तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
तैत्तिरीयब्राह्मणम् (१.५.६) २४१
यैषा सं॑वं॒त्स॒र उप॑जी॒वा । वृ॒ङ्क्ते तां भ्रातृ॑व्यस्य। क्षुधा॑ऽस्य॒
भ्रातृ॑व्यः॒ परा॑भवति, इति ।
देवाश्चासुराश्च युद्धोद्युक्ताः सन्तः संवत्सरानुष्ठानसाध्ये फले
व्यायच्छन्त विरोधमारभन्त । अस्माकमेवेदं फलं भवत्विति परस्परं कलहं
कृतवन्तः। तदानीं तानसुरानभिलक्ष्य फलं वारयितुं चातुर्मास्यैरेवानुष्ठानं
कृतवन्तः । तेषु च देवेषु त्रयो व्यूहाः । इन्द्रस्वामिक एकोव्यूहः ।
वरुणस्वामिको द्वितीयः । सोमस्वामिकस्तृतीयः । तत्रेन्द्रस्वामिका देवा
वैश्वदेवेन पर्वणा चतुरो मासानसुरसंबन्धिना विनाशितवन्तः ।
विनाशितानैव तन्मासानभिलक्ष्य ताञ्चशीर्षस्वकीये शिरसि निवर्तनं च
परिवर्तनं च कृतवन्तः । वपनीयानां केशानां
स्थापनीयेभ्यःशिखागतकेशेभ्यः पृथक्करणं निवर्तनम् । पृथक्कृतानां वपनं
परिवर्तनम् । एवमुत्तरव्यूहद्वयेऽपि योजनीयम् । एवं
त्रिविधमासचतुष्टयानुष्ठानेनैकस्मिन्संवत्सरे तैरसुरैरुपजीवनाय या धनादि
संपत्संपादिता तेषामसुराणां तां संपदं विनाशितवन्तः । ततो देवाः संपन्ना
अभवन् । असुराश्च पराभूताः । एवं ज्ञात्वा चातुर्मास्यानुष्ठानेन
भ्रातृव्यसंबन्धिनो मासान्विनाश्य तद्विनाशनार्थं स्वशिरसि
निवर्तनपरिवर्तनं कृत्वा वैरिणः संवत्सरोपजीव्यां संपदं
सम्यग्विनाशयति । स च शत्रुरन्नाभावेन क्षुत्पीडितो भवति ।
अथ वपनसाधनं विधत्ते-
लो॒हि॒ता॒य॒सेन॑ नि॒वर्त॑यते । यद्वा इ॒माम॒ग्निरृ॑तावाग॒ते
नि॒वर्त॑यति । ए॒तद्दे॒वैनाँ॑ रू॒पं कृ॒त्वा नि॒वर्त॑यति । सा त॒तः॑
श्वः॒ श्वो॒ भूय॑सी॒ भव॑न्त्येति (५) । प्र॒जा॑यते । य ए॒वं
वि॒द्वाँल्लो॑हि॒ताय॑सेन नि॒वर्त॑यते । ए॒तद्दे॒व रू॒पं कृ॒त्वा
नि॒वर्त॑यते । स त॒तः॑ श्वः॒ श्वो॒ भूया॑न्भव॒न्नेति॑ । प्रैव जा॑यते,
इति ।
अयसा निर्मितः क्षुर आयसः । स च लोहितस्ताम्रमिश्रेणायसा
निर्मितत्वात् । तादृशेन क्षुरेण केशान्निवर्तयेद्वपनं कुर्यादित्यर्थः । लोके
संचरन्दावाग्निरृतौ धर्मकालरूपे समागते सति यदेवोग्ररूपं धृत्वेमां भूमिं
निवर्तयति शुष्कजलाशयां शातितपलाशपादपां लूनधान्यां मुण्डितामिव
करोति तदानीमग्निरेतदेव लोहितक्षुरसमानरूपं कृत्वेमां
निवृत्तजलादियुक्तां करोति । सा च भूमिर्दग्धतृणा सती तत ऊर्ध्वं-
२४२ (१.५.६) तैत्तिरीयब्राह्मणम्
मुत्तरोत्तरदिवसं भूयसी भवन्ती प्रजायते वर्धमाना सती
तृणादिकमुत्पादयति । एवमन्योऽपि लोहितायसेनक्षुरेण वपनं
प्राप्नुवन्नग्निसमानरूपं तस्य कृत्वा वपनं प्राप्नोति । स च तत ऊर्ध्वं
धनादिभिः समृद्धो भवँल्लोकं संचरति प्रजाश्चोत्पादयति ।
वपनीयानामितरेषां च केशानां विभागकरणे साधनं विधत्ते-
त्रे॒ण्या श॑ल॒ल्या नि॑वर्तयते । त्रीणि॒ त्रीणि॒ वै
दे॒वाना॒मृद्धा॑नि । त्रीणि॒ च्छन्दाँ॑सि॒ त्रीणि॒ सव॑नानि । त्रय॑
इ॒मे लो॒काः (६) । ऋ॒द्ध्यामे॒व तद्वीर्य॑ ए॒षु लो॒केषु॑
प्रति॑तिष्ठति, इति ।
तिस्र एण्यः श्वेतराजयो यस्याः शलल्याः सा त्रेणी । शललीशब्देन
शललाख्यस्य क्षुद्रमृगस्य पुच्छभागवर्ती तीक्ष्णाग्रलोहशलाकादृशो
रोमविशेष उच्यते । तया श्वेतराजित्रययुक्तया शलल्या
वपनीयान्केशानितरेभ्यः पृथक्कुर्यात् । यच्च श्वेतराजित्रयं प्रशस्तम् । यतो
देवानां संबन्धीनि समृद्धवस्तूनि प्रत्येकं त्रिसंख्यायुक्तानि दृश्यन्ते ।
गायत्री त्रिष्टुब्जगतीत्येतानि च्छन्दांसि त्रिसंख्याकानि ।
प्रातर्माध्यन्दिनतृतीयाख्यानि सवनानि च त्रिसंख्याकानि । लोकाश्च
त्रिसंख्याकाः । अतो राजित्रययोगे सति देवसंबन्धिन्यां समृद्धौ वीर्ये
लोकत्रये च प्रतितिष्ठति ।
वपनक्रमं साधनं च विधाय वपनं विधत्ते-
यच्चातु॑र्मास्यया॒ज्यात्मनो॒ नाव॑द्ये॒त् ।। दे॒वेभ्य॒ आवृ॑श्च्येत॒ ।
च॒तृषुँ॑र्चतृषु मासे॑षु॒ निर्व॑र्तयेत । प॒रोक्ष॑मे॒व तद्दे॒वेभ्य॑
आ॒त्मनो॒ऽव॑द्यत्यनार्त्रस्काय, इति ।
चातुर्मास्ययाजी स्वशरीराशं यदि देवेभ्यो नावद्येत्तदा देवेभ्यो
विच्छिद्येत । अतो विच्छेदाभावाय तदा तदा मासचतुष्टये वपनं कुर्यात् ।
तथा सति वपनव्यवधानेन स्वशरीरावदानमेव देवार्थं करोति ।
तच्चाविच्छेदाय भवति ।
तदेतद्व्रतं प्रशंसति-
दे॒वानां॒ वा ए॒ष आनी॑तः । यश्चातु॑र्मास्यया॒जी । य ए॒वं
तैत्तिरीयब्राह्मणम् (१.५.७) २४३
वि॒द्वान्नि च॑ वर्त॒यते॒ परि॑ च । दे॒वता॑ ए॒वाप्ये॑ति । नास्य॑ ·
रु॒द्रः प्र॒जां प॒शून॒भिर्म॑न्यते (७), इति
ए॒त्येत्य॒युञ्ज॒तासु॑र॒ एति॑ लो॒का मं॑न्यते ।
इति कृष्णयजुर्वेदीयैत्तिरीयब्राह्मणे प्रथमाष्टके
पञ्चमाध्याये षष्ठोऽनुवाकः ॥ ६ ॥
योऽयं चातुर्मास्ययाजी स एष देवानां स्वभूतः सँल्लंके समानीतः ।
तस्मा देवं विद्वान्पुरुषः शलल्या केशान्पृथक्कुर्यात् । लोहितायसेन
वपेच्च । स देवता एव प्राप्नोति । अस्य प्रजां पशून् रुद्रो न हिनस्ति ।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे
कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे
पञ्चमप्रपाठके षष्ठोऽनुवाकः ॥ ६ ॥
अथ पञ्चमप्रपाठके सप्तमोऽनुवाकः ।
षष्ठे चातुर्मास्यशेषो वपनविधिरुक्तः । सप्तमे त्वग्निचयनशेषा
इष्टकोपधान मन्त्रा उच्यन्ते । “प्राची दिशाम्” इत्यादिभिर्मन्त्रैर्या अपानभृत
