सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

वि॒शाम॑प्रदाहाय । प्रा॒णाय॒ स्वाहा॑ । श्र॒द्धाया॑मपा॒ने
निवि॑ष्टो॒ऽमृतं॑ जुहोमि । शि॒वो मा॑ वि॒शाम॑प्रदाहाय ।
अ॒पा॒नाय॒ स्वाहा॑ । श्र॒द्धायां॑ व्या॒ने निवि॑ष्टो॒ऽमृतं॑
जुहोमि । शि॒वो मा॑ वि॒शाम॑प्रदाहाय । व्या॒नाय॒
स्वाहा॑ । श्र॒द्धाया॑मुदा॒ने निवि॑ष्टो॒ऽमृतं॑ जुहोमि ।
शि॒वो मा॑ वि॒शाम॑प्रदाहाय । उ॒दा॒नाय॒ स्वाहा॑ ।
श्र॒द्धाया॑ᳵ समा॒ने निवि॑ष्टो॒ऽमृतं॑ जुहोमि । शि॒वो
मा॑ वि॒शाम॑प्रदाहाय । स॒मा॒नाय॒ स्वाहा॑ ।
ब्रह्म॑णि म आ॒त्माऽमृत॑त्वाय॑, इति ॥
हूयमान द्रव्यविशेष त्वं शिवः शान्तो भूत्वा मां प्रविश । किमर्थम् । अप्रदा-
हाय, क्षुत्संपादितदाहनाशनायेत्यर्थः । किंच हूयमानद्रव्यं प्राणदेवतायै स्वाहा सुहुत-
मस्तु । पूर्ववदन्यद्व्याख्येयम् ।
भोजनादूर्ध्वमपां प्राशने मन्त्रमाह —
अ॒मृता॑पि॒धान॑मसि, इति ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणोपनिषद्ये-
कोनसप्ततितमोऽनुवाकः ॥ ६९ ॥
पीयमान हे जल त्वममृतमविनश्वरमपिधानमाच्छादकमसि ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणीयापरनामधेययुक्तायां
याज्ञिक्यामुपनिषदि भाष्य एकोनसप्ततितमोऽनुवाकः ॥ ६९ ॥
अथ सप्ततितमोऽनुवाकः ।
भुक्तस्यान्नस्याभिमन्त्रणे मन्त्रमाह—
श्र॒द्धायां॑ प्रा॒णे निवि॑ष्ट॒ममृत॑ᳵ हु॒तम् । प्रा॒णमन्ने॑नाऽऽप्या-
य॒स्व । श्र॒द्धायांमपा॒ने निवि॑ष्ट्यामृतं॑ᳵ हु॒तम् । अ॒पान-
मन्ने॑नाऽऽप्यायस्व । श्र॒द्धायां॑ व्या॒ने निवि॑ष्ट्यामृतं॑ᳵ
१४८ ॥

८८६ परिशिष्टत्वेन संगृहीतः— [ अनु० ७१ ]
हु॒तम् । व्या॒नम॒न्नेना॑ऽऽप्याय॒स्व । श्र॒द्धाया॑मु॒दाने निवि॑-
श्या॒मृत॑ꣳ हु॒तम् । उदा॒नम॒न्नेना॑ऽऽप्यायस्व । श्र॒द्धाया॑ꣳ
स॒माने निवि॑श्या॒मृत॑ꣳ हु॒तम् । समा॒नम॒न्नेना॑ऽऽप्यायस्व, इति॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणोप-
निषदि सप्ततितमोऽनुवाकः ॥ ७० ॥
वैदिककर्मणि विश्वासातिशयः श्रद्धा, तस्यां सत्यां प्राणवायौ निविश्याऽऽदराति-
शयं कृत्वाऽमृतमनध्वरं स्वादुभूतमिदं हविर्मया हुतम् । हे प्राणाभिमानिनि देवि त्वं
प्राणं मुखनासिकासंचारिणं वायुं हुतेनान्नेनाऽऽप्यायस्व वर्धय । स्पष्टमन्यत् ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणीयापरनामधेययुक्तायां
याज्ञिक्यामुपनिषदि भाष्ये सप्ततितमोऽनुवाकः ॥ ७० ॥

अथैकसप्ततितमोऽनुवाकः ।
क्षुदादिजनितचित्तविक्षेपशान्तेरूर्ध्वं भोक्तुर्जीवस्य परमेश्वरस्वरूपानुसंधानहेतुं मन्त्रं
दर्शयति—
अ॒ङ्गु॒ष्ठ॒मा॒त्रः पुरु॑षोऽङ्गु॒ष्ठं च॑ समाश्रि॒तः ।
ईशः॑ सर्व॑स्य जगतः॒ *प्रभु॑ प्रीणाति॒ विश्व॑भुक्, इति ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषद्ये-२
कसप्ततितमोऽनुवाकः ॥ ७१ ॥
हृदयमध्यगत आकाशः स्वाङ्गुष्ठपारिमितः । तत्र वर्तमाना बुद्धिरपि तावती । तयाऽ-
वच्छिन्नो जीवरूपः पुरुषोऽप्यङ्गुष्ठमात्रः स्वाङ्गुष्ठपारिमितः । स च ज्ञानक्रियाश-
क्त्याऽङ्गुष्ठमाश्रितः । चकारान्मस्तकं चाऽऽश्रितः । आपादमस्तकव्यापीत्यर्थः । स
चोपाधिसंबन्धमन्तरेण स्वकीयेन वास्तवरूपेण सर्वस्य जगत ईशो नियन्ता । अत एव
विश्वभुक् । सर्वं जगद्भुङ्क्ते । तादृशः प्रभुरीश्वरः प्रीणाति, अनेन भोजनेन प्रीतो
भवतु ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणीयापरनामधेय-
युक्तायां याज्ञिक्यामुपनिषदि भाष्य एकसप्ततितमोऽनुवाकः ॥ ७१ ॥

  • छान्दसो विसर्गलोपः ।
    १ घ. ८७ ॥ २ घ. ८८ ॥

[ अनु० ७२–७३ ] सभाष्ये दशमप्रपाठकः । ८८७

अथ द्विसप्ततितमोऽनुवाकः ।


इत्थं भोजनोत्तरं परमेश्वरानुसंधानप्रतिपादकं मन्त्रमुदाहृत्य भोक्तुः सर्वेषामङ्गानां
स्वस्थताप्रतिपादकं मन्त्रमनुभवपूर्वकं पठति—
वाङ्‌म॑ *आस॒न् । नसोः॑ प्रा॒णः । अ॒क्ष्योश्चक्षुः॑ । कर्ण॑योः
श्रोत्र॑म् । बा॒हुवोर्बल॑म् । ऊ॒रुवो॒रोजः॑ । अरि॑ष्टा॒ विश्वा॒न्य-
ङ्गा॑नि त॒नूः । त॒नुवा॑ मे स॒ह नम॑स्ते अस्तु मा मा॑ हिग्ंंसीः, इति ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोप-
निषदि द्विसप्ततितमोऽनुवाकः ॥ ७२ ॥
हे भगवन्षड्रसमन्नमाकण्ठं भुक्तवतस्तृप्तस्य मे मम वाग्वागिन्द्रियशक्तिस्तद्गोलक
+आस्ये, प्राणो नसोर्नासिकयोः, चक्ष

