तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
श्लोक ७६ ] प्रथमाह्निकम् । ११९
त्यक्षविषयत्वमप्यस्ति , अन्यथा तत्पृष्ठभाविनो
बुभुक्षेयम् इति विकल्पस्योदयो न स्यात् । सवि-
कल्पकमानसप्रत्यक्षविषयत्वेऽप्यासां न कश्चिद्दोषः ,
तस्य वस्वाश्रयत्वेन प्रमाणत्वाभ्युपगमात् । एवं
शिवोऽपि मानसप्रत्यक्षगोचरो भवत्येव, किं तु
शक्तिद्वारेण इति विशेषः । यदुक्तं तत्रैवोत्तरग्रन्थे
*
‘क्षुधाद्यनुभवो यत्र विकल्पस्तत्र नो भवेत् ।
वस्वाश्रयो विकल्पोऽपि तद्वस्तु घटवन्न च ॥
विकल्पो मानसः सूक्ष्मः शून्यशक्तिलयं गतः ।
तद्गतस्त्वन्यविच्छिन्नस्तेनासौ चित्तवर्जितः ॥
ज्ञानं चात्मेन्द्रियाश्लेषात्कर्ता ह्यात्मा मनः क्रिया ।
शिवः साध्योऽत्र मन्तव्यो विभुरप्येकधर्मतः ॥’
इति । यत्तु अस्य शून्यत्वमुक्तं तन्मायाक्षयोपचा-
रेण तद्धर्मैः परिणामित्वादिभिः शून्यत्वाच्छून्यम्
- यदुक्तं, तस्य चार्थासंस्पर्शीत्वं रूपमिति तन्निर्दलयति, तत्र न्यायमाह वस्वा-
श्रयत्वेनेत्यादि । विकल्पस्तत्र नो भवेदिति वस्वाश्रय इति हेतुत्वेनोक्तः ,
यदि वस्वाश्रयत्वं तर्हि घटवत् किं न प्रतिभासते, इत्यतो घटवन्न च इत्युक्तम् ,
तत्र हेतुः विकल्पो मानस इत्यादि ।
पं० ३ ख० पु० मानसप्रत्यक्षगोचरत्वे इति पाठः ।
पं० ५ क० पु० मानसगोचरो भवेत् इति पाठः ।
पं० १३ क० ग० पु० यस्त्वस्येति, मायापेक्षोपचारेणेति च पाठान्तरमस्ति ।
१२० श्रीतन्त्रालोकः ।
इत्युक्तम् । अन्यापेक्षया तु तदशून्यमेवेत्यर्थावाप्तम् ।
अतश्च शिवं शक्तिद्वारेण ज्ञात्वा दैशिकस्तत्र दीक्षया
दीक्ष्यं योजयति इति न काचित्क्षतिः ॥७६॥
ननु सर्वात्मनार्थो ज्ञातो ज्ञातो भवति न तु
अंशेन, विकल्पश्च सर्वात्मना अर्थं ज्ञातुं न शक्नोति-
नियतांशाभिनिवेशित्वात् तस्य, अतः शिवस्तेन
शक्तिद्वारेण विषयीकृतोऽपि सर्वात्मना तद्गोचरी-
भावाभावान्न ज्ञातः इति प्रश्नशेषमाशङ्क्याह
रसाद्यनध्यक्षत्वेऽपि
रूपादेव यथा तरुम् ।
विकल्पो वेत्ति तद्वत्तु
नादबिन्द्वादिना शिवम् ॥७७॥
विकल्पः अत्र निर्विकल्पकपृष्ठभावी ग्राह्यः ।
तेन स १ तरुं रूपरसाद्यात्मकमपि रूपाद्यात्मनैव
गृह्णाति न रसाद्यात्मनापि निय २ तत्त्वात्तद् ३ ग्रहणस्य,
१ स, विकल्पः ।
२ रसस्य हि जिह्वेन्द्रियास्वादेनैव ज्ञानं, रूपस्य तु चक्षुषैवेति ।