इष्टका उक्तास्तदुपधानादूर्ध्वं “आयुषः” इत्यादिभिर्मन्त्रैर्द्वादशसंतत्याख्या
इष्टका उपधेयाः । तन्मन्त्रपाठस्तु-
आयु॑षः प्रा॒णं संत॑नु । प्रा॒णाद॑पा॒नं संत॑नु । अ॒पा॒नाद्व्या॒नं ँ
संत॑नु । व्या॒नाच्चक्षु॑: संत॑नु । चक्षु॑षः॒ श्रोत्रं॑ ँ संत॑नु ।
श्रोत्रा॒न्मन॑: संत॑नु । मन॑सो॒ वाचँ॑ संत॑नु । वाच॑ आ॒त्मानं॒ ँ
संत॑नु । आ॒त्मन॑: पृथि॒वी ँ संत॑नु । पृथि॒व्या अ॒न्तरि॑क्षं ँ
संत॑नु । अ॒न्तरि॑क्षाद्दि॒वं ँ संत॑नु । दि॒वः सुव॑: संत॑नु (१),
· इति ।
पृथि॒व्या अ॒न्तरि॑क्षं॒ संत॑नु॒ द्वे च॑ ।।
इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके
पञ्चमाध्याये सप्तमोऽनुवाकः ।। ७ ।।
: हे इष्टक आयुष्यप्राणयोः परस्परं संततमविच्छेदं कुरु । आयुष इति
तृतीयार्थे पञ्चमी । आयुषा सह प्राणं संयोजयेत्यर्थः । एवमुत्तरत्रापि
योज्यम् । आत्मा परो जीवो वा । द्यौर्द्युलोकः । सुवःशब्देन तत्रत्यो
भोगस्थानविशेष उच्यते ।
२४४ (१.५.८) तैत्तिरीयब्राह्मणम्
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे
कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे
पञ्चमप्रपाठके सप्तमोऽनुवाकः ॥ ७ ॥
अथ पञ्चमप्रपाठकेऽष्टमोऽनुवाकः ।
सप्तमे संतत्याख्येष्टकामन्त्रा उक्ताः । अष्टमेऽथर्वशिरोभिधाना
नामिष्टकानां दशानां मन्त्रा उच्यन्ते । ताश्चेष्टकाः “प्राच्या त्वा दिशा
सादयामि” इत्येतैर्मन्त्रैरुपधेयाभ्य इष्टकाभ्य ऊर्ध्वं पञ्चम्यां
चितावुपधेयाः । तत्र प्रथमामृचमाह-
इन्द्रो॑ द॒धीचो॒ अस्थ॑भिः । वृ॒त्राण्यप्र॑तिष्कुतः । ज॒घान॑
नव॒तीर्नव॑, इति ।
अथर्वणः पुत्रः कश्चिदर्षिर्दध्यङ्नामा । तस्य यान्यस्थीनि
वज्रसमानि तैरस्थिभिर्वृत्राणि निवारकाणि परबलानि जघान । कीदृश
इन्द्रः । अप्रतिष्कुतः प्रतिकूलो भूत्वा कुतोऽ यमित्येवं निराकर्ता वैरी
यस्यासौ प्रतिष्कुस्तथाविधशत्रुरहित्यादयमप्रतिष्कुतः । कियन्ति वृत्राणि
नवसंख्याका नवतीर्दशाधिकान्यष्टशतानीत्यर्थः । हे इष्टके
तथाविधेन्द्ररूपा त्वमसि तादृशमिन्द्रस्त्वामुपदधात्विति
वाऽध्याहर्तव्यम् ।
अथ द्वितीयामाह-
इ॒च्छन्नश्व॑स्य॒ यच्छिरः॑ । पर्व॑ते॒ष्वप॑श्रितम् .
तद्वि॑दच्छर्य॒णाव॑ति, इति ।
अग्नि कदाचिदश्वो भूत्वा देवेभ्योऽपक्रम्य पर्वतेषु निलीनः ।
तदानीमयमिन्द्रस्तस्याश्वस्य यच्छिरो द्रष्टुमिच्छन्पर्वतेषु चचार तदानीं
पर्वतेष्वाश्रितं तदश्वस्य शिरः शर्यणावन्नामके कस्मिंश्चित्पर्वते
विदल्लब्धवान् । हे इष्टके त्वं तथाविधाश्वशिरोरूपाऽसि ।
अथ तृतीयामाह-
अत्राह॑ गो॒रम॑न्वत । नाम॒ त्वष्टु॑रपी॒च्य॑म् । इ॒त्था च॒न्द्रम॑सो
गृ॒हे, इति ।
त्वष्टुः सूर्यस्य गोशब्दाभिधेयो रश्मिर्योऽस्ति तस्य नामात्राहास्मिन्ने
वाग्नौ विद्यत इत्येवं यजमाना अमन्वत अग्निं दीप्तं दृष्ट्वा सूर्यरश्मिरित्येव
भावितवन्त इत्यर्थः । कीदृशं रश्मिनाम । अपीच्यमप्यञ्चति पुनः
तैत्तिरीयब्राह्मणम् (१.५.८) २४५
पुनर्गाच्छतीत्यपीच्यम् । यदा वह्निज्वाला तदा तदा सूर्यरश्मिरित्येवं तेषां
निश्चयः । एतच्च युक्तम् । एतस्यैव तेजसो रात्रावग्निप्रवेशस्य दिवसे
सूर्यप्रवेशस्य चाग्निहोत्रब्राह्मणे प्रपञ्चयिष्यमाणत्वात् । इत्था चन्द्रमसो
गृहे । एवमेव चन्द्रमण्डले यो रश्मिस्तन्नामाप्यस्मिन्नेवाग्नौ मन्यन्ते ।
सूर्यरश्मिरेव चन्द्रगतत्वात् । “सुषुम्नः सूर्यरश्मिश्चन्द्रमाः” इति
श्रुत्यन्तरात् । यः सूर्यरश्मिर्यश्च चन्द्ररश्मिस्तदुभयरूपेयमग्निजवालेति
तात्पर्यार्थः । इष्टके तथा विधाग्निरूपा त्वमसि ।
अथ चतुर्थीमाह-
इन्द्र॑मिद्गा॒थिनो॑ बृ॒हत् (१) । इन्द्र॑म॒र्केभि॑र॒र्किणः॑ । इन्द्रं॑
वा॒णी॑रनूषत, इति ।
गाथिनः सामगा इन्द्रमिदिन्द्रमेव बृहद्यथा महद्भवति तथा
गायन्तीति शेषः । अर्किणः शस्त्रिणो होतारः । अर्कैभिरर्चनीयैः
शस्त्रैरिन्द्रं शंसन्तीति शेषः । वाणीर्ध्वन्योर्वाच इन्द्रमनूषत स्तुवन्ति । ह
इष्टके तथाविधेन्द्ररूपा त्वमसि ।
अथ पञ्चमीमाह-
इन्द्र॒ इद्धर्योः॒ सचा॑ । संमि॑श्ल॒ आं वचो॒युजा॑ । इन्द्रो॑ वज्री॑
हिर॑ण्ययः॑, इति ।
हर्योरश्वयोरिन्द्र इदिन्द्र एव सचा सक्तः । संबद्धो हरिद्वययुक्ते
रथेऽवस्थित इत्यर्थः । तथा वचोयुजा नानाविधवाक्यसंदर्भयुक्तेन
स्तोत्रेण, आ समन्तात्संमिश्लः संयुक्तः । स एवेन्द्रो वज्री वज्रहस्त ।
हिरण्ययः सुवर्णाभरणयुक्तः ।
अथ षष्ठीमाह-
इन्द्रो॑ दी॒र्घाय॒ चक्ष॑से । आ सूर्य॑ऽरोह यदि॒वि । वि
गोभि॒रद्रि॑मैरयत्, इति ।
अथेन्द्रो दीर्घाय चक्षसे दूरवर्तिनो दर्शनाय दिवि द्युलोके
सूर्यमारोहयदारोहं कृतवान् । स च सूर्यो गोभी रश्मिभिरद्रिं पर्वतादियुक्तां
भूमिं विशेषणैरयतप्रेरितवान्प्रकाशितवानित्यर्थः ।
अथ सप्तमीमाह-
२४६ (१.५.८) तैत्तिरीयब्राह्मणम्
इन्द्र॒ वाजे॑षु नो अव । स॒हस्रं॑प्रधनेषु च (२) । उ॒ग्र
उ॒ग्राभि॑रू॒तिभि॑ः, इति ।
ह इन्द्र त्वमुग्रः प्रतिकूलनिवारणे तीव्रः । सन्वाजेष्वन्नेषु
सहस्रप्रधनेषु सहस्रसंख्याकेषु प्रकृष्टधनेषु च निमित्तभूतेषूग्राभीरूतिभिः
प्रतिबन्धनिवारणाय तीव्रै रक्षणैर्नोऽस्मानव रक्ष ।
अथाष्टमीमाह-
तमिन्द्रं॑ वाजयामसि । म॒हे वृ॒त्राय॒ हन्त॑वे । स वृषा॑
