सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

Taittiriya Brahmana with Sayana Bhashya Part 1

महर्षि तित्तिरि / सायणभाष्य द्वारा

स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)

DevanagariSanskritpublished345 पृष्ठ

पृष्ठ 275, कुल 345 में से

संदर्भ में पढ़ें
पृष्ठ 275

२४६ (१.५.८) तैत्तिरीयब्राह्मणम्
इन्द्र॒ वाजे॑षु नो अव । स॒हस्रं॑प्रधनेषु च (२) । उ॒ग्र
उ॒ग्राभि॑रू॒तिभि॑ः, इति ।
ह इन्द्र त्वमुग्रः प्रतिकूलनिवारणे तीव्रः । सन्वाजेष्वन्नेषु
सहस्रप्रधनेषु सहस्रसंख्याकेषु प्रकृष्टधनेषु च निमित्तभूतेषूग्राभीरूतिभिः
प्रतिबन्धनिवारणाय तीव्रै रक्षणैर्नोऽस्मानव रक्ष ।
अथाष्टमीमाह-
तमिन्द्रं॑ वाजयामसि । म॒हे वृ॒त्राय॒ हन्त॑वे । स वृषा॑
वृष॒भोऽभु॑वत्, इति ।
तथाविधगुणयुक्तमिन्द्रं वयं वाजयामसि गमयामो भक्त्या प्रेरयाम
इत्यर्थः । किमर्थम् । महे वृत्राय हन्तवे महान्तं पापरूपं वैरिणं हन्तुम् ।
स चेन्द्रो वृषाऽ स्माकं कामानां वर्षयिता सन्वृषभोऽभुवच्छ्रेष्ठो भवतु ।
अथ नवमीमाह-
इन्द्र॑ः स दाम॑ने कृ॒तः । ओजि॑ष्ठः स बले॑ हि॒तः । द्यु॒मनी
श्लो॒की स सौ॒म्यः, इति ।
स तादृश इन्द्रो दामने दामकृत्ये बन्धने कृतः पाशैर्वशीकृत
इत्यर्थः । स चेन्द्र ओजिष्ठोऽतिबलवान् । अत.एव बले हितो बलकृत्ये
वैरि॑विनाशनेऽस्माभिर्भक्त्या प्रेरितः । स चेन्द्रो द्युम्नी धनवान् । श्लोकी
कीर्तिमान् सौम्यो रमणीयः ।
अथ दशमीमाह-
गि॒रा वज्रो॒ न संभृ॑तः । सब॑लो॒ अन॑पच्युतः । व॒व॒क्षुरु॒ग्रो
अस्तृ॑तः (३), इति ।
बृह॒च्चास्तृ॑तः ।
इतिकृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणेप्रथमाष्टके
पञ्चमाध्यायेऽष्टमोऽनुवाकः ॥ ८ ॥
सोऽयमिन्द्रो गिरऽस्मदीयया स्तुतिरूपया वाचा वज्रो न वज्र इव
संभृतः सम्यगस्माभिर्वशीकृतः । सबलो बलेन सैन्येन युक्तः । अनपच्युतः
कदाचिदप्यपलायितः । ववक्षुर्युद्धभारं वोढुमिच्छुः । उग्रः शत्रूणां