३ रसरूपादेरित्यर्थः ।
पं० १ ख० पु० अन्यापेक्षया त्वतदिति अतश्चेतीयानेव पाठः ।
पं० ६ क० पु० नियताभिनिवेशित्वादिति पाठः ।
श्लोक ७७ ] प्रथमाह्निकम् । १२१
नहि सर्वात्मत्वेन अगृहीतत्वाद् अगृहीत एवासौ
इति वक्तुं युज्यते अनुभवविरोधात् । तद्वत्
नादबिन्द्वाद्यात्मकशक्तिद्वारेण शिवोऽपि ज्ञात एव
भवति इति सिद्धान्तः । तदुक्तं तत्रैव
'प्रत्यक्षेण यथा वृक्षो रूपमात्राद्विगृह्यते ।
रसादयो गृहीता नो तथेशो ज्ञानशक्तितः ॥
गृह्यते तत्स्वभावेन वस्तुभावविवर्जनात् ।'
इति । तथा
'बिन्दुर्नादस्तथा शक्तिः शून्यत्वे परिकल्पिताः ।
चेतसः स्थितिहेत्वर्थं पुनर्नित्यं स्थिरं भवेत् ॥
अतीन्द्रियः सुसूक्ष्मत्वात्सूक्ष्मा शक्तिः स तद्गतः ।
ज्ञानशक्तिर्मता सापि तज्ज्ञानाज्ज्ञात एव सः ॥'
इति । एवं शक्तिरेव परतत्त्वाधिगमे परमुपायः
इति सिद्धम् । सा च भुवनादिरूपतया अनन्त-
प्रकारा इत्युक्तप्रायम् ॥७७॥
एवं यत्किंचन जडाजडात्मकविश्ववैचित्र्यं, यच्च
तद्विषयं सृष्ट्यादि जाग्रदाद्यवस्थादि वा तत्सर्वं
परमेश्वरस्य शक्तिस्फार एव इत्याह
पं० १७ क० पु० जाग्रदवस्थादि इति पाठः ।
१६
१२२ श्रीतन्त्रालोकः ।
बहुशक्तित्वमस्योक्तं
शिवस्य यदतो महान् ।
कलातत्त्वपुरार्णा¹णु²-
पदादिभेदविस्तरः ॥७८॥
सृष्टिस्थितितिरोधान-
संहारानुग्रहादि च ।
तुर्यमित्यपि देवस्य
बहुशक्तित्वजृम्भितम् ॥७९॥
जाग्रत्स्वप्नसुषुप्तान्य-
तदतीतानि यान्यपि ।
तान्यप्यमुष्य नाथस्य
स्वातन्त्र्यलहरीभरः ॥८०॥
महामन्त्रेशमन्त्रेश-
मन्त्राः शिवपुरोगमाः ।
अकलौ सकलश्चेति
शिवस्यैव विभूतयः ॥८१॥
१ अर्णः वर्णाध्वा, २ अणुः मन्त्राध्वा ।
पं० ७ ग० पु० उक्तमित्यपीति पाठः ।
पं० ६ ख० पु० सुषुप्तानि तदतीतानीति पाठः ।
श्लोक ८२ ] प्रथमाह्निकम् । १२३
पदादि इति आदिशब्देन भूतभावग्रहणम् ।
सृष्टिस्थिती इत्यनेन कृत्यभेद उक्तः । तुर्यमित्य-
न्यच्छब्दवाच्यं सृष्ट्यादीनामन्तर्वर्ति पूर्णं रूपम् ।
अनेन चतुष्टयार्थस्यापि आसूत्रणं कृतं, तेन स्थितौ
संहारे तिरोधानानुग्रहयोरन्तर्भावः कार्यो येनैत-
त्स्यात्, अन्यत्तुर्यं, जाग्रत्स्वप्न इत्यनेन अवस्थाभेद
उक्तः । अकलौ इति विज्ञानाकलप्रलयाकलौ ।
अनेन प्रमातृभेदः ॥७८॥७६॥८०॥८१॥
तदेवं वैचित्र्यभाजः षट्त्रिंशत्तत्त्वात्मकस्य जगत-