वृष॒भोऽभु॑वत्, इति ।
तथाविधगुणयुक्तमिन्द्रं वयं वाजयामसि गमयामो भक्त्या प्रेरयाम
इत्यर्थः । किमर्थम् । महे वृत्राय हन्तवे महान्तं पापरूपं वैरिणं हन्तुम् ।
स चेन्द्रो वृषाऽ स्माकं कामानां वर्षयिता सन्वृषभोऽभुवच्छ्रेष्ठो भवतु ।
अथ नवमीमाह-
इन्द्र॑ः स दाम॑ने कृ॒तः । ओजि॑ष्ठः स बले॑ हि॒तः । द्यु॒मनी
श्लो॒की स सौ॒म्यः, इति ।
स तादृश इन्द्रो दामने दामकृत्ये बन्धने कृतः पाशैर्वशीकृत
इत्यर्थः । स चेन्द्र ओजिष्ठोऽतिबलवान् । अत.एव बले हितो बलकृत्ये
वैरि॑विनाशनेऽस्माभिर्भक्त्या प्रेरितः । स चेन्द्रो द्युम्नी धनवान् । श्लोकी
कीर्तिमान् सौम्यो रमणीयः ।
अथ दशमीमाह-
गि॒रा वज्रो॒ न संभृ॑तः । सब॑लो॒ अन॑पच्युतः । व॒व॒क्षुरु॒ग्रो
अस्तृ॑तः (३), इति ।
बृह॒च्चास्तृ॑तः ।
इतिकृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणेप्रथमाष्टके
पञ्चमाध्यायेऽष्टमोऽनुवाकः ॥ ८ ॥
सोऽयमिन्द्रो गिरऽस्मदीयया स्तुतिरूपया वाचा वज्रो न वज्र इव
संभृतः सम्यगस्माभिर्वशीकृतः । सबलो बलेन सैन्येन युक्तः । अनपच्युतः
कदाचिदप्यपलायितः । ववक्षुर्युद्धभारं वोढुमिच्छुः । उग्रः शत्रूणां
तैत्तिरीयब्राह्मणम् (१.५.९) २४७
भयंकरः । अस्तृतः कनाप्यहिंसितः । ह इष्टक ईदृगिन्द्ररूपा त्वमसि ।
ईदृगिन्द्रस्त्वामुपदधात्विति सर्वत्र शेषोऽध्याहर्तव्यः ।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे
कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे
पञ्चमप्रपाठके- ऽष्टमोऽनुवाकः ॥ ८ ॥
अथ पञ्चमप्रपाठके नवमोऽनुवाकः ।
अष्टमेऽथर्वशिरोभिधानानामिष्टकानां मन्त्रा उक्ताः । नवमे
सोमशेषभूता इष्टयो विधीयन्ते । तत्राऽऽदौ शब्दनिर्वचनेनेष्टीः प्रशंसति-
दे॒वा॒सु॒राः संयं॑त्ता आसन् । स प्र॒जाप॑तिरिन्द्रं॑ज्ये॒ष्ठं
पु॒त्रम॒पर्न्य॑धत्त । नेदैन॒मसु॑रा॒ बली॑या ॅ सोऽह॒न्निति॑ ।
प्र॒ह्लादो॑ ह॒ वै का॑याध॒वः । वि॒रोच॑नं॒ स्वं पु॒त्रम॒पर्न्य॑धत्त ।
नेदैनं॑ दे॒वा अह॑न्निति॑ । ते दे॒वाः
प्र॒जाप॑तिमुप॒समे॑त्योचुः । नारा॑जक॑स्य यु॒द्धम॑स्ति ।
इन्द्र॑म॒न्विच्छा॒मेति॑ । तं य॒ज्ञक्रतु॑भिर॒न्वैच्छन् (१) । तं
य॒ज्ञक्रतु॑भिर्नान्व॑विन्दन् । तमिष्टि॑भिर॒न्वैच्छन् ।
तमि॒ष्टि॑भिरन्व॑विन्दन् । तदिष्टी॑नामिष्टि॒त्वम् । एष्ट॑यो ह॒
वै नाम॑ । ता इष्ट॑य इत्याच॑क्षते परोक्षे॑ण । प॒रोक्ष॑प्रिया इव॒
हि दे॒वाः, इति ।
देवाश्चासुराश्च यदा युद्धार्थमुद्यतास्तदानीं प्रजापतिः स्वकीयं ज्येष्ठं
पुत्रमिन्द्रं युद्धभूमेरपनीय क्वचिद्गूढे स्थाने निहितवान् ।
तस्याप्ययमभिप्रायः । बलीयांसोऽसुरा एनं दुर्बलमिन्द्रं नेदहन्नैव
घ्नन्त्विति । तथा कयाधुसंज्ञिताया हिरण्यकशिपुभार्यायाः पुत्रः प्रह्लादः
स्वकीयं पुत्रं विरोचनमसुरसैन्यस्वामिनं युद्धभूमेरपनीय
क्वचिनिहितवान् । तस्यायमभिप्रायः । एनं विरोचनं देवाः सर्वथा मा
घ्नन्त्विति । एवं च राजद्वयरहितयोः सेनयोरवस्थितयोः सत्योर्देवाः
प्रजापतिसमीपं प्राप्यैवमूचुः । राजरहितस्य सैन्यस्य न क्वचिदपि
युद्धमस्ति । युयुत्सवः सर्वेऽपि राजानमन्तरेण पलायिष्यन्ते । तस्मादिन्द्रं
राजानं तत्र तत्रान्विच्छाम इत्युक्त्वा प्रजापतिनाऽनुज्ञातास्तमिन्द्रं लब्धुं
ज्योतिष्टोमोक्थ्यादिरूपान्क्रतूननुष्ठितवन्तः । अङ्गभूतेष्टिरहितैस्तैर्महाक्रतु-
भिरिन्द्रमलब्ध्वा तत्र कारणमङ्गेष्टिवैकल्यं निश्चित्य ता इष्टीरनुष्ठाय
ताभिरिष्टिभिरेनं लब्धवन्तः । एवं च सत्यन्वेषणसाधनत्वादिष्टय इत्येतासां
नाम । तथाऽपि मुख्यं नाम गोपयित्वा परोक्षेण तिरोहितेन नाम्ना
व्यवहर्तुमिष्टय इत्याचक्षते । अन्वेषणसाधनत्वमेष्टित्वम् ।
यजनसाधत्वमिष्टित्वम् । अतस्तेन व्यवहारे सति मुख्यं नाम परोक्षं
भवति । देवानां च परोक्षं नाम प्रियम् । अत एव लोकेऽपि देवदत्तादिनाम
परित्यज्याऽऽचार्या उपाध्यायमिश्रा इत्यादिनामभिः पूज्याः परितुष्यन्ति ।
यद्यप्यन्वेषणार्थस्वीकारेऽपीच्छतिधातोः क्तिन्प्रत्यये सति
यजिधातुवदिष्टिरित्येव रूपं संपद्यते । तथाऽप्यौणादिकं
कंचित्ककाररहितं प्रत्ययमभिप्रेत्य रूपमीदृशं श्रुत्या विवक्षितम् ।
याभिरिष्टिभिरिन्द्रमैच्छंस्तासां मध्ये प्रथमामिष्टिं दर्शयति -
तस्मा॑ ए॒तमा॑ग्नावैष्ण॒वमेका॑दशकपालं दीक्षणीयं॑
निर॑वपन् । तद॑पद्रुत्या॑तन्वत । तांत्प॑त्नीसंया॒जान्त॒
उपा॑नयन् (२) । ते तद॑न्तमे॒व कृ॒त्वोद॑द्रवन्, इति ।
तस्मादिन्द्रलाभार्थमग्नाविष्णुदेवताकमेकादशकपालं पुरोडाशयुक्तं
दीक्षणीयाख्यं कर्मानुष्ठितवन्तः । तेषु देवेषु मध्ये
यावद्भिर्देवैर्यजमानेर्ऋत्विग्रूपैः कर्मानुष्ठातुं शक्यते तावन्तो देवाः कृत्स्नं
देवसैन्यसंघादपक्रम्य क्वचिद्देवयजनदेशे तद्दीक्षणीयाख्यं कर्म
विस्तारितवन्तः । तदानीमितरं देवास्तमिन्द्रमन्विष्य तैर्ऋत्विग्भिः
पत्नीसंयाजपर्यन्ते कर्मण्यनुष्ठिते सति तानुष्ठातृन्देवान्प्रति समीपे
समानयन् । ते चर्त्विग्रूपा देवाः स्वप्रयोजनस्य
निष्पन्नत्वात्पत्नीसंयाजान्तमेव तत्कर्म कृत्वा तत्परित्यज्योद्गताः ।
तावताऽपीन्द्रस्थैर्याभावे पुनस्त ऋत्विजः प्रायणी
याख्यामिष्टिं कृतवन्त इत्येतद्दर्शयति-
ते प्राय॑णीयम॒भिस॒मारो॑हन् । तद॑पद्रुत्या॑तन्वत । ताञ्छं॑
