश्वरः कथं निरञ्जनः अन्यप्रकाशनिरपेक्षः कथ-
मित्यर्थः । निःसङ्गो वा कथमिति प्रश्नार्थः ॥
आकाशादिसर्वप्रपञ्चस्य कल्पितत्वेन सर्वं छेत्स्यतीत्यभि-
प्रायेणाह—
श्रीभगवानुवाच—
आकाशो ह्यवकाशश्च
आकाशव्यापितं च यत् ।
आकाशस्य गुणः शब्दो
निःशब्दो ब्रह्म उच्यते ॥ ५० ॥
आकाशः महाकाशः अवकाशः परिच्छिन्नाकाशः उभ-
यमप्याकाशेन आकाशतन्मात्रभूतेन शब्देन व्यापितं व्याप्तं
तदुपादानकतया तदतिरिक्तं न भवतीत्यर्थः । तर्हि उपादा-
नस्य शब्दस्य अतिरिक्तत्वमस्त्वित्यत आह— आकाशस्य
गुणः शब्द इति, शब्दः तन्मात्रभूतः आकाशस्य मिथ्याभू-
ताकाशस्य गुणः परिणाम्युपादानं यतः, अत एव स्वयमपि
मिथ्याभूत इत्यर्थः । ब्रह्म तु निःशब्दः निष्प्रपञ्चः इत्युच्यते ।
तथा च सत्यस्याक्षरस्य ब्रह्मणः असत्येन सह संबन्धासंभ-
वात् निरञ्जनत्वमुपपद्यत इत्यर्थः ॥
१४ उत्तरगीतायां
एवं भगवतोक्ते, अक्षरशब्दस्य भगवदभिमतार्थं अजा-
नानः सन् लोकप्रसिद्धवर्णात्मकाक्षरबुद्ध्या वर्णानामक्षरत्वं न
संभवतीत्यभिप्रायेण पृच्छति—
अर्जुन उवाच—
दन्तोष्ठतालुजिह्वाना-
मास्पदं यत्र दृश्यते ।
अक्षरत्वं कुतस्तेषां
क्षरत्वं वर्तते सदा ॥ ५१ ॥
हे भगवन् यत्र वर्णात्मकाक्षरेषु दन्तोष्ठतालुजिह्वानाम्,
उपलक्षणमेतत् कण्ठादीनामष्टानां स्थानानाम्, आस्पदम् आ-
स्पदत्वं दृश्यते प्रत्यक्षमभूयते । 'अकुहविसर्जनीयानां कण्ठः'
इत्यादिना श्रूयते च । तथा च तेषां वर्णानाम् अक्षरत्वं नाश-
रहितत्वं कुतः, उत्पत्तिमतो नाशावश्यंभावात्? सदा सर्व-
कालं क्षरत्वं नाशवत्त्वमेव वर्तते तेषाम्, नाशरहितत्वं कुत
इति प्रश्नार्थः ॥
एवमभिप्रायमजानानेन अर्जुनेन पृष्टे स्वाभिप्रेतमक्षरश-
ब्दार्थं स्फुटयन् भगवानुवाच—
श्रीभगवानुवाच—
प्रथमोऽध्यायः । १५
अघोषमव्यञ्जनमस्वरं चा-
प्यतालूकण्ठोष्ठमनासिकं च ।
अरेखजातं परमूष्मवर्जितं
तदक्षरं न क्षरते कथंचित् ॥ ५२ ॥
अघोषं घोषाख्यवर्णगुणरहितम् अव्यञ्जनं ककारादिव्य-
ञ्जनातीतम् अस्वरम् अजतीतम्, अतालुकण्ठोष्ठमपि अ-
व्यञ्जनाद्युत्पत्तिस्थानताल्वोष्ठादिरहितम् अनासिकम् अनु-
स्वारोत्पत्तिस्थाननासिकातीतम् अरेखजातं वर्णव्यञ्जकरे-
खासमुहातीतम् ऊष्मवर्जितं शषसहातीतम्, यद्वा, ऊष्मश-
ब्देन श्वासाख्यो गुणोऽभिधीयते तद्रहितम्, परं लोकप्रसि-
द्धवर्णलक्षणातीतं यत् ब्रह्म कथंचित् सर्वप्रकारेण सर्व-
कालेऽपि न क्षरते, तदेवाक्षरशब्देनोच्यते । न लौकिकान्य-
क्षराणीत्यर्थः ॥
एतादृशं ब्रह्मज्ञानोपायम् अनुभवदार्ढ्याय पुनरपि पृ-
च्छति—
अर्जुन उवाच—
ज्ञात्वा सर्वगतं ब्रह्म