श्चिदानन्दैकघनः परमार्थः शिव एवानुप्राणकतया
वर्तते इत्याह
तत्त्वग्रामस्य सर्वस्य
धर्मः स्यादनपायवान् ।
आत्मैव हि स्वभावात्मे-
त्युक्तं श्रीत्रिशिरोमते ॥८२॥
पं० २ क० पु० इत्यन्यशब्दवाच्यमिति पाठः ।
पं० ४ क० पु० चतुष्टयस्याप्यासूत्रणमिति पाठः ।
पं० १० ख० पु० परमात्मा शिव इति पाठः ।
पं० १२ क० पु० तत्त्वग्रामस्य शार्वस्येति पाठः ।
१२४ श्रीतन्त्रालोकः ।
द्विविधो हि धर्मः पदार्थस्य-प्राणप्रदो विशेषाधान-
हेतुश्च । आद्यो यथा सामान्यं, नहि गोत्वमन्तरेण
गौः गौरेव भवति । द्वितीयो यथा गुणः, शुक्ला-
दिर्हि लब्धसत्ताकं वस्तु विशिनष्टि । एवमिह
आत्मैव तत्त्वसमूहस्य प्राणप्रदत्वात् स्वभावभूतो
धर्मः अत एव अनपायवान् नित्यावियुक्तः इत्युक्तम् ।
हि शब्दो हेतौ । नन्वत्र किं प्रमाणम् इत्याश-
ङ्क्योक्तम् ‘इत्युक्तं त्रिशिरोमत’ इति ॥८२॥
तत्रत्यमेव ग्रन्थं शास्त्रस्य शब्दार्थरूपतया
द्वैविध्येन प्रवृत्तेरुभयथाप्याह
हृदिस्थं सर्वदेहस्थं
स्वभावस्थं सुसूक्ष्मकम् ।
सामूह्यं चैव तत्त्वानां
ग्रामशब्देन कीर्तितम् ॥८३॥
समूह एव सामूह्यम् । ग्रामशब्दो हि समूहार्थ-
वृत्तिः ।
‘कवलीकृतनिःशेषतत्त्वग्रामस्वरूपकम् ।’
इत्यादिप्रयोगदर्शनात् । तच्च सर्वत्र बाह्ये देहे
पं० १४ क० पु० ग्रामशब्दोऽपि इति पाठः ।
श्लोक ८४ ] प्रथमाह्निकम् । १२५
चान्तः साधारणासाधारणतया द्वैविध्येन वर्तमानम्
इत्यर्थः । अत एव स्वभावे स्थावरजङ्गमाद्यात्मनि
नियते रूपे स्थितम् । एवमपि हृदि बोधे स्थितं,
तदैकात्म्येन परिस्फुरत् इति यावत्, अत एव
सुसूक्ष्मम् अपरिच्छेद्यम् ॥८३॥
तत्त्वग्रामस्य चास्य न संकुचित आत्मः
धर्मः, अपि तु परः इत्याह
आत्मैव धर्म इत्युक्तः
शिवामृतपरिप्लुतः ।
शिवामृतपरिप्लुतः इति परानन्दचमत्कारमयः
इत्यर्थः। एवं स एव परमुपेयः इति तत्रैवावधातव्यम्
इत्यपि सूचितम् ।
कश्च अत्र उपायो, येनैतत्साक्षात्कारो भवेत्
इत्याह
पं० ४ ख० पु० ऐकात्म्येन स्फुरदिति पाठः ।
पं० १० ख० पु० शिवानन्दपरिप्लुतपरमानन्दचमत्कारमय इति पाठः ।
प्रकाशावस्थितं ज्ञानं
१२६ श्रीतन्त्रालोकः ।
प्रकाशावस्थितं ज्ञानं
भावाभावादिमध्यतः ॥८४॥
स्वस्थाने वर्तनं ज्ञेयं
द्रष्टृत्वं विगतावृति ।
विविक्तवस्तुकाथित-
शुद्धविज्ञाननिर्मलः ॥८५॥