य्वन्त॒ उपा॑ऽऽनयन् । ते तद॑न्तमे॒व कृ॒त्वोद॑द्रवन्, इति ।
अभिसमारोहन्प्रायणीयाख्यं कर्माभिलक्ष्य देवयजनं प्रविष्टाः ।
अन्यत्पूर्ववत् ।
पुनरपीन्द्रस्थैर्यायाऽऽतिथ्याख्यामिष्टिं दर्शयति-
तैत्तिरीयब्राह्मणम् (१.५.९) २४९
त आ॑तिथ्यम॒भिस॒मारोहन् । तद॑प॒द्रुत्या॑तन्वत । तानि
डान्तु उपाऽनयन् । ते तद॑न्तमे॒व कृ॒त्वोद॑द्रवन् । तस्मा॑देता
एतद॑न्ता इष्ट॑यः संति॑ष्ठन्ते (३), इति ।
पत्नीसंयाजानामेकविधत्वान्नास्ति तत्र संदेहः
शंखिडयोर्द्वैविध्यमस्ति । पत्नीसंयाजेभ्यः पूर्वं होत्रा शंयुवाकेऽनूच्यमान
आहवनीये परिधीननुप्रहरति । सोऽयमेकः प्रकारः आश्वलायनस्तु
पत्नीसंयाजानभिधाय तदूर्ध्वं शंयुवाकविकल्पमुदाजहार-“संयुवाको
भवेन्न वा” इति । पुरोडाशेनाऽऽज्येनेत्येवमिडाऽपि द्विविधा । तत्र
पूर्वमिडान्तत्वं द्रष्टव्यम् ।
एवमिष्टीः प्रशस्य तास्तिस्र इष्टीर्विधत्ते-
एवं ँहि दे॒वा अ॑कुर्वत । इति॑ दे॒वा अ॑कुर्वत । इत्यु॒ वै
म॑नु॒ष्या॑: कुर्वते, इति ।
यस्मादेवमुक्तप्रकारेण देवा अकुर्वत तस्मान्मनुष्या अप्यनेनैव
प्रकारेणेष्टीः कुर्युः । मध्ये पठितमिति देवा इति वाक्यं
मनुष्यवक्तृकोऽनुवादः । इति देवा इत्यनेन प्रकारेण कृतवन्त इत्यनूद्य
तत्सर्वं देवानुष्ठितप्रकारं हृदि निधाय पश्चात्तदनुतिष्ठन्ति ।
अथोपसदनुष्ठानप्रकारं विधातुं स्तौति-
ते दे॒वा ऊ॑चुः । यद्वा इ॒दमुच्चैर्य॒ज्ञेन॒ चरा॑म । तन्नो॒ऽसु॑राः
पा॒प्माऽनु॑विन्दन्ति । उपाँ॒शूप॑सदं॑ चराम । तथा॒ नोऽसु॑राः
पा॒प्मा नाऽनु॑ वेत्स्य॒न्तीति॑ । त उपाँ॒शूप॑सद॑मतन्वत । ति॒स्र
ए॒व सा॑मिधे॒नीर॒नूच्य॑ (४) । स्रु॒वेणाऽऽघा॒रमा॒धार्य॑ ।
ति॒स्रः परा॑चीराहुती॒र्हुत्वा॑ । स्रुवेणोप॒सदं॑ जुहु॒वांच॑क्रुः ।
उ॒ग्रं वचो॒ अपा॑वधीं त्वे॒षं वचो॒ अपा॑वधी॒ ँस्वाहाति॑ ।
अ॒श॒न॒या॒पि॒पा॒से ह॒ वा उ॒ग्रं वर्च॑: एन॑श्च वैरह॒त्यं च॑ त्वे॒षं
वर्च॑: । ए॒तं ँहु वाव तच्च॑तु॒र्धा विहि॑तं पा॒प्मानं॑ दे॒वा
अपा॑जघ्निरे, इति ।
२५० (१.५.९) तैत्तिरीयब्राह्मणम्
असुराः सर्वत्र स्वयं प्रयोगमजानानां देवसमीपे
कंचिद्गूढपुरुषमवस्थाप्य ततस्तेन ज्ञात्वा स्वयमप्यनुतिष्ठन्ति । एवं
वृत्तान्तं विज्ञाय देवाः परस्परमिदमूचुः । यदि वयमुच्चैर्ध्वनिना
यज्ञमनुतिष्ठामस्तर्ह्यस्माननु सर्वं प्रयोगं पापिष्ठा असुरा जानन्ति ।
अतस्तज्ज्ञाननिवारणायोपांशु यथा भवति तथोपसत्कर्मानुष्ठानं
निष्पादयामः । तथा सति पापिष्ठा असुरा अस्माननुप्रयोगं न ज्ञास्यन्तीत्येवं
निश्चित्योच्चैर्ध्वनिं परित्यज्योपांश्वेवोपसदमन्वतिष्ठन् । तत्प्रकारस्त्वे-
तादृशः । चोदकप्राप्ताः पञ्चदश सामिधेनीःपरित्यज्य तिस्र एव
सामिधेन्यस्तैरनूक्तास्तथा स्रुच्याऽऽघारं परित्यज्य
स्रौवाघारमवानुष्ठितवन्तः । तदूर्ध्वं तिस्रः प्रधानाहुतीरग्निं सोमं विष्णुं
चोद्दिश्य हूयमानाः पराचीर्हुतवन्तः । प्रकृतौ तु प्रतिप्रधानं पृथगेव वेद्या
उत्तरतो दक्षिणदेशमागत्य होमःक्रियते । इह तु सकृदेवाऽऽगत्य होमत्रयं
क्रियते ।
तदिदं पुनरावृत्तिराहित्यं पराचीशब्देन विवक्षितम् । तदेतदाहुतित्रयं
हुत्वा चतुर्थीमुपसदाख्यां प्रधानाहुतिं “या ते अग्नेऽयाशया” इति
संहितायामाम्नातमन्त्रानुच्चार्य स्रुवेण हुतवन्तः । तस्य मन्त्रस्योत्तरभाग उग्रं
वच इत्यादिवाक्यमदित । तत्र क्षुत्पिपासे एवोग्रं वच उच्यते । क्षुधिताः
स्मः पिपासिताः स्मो नास्माकमन्नपाने विद्येते इत्येतद्वाक्यं घोरं कृपालवः
श्रोतुं न सहन्ते । तदेतदुग्रत्वं यदेतद्ब्रह्मवधादि रूपमुपपातकं यच्च
वीरहत्यादिरूपं महापातकं तदेतत्त्वेषं वच इत्यनेनाभिधीयते ।
त्वेषशब्देन दीप्तिवाचिना चित्तक्लेशरूपा ज्वालोपचर्यते । उपपातकं
महापातकं च निष्पन्नमिति श्रुतवतश्चित्ते महान्क्लेशो भवति । क्षुत्पिपासे
महापातकोपपातके इत्येवं फलरूपेण तत्साधनरूपेण चावस्थितं चतुर्विधं
पाप्मानं देवा उपसद्धोमेन विनाशितवन्तः । अय देवैरनुष्ठितप्रकारः
सर्वोऽपि सूत्रकारेण संगृहीतः-“ध्रौवादग्रौ जुह्वां गृह्णाति चतुरुपभृति
घृतवतींशब्दे जुहूपभृतावदाय दक्षिणा सकृदभिक्रान्त उपा ँ
शुयाजवत्प्रचरत्यर्धेन जौहवस्याग्निं यजत्यर्धेन सोमंपौपभृतं जुह्वामानीय
विष्णुमिष्ट्वा प्रत्याक्रम्य या ते अग्नेऽयाशया तनूरितिस्रुवेणसदं जुहोति”
इति ।
तमिमं प्रकार विधत्ते-
तथो॑ ए॒वैतदै॑वंवि॒द्यज॑मानः । ति॒स्र ए॒व सा॑मि॒धेनी॒रनूच्य॑ ।
स्रु॒वेणा॑ऽऽघा॒रमा॒घार्य॑ (५) । ति॒स्रः प॒राची॒राहु॑तीर्हु॒त्वा ।
स्रु॒वेणोप॒सदं॑ जुहोति । उ॒ग्रं वचो॒ अपा॑वधीं त्वे॒षं वचो॑
तैत्तिरीयब्राह्मणम् (१.५.९) २५१
अ॑पाव॒धीँ स्वाहेति॑ । अ॒श॒न॒यापि॒पा॒से ह॒ वा उ॒ग्रं वच॑: ।
एन॑श्च वैरह॒त्यं च॒ त्वेषं॒ वच॑: । ए॒तमे॒व तच्च॑तु॒र्धा विहि॑तं
पा॒प्मानं॒ यज॑मानोऽप॑हते, इति ।
तदेतद्यजमानवाक्यं पूर्वोक्तदेववाक्यवद्व्याख्येयम् ।
उपसदनुष्ठानप्रकारं विधायानन्तरमग्नीषोमीयपश्वनुष्ठानं विधातुं
प्रस्तौति-
तैऽभि॒नीयै॒वाह॑: प॒शुमाल॑भन्त । अह॑ ए॒व तद्दे॒वा अर्व॑र्तिं
पा॒प्मानं॑ मृ॒त्युमप॑जघ्निरे । तेना॑भि॒नीयै॒व रात्रे॑: प्राच॑रन् ।
रात्र्या॑ ए॒व तद्दे॒वा अर्व॑र्तिं पा॒प्मानं॑ मृ॒त्युमप॑जघ्निरे (६),