अप॑ध्वान्त॒मूर्णु॑हि पू॒र्धि चक्षु॑र्मुमु॒ग्ध्य॑स्मान्नि॒धये॑ऽवब॒द्धान् , इति ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणोपनिषदि
त्रिसप्ततितमो¹ऽनुवाकः ॥ ७३ ॥
ऋषयः सप्तसंख्याकाः कदाचिदिन्द्रं स्वर्गस्थमुपसेदुः । भूलोकात्सकाशादिन्द्र-
सामीप्यं जग्मुः । कथंभूता ऋषयः । नाथमानाः किमपि याचितुकामाः । प्रियमैधाः
सर्वप्राणिप्रियकृतबुद्धिविशेषाः । वय इति विशब्दबहुवचनं पक्षिवाचकम् । वय इव
पक्षिण इव शीघ्रगमनाः । कथंभूता वयः । सुपर्णाः शोभनपक्षाः । कथंभूतमिन्द्रम् ।
अपध्वान्तमपगतहृदयान्धकारम् । इन्द्रमुपेत्य यदूचिरे तदुच्यते । हे भगवन्निन्द्रा-
स्मानूर्णुहि दिव्यदुकूलादिप्रदानेनाऽऽच्छादय । अस्माकं चक्षुः पूर्धि, उत्तमसौन्दर्यादि-
मत्पदार्थप्रदर्शनप्रदानाभ्यां पूरय । अस्मान्सर्वेभ्यः पापेभ्यो मुमुग्धि मोचय । किंचा-
स्मानिधयेऽवबद्धान्नासक्तान्कुरु । अनेकधनरत्ननिधियुक्तानस्मान्कुर्वित्यर्थः । एव-
मृषियाचितेनेन्द्रेण दत्तैर्भाग्यैः सुखिताः सन्तः ऋषयो भूमिमेत्य स्वाश्रमेषु स्थितवन्त
इत्याख्यानं पूरयितव्यम् ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणीयापरनामधेययुक्तायां
याज्ञिक्यामुपनिषदि भाष्ये त्रिसप्ततितमोऽनुवाकः ॥ ७३ ॥
अथ चतुःसप्ततितमोऽनुवाकः ।
एवं जपानन्तरं हृदयमालभ्य जप्यं मन्त्रमाह—
प्रा॒णानां ग्रन्थिरसि रुद्रो मा॑ वि॒शान्त॑कः ।
तेनान्ने॒ना॑ऽऽप्यायस्व, इति ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषदि
चतुःसप्ततितमो²ऽनुवाकः ॥ ७४ ॥
हे हृदयवर्तिन्नहंकार त्वं वायुरूपाणामिन्द्र(न्द्रिय)रूपाणां च प्राणानां ग्रन्थि-
रसि । परस्परमविश्लेषाय ग्रन्थनहेतुरसि । तादृशस्त्वं रुद्रस्त(स्त्व)दभिमानिदेव-
तारूपोऽन्तको दुःखस्य विनाशको भूत्वा मा मां विश मच्छरीरे प्रविष्टो भव । तेन
मद्भुक्तेनान्नेनाऽऽप्यायस्व मामभिवर्धय ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणीयापरनामधेययुक्तायां
याज्ञिक्यामुपनिषदि भाष्ये चतुःसप्ततितमोऽनुवाकः ॥ ७४ ॥
१ व. ९०. २ व. ९१ ।

[ अनु० ७५-७६ ] सभाष्ये दशमप्रपाठके । ८८९
अथ पञ्चसप्ततितमोऽनुवाकः ।
एवं हृदयाभिमन्त्रणमुक्त्वा यावज्जीवं मृत्युपरिहारार्थं देवताप्रा(प्री)णनरूपमन्त्रमाह-
नमो॑ रु॒द्राय॑ विष्ण॑वे मृ॒त्युर्मे॑ पा॒हि, इति॑
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणोपनि-
षदि पञ्चसप्ततितमोऽनुवाकः ॥ ७५ ॥
रुद्राय पार्वतीपतये नमोऽस्तु । विष्णवे लक्ष्मीपतये नमोऽस्तु । किंच हे रुद्र हे
विष्णो त्वं त्वं च मृत्योर्व्यत्ययेन मृत्योः सकाशान्मे मां पाहि ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणीयापरनामधेययुक्तायां
याज्ञिक्यामुपनिषदि भाष्ये पञ्चसप्ततितमोऽनुवाकः ॥ ७५ ॥

अथ षट्सप्ततितमोऽनुवाकः ।
त्वम॑ग्ने द्यु॒भिस्त्वमा॑शुशुक्ष॒णिस्त्वम॒द्भ्यस्त्वमश्म॑न॒स्परि॑ ।
त्वं वने॑भ्य॒स्त्वमोष॑धीभ्य॒स्त्वं नृणां॑ नृपते जायसे शुचि॑ः ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणोपनिषदि
षट्सप्ततितमोऽनुवाकः ॥ ७६ ॥
त्वमिति । हेऽग्ने त्वमपि द्युभिरुत्तमकान्तिभिः सहितः सन्सन्मृत्युं निवारय ।
किंच त्वमाशु शीघ्रं शोषयति भक्तानां पापमित्याशुशुक्षणिः, [ तादृशो भव] । किंच
त्वमद्भ्य उपरि कणत्वेन (कारणत्वेन?) तिष्ठसि । अपकारणत्वादग्नेरद्भ्य आधिक्यम् ।
“अग्नेरापः” इति श्रुतेः । किंच त्वं महामेरुरूपस्य पाषाणस्य पर्युपरि तिष्ठसि । कन-
काचलशिखरेष्वग्न्यादिदेवानां विद्यमानत्वात्प्रसिद्धेः । किंच त्वं वनेभ्यो व्यत्ययेन नन्द-
नादिवनेषु विहरसि । किंच त्वमोषधीभ्यो व्यत्ययेन सोमलताद्योषधीषु व्याप्य
तिष्ठसि । हे नृपते यजमानरूपमनुष्याधिपतेऽग्ने त्वं नृणां यजमानानां मध्ये पूज्यो
जायसे भवसि । किंच त्वं वैदिकलौकिकश्मशानिकसर्वपदार्थभुगपि सन्सर्वदा शुचिरेव ।
एवंविधप्रभावस्त्वं मृत्योः सकाशान्मां पाहीति पूर्वेणान्वयः ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणीयापरनामधेययुक्तायां
याज्ञिक्यामुपनिषदि भाष्ये षट्सप्ततितमोऽनुवाकः ॥ ७६ ॥

१ ऋ. ' २ । २ व. ९३ ।

८९० परिशिष्टत्वेन संगृहीतः— [अनु० ७७-७८]
अथ सप्तसप्ततितमोऽनुवाकः ।
अथेदानों परमात्मनः सकाशात्स्वाभीष्टं याचते—
शि॒वेने॑ मे॒ संति॑ष्ठस्व स्यो॒नेन॑ मे॒ संति॑ष्ठस्व सु॒भूतेन॑
मे॒ संति॑ष्ठस्व ब्रह्मवर्च॒सेन॑ मे॒ संति॑ष्ठस्व य॒ज्ञस्य॒र्द्धिमनु॑
संति॑ष्ठ॒स्वोप॑ ते य॒ज्ञ नम॒ उप॑ ते॒ नम॒ उप॑ ते॒ नम॑ः, इति ॥
इति कृष्णयजुर्वेदीय तैत्तिरीयारण्यकदशमप्रपाठके नारायणोपनिषदि
सप्तसप्ततितमो⁹ऽनुवाकः ॥ ७७ ॥
हे यज्ञ सर्वयज्ञस्वरूप हे भगवन्परमात्मंस्ते तुभ्यमुप सामीप्येन नमोऽस्तु । त्वत्सं-
निधौ त्वत्समक्षं भूयो भूयो नमस्करोमीत्यर्थः । अत्यादरार्थमाम्रेडितम् । किं च त्वं
शिवेन कल्याणप्रदानेन सह मे गृहे संतिष्ठस्व । स्योनेनैहिकसुखप्रदानेन सह ।
सुभूतेन महैश्वर्यप्रदानेन सह । ब्रह्मवर्चसेन सह । समानमन्यत् । एवंगुणवति त्वयि
मद्गृह उपस्थिते सत्यहमप्येवंविधगुणवान्भूयासमिति प्रार्थयितुराशयः । किंच त्वत्प्री-
त्यर्थं कृतस्य यज्ञस्य सत्कर्मानुष्ठानस्यर्द्धिं समृद्धिमनु पश्चात्तत्फलं दातुमस्मत्समीपे
संतिष्ठस्व सम्यगचलचित्तः सन्मुपविश ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणीयापरनामधेययुक्तायां
याज्ञिक्यामुपनिषदि भाष्ये सप्तसप्ततितमोऽनुवाकः ॥ ७७ ॥