ग्रामधर्मवृत्तिरुक्त-
स्तस्य सर्वं प्रसिद्ध्यति ।
आदिशब्दाद्भावोऽपि, तेन भावाभावयोः
भावयोर्वा यत् मध्यम् अन्तरालं तदवलम्ब्य
प्रकाशे स्वात्मन्येव, न पुनर्भावाभावादिस्वरूपे
अवस्थितं यत् ज्ञानं, तस्य स्वस्य आत्मनः
स्थाने स्थितौ वर्तनं ज्ञेयं-ग्रामधर्मविषये वृत्तिर्ज्ञा-
तव्या इत्यर्थः । इदमत्र तात्पर्यम् — भावद्वयस्य
भावाभावयोर्वा प्रतीतिकाले मध्यं तद्द्वयावच्छेदहेतुं
शून्यमुपलभ्य तद्भावाभावादि युगपत्त्यक्त्वा तत्रैव
पं० १० क० पु० तद्वलब्धप्रकाशं स्वात्मन्येव न पुनर्भावस्वरूपे इति पाठः ।
श्लोक ८६ ] प्रथमाह्निकम् । १२७
सावधानस्य परमोपेये शिवामृतपरिप्लुते परमा-
त्मनि वृत्तिर्जायते इति । तदुक्तं
'उभयोर्भावयोर्ज्ञाने ज्ञात्वा मध्यं समाश्रयेत् ।
युगपच्च द्वयं त्यक्त्वा मध्ये तत्त्वं प्रकाशते ॥
भावे त्यक्ते निरुद्धा चिन्नैव भावान्तरं व्रजेत् ।
तदा तन्मध्यभावेन विकसत्यति भावना ॥'
इति । ज्ञेयम् इति काकाक्षिन्यायेन योज्यम् ।
तेन वर्तनमपि परमार्थसाक्षात्काररूपं द्रष्टृत्वं
ज्ञेयम्, तच्च विगतावृत्ति विगता निवृत्ता
भावाभावाद्यात्मकबाह्यरूपा आवृत्तिः यस्य तत्,
बाह्यदेशाद्यवच्छेदशून्यम् इति यावत् । अथ च
विगता परापरात्मना कालेन रहिता कलनात्मिका
आवृत्तिः यस्य तत्, अकालकलितम् इत्यर्थः ।
तदुक्तं
'अपरः षोडशो यावत्कालः सप्तदशः परः ।
परापरस्तु यः कालः स प्रियेऽष्टादशः प्रभुः ॥
प्राण एकं त्रिधा कालं कृत्वा चैव त्यजेत्पुनः ।'
पं० ३ क० पु० भावेन्यक्ते परमे शिवेति पाठः
पं० ५ ख० पु० भावे न्यक्ते निरुद्धा चेदिति पाठः ।
१२८ श्रीतन्त्रालोकः ।
इति । तथा विगता पदैकादशकात्मिका आवृत्तिः
यस्य तत्, तत्प्रतिनियततत्तद्ब्रह्मायाकारोज्झितम्
इति यावत् । यदुक्तं
‘पदैकादशिका सा च प्राणे चरति नित्यशः ।
अकारश्च उकारश्च मकारो बिन्दुरेव च ॥
अर्धचन्द्रो निरोधी च नादो नादान्त एव च ।
शक्तिश्च व्यापिनी चैव समनैकादशी स्मृता ॥’
इति । अत एव च उन्मनाभिन्नप्रमातृरूपं परमार्थ-
साक्षात्कारलक्षणमेतद्भवति इति पिण्डार्थः । तदुक्तं
‘उन्मना तु ततोऽतीता तदतीतं निरामयम् ।’
इति । अत एव तत्तद्देशकालाकारैः विविक्तम्
अवच्छेदशून्यं यत् वस्तु महासत्तात्म परं तत्त्वं,
तत्र कथितं सर्वागमेषु अविगानेन उक्तं यत् शुद्धं
