उत्तर गीता (आदि गौड़पादाचार्य दीपिका एवं सान्वय हिन्दी टीका)
Uttara Gita with Gaudapadacharya Dipika and Hindi Commentary
आदि गौड़पादाचार्य / महर्षि वेदव्यास द्वारा
पृष्ठ 37, कुल 86 में से
संदर्भ में पढ़ें२८ उत्तरगीतायां
ज्योतिरन्तर्गतं मन इति । मनसः ज्योतिष्यन्तर्भावो नाम
तन्मात्रया तत्र व्याप्तिः । तथा च मनसि ज्योतिषः कला-
याः समन्वय इति भावः । तत् मनः शब्दादिप्रपञ्चका-
रणभूतं मनः यत्र विलयं याति, यत्र ब्रह्मणि वेदान्तजन्य-
निर्विकल्पकब्रह्मगोचरमनोवृत्तिः लयं याति, तत् वृत्तिलय-
स्थानं वृत्तिलयात्मकं वा विष्णोः परमम् उत्कृष्टं पदं स्वरूप-
मिति । तदुक्तम्—मनः कायाग्निना हन्तीत्यादिना ॥
पुनस्तदेव विशिनष्टि—
ओंकारध्वनिनादेन
वायोः संहरणान्तिकम् ।
निरालम्बं समुद्दिश्य
यत्र नादो लयं गतः ॥ ४३ ॥
ओंकारध्वनिनादेन ओंकारध्वन्यात्मकनादेन सह वायोः
संहरणान्तिकं रेचकपूरकादिक्रमेण नियमितवायोरुपसंहार-
पर्यन्तं निरालम्बं निर्विशेषं ब्रह्म समुद्दिश्य लक्ष्यं कृत्वा
ध्यायेत् । यत्र स नादो लयं गतः नाशं प्राप्नुयात् , तत्
नादनाशाधिकरणात्मकं नादनाशात्मकं वा विष्णोः परमं
पदमित्यर्थः ॥