अथाष्टसप्ततितमोऽनुवाकः ।

समाप्तं भोजनप्रकरणं कर्मप्रकरणं च । अथेदानों सर्वकर्ममयसंसारबीजदाहार्थं संन्यास-
प्रकरणमारभ्यते । तत्र ज्ञानप्रतिबन्धकमहापातकपरिहारेण ज्ञानयोग्यतालक्षणां शुद्धि-
मुक्त्वा योग्यस्य पुरुषस्यापेक्षितेषु ज्ञानसाधनेषु संन्यासस्य निरतिशयोत्कर्षार्थि(र्थत्वं)
वक्तुं सत्यादीन्येकादशोत्कृष्टसाधनानि ऽतियोगित्वेन वक्तव्यानि, तत्र प्रथमं साधन-
मुपन्यस्यति—
स॒त्यं परं॑ पर॒ꣳ स॒त्यꣳ स॒त्येन॒ न सु॑व॒र्गाल्लो॒काच्च्य॑वन्ते
क॒दाच॒न स॒ताꣳ हि स॒त्यं तस्मा॑त्स॒त्ये र॑मन्ते,—इति ।
यद्वस्तु प्रमाणेन दृष्टं तस्य तथैवाभिवादनं सत्यं तच्च परं पुरुषार्थसाधनेषूत्कृष्टम् ।
तत्र विधाना(स्यैव ऽऽदरा)र्थं परं सत्यमिति पुनर्वचनम् । यद्वा परं [ ब्रह्म ] सत्यम-
१ व. ९: ।

? No, it looks like ढ with a dot under it?
Wait, look at the scan:
Under the letter between त and र्थ:
There is a horizontal stroke, then two dots below!
Wait, could it be तद्गूढार्थवचनमपि?
Let's search Anandashrama Taittiriya Aranyaka volume 2:
Mantra 78 (or 77):
Wait, volume 2 of Anandashrama Sanskrit Series 36 (Taittiriya Aranyaka with Sayana Bhashya):
Page 891!
Let's check the text of page 891 in ASS 36:
"बोध्यं तद्गूढार्थवचनमपि बाधरहितमिति" - wait, is it तद्गूढार्थ or तद् यथार्थ?
Wait, "तद् यथार्थवचनमपि" is the standard phrase in Sayana Bhashya!
Wait, why would it be "तद्गूढार्थ"?
Wait, look at the glyphs:
Is that यथा?
If a printer set गूढ by mistake for यथा, the editor put dots under गूढ to mark it as doubtful/erroneous!
Yes! In Anandashrama editions, dots under characters (त्रुटिचिह्न / संशयचिह्न) indicate doubtful readings in the manuscript!
The letters printed are indeed: `तद्गूढार्थवचनम

८९२ परिशिष्टत्वेन संगृहीताः— [ अनु० ७८ ]
दुष्क(श्च रं नास्ति । धनरक्षार्थं प्राणानापि परित्यजतां पुरुषाणामुपलम्भात् । तस्माद्गो-
भूहिरण्यादिदाने रमन्ते ।
[ षष्ठं मतमाह— ]
धर्म॒ इति॒ धर्मे॑ण॒ सर्व॑मि॒दं परि॑गृहीतं धर्मो-
न्नाति॑दु॒ष्करं॒ तस्मा॑द्ध॒र्मे र॑मन्ते—, इति ।
स्मृतिपुराणादिप्रतिपाद्यो वापीकूपतडागादिनिर्माणरूपो धर्मोऽत्र विवक्षितः । स
चोत्तमो मोक्षहेतुरिति स ( म ) हामात्यादयः प्रभवो मन्यन्ते । तडागादिरूपेण धर्मेण
सर्वमिदं जगत्परिगृहीतम् । सर्वेऽपि मनुष्यपश्वादयः स्नानपानादिना तृप्यन्ति । तादृ-
शधर्मादन्यदतिदुश्च( ष्क )रं नास्ति । तस्मात्कारणाद्धर्मे रमन्ते प्रभवः ।
सप्तमं मतमाह—
प्र॒जन॒ इति॒ भूयां॑स॒स्तस्मा॒द्भूयि॑ष्ठाः प्र॒जा॑-
यन्ते॒ तस्मा॒द्भूयि॑ष्ठाः प्र॒जन॑ने रमन्ते—, इति ।
प्रजनोऽपत्योत्पादनं तस्यैवोत्तमसाधनत्वं भूयांसो ( सोऽति ) बहवः प्राणिनो
मन्यन्ते । धनिकैर्दरिद्रैः शिष्टैश्च सर्वैरपि पुत्रोत्पादनायातिशयेन प्रयतमान ( त्नस्याऽऽ-
हत ) त्वात् । तस्मादेकैकस्य पुरुषस्य भूयिष्ठा द्वित्राः पञ्च षडित्येवं बहवोऽपत्यविशेषा
उत्पद्यन्ते । तस्माद्भूयिष्ठा अतिबहवः प्राणिनः प्रजोत्पादने रमन्ते ।
अष्टमं मतमाह—
अ॒ग्नय॒ इत्या॑ह॒ तस्मा॑द॒ग्नय॑ आधा॒तव्या॑ः—, इति ।
अग्नयो गार्हपत्यादय उत्तमा मुक्तिहेतव इति । कश्चिद्वेदार्थपर आह । तस्मा-
त्कारणाद्गृहस्थैरग्नय आधातव्या भवन्ति ।
नवमं मतमाह—
अ॒ग्नि॒हो॒त्रमित्या॑ह॒ तस्मा॑दग्निहो॒त्रे र॑मन्ते—, इति ।
आहितेष्वग्निषु सायं प्रातश्चानुष्ठेयो होमोऽग्निहोत्रं तदुत्तमं मोक्षसाधनमित्यपरः कश्चि-
द्वेदार्थपर आह । तस्मात्केचिदग्निहोत्रे रमन्ते ।
दशमं मतमाह—
य॒ज्ञ इति॑ य॒ज्ञो हि दे॒वास्तस्मा॑द्य॒ज्ञे र॑मन्ते—, इति ।
दर्शपूर्णमासज्योतिष्टोमादिको यज्ञ उत्तमो मोक्षहेतुरित्यपरे वेदार्थपरा मन्यन्ते ।
तत्र हेतुरुच्यते—हि यस्मात्कारणाद्यज्ञो व्यत्ययेन तृतीया यज्ञेन पूर्वोक्ता देवा
इन्द्रादयो दिवं गता इति वाक्यशेषः । तस्मादेव कारणादद्यापि केचन वैदिका यज्ञे
पूर्वोक्ते रमन्त आसक्तचित्ताः सन्तः क्रीडन्ति ।