इति ।
अनुष्ठितापसदस्ते देवा अहरभिनीयेवास्तमयात्प्रागह्नो विशिष्टं कालं
प्राप्यैवाग्नीषोमीयं पशुमालभन्त । योऽयमवर्तिं जीवनार्थवृत्तिप्रतिबन्धकं
पाप्मानं मृत्युसदृशं तेन पश्वालम्भेनाह्नोऽपनीय देवा विनाशितवन्तः ।
अभिनीयैवाहानि पशुमुपक्रम्यैव तेन पशुना रात्रेः संबन्धिनि
कालविशेषेऽनुष्ठितवन्तः । तेनानुष्ठानेन देवा रात्र्याः सकाशात्तं
पाप्मानमपनीय नाशितवन्तः । अत्र प्रयाजपर्यन्तस्याहन्यनुष्ठेयं शेषो
रात्रावनुष्ठेय इति । एतमर्थं सूत्रकारः स्पष्टमुदाजहार--“दिवा प्रयाजै ।
प्रचर्य” इति ।
तमिममनुष्ठानप्रकारं विधत्ते-
तस्मा॑दभि॒नीयै॒वाह॑: प॒शुमाल॑भेत । अह॑ ए॒व तद्यज॑मानो॒ऽ-
वर्तिं॑ पा॒प्मानं॒ भ्रातृ॑व्यान॒र्पनु॑दते । तेना॑भि॒नीयै॒व रात्रे॑:
प्र॒चरे॑त् । रात्र्या॑ ए॒व तद्यज॑मानो॒ऽव॑र्तिं पा॒प्मानं॑
भ्रातृ॑व्यान॒र्पनु॑दते, इति ।
यस्माद्देवैरनुष्ठितं तस्माद्यजमानोऽपि तथाऽनुतिष्ठेत् ।
देववाक्यवद्यजमानवाक्यं व्याख्येयम् । तत्र मृत्युरूपः पाप्माऽत्र तु
भ्रातृव्यरूप इति विशेषः ।
उक्तस्य पशोर्देवतासंबंधं विधत्ते- ।
स ए॒ष उ॑पवस॒थीयेऽह॑न्द्विदे॒व॒त्य॑: प॒शुराल॑भ्यते । द्वयं॒ वा
२५२ (१.५.९) तैत्तिरीयब्राह्मणम्
अ॒स्मिंल्लो॒के यज॑मानः । अस्थि॑ च मा॒ सँ च॑ । अस्थि॑
चै॒व तेने॑ मा॒ सँ च॒ यज॑मानः स ँ स्कु॑रुते, इति ।
यस्मिन्नहनि देवता यजमानस्य समीपे निवसति
तदहरुपवसथीयम् । अत एवान्यत्राऽऽम्नायते–“उ॑पा॒स्मिञ्छ्वो यक्ष्य॑माणे
देवता वसन्ति” इति । अत्राप्यग्नीषोमीयानुष्ठानादूर्ध्वदिने यजमानः
सोमेन यक्ष्यते । तस्मादिदमहरुपवसथीयम् । यस्मिन्नहनि यः
पशुरालभ्यः स द्विदेवत्यः । तौ च देवावग्नीषोमौ । “यदग्नीषोमीयं
पशुमालभते” इत्यन्यत्राऽऽम्नानात् । यजमानस्य
शरीरमप्यस्मिन्मनुष्यलोकेऽस्थिमांसद्वयात्मकं ततो द्विदेवत्येन पशुना
यजमानः स्वकीयमस्थि मांसं च संस्करुते ।
एतत्पशुदेवताप्रसङ्गेन सवनीयपशुदेवतामग्निरूपा-
मनूबन्ध्याख्यपशुदेवतां मित्रावरुणरूपां च मिलित्वा प्रशंसति-
ता वा ए॒ताः पञ्च॑ दे॒वता॑: । अ॒ग्नीषोमा॑व-
ग्निर्मित्रावरु॑णौ । प॒ञ्च प॒ञ्ची वै यज॑मानः । त्वङ्मा ँ
स ꣳ स्नावास्थि॑ म॒ज्जा । ए॒तमे॒व तत्प॑ञ्च॒धा विहि॑तमा॒त्मानं॑
वरु॑णपा॒शान्मु॑ञ्चति । भेष॒जता॑यै निर्वरु॑णत्वाय, इति ।
ता वा एताः पशुदेवताः पञ्चसंख्याकाः । कास्ता इति ता उच्यन्ते ।
उपवसथीयेऽह्नि द्वावग्नीषोमावस्य पशोर्देवौ परेद्युः सवनेष्वग्निः
सवनीयपशोर्देवः । अन्ते मित्रावरुणावनूबन्ध्याख्यपशोर्देवौ । यजमानोऽ
प्यवयवपञ्चकोपेतत्वात्पञ्ची । पञ्चभिस्त्वगादिभिः पञ्चीति समासे
सति पञ्चपञ्ची । अतःपशुत्रये पञ्चदेवता यजमानः पञ्चावयवोपेतं
स्वदेहं वरुणपाशान्मोचयति । अतस्तद्भजनमौषधसिद्धये भवति । सा च
सिद्धिर्वरुणोपद्रवपरिहाराय भवति । तस्मादेताः पञ्च देवता भजनीयाः ।
अथ प्रातरनुवाकाख्य ऋक्समूहे छन्दोविशेषान्विधत्ते-
त ꣳ स॒प्तभि॑श्छन्दो॑भिः प्रा॒तर॑ह्वयन् । तस्मा॑त्स॒प्तच॑तुरुत्तराणि॒
च्छन्दा॑ ꣳ सि प्रातरनुवा॒केऽनू॑च्यन्ते, इति ।
देवास्तमिन्द्रं प्रातः काले सप्तभिश्चन्दोभिराहूतवन्तः ।
तस्मात्कारणात्प्रातरनुवाके गायत्रीत्रिष्टुब्जगत्याख्यानि मुख्यानि
च्छन्दांसि चतुर्भिरुत्तरैरुष्णिगनुष्टुब्बृहतीपङ्क्त्याख्यैश्छन्दोभिः सहितानि
प्रैषमनुवक्तव्यानि । तांश्छन्दोविशेषयुक्ता ऋच ऐतरेयब्राह्मणेऽवगन्तव्यः।
तैत्तिरीयब्राह्मणम् (१.५.९) २५३
अथ वहिष्पवमानाख्यस्य स्तोत्रस्य प्रथमामृचं विधत्ते-
तमे॑तयोप॒समेत्योपा॑सीदन् । उपा॑स्मै गायत नर॒ इति॑ ।
तस्मा॑दे॒तया॑ बहिष्पवमा॒न उप॑सद्यः (७), इति ।
ऐच्छन्ननय ँ स्तिष्ठन्ते॒ऽनूच्या॑नू॒च्यं स्रुवेणा॑घा॒रमा॒घा॒र्य रात्रिया॑ ए॒व
तद्दे॒वा अवे॑र्ति पा॒प्मानं॑ मृ॒त्युम॑पजघ्निरे मि॒त्रावरु॑णौ॒ नवे॑ च ।
[जुहुवामेत ँह देवाथों जु॒होत्येतमेव तद्य॑जमान॒स्तैऽभिनीर्य॑ दे॒वा
य॑जमानो॑ देवा॑ दे॒वा य॑जमानो॒ य॑जमानःप्राच॑रन्प्रच॑र॒दाल॑भन्तालभेत॒
मृत्युम॑पजघ्निरे मि॒त्रावरु॑णौ॒ भ्रातृ॑व्यान् (१)]।
इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके पञ्चमाध्याये
नवमोऽनुवाकः ॥ ९ ॥
देवास्तमिन्द्रमुपास्मा इत्येतयर्चा समीपे प्राप्योपाविशन् ।
तस्मादेतयर्चा वहिष्पवमानाख्यः स्तोत्रविशेषः सामगैरारब्धव्यः ।
अत मीमांसा । नवमाध्यायस्य प्रथमपादे चिन्तितम्-
मन्द्रादिकमपूर्वाय परायावान्तराय वा ।
फलादाद्यो नो समं तल्लक्षणा तु विशिष्यते ॥ (इति) ।
ज्योतिष्टोमे श्रूयते-“यावत्या वाचा कामयीत तावत्या
दीक्षणीयायामनुब्रूयान्मन्द्र प्रायणीयायां मन्द्रतरमातिथ्यायामुपाँ
शूपसत्सूच्चैरग्नीषोमीये” इति । अत्र ध्वनेरुच्चावचभावः ।
परमापूर्वप्रयुक्तस्तस्य फलवत्वादिति चेत् । मैवम् । अवान्तरापूर्वेऽपि
समानं फलवत्वं परमापूर्वजननद्वारेण फलसंबन्धात् समाने च फलवत्वे
संनिकृष्टलक्षणया निर्णयः । तथा हि-दीक्षणीयादिशब्दा
अङ्गकर्मवाचिनः । न च मन्द्रत्वादिधर्माणां कर्मस्वरूपं प्रयोजकम् ।
अपूर्वप्रयुक्तेर्निर्णीतत्वात् । ततो दीक्षणीयादिशब्दैरपूर्व लक्षणीयम् । तत्र
स्ववाक्यगतमवान्तरापूर्वं संनिकृष्टं तद्द्वारकं परमापूर्वं विप्रकृष्टम् ।