सर्वभूताधिवासितम् ।
३६ उत्तरगीतायां
इन्द्रियाणां निरोधेन
कथं सिध्यन्ति योगिनः ॥ ५३ ॥
सर्वभूताधिवासितं सर्वभूतेष्वप्यन्तर्यामितया स्थितं सर्व-
गतम् अन्तर्बहिश्च परिपूर्णम्, ब्रह्म ज्ञात्वा सम्यग्विबुध्य
योगिनः इन्द्रियाणां निरोधेन इन्द्रियनियमनेन कथं सि-
ध्यन्ति केनोपायेन मुक्ता भवन्तीत्यर्थः ॥
एवं पृष्टो भगवान् तमेव ज्ञानोपायं पुनरप्याह—
श्रीभगवानुवाच—
इन्द्रियाणां निरोधेन
देहे पश्यन्ति मानवाः ।
देहे नष्टे कुतो बुद्धि-
र्बुद्धिनाशे कुतो ज्ञाता ॥ ५४ ॥
मानवाः मनुष्याः इन्द्रियाणां निरोधेन इन्द्रियनियमनेन दे-
हे देहे एव पश्यन्ति ज्ञास्यन्ति, तस्मात् देहदाढर्यम् इन्द्रियदार्ढ्यं
च ज्ञानोपायं इति भावः । तदभावे ज्ञानमेव नास्ति इत्याह—
देहे नष्टे अदृष्टे सति बुद्धिः कुतः तत्त्वज्ञानं कुतः ! बुद्धिनाशे
तत्त्वज्ञानाभावे ज्ञाता अपरोक्षज्ञानिता च कुतः ! तस्माद्देहे-
[Header]
प्रथमोऽध्यायः । ३७
न्द्रियादिभिः यज्ञानादिश्रवणादिकमेव तत्त्वज्ञाने कारण-
मिति भावः ॥
तादृशं च कारणं यावत्पर्यन्तमनुष्ठेयमित्याशङ्क्य अव-
धिमाह—
तावदेव निरोधः स्या-
द्यावसत्त्वं न विन्दति ।
विदिते तु परे तत्त्वे
एकमेवानुपश्यति ॥ ५५ ॥
यावसत्त्वज्ञानं नास्ति, तावत्पर्यन्तमिन्र्दियनिरोधः स्यात् ;
परे तत्त्वे अखण्डानन्दब्रह्मणि विदिते अपरोक्षभूते सति,
एकमेवानुपश्यति एकमेव देहेन्द्रियसाधनानुष्ठानादिसाधन-
रहितं ब्रह्मैवानुपश्यति, नान्यत् ; तदनन्तरं साधनानुष्ठानप्रया-
सोऽपि मा भूदिति भावः ॥
तस्माद्यावसत्त्वज्ञानं तावत्साधनमनुष्ठेयम्, तदभावे तन्न
सिध्यतीत्याह—
नवच्छिद्रकृता देहाः
स्रवन्ति गलिका इव ।
३८ उत्तरगीतायां
नैव ब्रह्म न शुद्धं स्या-
त्पुमान्ब्रह्म न विन्दति ॥ ५६ ॥
देहाः ज्ञानकारणीभूतशरीराणि नवच्छिद्रकृताः विषय-
स्स्राविवृत्तिमद्भावेन्द्रियघटितानि; तत्र दृष्टान्तः गळिका इव
छिद्रघटा इव सर्वदा ज्ञानं स्रवन्तीत्यर्थः । तादृशविषयप्र-
णवित्तस्य ब्रह्म न शुद्धं स्यात् इति नैव ईश्वरत्वकर्तृत्वबिम्बत्वा-
विघटितं न भवति । तथा च ब्रह्मणि बिम्बत्वाविघटिते
पुमान् सुखदुःखाभिमानी प्रतिबिम्बो जीवः ब्रह्म न विन्दति
भानन्दानुभवं न प्राप्नोतीत्यर्थः ॥
तस्मात् यावत्तत्वापरोक्षपर्यन्तं साधने यत्नः कर्तव्यः,
जाते च तत्त्वावबोधे विधिनिषेधातीतत्वेन न कोऽपि यत्नः
कर्तव्य इत्यभिप्रायवानाह—
अत्यन्तमलिनो देहो
देही चात्यन्तनिर्मलः ।
उभयोरन्तरं ज्ञात्वा
कस्य शौचं विधीयते ॥ ५७ ॥
देहः पाञ्चभौतिकः अत्यन्तमलिनः जडत्वादिति भावः ।