अनु० ७८ ] सभाष्यो दशमप्रपाठकः । ८९३
एकादशं मतमाह —
मान॒समिति॑ वि॒द्वाꣳ॑स॒स्तस्मा॑द्वि॒द्वाꣳ॑स एव मान॒से र॑मन्ते—, इति ।
मनसैव निष्पाद्यमुपासनं मानसं तदेवोत्तमं मोक्षसाधनमिति विद्वांसः सगुणब्रह्म-
विदो मन्यन्ते । तस्मात्कारणात्केचन विद्वांसो वेदोपास्तितात्पर्यविदो मानस एषो-
पासने रमन्ते ।
द्वादशं मतमाह--
न्यास इति॑ ब्र॒ह्मा ब्र॒ह्मा हि परः॑ प॒रो हि ब्र॒ह्मा तानि॒ वा
ए॒तान्यव॑राणि॒ परां॑सि॒ न्यास॑ ए॒वात्य॑रेचयत्, इति ।
पूर्वोक्तकारणा(र्वकाण्डोक्ता)नामग्निहोत्रादिकर्मणामारुणिजाबालाद्युपनिषदुक्तप्रकारेण
परित्यागो न्यासः स एवोत्तमो मोक्षहेतुरिति ब्रह्मा हिरण्यगर्भो मन्यते । स च
ब्रह्मा परो हि परमात्मरूपो हि न तु पूर्वोक्तमतानुसारिण इव जीवः । यद्यप्यसौ
हिरण्यगर्भो देहधारी तथाऽपि परो हि परमात्मैव ब्रह्मा हिरण्यगर्भ इति वक्तुं शक्यते ।
तच्छिष्यत्वेन तत्समानज्ञानत्वात् । अत एव श्वेताश्वत[रा आमनन्ति]—" यो ब्रह्माणं
विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै " इति । यानि पूर्वोक्तसत्यादीनि मान-
सान्ता[नि ता]न्येतानि [परांसि] तपांसि भवन्त्येव तथाऽपि संन्यासमपेक्ष्यावराणि
निकृष्टानि । संन्यास एक एव सर्वाण्यत्यरेचयदतिक्रान्तवान् । उत्तमत्वेन तारतम्यं
तत्र विश्रान्तमित्यर्थः ।
उक्तमुत्तमसाधनमुपसंहरति--
य ए॒वं वेदेत्युप॑नि॒षत्, इति ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषद्य-
ष्टसप्ततितमोऽनुवाकः ॥ ७८ ॥
यः पुमानेवं प्रकारेण [सं]न्यासस्यान्येभ्यः साधनेभ्य उत्तमत्वं वेद तस्य विदुष
इत्युक्ता विद्योपनिषद्रहस्यभूता भवति ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणीयापरनामधेययुक्तायां
याज्ञिक्यामुपनिषदि भाष्येऽष्टसप्ततितमोऽनुवाकः ॥ ७८ ॥
अथैकोनाशीतितमोऽनुवाकः ।
पूर्वोक्तमोक्षसाधनसमूहमुपपादयितुमाख्यायिकामाह—
प्रा॒जा॒प॒त्यो हाऽऽरु॑णिः सु॑प॒र्णः॑ प्र॒जाप॑तिं पि॒तर॒मुप॑ससार॒

तस्मा॒त्तपः॑ पर॒मं वद॑न्ति—, इति ।"
Wait, let's check between प्रतिष्ठितं and तस्मात्:
Is there a mark?
"प्रति॑ष्ठितं॒ तस्मा॒त्तपः॑ पर॒मं वद॑न्ति—, इति ।"
Svaras:
प्रति॑ (udatta over ति)
ष्ठितं॒ (anudatta under तं)
तस्मा॒ (anudatta under स्मा)
त्तपः॑ (udatta over पः)
पर॒ (anudatta under र)
मं (no svara)
वद॑ (udatta over द)
न्ति (no svara)
—, इति ।
Matches line 22!

Line 23:
"इदानीं स्वर्गे वर्तमाना अग्नीन्द्रादयो देवा अग्रे पूर्वजन्मन्यनुष्ठितेतान्नपरित्यागरू-"
Wait! "पूर्वजन्मन्यनुष्ठितेतान्नपरित्यागरू-"
Wait, is it "तेतान्न" or "तेऽन्न" or "तेनान्न"?
Look at line 23 carefully:
अनुष्ठि (anuṣṭhi)
ते (te)
ता (tā)
न्न (nna)
Wait, or is it "तेनान्न"?
Look at the letter: 'त' with 'ा' = 'ता'? Or 'न' with 'ा' = 'ना

[ अनु० ७९ ] सभाष्यो दशमप्रपाठकः । ८९५
अत्रापि पूर्ववदपरितोषं दृष्ट्वा तृतीयं साधनमाह—
दमे॑न दा॒न्ताः किल्बि॑षमवधू॒न्वन्ति॒ दमे॑न ब्रह्म-
चा॒रिणः॑ सुव॑रगच्छन्दमो॑ भू॒तानां॑ दु॒राधर्षं॒ दमे॑
सर्वं॑ प्रति॑ष्ठितं॒ तस्मा॒द्दमं॑ पर॒मं वद॑न्ति—, इति ।
दान्ता बाह्येन्द्रियदमनयुक्ताः पुरुषास्तेन दमेन स्वकीयपापमवधून्वन्ति नाशयन्ति ।
तथा नैष्ठिकब्रह्मचारिणो दमेन स्वर्गमगच्छन् । स च दमो भूतानां प्राणिनां
दुराधर्षं धर्षयितुं सर्वदा सोढुं दुःसहः । तस्मिंश्च दमे सर्वमपेक्षितं फलं प्रतिष्ठि-
तम् । तस्मात्कारणाद्दमः परमं मुक्तिसाधनमिति केचिद्वदन्ति । अत्र सर्वत्र पूर्वसाधने
परितोषराहित्यादुत्तरसाधनोक्तिर्द्रष्टव्या ।
चतुर्थं साधनमाह --
शमे॑न शा॒न्ताः शि॒वमाच॑रन्ति॒ शमे॑न नाकं॑ मुन-
यो॒ऽन्ववि॑न्दञ्छमो॑ भू॒तानां॑ दु॒राधर्षं॒ छमे॑ सर्वं॑
प्रति॑ष्ठितं॒ तस्माच्छमं॑ पर॒मं वद॑न्ति—, इति ॥
शान्ता अन्तःकरणगतक्रोधादिरहितास्तेन शमेन शिवं मङ्गलं पुरुषार्थमाचरन्ति ।
नारदाद्या मुनयः शमेन स्वर्गमलभन्त । अन्यत्पूर्ववत् ।
पञ्चमं साधनमाह—
दा॒नं य॒ज्ञानां॒ वरू॑थं॒ दक्षि॑णा लो॒के दा॒तार॑ꣳ सर्वभू॒तान्यु॑-
पजी॒वन्ति॑ दा॒नेना॑रा॒तीरपा॑नुदन्त दा॒नेन॑ द्विष॒न्तो मि॒त्रा
भवन्ति दा॒ने सर्वं॒ प्रति॑ष्ठितं॒ तस्मो॒द्दानं

८९६ परिशिष्टत्वेन संगृहीतः— [अनु० ७९]
प्राणिजातस्य प्रतिष्ठाऽऽश्रय इत्येतत्प्रसिद्धम् । तथा लोके धर्मिष्ठमतिशयेन धर्मे
वर्तमानं पुरुषं प्रजाः सर्वा उपसर्पन्ति धर्माधर्मनिर्णयार्थमुपगच्छन्ति । किंच प्राय-
श्चित्तरूपेण [धर्मेण] पापं विनाशयन्ति । अन्यत्पूर्ववत् ।
सप्तमं साधनम ह—
प्र॒जन॑नं॒ वै प्रति॑ष्ठा लो॒के सा॒धु प्र॒जाया॑स्त॒न्तुं
त॒न्वा॒नः पि॑तृ॒णाम॑नृ॒णो भ॑वति॒ तदे॑व॒ तस्या॑
अनृ॑णं॒ तस्मा॑त्प्र॒जन॑नं॒ पर॑मं वद॑न्ति—, इति ।
प्रजननं पुत्रोत्पादनं यदस्ति तद्गृहस्थानां प्रतिष्ठा पुत्रस्य गृहकृत्यनिर्वाहकत्वात् ।
“सोऽयं मनुष्यलोकः पुत्रेणैव जय्यो नान्येन कर्मणा” इति श्रुतेः । किंच प्रजायाः
पुत्रपौत्रादिरूपायास्तन्तुं परम्परां साधु तन्वानः शास्त्रीयमार्गे यथा भवति तथा
विस्तारयन्पितृणां मृतानां पितृपितामहादीनामनृणो भवति । तदीयसृणं पुत्रिणा
प्रत्यर्पितं भवति । यत्प्रजननं तदेव तस्य पुत्रिण ऋणपाकरणहेतुः । अन्य-
त्पूर्ववत् ।
अष्टमं साधनमाह—
अ॒ग्नयो॒ वैत्रयी॑ वि॒द्या दे॒वया॑नः॒ पन्था॑ गार्ह-
प॒त्य ऋक्पृ॑थि॒वी र॑थंतर॒मन्वा॑हार्यपच॑नं॒ यजु॑र-
न्त॑रि॑क्षं वामदे॒व्यमा॑हव॒नीयः॒ साम॑ सुव॒र्गो
लो॒को बृ॒हत्तस्मा॑द॒ग्नीन्प॑र॒मं वद॑न्ति--, इति ।
गार्हपत्यो दक्षिणाग्निरहवनीय इति येऽग्नयः सन्ति त एव त्रयी विद्या वेदत्र-
यात्मिका वेदत्रयोक्तकर्मसाधनत्वाद्वेदविहितत्वाच्च, देवयानो यागद्वारेण देवत्वप्रापको
मार्गश्च । किंच तेषामग्नीनां मध्ये गार्हपत्योऽग्निरृग्वैदात्मकः पृथिवीलोकरूपो
रथंतरसामात्मकश्चेति प्रशस्यते । अन्वाहार्यपचनो दक्षिणाग्निर्यजुर्वेदान्तरिक्षलो-
कवामदेव्यसामात्मकः । [ दक्षिणाग्निस्तु सामवेदस्वर्गलोकबृहद्रथंतरसामात्मकः । ]
अन्यत्पूर्ववत् ।
नवमं साधनमाह--
अ॒ग्नि॒हो॒त्रं सा॒यं प्रा॒तर्गृ॒हाणां॒ निष्कृ॑तिः॒ स्वि॑ष्ट॒ꣳ
सु॒हुतं॑ य॒ज्ञक्र॑तू॒नां प्रा॑य॒णꣳ सु॑व॒र्गस्य॑ लो॒कस्य॑
ज्योति॒स्तस्मा॑दग्निहो॒त्रं पर॑मं वद॑न्ति—, इति ।
सायं प्रातश्चानुष्ठितमग्निहोत्रं गृहाणां निष्कृतिः क्रयसाधनं मूल्यम्, अग्निहो-

