सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

Taittiriya Brahmana with Sayana Bhashya Part 1

महर्षि तित्तिरि / सायणभाष्य द्वारा

स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)

DevanagariSanskritpublished345 पृष्ठ

पृष्ठ 277, कुल 345 में से

संदर्भ में पढ़ें
पृष्ठ 277

भिरिन्द्रमलब्ध्वा तत्र कारणमङ्गेष्टिवैकल्यं निश्चित्य ता इष्टीरनुष्ठाय
ताभिरिष्टिभिरेनं लब्धवन्तः । एवं च सत्यन्वेषणसाधनत्वादिष्टय इत्येतासां
नाम । तथाऽपि मुख्यं नाम गोपयित्वा परोक्षेण तिरोहितेन नाम्ना
व्यवहर्तुमिष्टय इत्याचक्षते । अन्वेषणसाधनत्वमेष्टित्वम् ।
यजनसाधत्वमिष्टित्वम् । अतस्तेन व्यवहारे सति मुख्यं नाम परोक्षं
भवति । देवानां च परोक्षं नाम प्रियम् । अत एव लोकेऽपि देवदत्तादिनाम
परित्यज्याऽऽचार्या उपाध्यायमिश्रा इत्यादिनामभिः पूज्याः परितुष्यन्ति ।
यद्यप्यन्वेषणार्थस्वीकारेऽपीच्छतिधातोः क्तिन्प्रत्यये सति
यजिधातुवदिष्टिरित्येव रूपं संपद्यते । तथाऽप्यौणादिकं
कंचित्ककाररहितं प्रत्ययमभिप्रेत्य रूपमीदृशं श्रुत्या विवक्षितम् ।
याभिरिष्टिभिरिन्द्रमैच्छंस्तासां मध्ये प्रथमामिष्टिं दर्शयति -
तस्मा॑ ए॒तमा॑ग्नावैष्ण॒वमेका॑दशकपालं दीक्षणीयं॑
निर॑वपन् । तद॑पद्रुत्या॑तन्वत । तांत्प॑त्नीसंया॒जान्त॒
उपा॑नयन् (२) । ते तद॑न्तमे॒व कृ॒त्वोद॑द्रवन्, इति ।
तस्मादिन्द्रलाभार्थमग्नाविष्णुदेवताकमेकादशकपालं पुरोडाशयुक्तं
दीक्षणीयाख्यं कर्मानुष्ठितवन्तः । तेषु देवेषु मध्ये
यावद्भिर्देवैर्यजमानेर्ऋत्विग्रूपैः कर्मानुष्ठातुं शक्यते तावन्तो देवाः कृत्स्नं
देवसैन्यसंघादपक्रम्य क्वचिद्देवयजनदेशे तद्दीक्षणीयाख्यं कर्म
विस्तारितवन्तः । तदानीमितरं देवास्तमिन्द्रमन्विष्य तैर्ऋत्विग्भिः
पत्नीसंयाजपर्यन्ते कर्मण्यनुष्ठिते सति तानुष्ठातृन्देवान्प्रति समीपे
समानयन् । ते चर्त्विग्रूपा देवाः स्वप्रयोजनस्य
निष्पन्नत्वात्पत्नीसंयाजान्तमेव तत्कर्म कृत्वा तत्परित्यज्योद्गताः ।
तावताऽपीन्द्रस्थैर्याभावे पुनस्त ऋत्विजः प्रायणी
याख्यामिष्टिं कृतवन्त इत्येतद्दर्शयति-
ते प्राय॑णीयम॒भिस॒मारो॑हन् । तद॑पद्रुत्या॑तन्वत । ताञ्छं॑
य्वन्त॒ उपा॑ऽऽनयन् । ते तद॑न्तमे॒व कृ॒त्वोद॑द्रवन्, इति ।
अभिसमारोहन्प्रायणीयाख्यं कर्माभिलक्ष्य देवयजनं प्रविष्टाः ।
अन्यत्पूर्ववत् ।
पुनरपीन्द्रस्थैर्यायाऽऽतिथ्याख्यामिष्टिं दर्शयति-