तस्मादवान्तरापूर्वप्रयुक्ता एते धर्माः । अश्वमेधगतत्रैधातवी-
यायाम्यूहाभावःफलम् । तथा ह्याश्वमेधे समाम्नायते-“त्रैधातवीया
दीक्षणीया भवति” इति । यदि परमापूर्वप्रयुक्तं स्यात्ततस्तस्योपकार-
विशेषनिबन्धन इति तत्कार्यापन्नायां त्रैधातवीयायां भविष्यति ।
अथाऽग्नावैष्णवापूर्वप्रयुक्तस्तदा त्रैधातवीयायां तदपूर्वं न भवति
किंत्वन्यदेवेति नास्त्यूहः ।
दशमाध्यायस्य सप्तमपादे चिन्तितम्-
२५४ (१.५.९) तैत्तिरीयब्राह्मणम्
प्रायणीयातिथ्ययोः किं विकल्पः शंय्विडान्तयोः ।
नियमो वा विकल्पः स्यान्निषेधपरिसंख्यया ॥
शंय्विडान्तत्वावाक्याच्च नियमो विधिमात्रतः ।
नित्यानुवादो नञ्वाक्यं दोषबाहुल्यमन्यथा ॥ [इति] ।
ज्योतिष्टोमे श्रूयते-‘शंय्वन्ता प्रायणीया संतिष्ठते न पत्नीः
संयाजयन्ति’ इति । इडान्ता आतिथ्याः संतिष्ठन्ते नानुयाजान्यजति”
इति । प्रकृतौ यदा होता “तच्छंयोः” ति मन्त्रं जपति तदानीमध्वर्युः
परिधीनग्नौ प्रक्षिपति । तदाह कल्पसूत्रकारः-“अनूच्यमाने शंयुवाक
आहवनीये परिधीन्प्रहरति” इति । ततो हविःशेषेषु भक्षितेषु पत्नीः
संयाजयन्तीति क्रमः । तथा प्रधानयागानारिष्टहोम-
प्राशित्रादिभक्षणेडाभक्षणानूयाजसूक्तवाकशंयुवाका इत्यधस्तनः
प्रयोगक्रमः । पत्नीसंयाजानामुपरि फलीकरणहोमप्रायश्चित्त-
होमकपालोद्वासनानैरिष्टः समाप्यते । एवं स्थिते विकृतिरूपायाः
प्रायणीयेष्टेः । शंयुवाकान्तत्वमातिथ्येष्टेरिडाभक्षणान्तत्वं च विकल्पितं
स्यात् । कुतः । निषेधवाक्यविधिवाक्याभ्यां प्रकरणद्वयप्रतीतेः । तथा
हि- शंय्वन्तत्वेडान्तत्वविधिनेवोपरितनपत्नीसंयाजानूयाजनिषेधे
पुनर्निषेध वचनं परिसंख्यार्थम् । पत्नीसंयाजानूयाजव्यतिरिक्ते नास्ति
निषेध इति परिसंख्या । तेन प्रकृतिवद्यथाप्राप्तं
कपालोद्वासनान्तत्वमनयोरिष्ट्योः प्रतीयते । विधिवाक्येन च
शंय्विडान्तत्वम् । तेन व्रीहियववद्विकल्प इति प्राप्ते ब्रूमः ।
विधिमात्रस्यात्राप्रवृत्तेः शंय्वन्तत्वमिडान्तत्वं च तयोः प्रतिनियतम् ।
पत्नीसंयाजाद्यभावस्त्वर्थसिद्धः । ततो नञ्पदयुक्तमुपरितनं प्रतिषेधवाक्यं
नित्यानुवादः । पत्नीसंयाजाद्यकरणाल्लाघवं भवतीति । अन्यथा
बहवोदोषाः प्रसज्येरन् । विकल्पे तावदष्टौ दोषाः प्रसिद्धाः । परिसंख्यायां
च त्रयो दोषाः । विधिपरिसंख्याभ्यां वाक्यभेदोपसंहारोऽपरो दोषः । ततः
शंय्विडान्तत्वं नियतम् ।
. तत्रैव शंग्विडे पूर्वे परे वा स्वेच्छयाऽथवा ।
परे एवाथवा पूर्वे एवाऽऽद्यो द्विविधश्रुतेः ॥
निषेधस्यार्थवत्त्वाय परे एवानुवादगीः ।
पूर्वैकवाक्यतां याति पूर्वे एवाविरोधतः ॥ [इति] ।
प्रायणीयातिथ्ययोरेवान्तत्वेन निर्णीतं शंग्विडे पुनः संदिह्येते ।
प्रकृतौ द्विविधे शंग्विडे पत्नीसंयाजेभ्यः पुरस्तादुपरिष्टाच्च विहिते । ते
चात्र चोदकप्राप्ते । तत्र द्विविधश्रुतेरर्थे चोदकेनातिदिष्टे सति
विशेषनियामकाभावादिच्छया स्वीकार्ये इत्येकः पक्षः । यदि प्रायणीया
तैत्तिरीयब्राह्मणम् (१.५.१०) २५५
पूर्वंशंय्वन्ताऽऽतिथ्या च पूर्वेडान्ता स्यात्तदानीमन्तत्वविधिनेव ताभ्यां
शंय्विडाभ्यामूर्ध्वम्प्राप्तानां पत्नीसंयाजानामनूयाजानां च
वारितत्वान्निषेधो व्यर्थः स्यात् । परयोःशंय्विडयोरन्तत्वेन ताभ्यां
शंय्विडाभ्यां पूर्वप्राप्तानां तेषामनिवारणात्तन्निवारणाय सार्थको निषेधः
तस्मात्परं एव शंय्विडे ग्राह्ये इति द्वितीयः पक्षः । निषेधोऽयं नित्यानुवाद
इत्युक्तम् । स च पूर्वयोः शंय्विडयोरन्तत्वेऽ प्येकवाक्यतामापाद्यार्थ-
वादत्वेनोपपद्यते । असंजातविरोधिन्यौ हि पूर्वे शंय्विडे । तस्मात्ते एव
ग्राह्ये इति राद्धान्तः । तत्रैवान्यच्चिन्तितम्-
उपसत्सु निषिद्धेभ्यः शिष्टं सर्वं किमाचरेत् ।
यावदुक्तमुताऽऽद्योऽस्तु चोदकस्यानिवारणात् ।।
सौवाघारे पुनः श्रुत्या शिष्टस्य परिसंख्यया।
अपूर्वार्थत्वतो वाऽन्त्योऽनुवादोऽत्र निषेधगीः ।। [इति] ।
ज्योतिष्टोमे विहितासूपत्सु पठ्यते-“अपयाजास्ता अननूयाजाः”
इति । तत्र निषिद्धान्प्रयाजानूयाजान्वर्जयित्वाऽवशिष्टं चोदकप्राप्तमङ्गजातं
सर्वमाचरणीयमिति प्राप्ते ब्रूमः । प्रकृतौ विहित एव सौवाघारः पुनरिह
विधीयते । स च चोदकप्राप्तमन्यत्सर्वमङ्गजातं परिसंचष्टे । अन्यथा
पुनर्विधानवैयर्थ्यात् । ननु पुनर्विधानं प्रतिप्रसवार्थम् । अत एव श्रुतिस्तत्र
सौवाधारमभावशङ्कानिराकरणपूर्वकं विदधाति, “नान्यामाहुतिं
पुरस्ताज्जुहुयाद्यदन्यामाहुतिं पुरस्ताज्जुहुयादन्यन्मुखं कुर्यात्स्रुवेणाऽऽघार-
माघारयति” इति । अयमर्थः-सौवाघारः सर्वत्र यज्ञस्य मुखम् । तथा
सति यदि कश्चिन्मन्द उपसत्प्रयोगादौ सौवाघारमहुत्वा तस्य स्थाने
कांचिदन्यामाहुतिं जुहुयात्तदा मुखव्यत्यासेन प्रत्यवायं प्राप्नुयात् ।
तस्मात्सौवाधार आदौ कर्तव्य इति । नैतद्युक्तम् । चोदक-
प्राप्तस्याऽऽघारस्य कारणमन्तरेणाकस्माद भावशङ्काया अयुक्तत्वात् ।
तस्मात्परिसंख्यार्थ एव पुनर्विधिः । आहुत्यन्तरनिन्दा तु
तच्छेषभूतोऽर्थवादः । यदि परिसंख्या त्रिदोषेत्युच्यते तर्हि
गृहमेधीयवदपूर्व कर्मस्तु । प्रयाजादिनिषेधो नित्यानुवादः । सर्वथा
यावदुक्तमत्रानुष्ठेयम् ।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे
कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे
पञ्चमप्रपाठके नवमोऽनुवाकः ॥ ९ ॥
अथ पञ्चमप्रपाठके दशमोऽनुवाकः ।
नवमे दीक्षणीयादीनि बहिष्पवमानोपक्रमान्तानि सोमाङ्गान्युक्तानि।
२५६ (१.५.१०) तैत्तिरीयब्राह्मणम्
दशमे त्रिवृदादिस्तोमस्वरूपाणि सोमाङ्गान्यनूच्यन्ते । तत्राऽऽदौ चात्वालखननं
सप्रमाणं विधत्ते-
स स॑मु॒द्र उत्त॑रतः प्राज्वल॒द्भूम्य॑न्तेन॑ । ए॒ष वाव स स॑मु॒द्रः ।
यच्चा॑त्वा॒लः। ए॒ष उ॑ वे॒व स भूम्य॑न्तः । यद्वेद्य॑न्तः ।
तदे॑तत्त्रिश॒लं त्रि॑पूरु॒षम् । तस्मा॑तं॒ त्रि॑वित॒स्तं ख॑नन्ति,
इति ।
योऽयं प्रसिद्धो लवणसमुद्रः सोऽयमुत्तरस्यां दिशि भूमेरन्तिमभागेन
सह कदाचित्प्रज्वलितोऽभूत् । सोऽयमत्र देवयजनभूमौ संपाद्यते । योऽयं
चात्वालारख्यो गर्तोऽस्ति स एष एवात्र समुद्रस्थानीयः । योऽयं
वेदेरवसानदेशःसोऽयं भूमेरवसानभागः । "एतावती वै पृथिवी यावती
वेदिः" इति भूमित्वं वेदेराम्नातम् । यत्समुद्रस्य पुरुषत्रयपरिमाणमूर्ध्वं
प्रज्वलनं तदेतदत्र चात्वाले त्रिशलं शललीमृगसंबन्धिरोमत्रयपरिमितं
भवति । तस्य च रोम्णो वितस्तिः । परिमाणं तद्रोमत्रमत्र
पुरुषत्रयरूपेणोपचर्यते । तस्मात्तं चात्वालं वितस्तित्रयपरिमितं खनेयुः ।
तमेतं चात्वालमादित्य रूपेण प्रशंसति-
स सु॑वर्णरज॒ताभ्यां॑ कु॒शीभ्यां॒ परि॑गृहीत आसीत् । तं
यद॒स्या अध्यज॑नयन् । तस्मा॑दादि॒त्यः (१) । अथ॑
यत्सु॑वर्णरज॒ताभ्यां॑ कु॒शीभ्यां॒ परि॑गृहीत् आसी॑त् । साऽस्य॑
कौशि॒कता, इति ।
स चात्वालः परितः सुवर्णरजतनिर्मिताभ्यां शकलाभ्यां
गृहीतोऽभवत् । स्तोत्रं कुर्वाणाः सामगाः स्तोत्रावृत्तिगणनार्थं यां
काष्ठशलाकां प्रादेशमात्रपरिमितं भूमौ स्थापयन्ति सेयं कुशीत्युच्यते ।
तादृशं सुवर्णरजतनिर्मितं कुशीद्वयं चात्वालस्यान्तिके स्थापयित्वा तस्य
चात्वालस्याहोरात्रनिष्पादकेनाऽऽदित्येन साम्यं संपावितवन्तः ।
यस्मादस्या भूमेरध्युपरि तं चात्वालमजनयंस्तस्मादयमदितेः
संबन्धित्वाद्रादित्य इत्युच्यते । कुशीद्वयपरिगृहीतत्वाच्च कौशिक इत्यपि
नाम ।
इत्थं चात्वालं विधाय त्रिवृदादिस्तोमान्विधातुमादौ त्रिवृत्स्तोमं
प्रशंसति-
तैत्तिरीयब्राह्मणम् (१.५.१०) २५७
तं त्रि॒वृता॑ऽभि॒प्रास्तु॑वत । तं त्रि॒वृता॑ऽऽद॑दत । तं
त्रि॒वृता॑ऽऽहर॑न् । याव॑ती त्रि॒वृतो॒ मात्रा॑, इति ।
त्रिवृता तिस्रो वृत्तस्तृचरूपावयवा यस्य स्तोमस्य सोऽयं
स्तोमस्त्रिवृत् । तेन स्तोमेन देवास्तमादित्यं स्तुत्वा तं स्वाधीनत्वेन
समादाय स्वापेक्षिते स्थाने समाहरन् । तस्य त्रिवृत्स्तोमस्य संबन्धिनी
मीयतेऽवगम्यत इति मात्रा धनादिसंपद्यावती विद्यते तावती देवैर्लब्धेति
शेषः ।
एवमन्यानपि त्रीन्स्तोमान्प्रशंसति-
तं 'पञ्चद॒शेना॑भि॒प्रास्तु॑वत । तं 'पञ्चद॒शेना॑ऽऽद॑दत । तं
प॑ञ्चद॒शेना॑ऽऽहर॑न् । याव॑ती पञ्चद॒शस्य॒ मात्रा॑ (२) । त ँ
स॑प्तद॒शेना॑भि॒प्रास्तु॑वत । त ँ स॑प्तद॒शेना॑ऽऽ हर॑न् । याव॑ती
स॒प्तद॒शस्य॒ मात्रा॑ । तस्य॑ सप्तद॒शेन॑ ह्रियमा॑णस्य॒ तेजो॒
हरो॑ऽपतत् । तमे॑कवि॒ ँ शेना॑भि॒प्रास्तु॑वत । तमे॑कवि॒ ँ
शेना॑ऽऽद॑दत । तमे॑कवि॒ ँ शे ना॑ऽऽहर॑न् । याव॑त्येकवि॒ ँ
शस्य॒ मात्रा॑, इति ।
एकस्मिंस्तृचे वर्तमानास्तिस्र ऋचो ब्राह्मणोक्तेनाऽऽवृत्तिविशेषेण
पञ्चदशसंख्याका यस्मिन्स्तोमे संपाद्यन्ते सोऽयं पञ्चदशः । एवं
सप्तदशैकविंशावपि । तत्र सप्तदशस्तोमेन स्तुत्वा यदाऽऽदित्य आह्रियते
तदानीं तस्य तेजः कियदप्यधोऽपतत् । यद्यपि हरःशब्देनापि तेज
एवाभिधीयते तथाऽपि पौनरुक्त्यपरिहाराय लेशो लक्ष्यते । अतः
कियदपीति व्याख्यातम् । अन्यत्पूर्ववद्व्याख्येयम् ।
ते यत्त्रि॒वृता॑ स्तु॒वतै॑ (३) । त्रि॒वृ॑तैव तद्यज॑मान॒मार्द॑दते ।
तं त्रि॒वृतै॑व॒ हर॑न्ति । याव॑ती त्रि॒वृतो॒ मात्रा॑ । अ॒ग्निर्वै
त्रि॒वृत् । याव॑द्वा अ॒ग्नेर्दह॑तो॒ धूम उ॒देत्यानु॒व्येति॑ । ताव॑ती
त्रि॒वृतो॒ मात्रा॑ । अ॒ग्नेरे॒वैनं॑ तत् । मात्रा॒ 'सायु॑ज्य॒ ँ सलो॑कतां
ग॑मयन्ति, इति ।
त उद्गातारो यदि सोमयागे त्रिवृता स्तोमेन स्तुवीरंस्तदानीं
त्रिवृत्स्तोम सामर्थ्येनैव लोकविशेषे हरन्ति । तत्र त्रिवृत्स्तोमदेवताया
२५८ (१.५.१०) तैत्तिरीयब्राह्मणम्
यावती भोग्यवस्तुसंपत्तिस्तावतीमयं यजमानः प्राप्नोति । अयमेवार्थः
संग्रहेण पुनरपि स्पष्टी क्रियते । अग्निरेव त्रिवृत्स्तोमाभिमानी देवः ।
तस्य चाग्नेररण्यादिकं दहतो दहनवेलायां धूम उद्गत्यानुक्रमेण यावन्तं
देशं विविधं व्याप्नोति तावती त्रिवृत्संबन्धिनी भोगभूमिः । तस्मादुद्गातार
एनं यजमानमग्नेर्मात्रामग्निदेवतासंबन्धिनीं भोगवस्तुसंपत्तिं प्रापयन्ति
तथैवाग्नेः सायुज्यं सहावस्थानं प्रापयन्ति । तथैवाग्नेः संबन्धिनीं
सलोकतामेकलोकावस्थानं प्रापयन्ति । अग्निसमानभोग्यवस्तुप्राप्तिरुत्तमं
फलम् अग्निसमीपेऽवस्थानं मध्यमम् । अग्निलोकेऽवस्थानमधमम् ।
एतच्चानुष्ठानश्रद्धातारतम्येन व्यवस्थापनीयम् ।
इत्थं त्रिवृत्स्तोमं विधायथ त्रीनूत्तरान्स्तोमान्विधत्ते -
अथ॒ यत्पं॑ञ्चद॒शेन॑ स्तु॒वतै॑ । प॒ञ्च॒द॒शेनै॒व तद्यज॑मान॒मार्द॑दते
(४) । तं प॑ञ्चद॒शेनै॒व हर॑न्ति । याव॑ती पञ्चद॒शस्य॑
