सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

Taittiriya Brahmana with Sayana Bhashya Part 1

महर्षि तित्तिरि / सायणभाष्य द्वारा

स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)

DevanagariSanskritpublished345 पृष्ठ

पृष्ठ 276, कुल 345 में से

संदर्भ में पढ़ें
पृष्ठ 276

तैत्तिरीयब्राह्मणम् (१.५.९) २४७
भयंकरः । अस्तृतः कनाप्यहिंसितः । ह इष्टक ईदृगिन्द्ररूपा त्वमसि ।
ईदृगिन्द्रस्त्वामुपदधात्विति सर्वत्र शेषोऽध्याहर्तव्यः ।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे
कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे
पञ्चमप्रपाठके- ऽष्टमोऽनुवाकः ॥ ८ ॥
अथ पञ्चमप्रपाठके नवमोऽनुवाकः ।
अष्टमेऽथर्वशिरोभिधानानामिष्टकानां मन्त्रा उक्ताः । नवमे
सोमशेषभूता इष्टयो विधीयन्ते । तत्राऽऽदौ शब्दनिर्वचनेनेष्टीः प्रशंसति-
दे॒वा॒सु॒राः संयं॑त्ता आसन् । स प्र॒जाप॑तिरिन्द्रं॑ज्ये॒ष्ठं
पु॒त्रम॒पर्न्‍य॑धत्त । नेदैन॒मसु॑रा॒ बली॑या ॅ सोऽह॒न्निति॑ ।
प्र॒ह्लादो॑ ह॒ वै का॑याध॒वः । वि॒रोच॑नं॒ स्वं पु॒त्रम॒पर्न्‍य॑धत्त ।
नेदैनं॑ दे॒वा अह॑न्निति॑ । ते दे॒वाः
प्र॒जाप॑तिमुप॒समे॑त्योचुः । नारा॑जक॑स्य यु॒द्धम॑स्ति ।
इन्द्र॑म॒न्विच्छा॒मेति॑ । तं य॒ज्ञक्रतु॑भिर॒न्वैच्छन् (१) । तं
य॒ज्ञक्रतु॑भिर्नान्व॑विन्दन् । तमिष्टि॑भिर॒न्वैच्छन् ।
तमि॒ष्टि॑भिरन्व॑विन्दन् । तदिष्टी॑नामिष्टि॒त्वम् । एष्ट॑यो ह॒
वै नाम॑ । ता इष्ट॑य इत्याच॑क्षते परोक्षे॑ण । प॒रोक्ष॑प्रिया इव॒
हि दे॒वाः, इति ।
देवाश्चासुराश्च यदा युद्धार्थमुद्यतास्तदानीं प्रजापतिः स्वकीयं ज्येष्ठं
पुत्रमिन्द्रं युद्धभूमेरपनीय क्वचिद्गूढे स्थाने निहितवान् ।
तस्याप्ययमभिप्रायः । बलीयांसोऽसुरा एनं दुर्बलमिन्द्रं नेदहन्नैव
घ्नन्त्विति । तथा कयाधुसंज्ञिताया हिरण्यकशिपुभार्यायाः पुत्रः प्रह्लादः
स्वकीयं पुत्रं विरोचनमसुरसैन्यस्वामिनं युद्धभूमेरपनीय
क्वचिनिहितवान् । तस्यायमभिप्रायः । एनं विरोचनं देवाः सर्वथा मा
घ्नन्त्विति । एवं च राजद्वयरहितयोः सेनयोरवस्थितयोः सत्योर्देवाः
प्रजापतिसमीपं प्राप्यैवमूचुः । राजरहितस्य सैन्यस्य न क्वचिदपि
युद्धमस्ति । युयुत्सवः सर्वेऽपि राजानमन्तरेण पलायिष्यन्ते । तस्मादिन्द्रं
राजानं तत्र तत्रान्विच्छाम इत्युक्त्वा प्रजापतिनाऽनुज्ञातास्तमिन्द्रं लब्धुं
ज्योतिष्टोमोक्थ्यादिरूपान्क्रतूननुष्ठितवन्तः । अङ्गभूतेष्टिरहितैस्तैर्महाक्रतु-