पराहंपरामर्शमयं विज्ञानं तेन निर्मलः तदैकात्म्या-
पत्त्या खिलीकृतनिखिलबन्धो ग्रामधर्मवृत्तिः
‘भैरवाद्भैरवीं प्राप्तः ............ ।’
पं० १६ क० ख० पु० भैरवीप्राप्त इत्युक्तेरिति पाठः ।
प्रकाशावस्थितं ज्ञानं भावाभावादिमध्यतः ॥
श्लोकः ८५] प्रथमाह्निकम्। १२९
इत्याद्युक्तेरस्मद्गुरुभिरप्युक्तः इति श्रीकण्ठस्ये-
यमुक्तिः । तदुक्तं तत्र
'चतुर्थं संप्रवक्ष्यामि ग्रामधर्मविभेदतः।'
इत्याद्युपक्रम्य
'हृदिस्थं सर्वदेहस्थं स्वभावस्थं सुसूक्ष्मकम् ।
सामूह्यं चैव तत्त्वानां ग्रामशब्देन कीर्तितम् ॥
आत्मा वै धर्म इत्युक्तो ग्रामधर्मः प्रकीर्तितः ।
प्रकाशावस्थितं ज्ञानं भावाभावादिमध्यतः ॥
स्वस्थाने वर्तनं ज्ञेयं वर्तनं वृत्तिरुच्यते ।
वृत्तिस्तु स्वपदं ज्ञात्वा द्रष्टृत्वं परिपठ्यते ॥
प्रबुद्धं तद्विजानीयाद्बाह्यावरणवर्जितम् ।
परापरविनिर्मुक्तमेकादशपदोञ्झितम् ॥
स्वात्मन्यात्मनि यज्ज्ञानं शिवामृतपरिप्लुतम् ।
विविक्तवस्तुकथितशुद्धविज्ञाननिर्मलः ॥
ग्रामधर्मवृत्तिरुक्तस्तन्त्रेऽस्मिन्सर्वथोदितः ।'
इति । एतदेव च
'अथ वा शिवमन्विच्छेदत्साधकः परतत्त्ववित् ।'
इत्यादि
'स्थितिः कार्या तु तत्त्वस्था मध्यशक्तिप्रभान्विता ।'
पं० ६ ग० पु० सामूह्यं सर्वतत्त्वानामिति पाठः ।
पं० ७ क० पु० आत्मैव धर्म इत्युक्तो ग्रामो धर्म इति पाठः ।
१७
१३० श्रीतन्त्रालोकः ।
इत्यन्ततत्रत्यग्रन्थार्थगर्भीकारेण ग्रन्थान्तरमुपक्षे-
प्तुकामो ग्रन्थकारः स्वोक्त्या योजयति 'तस्य सर्वं
प्रसिद्धयति' इति–तस्य ग्रामधर्मवृत्तेः प्राणापानग-
तित्रोटनेन मध्यधामानुप्रवेशात् प्राप्तपरशक्तिसामर-
स्यस्य सर्वं बाह्यमाभ्यन्तरं च प्रकर्षेण शिवाभेदम-
यत्वेन सिद्धयति प्रथते इत्यर्थः । तदुक्तं
'शिवभावनयौषध्या बद्धे मनसि संसृते ।
काष्ठकुड्यादिषु क्षिप्ते रसवच्छ्लवहेमता ॥'
इति ॥८४॥८५॥
अत आह
ऊर्ध्वं त्यक्त्वाधो विशेत्स
रामस्थो मध्यदेशगः ॥८६॥
ऊर्ध्वम् इति ऊर्ध्ववाहित्वात्प्राणम्, अध इति
अधोवाहित्वादपानं, त्यक्त्वा इति तद्गतिं त्रोट-
यित्वा, स ग्रामधर्मवृत्तिरर्थात् मध्यनाडीं प्रविशेत् ।
स च कीदृशः मध्यदेशगः मध्यनाडिकाया अपि
यत् मध्यं तत्रस्था या बिससूत्राकारा शक्तिः तस्या
पं० ६ क० पु० प्रसिद्धयतीति पाठः ।
