उत्तर गीता (आदि गौड़पादाचार्य दीपिका एवं सान्वय हिन्दी टीका)
Uttara Gita with Gaudapadacharya Dipika and Hindi Commentary
आदि गौड़पादाचार्य / महर्षि वेदव्यास द्वारा
पृष्ठ 36, कुल 86 में से
संदर्भ में पढ़ेंर्वाणि, लिङ्गव्यत्ययः आर्षः, बिन्दुसमाश्रिताः बिन्दुसन्मात्रा-
णीत्यर्थः । बिन्दुस्तु नादेन भिद्यते नादतन्मात्रः सन् तत्र
समन्वेतीत्यर्थः । स नादः कलायां समन्वेति । सा कला
कुत्र समन्वेति इति प्रश्नार्थः । यद्यपि श्लोके स नादः केन
भिद्यत इति नादस्यैव समन्वयः पृष्ट इति भाति, तथापि
नादस्य कलासमन्वय इति प्रसिद्धत्वात् नादपदं कलोप-
लक्षणम् ॥
एवं पृष्टो भगवान् ब्रह्मणि समन्वेति इति उत्तरमाह-
श्रीभगवानुवाच-
अनाहतस्य शब्दस्य
तस्य शब्दस्य यो ध्वनिः ॥ ४१ ॥
ध्वनेरन्तर्गतं ज्योति-
र्ज्योतिरान्तर्गतं मनः ।
तन्मनो विलयं याति
तद्विष्णोः परमं पदम् ॥ ४२ ॥
अनाहतस्य शब्दस्य परावस्थापन्नप्रणवस्य यः ध्वनिः
नादः तस्य नादस्य ज्योतिः अन्तर्गतम् । तेन तेजोरूप-
कलायां नादस्यान्तर्भाव इति तात्पर्यम्। कलान्तर्भावमाह-