[ अनु० ७९ ] सभाष्यो दशमप्रपाठकः । ८९७
ग्राभावे क्षुधितोऽग्निर्गृहान्दहेत् । किंचाग्निहोत्रं स्विष्टं शोभनयागरूपं सुहुतं शोभन-
होमरूपम् । देवतामुद्दिश्य द्रव्यत्यागो यागः । तस्य द्रव्यस्याग्नौ प्रक्षेपॊ होमः ।
किंचैतद्यज्ञक्रतूनां प्रायणं प्रारम्भः । अग्न्याधेयमग्निहोत्रं दर्शपूर्णमासावाग्रयणं
चातुर्मास्यानि निरूढपशुबन्धः सौत्रामणीति सप्त हविर्यज्ञाः । क्रतुशब्दो यूपवत्सु सोम-
यागेषु रूढः । अग्निष्टोमोऽत्यग्निष्टोम उक्थ्यः षोडशी वाजपेयोऽतिरात्रोऽप्तोर्यामश्चेति
सप्त सोमसंस्थाः क्रतवः । तेषां सर्वेषां यज्ञक्रतूनां प्रारम्भकमग्निहोत्रम् । अत एव
स्वर्गस्य लोकस्य ज्योतिः प्रकाशकम् । अन्यत्पूर्ववत् ।
दशमं साधनमाह—
य॒ज्ञ इति॑ य॒ज्ञेन॒ हि दे॒वा दि॒वं ग॒ता य॒ज्ञेनासु॑रा-
नपा॑नुदन्त य॒ज्ञेन॑ द्वि॒षन्तो॑ मि॒त्रा भ॑वन्ति य॒ज्ञे
सर्वं॒ प्रति॑ष्ठितं॒ तस्मा᳚द्य॒ज्ञं प॑र॒मं वद॑न्ति—, इति ।
यज्ञ उत्तमं साधनमिति केचिदाहुः । किंच देवाः पूर्वमनुष्ठितेन यज्ञेन स्वर्गं
प्राप्ताः । किंच यज्ञेनैव तदा [तदा] देवा असुरान्निनाशितवन्तः । किंच सर्वका-
मप्राप्तिसाधनेन ज्योतिष्टोमेन द्वेष्टृ(प)शान्तिकामस्य पूर्वं द्वेषं कुर्वन्तोऽपि शत्रवो
मित्रा[णि] भवन्ति । पूर्ववदन्यत् ।
एकादशं साधनमाह—
मान॒सं वै प्रा॑जाप॒त्यं प॒वित्रं॑ मान॒सेन॒ मन॑सा सा॒धु
प॑श्यति मान॒सा ऋष॑यः प्र॒जा असृ॑जन्त मान॒से
सर्वं॒ प्रति॑ष्ठितं॒ तस्मान्मान॒संप॑र॒मं वद॑न्ति—,इति।
मनसा निष्पाद्यं मानसमुपासनं यदस्ति तदेव [ प्राजापत्यं ] प्रजापति[पद]प्राप्ति-
साधनमत एव पवित्रं चित्तशुद्धिकारणम् । मानसेनेवोपासनेन युक्तं मनोऽन्तःकरणं
यदस्ति तेनैकाग्रेण मनसा साधु पश्यति, अतीतानागतव्यवहितादिवस्तुजातं योगी
सम्यक्साक्षात्करोति । एतच्च योगशास्त्रे बहुधा प्रपञ्चितम् । मानसा एकाग्रमनोयुक्ता
विश्वामित्रादय ऋषयः स्वसंकल्पमात्रेण बह्वीः प्रजा असृजन्त । पूर्ववदन्यत् ।
द्वादशं साधनमाह—
न्यास इत्या॑हुर्मनी॒षिणो॑ ब्र॒ह्माण॑म्—, इति ।
न्यास इत्युक्तो [यो] मोक्षहेतुस्तं ब्रह्माणं हिरण्यगर्भरूपं मनीषिणो बुद्धिमन्तो
महर्षयः स्मृतिकर्तार आहुः । तथा च “संन्यासाद्ब्रह्मणः स्थानम्” इति स्मर्यते । हिर-
ण्यगर्भप्राप्त्यन्तरङ्गसाधनत्वात्तद्रूपत्वम् ।
११३