श्लोकः ८६ ] प्रथमाह्निकम् । १३१
देश : अन्तर्व्योमरूप एकदेशस्तं गच्छति जानाति
य : स : - तदेकतानतया तन्निष्ठः ईत यावत् ।
तदुक्तं
'मध्यनाडी मध्यसंस्थबिससूत्राभरूपया ।
ध्यातान्तर्व्योमया देव्या तया देवः प्रकाशते ॥'
इति । अत एवोक्तं रामस्थः इति
'..................एकाकी न रमाम्यहम् ।'
इत्याद्युक्त्या रमते तत्तज्जडाजडात्मना विश्ववैचित्र्या-
त्मना क्रीडति इति रामः परमात्मा, तत्र तिष्ठति
तद्रूपतया परिस्फुरति इत्यर्थः । तदुक्तं त्रिशिरोभैरवे
'सेव्यमानमधोर्ध्वं तु प्राणापानोत्थरूढधीः ।
ऊर्ध्वं त्यक्त्वा तु प्रविशेद्रामस्थोऽत्रात एव च ॥'
तत्रैवागूरणेन १ भगवत्या
'रामः किमुच्यते देव योऽत्रस्थः स च कः प्रभो ।
तस्याभ्यासः कथं नाम ब्रूहि सर्व महेश्वर ॥'
१ आगूरणमाक्षेपः
पं० ४ ख० पु० बिससूत्राभसूत्रयेति पाठः ।
पं० १४ क० पु० यत्रस्थः स च क इति पाठः ।
१३२ श्रीतन्त्रालोकः ।
इति पृष्टे, भगवता
'रामस्थं परमेशानि योगं यत्कीर्तितं मया ।
कथयामि यथातथ्यमभ्यासस्तस्य योगतः ॥'
इत्यन्तेन प्रतिज्ञाय, तत्समाधानं बहुना ग्रन्थेन कृतम्
॥ ८६ ॥
इह च तदेव ग्रन्थकारः शब्दार्थद्वारेण पठति
गतिः स्थानं स्वप्नजाग्र-
दुन्मेषाणानिमेषणे ।
धावनं प्लवनं चैव
आयासः शक्तिवेदनम् ॥८७॥
बुद्धिभेदास्तथा भावाः
संज्ञाः कर्माशयनेकशः ।
एष रामो व्यापकोऽत्र
शिवः परमकारणम् ॥८८॥
स्वप्नः विकल्पः, जाग्रत् ज्ञानं, उन्मेषणम् ईश्वर-
दशा, निमेषणं सदाशिवदशा, आयासः 'अय गतौ'
गत्यर्थो ज्ञानार्थः तेन अयः अयनं ज्ञानं तस्यासः
क्षेपो निवृत्तिः - अज्ञानम् इत्यर्थः । धर्माद्या- अष्टौ
श्लोकः ८९ ] प्रथमाह्निकम् । १३३
बुद्धिधर्माः, संज्ञाः- यादृच्छिका डित्थादयः, कर्माणि-
व्यापाराः । अनेन च गत्यादिना चतुर्दशकेन सकल-
विश्वस्वीकारः कृतः । यच्चैतद्गत्यादि एष रामः-
सकलविश्वावभासनक्रीडापरः परमात्मा परमेश्वरः,
अत एवोक्तं 'व्यापकोऽत्र शिवः परमकारणम्' इति,
अत्र इति गत्याद्युपलक्षिते विश्वस्मिन्, शिवस्यैव
हि अयमशेषविश्वात्मा स्फारः इति भावः । तदुक्तं
'विषयेषु च सर्वेषु इन्द्रियार्थेषु च स्थितः ।
यत्र यत्र निरूप्येत नाशिवं विद्यते क्वचित् ॥'
इति ॥८७॥८८॥
कथं चात्र तदैकात्म्यापत्तिलक्षणा स्थितिर्भवति
इत्याह
कल्मषघ्नीगामनसा
स्मृतिमात्रनिरोधनात् ।
