सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

Taittiriya Brahmana with Sayana Bhashya Part 1

महर्षि तित्तिरि / सायणभाष्य द्वारा

स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)

DevanagariSanskritpublished345 पृष्ठ

पृष्ठ 279, कुल 345 में से

संदर्भ में पढ़ें
पृष्ठ 279

२५० (१.५.९) तैत्तिरीयब्राह्मणम्
असुराः सर्वत्र स्वयं प्रयोगमजानानां देवसमीपे
कंचिद्गूढपुरुषमवस्थाप्य ततस्तेन ज्ञात्वा स्वयमप्यनुतिष्ठन्ति । एवं
वृत्तान्तं विज्ञाय देवाः परस्परमिदमूचुः । यदि वयमुच्चैर्ध्वनिना
यज्ञमनुतिष्ठामस्तर्ह्यस्माननु सर्वं प्रयोगं पापिष्ठा असुरा जानन्ति ।
अतस्तज्ज्ञाननिवारणायोपांशु यथा भवति तथोपसत्कर्मानुष्ठानं
निष्पादयामः । तथा सति पापिष्ठा असुरा अस्माननुप्रयोगं न ज्ञास्यन्तीत्येवं
निश्चित्योच्चैर्ध्वनिं परित्यज्योपांश्वेवोपसदमन्वतिष्ठन् । तत्प्रकारस्त्वे-
तादृशः । चोदकप्राप्ताः पञ्चदश सामिधेनीःपरित्यज्य तिस्र एव
सामिधेन्यस्तैरनूक्तास्तथा स्रुच्याऽऽघारं परित्यज्य
स्रौवाघारमवानुष्ठितवन्तः । तदूर्ध्वं तिस्रः प्रधानाहुतीरग्निं सोमं विष्णुं
चोद्दिश्य हूयमानाः पराचीर्हुतवन्तः । प्रकृतौ तु प्रतिप्रधानं पृथगेव वेद्या
उत्तरतो दक्षिणदेशमागत्य होमःक्रियते । इह तु सकृदेवाऽऽगत्य होमत्रयं
क्रियते ।
तदिदं पुनरावृत्तिराहित्यं पराचीशब्देन विवक्षितम् । तदेतदाहुतित्रयं
हुत्वा चतुर्थीमुपसदाख्यां प्रधानाहुतिं “या ते अग्नेऽयाशया” इति
संहितायामाम्नातमन्त्रानुच्चार्य स्रुवेण हुतवन्तः । तस्य मन्त्रस्योत्तरभाग उग्रं
वच इत्यादिवाक्यमदित । तत्र क्षुत्पिपासे एवोग्रं वच उच्यते । क्षुधिताः
स्मः पिपासिताः स्मो नास्माकमन्नपाने विद्येते इत्येतद्वाक्यं घोरं कृपालवः
श्रोतुं न सहन्ते । तदेतदुग्रत्वं यदेतद्ब्रह्मवधादि रूपमुपपातकं यच्च
वीरहत्यादिरूपं महापातकं तदेतत्त्वेषं वच इत्यनेनाभिधीयते ।
त्वेषशब्देन दीप्तिवाचिना चित्तक्लेशरूपा ज्वालोपचर्यते । उपपातकं
महापातकं च निष्पन्नमिति श्रुतवतश्चित्ते महान्क्लेशो भवति । क्षुत्पिपासे
महापातकोपपातके इत्येवं फलरूपेण तत्साधनरूपेण चावस्थितं चतुर्विधं
पाप्मानं देवा उपसद्धोमेन विनाशितवन्तः । अय देवैरनुष्ठितप्रकारः
सर्वोऽपि सूत्रकारेण संगृहीतः-“ध्रौवादग्रौ जुह्वां गृह्णाति चतुरुपभृति
घृतवतींशब्दे जुहूपभृतावदाय दक्षिणा सकृदभिक्रान्त उपा ँ
शुयाजवत्प्रचरत्यर्धेन जौहवस्याग्निं यजत्यर्धेन सोमंपौपभृतं जुह्वामानीय
विष्णुमिष्ट्वा प्रत्याक्रम्य या ते अग्नेऽयाशया तनूरितिस्रुवेणसदं जुहोति”
इति ।
तमिमं प्रकार विधत्ते-
तथो॑ ए॒वैतदै॑वंवि॒द्यज॑मानः । ति॒स्र ए॒व सा॑मि॒धेनी॒रनूच्य॑ ।
स्रु॒वेणा॑ऽऽघा॒रमा॒घार्य॑ (५) । ति॒स्रः प॒राची॒राहु॑तीर्हु॒त्वा ।
स्रु॒वेणोप॒सदं॑ जुहोति । उ॒ग्रं वचो॒ अपा॑वधीं त्वे॒षं वचो॑