मात्रा॑ । च॒न्द्रमा॒ वै पं॑ञ्चद॒शः । ए॒ष हि
पं॑ञ्चद॒श्याम॑पक्षी॒यतै॑ । प॒ञ्च॒द॒श्यामा॑पूर्य॒तै । च॒न्द्रम॑स
ए॒वैनं॑ तत् । मात्रा॒ ँसायु॑ज्य॒ग्ँ स॒लोक॑तां गमयन्ति । अथ॒
यत्स॑प्तद॒शेन॑ स्तु॒वतै॑ । स॒प्त॒द॒शेनै॒व तद्यज॑मान॒मार्द॑दते । त ँ
स॑प्तद॒शेनै॒व हर॑न्ति (५) । याव॑ती सप्तद॒शस्य॑ मात्रा॑ ।
प्र॒जाप॑ति॒र्वै स॑प्तद॒शः । प्र॒जाप॑तेरे॒वैनं॑ तत् । मात्रा॒ ँसायु॑ज्य ँ
स॒लोक॑तां गमयन्ति । अथ॒ यदैकवि ँ शेन॑ स्तु॒वतै॑ ।
एक॒वि ँ शेनै॒व तद्यज॑मान॒मार्द॑दते । तमैकवि ँ शेनै॒व
हर॑न्ति । याव॑त्येकवि ँशस्य॑ मात्रा॑ । अ॒सौ वा आ॑दि॒त्य
एक॑वि ँशः॑ । आ॒दि॒त्यस्यै॒वैनं॑ तत् (६) । मात्रा॒ ँसायु॑ज्य ँ
स॒लोक॑तां गमयन्ति, इति ।
यस्मादेष चन्द्रमाः कृष्णपक्षस्य पञ्चदश्याममावास्यायामपक्षीयते
शुक्लपक्षस्य पञ्चदश्यां पौर्णमास्यामापूर्यते । चन्द्रमाः
पञ्चदशस्तोमाभिमानी देवः । “प्रजापतेराश्रावय” इत्यादिसप्त-
दशाक्षरात्मकत्वात्सप्तदशस्तोमस्वामित्वम् । अन्यत्र “द्वादश मासाः
पञ्चर्तवस्त्रय इमे लोका असावादित्य एकविंशः”
तैत्तिरीयब्राह्मणम् (१.५.१०) २५९
इत्येकविंशस्तोमपूरकत्वेनाऽऽदित्यस्याऽऽम्नातत्वादादित्य एकविंशस्तो-
मस्वामी। अन्यत्सर्वं पूर्ववद्व्याख्येयम्।
पुरा याभ्यां कुशीभ्यां चात्वालो देवैः परिगृहीतस्तयोः
कुश्योरपनयनं दर्शयति-
ते कु॒श्यौ॑। व्य॑घ्नन्। ते अ॑होरा॒त्रे अ॑भवताम्। अह॑रेव
सु॒वर्ण॑ऽभवत्। र॒ज॒ता रात्रि॑:। स यदा॑दि॒त्य उ॒देति॑।
ए॒तामे॒व तत्सु॒वर्णां कुशी॑मनु॒समे॑ति। अथ॒ यद॑स्त॒मेति॑।
ए॒तामे॒व तद्र॑ज॒तां कुशी॑मनु॒सं वि॑शति, इति।
अथ ते देवाश्चात्वालसमीपे पूर्वं स्थापिते कुश्यौ वियुज्य हतवन्तः।
परित्यक्तवन्त इत्यर्थः। ते च त्यक्ते कुश्यावहोरात्ररूपे अभूताम्।
तत्सुवर्णकुश्या अह्नो रूपत्वादयमादित्य उद्यंस्तां कुशीमनु
सम्यक्प्रवर्तते। रजतकुश्या रात्रिरूपत्वादादित्योऽस्तं गच्छंस्तां
कुशीमनुप्रविशति। तदेवमनया पूर्वोक्त्या च कुशीस्तुत्या स्तुतिकाले
स्तोत्रीयाणां गणनाय कुश्यः स्थापनीयाः पश्चादपनेया इति
विधिरुन्नीयते।
अथ चात्वालप्रसङ्गाद बुद्धिस्थे प्रदरे कंचिन्निषेधं पुरुषार्थं
दर्शयति-
प्र॒ह्लादो॑ ह॒ वै का॑याध॒वः। वि॒रोच॑न॒ ँस्वं पु॒त्रमुदा॑स्यत्।
स प्र॑द॒रो॑ऽभवत्। तस्मा॑त्प्रद॒रादु॑द॒कं नाऽऽचा॑मेत् (७),
इति।
आदित्यः 'पञ्चदशस्य मात्रां स्तुवते॑ पञ्चदशेनैव तद्यज॑मान॒माद॑दते
स॒प्तद॒शेनै॒व हर॒न्त्यादि॒त्यस्यै॒वैनं॑ तद्विंशति चत्वारिं च।
इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके
पञ्चमाध्याये दशमोऽनुवाकः ॥ १० ॥
कयाधुसंज्ञायाः स्त्रियः पुत्रः प्रह्लादः स्वकीयं पुत्रं विरोचनं केनापि
निमित्तेन कुपितो हस्तेनोद्धृत्य क्वचिद्भूमावपातयत्। स भूमिप्रदेशः
प्रदरश्छिद्ररूपोऽभूत्। तस्य प्रदरस्याऽऽसुरत्वात्तत्र प्रविष्टमुदकं पुरुषो
नाऽऽचामेत्। तथा चाऽऽपस्तम्बः स्मरति- "न वर्षधारास्वाचामेत्तथा न
प्रदरोदके" इति।
२६० (१.५.११) तैत्तिरीयब्राह्मणम्
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे
कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे
पञ्चमप्रपाठके दशमोऽनुवाकः ॥ १० ॥
अथ पञ्चमप्रपाठक एकादशोऽनुवाकः ।
दशमे त्रिवृदादिस्तोमा विहिताः । एकादशे सवनीयपशुपुरोडाशा
उच्यन्ते । यदुक्तं संहितायाः षष्ठे काण्डे-“तस्मादनुसवनं पुरोडाशा
निरूप्यन्ते” इति । ते पुरोडाशा अत्र प्रपञ्च्यन्ते । तत्राऽऽदौ तावज्ज्योतिष्टोमे
स्तोमानांमियत्तां दर्शयति-
ये वै च॒त्वारः॒ स्तोमाः॑ । कृ॒तं तत् । अथ॒ ये पञ्च॑ । क॒लिः
सः । तस्मा॑च्चतुष्टोमः । तच्चतु॑ष्टोमस्य चतुष्टो॒मत्वम्, इति ।
पूर्वोक्तास्त्रिवृत्पञ्चदशः सप्तदश एकविंश इत्येवंरूपाः स्तोमा ये
सन्ति ते कृतयुगस्य स्वरूपभूताः । कृतयुगे धर्मस्य चत्वारः पादा
विद्यन्ते । ये त्वन्येन केनचित्स्तोमेन सह पञ्च स्तोमास्तेषां
कलियुगरूपत्वम् । तत्र तन्मध्यगतानां चतुर्णां कृतयुगार्थत्वेन विभागे
सति क्लेरसाधारणस्तोम एक एव परिशिष्यते । धर्मश्च कलियुग
एकपादेव । ततः कलिस्वरूपत्वेन पञ्चस्तोमपक्षस्य निन्दितत्वा-
द्यतुष्टोमपक्षस्य एक कृतयुगस्वरूपत्वेन प्रशस्तत्वादयं सोमयागश्चतुष्टोम
एव कर्तव्यः । चत्वारः स्तोमा अत्रेति व्युत्पत्या सोमयागस्य चतुष्टोमत्वं
संपन्नम् ।
अथ प्रश्नोत्तराभ्यां स्तोमानां ज्योतिष्ट्वं संपादयति-
तदा॑हुः । क॒त॒मानि॒ तानि॒ ज्योतीं॑षि । य ए॒तस्य॒ स्तोमा॑
इति॑ । त्रि॒वृत्प॑ञ्चद॒शः स॑प्तद॒श एक॑वि॒शः (१) । ए॒तानि॒
वाव तानि ज्योती॑षि । य ए॒तस्य॒ स्तोमाः॑, इति ।
ज्योतिष्टोमनाम्येत्तस्मिन्यागे यानि ज्योतींषि स्तोमाश्च प्रतीयन्ते ।
सामानाधिकरण्यात्तु स्तोमानामेव ज्योतिष्ट्वमवभासते । तत्र
केचित्स्तोमाः पूर्वमुदाहृताः । इतः परं य एतस्य स्तोमा ज्योतिष्ट्वार्हास्तेषु
च स्तोमेषु ज्योतींषि कानीत्येवं जिज्ञासवः पप्रच्छुः । ये
पूर्वमुक्तास्त्रिवृदाद्याश्चत्वारः स्तोमास्त एवैतस्य यागस्य ज्योतींषि। एतैर्हि
स्तोमैर्निष्पाद्यत्वेन ज्योतिर्भिरिव यागोऽवभास्यते । अत एव सप्तमकाण्डे
समाम्नातम्- “तस्मात्तज्ज्योतिरुच्यते द्वौ स्तोमौ प्रातः सवनं वहतः”
इत्यादि ।