ध्यायते परमं ध्येयं
गमागमपदे स्थितम् ॥८६॥
पं० ६ क० पु० शिवस्यैव हृदयमशेषेति पाठः ।
पं० १५ क० पु० ध्यायते सकलं ध्येयमिति पाठः ।
१३४ श्रीतन्त्रालोकः ।
परं शिवं तु व्रजति
भैरवाख्यं जपादपि ।
येन क्षीणं कल्मषं तत्तद्भेदावभासकालुष्यं यस्य
तादृशं मनो, मनुते इति मनो विमर्शात्मावबोधो
यस्य तेन
'सर्वो विकल्पः स्मृतिः.......................।'
इति नीत्या स्मृतिरेव केवला स्मृतिमात्रं शरीर-
मुखहस्ताद्यात्मकं विकल्पनं, तस्य निरोधनम्—आका-
राद्युल्लेखशून्यत्वेन प्रतिहननं, तदवलम्ब्य, तत्तन्नि-
यताकारसंकोचाभावात् परमं ध्येयं शिवलक्षणं परम-
कारणं ध्यायते स्वात्माभेदेन परामृश्यते । यदुक्तं
'ध्यानं या निश्चला बुद्धिर्निराकारा निराश्रया ।
न तु ध्यानं शरीरस्य मुखहस्तादिकल्पना ॥'
इति । एवंविधो ध्याता, गमो गमनं गतिः, अगमश्च
अगतिः स्थानं, ताभ्यामुपलक्षिते पदे समनन्त-
पं० ५ क० पु० मनो मतिरिति विमर्शात्मेति पाठः ।
पं० १२ ख० ग० पु० निश्चला चिन्ता इति पाठः ।
पं० १३ क० पु० मुखचिन्तादिकल्पना इति पाठः ।
श्लोकः ९० ] प्रथमाह्निकम् । १३५
रोक्ते चतुर्दशविधे आश्रये स्थितम्, अत एव परं
पूर्णम्, अत एव च भैरवाख्यं शिवं व्रजति - तत्समावे-
शमाप्नोति इत्यर्थः । न केवलमयं ध्यानादेव शिवं
व्रजति यावज्जपादपि इत्युक्तं-जपादपि इति ॥८६॥
कोऽसौ जपो नाम इत्याशङ्क्याह
तत्स्वरूपं जपः प्रोक्तो
भावाभावपदच्युतः ॥६०॥
तस्य शिवस्य, स्वरूपं परावाक्स्वभावम् आत्मरूपम्
अर्थात् भूयो भूयः परामृश्यमानं जपः, अत एव
भावाभावपदच्युतः-पूर्वोक्तनीत्या तन्मध्यस्फुरत्संवि-
त्परामर्शमात्रसारः इत्यर्थः । तदुक्तं
'भूयो भूयः परे भावे भावना भाव्यते हि या ।
जपः सोऽत्र स्वयं नादो मन्त्रात्मा जप्य ईदृशः ॥'
पं० १ ग० परिपूर्णमिति पाठः
पं० ६ ख० पु० तत्स्वरूपो जपः प्रोक्त इति पाठः,
पं० ७ ख० पु० पदाच्युत इति, पदाक्युत
इति पाठान्तरं चास्ति ।
पं० ११ क० पु० परामर्शसार इति पाठः ।
पं० १२ ग० पु० परे तत्त्वे इति पाठः । क० पु० साध्यते हि या इति पाठः ।
पं० १४ क० पु० जप ईदृश इति पाठः ।
१३६ श्रीतन्त्रालोकः ।
इति। एवं ग्रामधर्मवृत्तिरेव रामस्थः इत्युक्तं स्यात्।
तदुक्तं श्रीत्रिशिरोभैरवे
‘गच्छंस्तिष्ठन्स्वपञ्जाग्रदुन्मिषन्निमिषंस्तथा ।
