सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

Taittiriya Brahmana with Sayana Bhashya Part 1

महर्षि तित्तिरि / सायणभाष्य द्वारा

स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)

DevanagariSanskritpublished345 पृष्ठ

पृष्ठ 283, कुल 345 में से

संदर्भ में पढ़ें
पृष्ठ 283

२५४ (१.५.९) तैत्तिरीयब्राह्मणम्
प्रायणीयातिथ्ययोः किं विकल्पः शंय्विडान्तयोः ।
नियमो वा विकल्पः स्यान्निषेधपरिसंख्यया ॥
शंय्विडान्तत्वावाक्याच्च नियमो विधिमात्रतः ।
नित्यानुवादो नञ्वाक्यं दोषबाहुल्यमन्यथा ॥ [इति] ।
ज्योतिष्टोमे श्रूयते-‘शंय्वन्ता प्रायणीया संतिष्ठते न पत्नीः
संयाजयन्ति’ इति । इडान्ता आतिथ्याः संतिष्ठन्ते नानुयाजान्यजति”
इति । प्रकृतौ यदा होता “तच्छंयोः” ति मन्त्रं जपति तदानीमध्वर्युः
परिधीनग्नौ प्रक्षिपति । तदाह कल्पसूत्रकारः-“अनूच्यमाने शंयुवाक
आहवनीये परिधीन्प्रहरति” इति । ततो हविःशेषेषु भक्षितेषु पत्नीः
संयाजयन्तीति क्रमः । तथा प्रधानयागानारिष्टहोम-
प्राशित्रादिभक्षणेडाभक्षणानूयाजसूक्तवाकशंयुवाका इत्यधस्तनः
प्रयोगक्रमः । पत्नीसंयाजानामुपरि फलीकरणहोमप्रायश्चित्त-
होमकपालोद्वासनानैरिष्टः समाप्यते । एवं स्थिते विकृतिरूपायाः
प्रायणीयेष्टेः । शंयुवाकान्तत्वमातिथ्येष्टेरिडाभक्षणान्तत्वं च विकल्पितं
स्यात् । कुतः । निषेधवाक्यविधिवाक्याभ्यां प्रकरणद्वयप्रतीतेः । तथा
हि- शंय्वन्तत्वेडान्तत्वविधिनेवोपरितनपत्नीसंयाजानूयाजनिषेधे
पुनर्निषेध वचनं परिसंख्यार्थम् । पत्नीसंयाजानूयाजव्यतिरिक्ते नास्ति
निषेध इति परिसंख्या । तेन प्रकृतिवद्यथाप्राप्तं
कपालोद्वासनान्तत्वमनयोरिष्ट्योः प्रतीयते । विधिवाक्येन च
शंय्विडान्तत्वम् । तेन व्रीहियववद्विकल्प इति प्राप्ते ब्रूमः ।
विधिमात्रस्यात्राप्रवृत्तेः शंय्वन्तत्वमिडान्तत्वं च तयोः प्रतिनियतम् ।
पत्नीसंयाजाद्यभावस्त्वर्थसिद्धः । ततो नञ्पदयुक्तमुपरितनं प्रतिषेधवाक्यं
नित्यानुवादः । पत्नीसंयाजाद्यकरणाल्लाघवं भवतीति । अन्यथा
बहवोदोषाः प्रसज्येरन् । विकल्पे तावदष्टौ दोषाः प्रसिद्धाः । परिसंख्यायां
च त्रयो दोषाः । विधिपरिसंख्याभ्यां वाक्यभेदोपसंहारोऽपरो दोषः । ततः
शंय्विडान्तत्वं नियतम् ।
. तत्रैव शंग्विडे पूर्वे परे वा स्वेच्छयाऽथवा ।
परे एवाथवा पूर्वे एवाऽऽद्यो द्विविधश्रुतेः ॥
निषेधस्यार्थवत्त्वाय परे एवानुवादगीः ।
पूर्वैकवाक्यतां याति पूर्वे एवाविरोधतः ॥ [इति] ।
प्रायणीयातिथ्ययोरेवान्तत्वेन निर्णीतं शंग्विडे पुनः संदिह्येते ।
प्रकृतौ द्विविधे शंग्विडे पत्नीसंयाजेभ्यः पुरस्तादुपरिष्टाच्च विहिते । ते
चात्र चोदकप्राप्ते । तत्र द्विविधश्रुतेरर्थे चोदकेनातिदिष्टे सति
विशेषनियामकाभावादिच्छया स्वीकार्ये इत्येकः पक्षः । यदि प्रायणीया