८९८ परिशिष्टत्वेन संगृहीतः— [ अनु० ७९ ]
तमेव संन्यासं स्तोतुं तत्प्राप्यहिरण्यगर्भस्य रूपं प्रपञ्चयति—
ब्रह्मा॒ विश्व॑ः कत॒मः स्व॑यं॒भुःप्र॒जाप॑तिः संवत्स॒र इति॑—, इति ।
यो [ब्रह्मा] हिरण्यगर्भः सोऽयं विश्वः सर्वजगदात्मकः । कतमोऽतिशयेन सुख-
स्वरूपः पुनः स्वयंभूःप्रजापतिरुत्पादकाभ्यां मातापितृभ्यां विना स्वयमेवोत्पन्नः स
चासौ प्रजानां पालकश्चेति समासः । संवत्सरः कालात्मकः । इतिशब्दः प्रदर्शनार्थः ।
इति सर्वस्वरूपत्वमुन्नेयमित्यर्थः ।
पुनरपि संन्यासस्तुतये हिरण्यगर्भावयवस्य संवत्सरस्य माहात्म्यं दर्शयति—
संवत्स॒रोऽसावा॑दि॒त्यो य ए॒ष आ॑दि॒त्ये
पुरु॑षः स प॑रमे॒ष्ठी ब्रह्मा॒ऽऽत्मा—, इति ।
योऽयं संवत्सरः काल उक्तोऽसावादित्यस्वरूप एव । आदित्यगत्यभा(भ्या)-
सेन निष्पादितत्वात् । य एष तस्मिन्नादित्यमण्डले पुरुषः स एव परमेष्ठी हिरण्यग-
र्भरूपः, आदित्यमण्डलद्वारेण हिरण्यगर्भस्य प्राप्यत्वात् । स च परमेष्ठी ब्रह्म जगत्का-
रणवस्तु । तथैवऽऽत्मा सर्वेषां प्रत्यगात्मभूतः ।
एवमादित्यादिद्वारा संवत्सरं प्रशस्य तमादित्यमण्डलद्वारेण सर्वव्यवहारहेतुतया
प्रशंसति—
याभि॑रादि॒त्यस्तप॑ति र॒श्मिभि॑स्ताभिः॑ प॒र्जन्यो॑ व॒र्षति
प॒र्जन्ये॑नौषधिवनस्प॒तयः॑ प्रजा॑यन्त ओषधिवनस्पतिभि-
रन्नं॑ भवत्य॒न्नेन॑ प्रा॒णाः प्रा॒णैर्बलं॒ बले॑न॒ तप॒स्तप॑सा श्र॒द्धा
श्र॒द्धया॑ मे॒धा मे॒धया॑ मनी॒षा म॑नी॒षया॒ मनो॒ मन॑सा
शा॒न्तिः शान्त्या॑ चि॒त्तं चि॒त्तेन॒ स्मृतिःᳵ स्मृत्या॒ स्मारंᳵ
स्मारे॑ण वि॒ज्ञानं॑ वि॒ज्ञाने॑नाऽऽत्मा॑नं वेदयति तस्मा॒दन्नं॑ दद॒-
न्त्सर्वा॑ण्ये॒तानि॑ ददा॒त्यन्ना॑त्प्रा॒णा भ॑वन्ति भू॒तानां॑ प्रा॒णैर्मनो॒
मन॑सश्च वि॒ज्ञानं॑ वि॒ज्ञाना॑दान॒न्दो ब्रह्म॒ योनिः॑—, इति ।
अयमादित्यो याभिरुष्णस्वरूपाभी रश्मिभिस्तपति प्रभूतं संतापं करोति ताभि-
स्तीव्ररश्मिभिर्भूमिगतं जलमादाय पर्जन्यो भूत्वा वर्षति । तेन च पर्जन्येन वृष्टिजलेन
व्रीह्याद्या ओषधयोऽश्वत्थपनसाद्या वनस्पतयश्च प्रकर्षेणोत्पद्यन्ते । ओषधिभिर्व-
नस्पतिभिश्च भोज्यमन्नं संपद्यते । तेन चान्नेन प्राणाः पु(पो)षिता भवन्ति । तैश्च पुष्टैः
प्राणैः शरीरे बलं संपद्यते । तेन बलेन कृच्छ्रचान्द्रायणादिरूपं तपः संपद्यते । तेन

under मि)

  • जग॑त्स (udatta on ग)
  • भू॒तꣳ (anudatta under भू, gum)
  • स (no accent)

L19:
भव्यं॑ जिज्ञासक्लृप्त ऋ॑त॒जा र॒यिष्ठा श्र॒द्धा

  • भव्यं॑ (udatta on व्यं)
  • जिज्ञासक्लृप्त (no accents)
  • ऋ॑त॒जा (udatta on ऋ, anudatta under त)
  • र॒यिष्ठा (anudatta under र)
  • श्र॒द्धा (anudatta under श्र)

L20:
स॒त्यो म॑ह॒स्वान्तपसो॒*वरि॑ष्ठात्-- इति ।

  • स॒त्यो (anudatta under स)
  • म॑ह॒स्वान्तपसो॒ (udatta on म, anudatta under ह, anudatta under सो)
  • *वरि॑ष्ठात् (udatta on रि)
  • -- इति ।

Checking line by line prefix:
Every line gets , , etc.
Header can be included or top lines start with L1. Usually starting at the body text is standard, but the top header can be included or skipped. Starting with on the first line of the main text is best.

Looks solid and accurate!अनु० ७९ ] सभाष्यो दशमप्रपाठकः । ८९९

। तपसा

तदेव सर्वं पृथिवी चेत्यादिना प्रपञ्च्यते—स एव पृथिव्यादिवस्तुव्यापी पुरुषः सर्वमिदं
वर्तमानं जगत्, तत्त्वदृष्ट्या तद्व्यतिरेकेणाभावात् । तथा भूतमतीतं जगत्स एव । भव्यं
भविष्यदपि जगत्स एव । ननु तत्त्ववित्पुरुषो मूढवद्धस्तपादादियुक्तदेहरूप एव दृश्यते
न तु सर्वजगत्स्वरूप इति चेन्मैवम् । यतोऽयं जिज्ञासाक्लृप्तो जिज्ञासया वेदान्तविचा-
रेण सर्वात्मकतया निश्चितो भवति । ऋतजा ऋतेन सत्येन प्रामाणिकेन ज्ञानेन सर्वात्मा
जातः, जिज्ञासाकाले भ्रान्तिज्ञानरूपेषु स ( पू ) र्वपक्षेषु [ निराकृतेषु ] प्रामाणिकेन
सिद्धान्तज्ञानेन तादृशो जातो भवति । स च रयिष्ठा रयिधनं गुरूपदेशस्तत्रैव तिष्ठति
न तूपदेशरहितानां प्रतीयत इत्यर्थः । ईदृशस्वरूपविज्ञानस्य श्रद्धया लभ्यत्वादसौ श्रद्धा-
रूपः । “ श्रद्धावाँल्लभते ज्ञानम् ” इति स्मृतेः । सत्यमबाध्यं यद्ब्रह्म तत्स्वरूपत्वादयं
सत्यः । महस्वांस्तेजस्वान्स्वयंप्रकाश इत्यर्थः । अत एव तमसा संसारकारणज्ञानेन
वियुक्तत्वादुपरिष्टाद्वर्तते ।
इत्थं संन्यासपूर्वकज्ञानयुक्तपुरुषं प्रशस्य ज्ञानयुक्तफलं दर्शयति—
ज्ञात्वा॑ तमे॒वं मन॑सा हृ॒दा च॒ भूयो॑ न मृ॒त्युमुप॑याहि वि॒द्वान्-, इति ।
हे आरुणे त्वं [ तं ] परमात्मानं हृदा हृत्पुण्डरीकनिवासित्वाद्वृदयरूपेण मनसैवं
पूर्वोक्तसंन्यासरूपसाधनप्रकारेण ज्ञात्वा ज्ञानेन युक्तः सन्भूयः पुनर्मृत्युं नोपयाहि
[ मा प्राप्नुहि ], ज्ञानिनो वर्तमानदेहपाते सति जन्माभावात्पुनर्मृत्युर्नास्तीत्यर्थः ।
[ बहुधा प्रशस्तं संन्यासमुपसंहरति— ]
तस्मा॑न्न्या॒समे॒षां तप॑सामतिरि॒क्तमा॑हुः--, इति ।
यस्मात्पुरुषार्थस्यान्तरङ्गसाधनं तस्मात्ते( दे )षां सत्यादीनां तपसां मध्ये संन्या-
समतिरिक्तमत्युत्कृष्टं साधनं मनीषिण आहुः ।
संन्यासाद्धूर्ध्वं प्रणवेनाऽऽत्मनि समाधिं विधित्संस्तस्मिन्समाधौ विघ्नपरिहारार्थमा-
दावन्तर्यामिणः सर्वकारणत्वेन स्तुतिं दर्शयति--
वसु॑रण्वो॒ विभू॑रसि प्रा॒णे त्वमसि॑ संधा॒ता ब्रह्म॑-
न्त्वमसि॑ वि॒श्वधृ॒त्तेजो॑दा॒स्त्वम॑स्य॒ग्निर॑सि वर्चो-
दा॒स्त्वम॑सि॒ सूर्य॑स्य द्यु॒म्नोदा॒स्त्वम॑सि च॒न्द्रम॑स
उपयामगृहीतोऽसि ब्रह्म॑णे त्वा॒ महसे॑--, इति ।
हे ब्रह्मन्नन्तर्यामिन्वसुरण्वो वसुर्नो वस्तुतत्त्वस्य रण्वो वशिता कथयिताऽस्मदनु-
ग्रहार्थमुपदेष्टाऽसि । तथा विभूर्हिरण्यगर्भविराडादिविविधरूपेणोत्पन्नोऽसि । प्राणे
वायुरूपे जीवात्मनः संधाता योजयिता त्वमसि । विश्वं भ (ध) रतीति विश्वभृ(धृ)द्ब्रह्मा-