धावनं प्लवनं चैव आयासः शक्तिवेदनम् ॥
बुद्धिभेदास्तथा भावाः संज्ञाः कर्माण्यनेकंशः ।
एतच्चतुर्दशविधं रामं तु परिकीर्तितम् ॥
व्यापितं देवदेवेन शिवेन परमात्मना ।
सर्वभावान्तरस्थेन अनेकाकारलक्ष्मणा ॥
कल्मषक्षीणमनसा स्मृतिमात्रनिरोधनात् ।
ध्यायते परमं ध्येयं गमागमपदे स्थितम् ॥
परं शिवं तु व्रजति भैरवाख्यं जपादपि ।
तत्स्वरूपं जपः प्रोक्तो भावाभावपदच्युतः ॥’
इति ॥६०॥
ननु प्रायः सर्वत्रैव ध्यानस्य व्यतिरिक्तसाकार-
ध्येयविषयत्वं, जपस्य विकल्पात्मकवाचकवाच्यज-
प्यनिष्ठत्वं चोक्तम्, इह पुनः स्वात्माभेदेन परामर्श-
मात्रमेवोभयो रूपम् इति किमेतद् इत्याशंक्याह
पं० १ क० पु० रामस्येति इति पाठः ।
पं० १२ क० पु० तत्स्वरूपो जप इति पाठः ।
पं० १४ क० पु० व्यतिरिक्ताकारध्येयेति पाठः ।
श्लोकः ९२ ] प्रथमाह्निकम् । १३७
तदत्रापि तदीयेन
स्वातन्त्र्येणोपकल्पितः ।
दूरासन्नादिको भेद-
श्चित्स्वातन्त्र्यव्यपेक्षया ॥६१॥
इह पराहंपरामर्शमात्रसारत्वात् स्वतन्त्रप्रका-
शात्मा परमेश्वर एव परमार्थः इति तत्प्राप्तौ उप-
देश्यभेदेन तदुपकल्पितमेव उपायानां नानात्वं, तेन
चित्स्वातन्त्र्यप्रधानतया उल्लसित उपाय आसन्नः
इत्युच्यते, अन्यथा तु इतरः इत्याह दूर इति । एव-
मपि उपेयासन्नतया कस्यचिदेव उपायत्वम् इति
नाशङ्क्यम् – उपायोपेयभावस्य द्वारद्वारिभावेन
वक्ष्यमाणत्वात् ॥६१॥
एतदेवोपसंहरति
एवं स्वातन्त्र्यपूर्णात्वा-
दतिदुर्घटकार्ययम् ।
केन नाम न रूपेण
भासते परमेश्वरः ॥६२॥
पं० ५ क० पु० इह अहंपरामर्शमात्रसारत्वादिति पाठः ।
१८
१३८ श्रीतन्त्रालोकः ।
रूपेण इति तत्तत्स्वशक्त्यात्मना इत्यर्थः ॥६२॥
अत एवाह
निरावरणमाभाति
भात्यावृतनिजात्मकः ।
आवृतानावृत्तो भाति
बहुधा भेदसंगमात् ॥६३॥
इति शक्तित्रयं नाथे
स्वातन्त्र्यापरनामकम् ।
इच्छादिभिरभिख्याभि-
र्गुरुभिः प्रकटीकृतम् ॥६४॥
निरावरणम् इति शुद्धप्रकाशमयत्वात् , आवृत
इति भेदकालुष्योदयात् , आवृतानावृत्तः इति शुद्ध-
ज्ञानमयत्वेऽपि भेदकालुष्यासूत्रणात् , अत एव
परापरपरापरत्वं , बहुधा इति एषणीयादिनानात्वात्
अनेकप्रकारम् इत्यर्थः । निरावरणत्वेऽपि हि
निषेध्यमानत्वाद् भेदस्य वासनामात्रेणावस्थानम् ।
पं० ६ क० ख० पु० भेदसंगम इति पाठः ।
पं० १४ क० पु० एषणीयत्वादिनानात्वादिति पाठः ।