सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

Taittiriya Brahmana with Sayana Bhashya Part 1

महर्षि तित्तिरि / सायणभाष्य द्वारा

स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)

DevanagariSanskritpublished345 पृष्ठ

पृष्ठ 273, कुल 345 में से

संदर्भ में पढ़ें
पृष्ठ 273

२४४ (१.५.८) तैत्तिरीयब्राह्मणम्
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे
कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे
पञ्चमप्रपाठके सप्तमोऽनुवाकः ॥ ७ ॥
अथ पञ्चमप्रपाठकेऽष्टमोऽनुवाकः ।
सप्तमे संतत्याख्येष्टकामन्त्रा उक्ताः । अष्टमेऽथर्वशिरोभिधाना
नामिष्टकानां दशानां मन्त्रा उच्यन्ते । ताश्चेष्टकाः “प्राच्या त्वा दिशा
सादयामि” इत्येतैर्मन्त्रैरुपधेयाभ्य इष्टकाभ्य ऊर्ध्वं पञ्चम्यां
चितावुपधेयाः । तत्र प्रथमामृचमाह-
इन्द्रो॑ द॒धीचो॒ अस्थ॑भिः । वृ॒त्राण्यप्र॑तिष्कुतः । ज॒घान॑
नव॒तीर्नव॑, इति ।
अथर्वणः पुत्रः कश्चिदर्षिर्दध्यङ्नामा । तस्य यान्यस्थीनि
वज्रसमानि तैरस्थिभिर्वृत्राणि निवारकाणि परबलानि जघान । कीदृश
इन्द्रः । अप्रतिष्कुतः प्रतिकूलो भूत्वा कुतोऽ यमित्येवं निराकर्ता वैरी
यस्यासौ प्रतिष्कुस्तथाविधशत्रुरहित्यादयमप्रतिष्कुतः । कियन्ति वृत्राणि
नवसंख्याका नवतीर्दशाधिकान्यष्टशतानीत्यर्थः । हे इष्टके
तथाविधेन्द्ररूपा त्वमसि तादृशमिन्द्रस्त्वामुपदधात्विति
वाऽध्याहर्तव्यम् ।
अथ द्वितीयामाह-
इ॒च्छन्नश्व॑स्य॒ यच्छिरः॑ । पर्व॑ते॒ष्वप॑श्रितम् .
तद्वि॑दच्छर्य॒णाव॑ति, इति ।
अग्नि कदाचिदश्वो भूत्वा देवेभ्योऽपक्रम्य पर्वतेषु निलीनः ।
तदानीमयमिन्द्रस्तस्याश्वस्य यच्छिरो द्रष्टुमिच्छन्पर्वतेषु चचार तदानीं
पर्वतेष्वाश्रितं तदश्वस्य शिरः शर्यणावन्नामके कस्मिंश्चित्पर्वते
विदल्लब्धवान् । हे इष्टके त्वं तथाविधाश्वशिरोरूपाऽसि ।
अथ तृतीयामाह-
अत्राह॑ गो॒रम॑न्वत । नाम॒ त्वष्टु॑रपी॒च्य॑म् । इ॒त्था च॒न्द्रम॑सो
गृ॒हे, इति ।
त्वष्टुः सूर्यस्य गोशब्दाभिधेयो रश्मिर्योऽस्ति तस्य नामात्राहास्मिन्ने
वाग्नौ विद्यत इत्येवं यजमाना अमन्वत अग्निं दीप्तं दृष्ट्वा सूर्यरश्मिरित्येव
भावितवन्त इत्यर्थः । कीदृशं रश्मिनाम । अपीच्यमप्यञ्चति पुनः