उत्तर गीता (आदि गौड़पादाचार्य दीपिका एवं सान्वय हिन्दी टीका)
Uttara Gita with Gaudapadacharya Dipika and Hindi Commentary
आदि गौड़पादाचार्य / महर्षि वेदव्यास द्वारा
पृष्ठ 47, कुल 86 में से
संदर्भ में पढ़ें३८ उत्तरगीतायां
नैव ब्रह्म न शुद्धं स्या-
त्पुमान्ब्रह्म न विन्दति ॥ ५६ ॥
देहाः ज्ञानकारणीभूतशरीराणि नवच्छिद्रकृताः विषय-
स्स्राविवृत्तिमद्भावेन्द्रियघटितानि; तत्र दृष्टान्तः गळिका इव
छिद्रघटा इव सर्वदा ज्ञानं स्रवन्तीत्यर्थः । तादृशविषयप्र-
णवित्तस्य ब्रह्म न शुद्धं स्यात् इति नैव ईश्वरत्वकर्तृत्वबिम्बत्वा-
विघटितं न भवति । तथा च ब्रह्मणि बिम्बत्वाविघटिते
पुमान् सुखदुःखाभिमानी प्रतिबिम्बो जीवः ब्रह्म न विन्दति
भानन्दानुभवं न प्राप्नोतीत्यर्थः ॥
तस्मात् यावत्तत्वापरोक्षपर्यन्तं साधने यत्नः कर्तव्यः,
जाते च तत्त्वावबोधे विधिनिषेधातीतत्वेन न कोऽपि यत्नः
कर्तव्य इत्यभिप्रायवानाह—
अत्यन्तमलिनो देहो
देही चात्यन्तनिर्मलः ।
उभयोरन्तरं ज्ञात्वा
कस्य शौचं विधीयते ॥ ५७ ॥
देहः पाञ्चभौतिकः अत्यन्तमलिनः जडत्वादिति भावः ।