[ अनु० ७९ ] सभाष्यो दशमप्रपाठकः । ९०१

ण्डधारकवायुरूपोऽसि । भूलोकवर्तिनोऽग्नेस्तेजोदाः प्रकाशरूपधनप्रदस्त्वमसि ।
द्युलोकवर्तिनः सूर्यस्य वर्चोदाः प्रकाशदस्त्वमसि । तथा चन्द्रमसो शुभ्रोदाः
प्रकाशरूपधनप्रदस्त्वमसि । तथा यागेषु सोमरूपः सन्नुपयामेन पार्थिवमृन्मयदारुमयं-
पात्रेण गृहीतोऽसि । उपयामशब्दस्य पृथिवीपरत्वं षष्ठकाण्डे मन्त्रव्याख्याने समा-
म्नातम्— "उपयामगृहीतोऽसीत्याह । इयं वा उपयामः" इति । उक्तप्रकारं सर्व-
कर्तारमन्तर्यामिणं त्वा महसे ब्रह्मणे ज्योतिर्ज्यो(चैतन्यज्योति)तिःस्वरूपब्रह्मतत्त्वा-
भिव्यक्त्यर्थं भजामीति शेषः ।
अनेन प्रकारेणान्तर्यामिणं स्तुत्वा परिहृतविघ्नस्य संन्यासिनः समाधिं विधत्ते—
ओमित्या॒त्मानं॑ युञ्जीत॒— इति ।
त्रिमात्रप्रणवमुच्चारयन्सर्ववेदान्तेषु निर्णीतमात्मानं स्वात्मरूपेण चित्ते समादध्यात्
समाधिसाधनमोंकारं प्रशंसति—
ए॒तद्वै म॑होपनि॒षदं॑ दे॒वानां॒ गुह्य॑म्, इति ।
यत्प्रणवस्वरूपमस्त्येतद्वै महोपनिषदं महत्यो बह्व्य उपनिषदः प्रतिपादिका यस्य
परमात्मवाचकस्य प्रणवरूपस्य तन्महोपनिषदम् । अकारान्तत्वं छान्दसम् । "सर्वे
वेदा यत्पदमामनन्ति, तत्ते पदं संग्रहेण ब्रवीम्योमित्येतत्" इति प्रणवस्य सर्वोपनिषत्प्रति-
पाद्यत्वं कठवल्लीषु श्रुतम्, तच्च प्रणवरूपं निर्गुणतत्त्वप्रतिपादकं देवानामिन्द्रादीनां
गुह्यं गोप्यम् । ते हि शमदमाद्यधिकारसंपत्तिरहिताय प्रणवं नोपदिशन्ति ।
यथोक्तप्रणवसमाधिजनितस्य तत्त्ववेदनस्य फलं दर्शयति—
य ए॒वं वेद॒ ब्रह्म॑णो महि॒मान॑माप्नोति तस्मा॒द्ब्रह्म॑णो महि॒मान॑म्—,इति ।
यः पुमान्संन्यासादूर्ध्वं प्रणवेन ब्रह्मतत्त्वसमाधिं कुर्वन्नेवं वेदान्तमहावाक्योक्तप्र-
कारेण वेद ब्रह्मतत्त्वं जानाति, असौ ज्ञानी स्वात्मन्यविद्याकल्पितं जीवत्वापादकं परि-
च्छेदमपहाय देशकालवस्तुपरिच्छेदशून्यस्य ब्रह्मणो महिमानं महत्त्वमाप्नोति
तत्त्ववेदनेन जीवत्वकृतभ्रमो निवर्तते ब्रह्मस्वभाव आविर्भवति ततो जीवन्मुक्तो भवती-
त्यर्थः । तस्य जीवन्मुक्तस्य प्रारब्धभोगक्षयेण देहपाते सति तस्मात्कृत्स्नाविद्यानिवृ-
र्तकाद्वेदनादविद्यातत्कार्यवासनालेशरहितस्य मुख्यब्रह्मणो महिमानं महत्त्वं प्राप्नोति
विदेहमुक्तिर्भवतीत्यर्थः ।
संन्यासपुरःसरं तत्त्वविद्यामुपसंहरति—
इत्युपनिषत्, इति ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणोपनिषद्ये-
कोनाशीतितमोऽनुवाकः ॥ ७९ ॥

इत्येवमतीतेन ग्रन्थेन प्रोक्ता येयं विद्या सेयमुपनिषद्रहस्यविद्या ।
अथ मीमांसा—तस्य(त्र) संन्यासरूपस्य चतुर्थाश्रमस्य सद्भावस्तृतीयाध्यायस्य
चतुर्थपादे चिन्तितः—
“नास्त्यूर्ध्वरेताः किंवाऽस्ति नास्त्यसावविधानतः ।
वीरघाताद्वि(तो वि)धेः क्लृप्तावन्धपङ्ग्वादिगा स्मृतिः ॥
अस्त्व(स्त्य)पूर्वाविधेः क्लृप्तेर्वीरहाऽनग्निको गृही ।
अन्धादेः पृथगुक्तत्वात्स्वस्थानां श्रूयते विधिः ॥
पूर्वाधिकरणे स्वतन्त्रमात्मविज्ञानं कर्मनैरपेक्ष्येण पुरुषार्थसाधनमित्युक्तम् । तस्य
चाऽऽत्मज्ञानस्योर्ध्वरेतःस्वाश्रमेषु सुलभत्वादाश्रमसद्भावश्चिन्त्यते । तत्र नास्त्यूर्ध्वरेता
इति प्राप्तम् । कुतः । विध्यभावात् । “त्रयो धर्मस्कन्धा यज्ञोऽध्ययनं दानमिति प्रथम
स्तप एव द्वितीयो ब्रह्मचार्याचार्यकुलवासी तृतीयः” इत्यत्र यज्ञाद्युपलक्षितगार्हस्थ्यस्य
तपःशब्दलक्षितवानप्रस्थत्वस्य नैष्ठिकब्रह्मचर्यस्य च परामर्शमात्रं गम्यते । न विधि
रुपलभ्यते न चापूर्वार्थत्वेन विधिः कल्पयितुं शक्यः । “वीरहा वा एष देवान्
योऽग्निमुद्वासयते” इत्यान्युद्वासनलक्षणस्य गार्हस्थ्यपरित्यागस्य निन्दितत्वात्
चत्वार आश्रमा इति स्मृतिस्तु गार्हस्थ्यधर्मानधिकृतानन्धपङ्ग्वादिविषया भविष्यति
न ह्यन्धस्याऽऽज्यावेक्षणोपेते कर्मण्यधिकारः । नापि पङ्गोर्विष्णुक्रमणाद्युपेते कर्मण्य
धिकारः । तस्माच्चक्षुरादिपाटवयुक्तस्याऽऽत्मज्ञानोपयुक्त ऊर्ध्वरेता आश्रमो नास्तीति
प्राप्ते ब्रूमः । अस्त्यूर्ध्वरेता आश्रमः । विध्यश्रवणेऽप्यपूर्वार्थत्वेन कल्पयितुं शक्य
त्वात् । न च वीरघातदोषः । उत्सन्नाग्निविषयत्वाद्वीरहत्यायाः । यत्त्वन्धविषयत
स्मृतेरुक्तं तदसत् । “अथ पुनरव्रती वा व्रती वाऽस्नातको वा स्नातको वोत्सन्नाग्निरन
ग्निको वा यदहरेव विरजेत्तदहरेव प्रव्रजेत्” इति विरक्तानां गार्हस्थ्यानधिकृतानां पृथ
क्संन्यासविधानात् । न च चक्षुरादिपाटववतामाश्रमान्तरविध्यभावः । जाबालश्रुतौ
प्रत्यक्षविध्युपलम्भात्—‘‘ब्रह्मचर्यं समाप्य गृही भवेद्गृहाद्वनी भूत्वा प्रव्रजेत्” इति
तस्मादस्त्याश्रमान्तरम्” ।
तत्रैवान्यच्चिन्तितम्—
“लोककाम्याश्रमी ब्रह्मनिष्ठामर्हति वा न वा ।
यथावकाशं ब्रह्मैव ज्ञातुमर्हत्यवारणात् ॥
अनन्यचित्तता ब्रह्मनिष्ठाऽसौ कर्मठे कथम् ।
कर्मत्यागी ततो ब्रह्मनिष्ठामर्हति नेतरः ॥
त्रयो धर्मस्कन्धा इत्यत्राऽऽश्रमानाधिकृत्य सर्व एते पुण्यलोका भवन्तीत्याश्रमानु
ष्ठायिनां पुण्यलोकफलमभिधाय ब्रह्मसंस्थोऽमृतत्वमेतीति मोक्षसाधनत्वे[न] ब्रह्मनिष्ठ

[ अनु० ७९ ] सभाष्यो दशमप्रपाठकः । ९०३
प्रतिपाद्यते । सेयं ब्रह्मनिष्ठा पुण्यलोककामिन आश्रमिणोऽपि संभाव्यते । आश्रमक-
र्माण्यनुष्ठाय यथावकाशं ब्रह्मनिष्ठायाः कर्तुं शक्यत्वात् । न हि लोककामी ब्रह्म न
जानीयादिति निषेधोऽस्ति । तस्मादस्ति सर्वस्याप्याश्रमिणो ब्रह्मनिष्ठेति प्राप्ते ब्रूमः
ब्रह्मनिष्ठा नाम सर्वव्यवहारपरित्यागे सत्यनन्यचित्ततया ब्रह्मणि परिसमाप्तिः । न
चासौ कर्मशूरे संभवति । कर्मानुष्ठानत्यागयोः परस्परविरोधात् । तस्मात्कर्मत्यागिन
एव ब्रह्मनिष्ठेति स्थितिः ” ।
अस्मिन्नर्थे श्रुतिस्मृतिवाक्यानि संक्षिप्य प्रदर्श्यन्ते—
“त्याग एव हि सर्वेषां मोक्षसाधनमुत्तमम् ।
त्यजन्तैव हि विज्ञेयं त्यक्तुः प्रत्यक्परं पदम् ॥
मुक्तेश्च बिभ्यतो देवा मोहेनापिदधुर्नर्रान् ।
ततस्ते कर्मसूयुक्ताः प्रा(प्र)वर्तन्ते विचक्षणाः ॥
अतः संन्यस्य कर्माणि सर्वाण्यात्मावबोधतः ।
हत्वाऽविद्यां धिया प्राप त(यैवेयात्त)द्विष्णोः परं पदम्” ॥
इति भाल्लविशाखायामामनन्ति ।
“सशिखं वपनं कृत्वा बहिःसूत्रं त्यजेद्बुधः ।
यदक्षरं परं ब्रह्म तत्सूत्रमिति धारयेत् ॥
ज्ञानशिखी(स्वा) ज्ञाननिष्ठा ज्ञानयज्ञोपवीतिनः ।
ज्ञानमेव परं तेषां पवित्रं ज्ञानमुच्यते ॥
अग्नेरिव शिखा नान्या यस्य ज्ञानमयी शिखा ।
स शिखीत्युच्यते विद्वान्नेतरे केशधारिणः” ॥
इत्याथर्वणिका आमनन्ति ।
“कुटुम्बपुत्रदारांश्च वेदाङ्गानि च सर्वशः ।
यज्ञान्यज्ञोपवीतं च त्यक्त्वा गूढश्चरेन्मुनिः” ॥
इति बाष्कलशाखायामामनन्ति ।
“स शिखान्केशान्निकृन्त्य विसृज्य यज्ञोपवीतं भूः स्वाहेत्यप्सु जुहुयात् ।
त्रिदण्डं कुण्डिकां शिक्यं त्रिविष्टब्धमुपानहौ ।
शीतोपघातिनीं कन्थां कौपिनस्य तु च्छादनम् ॥
पवित्रं स्नानशाटीं च उत्तरासङ्गमेव च ।
यज्ञोपवीतं वेदांश्च सर्वं तद्वर्जयेद्यतिः” ॥
इति कठा आमनन्ति ।

५०४ परिशिष्टत्वेन संगृहीतः— [ अनु० ८० ]
“अथ परिव्राड्विवर्णवासा मुण्डोऽपरिग्रहः शुचिरद्रोही भैक्षाणो ब्रह्मभूयाय
भवति” इति जाबालिका आमनन्ति । “अथ परिव्राडेकशाटी[परिवृतो] मुण्डोदर-
पात्र्यरण्यनित्यो भिक्षार्थं ग्रामं प्रविशेद्ग्रासायं प्रदक्षिणेनाविचिकित्सन्सार्ववर्णिकभैक्षाचर-
णमभिशस्तपतितवर्जमयज्ञोपवीती शौचनिष्ठः काममेकं वैणवं दण्डमाददीत” इति
मैत्रायणीशाखायामामनन्ति । “कन्थाकौपीनोत्तरासङ्गानां त्यागिनो यथाजातरूप-
धरा निर्ग्रन्था निष्परिग्रहाः” इति संवर्तश्रुतिः । “गृहस्थो ब्रह्मचारी वानप्रस्थो [वा]
लौकिकाग्नीनुदराग्नौ समारोपयेद्गायत्रीं च स्वमुखाग्नौ समारोपयेदुपवीतं भूमौ वाऽप्सु
वा विसृजेत्” इति वारुणीश्रुतिः ।
“यथोक्तान्यपि कर्माणि परिहाय द्विजोत्तमः ।
आत्मज्ञाने शमे च स्याद्वेदाभ्यासे च यत्नवान् ॥
एतद्द्विजन्मसाफल्यं ब्राह्मणस्य विशेषतः ।
प्राप्यैतत्कृतकृत्यो हि द्विजो भवति नान्यथा ॥
यदा तु विदितं तत्स्यात्परं ब्रह्म सनातनम् ।
तदैकदण्डं संगृह्य उपवीतं शिखां त्यजेत्” ॥
इत्यादयः स्मृतय उदाहार्याः ॥
इति कृष्णयजुर्वेदीय तैत्तिरीयारण्यकदशमप्रपाठके नारायणीयापरनामधेययुक्तायां
याज्ञिक्यामुपनिषदि भाष्य एकोनाशीतितमोऽनुवाकः ॥ ७९ ॥

अथाशीतितमोऽनुवाकः ।
संन्यासस्यैव ब्रह्मज्ञानं प्रत्यन्तरङ्गसाधनत्वाज्जिज्ञासोः संन्यास एव युक्तो न तु कर्मा-
नुष्ठानमित्युक्तम् । तर्हि निष्पन्ने तत्त्वसाक्षात्कारे कर्माण्यनुष्ठीयन्तामित्येतां शङ्कां
निवारयितुं तत्त्व[ज्ञानि]व्यवहाराणां लौकिकानां सर्वेषां यागरूपत्वमुच्यते । न हि
यागस्य यागाधिकारशङ्काऽस्ति । अतोऽस्मिन्ननुवाके पूर्वभागे योगिनोऽवयवा यज्ञा-
ङ्गद्रव्यत्वेनाऽऽम्नायन्ते—
तस्यै॒वं वि॒दुषो॑ य॒ज्ञस्या॒ऽऽत्मा यज॑मानः श्र॒द्धा
पत्नी॒ शरी॑रमि॒ध्ममुरो॒ वेदि॒र्लोमा॑नि ब॒र्हिर्वे॒दः
शिखा॒ हृद॑यं॒ यूपः॒ काम॒ आज्यं॑ म॒न्युः प॒शुस्तपो॒ऽ-
ग्निर्द॑मः शमयि॒ता दक्षि॑णा वाग्घोता॑ प्रा॒ण उद्गा॒ता
चक्षु॑रध्व॒र्युर्मनो॒ ब्रह्मा॒ श्रोत्र॑म॒ग्नीत्—, इति ॥