तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
मनसा यथावस्तुचिन्तनमृतम् । वाचा तदुच्चारणं सत्यम् । एतदुभयमपि तद्देवा-
धिष्ठानरूपं ब्रह्मैव । कवीनां वेदशास्त्रपारं गतानां परममुत्कृष्टं प्रमाणत्वेनाऽऽदरणीयं
यद्ब्रह्म वेदरूपं वस्तु तदपि स्वाधिष्ठानभूतपरब्रह्मात्मकमेव । इष्टं दर्शपूर्णमासादि
श्रौतं कर्म । पूर्तं वापीकूपादि स्मार्तं कर्म । तदुभयमपि तदेव ब्रह्म । तथा बहुधा
जातं पूर्वकल्पतत्पूर्वकल्पादिरूपेण बहुप्रकारमुत्पन्नमिदानीमपि तथा जायमानं विश्वं
सर्वं जगद्भुवनस्य नाभिश्चक्रनाभिवत्सर्वस्य लोकस्याऽऽधारभूतः परमात्मा बिभर्ति ।
अत आधेयं सर्वमधिष्ठानस्वरूपमेव । अग्निर्वायुःसूर्यचन्द्रमसोऽपि तदेव । तथा शुक्लं
दीप्यमानं नक्षत्रादिकममृतं देवैः सेव्यं पीयूषमेतदुभयमपि तद्देवाधिष्ठानरूपमेव ।
यद्ब्रह्म हिरण्यगर्भरूपं तदपि तदधिष्ठानात्मकमेव । या आपो जलोपलक्षिता
६९४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [प्रपा० १० अनु० १]
तथा च पूर्वग्रन्थकारैरुक्तम्—
“ अष्टादश निमेषास्तु काष्ठा त्रिंशत्तु ताः कला ।
तास्तु त्रिंशत्क्षणस्ते तु मुहूर्तो द्वादशास्त्रियाम् ॥
ते तु त्रिंशदहोरात्रः पक्षस्ते दश पञ्च च ” ॥ इति ।
चकारादनुक्तसमुच्चयार्थो । तदेव सर्वश इत्यनेन स्पष्टी क्रियते । लवत्रुट्यादिकाः
सर्वे कालविशेषाः समुत्पन्ना इत्यर्थः ।
लवत्रुट्योः स्वरूपं पूर्वाचार्यैरुक्तम्—
“ नलिनीपत्रसंहत्यां सूक्ष्मसूच्याऽभिभेदने ।
दले दले तु यः कालः स कालो लववाचकः ॥
लवैस्त्रुटिः स्यात्रिंशद्भिः ” इति ।
अर्धमासाः शुक्लकृष्णपक्षरूपाः । मासाश्चैत्रवैशाखाद्याः । ऋतवो वसन्तग्री-
ष्माद्याः । ते सर्वेऽपि परमेश्वरादधिजज्ञिरे । तथा संवत्सरश्च प्रभवविभवादिरूपः
कल्पतां परमेश्वरादुत्पन्नः । अत एव स्वप्रयोजनसमर्थो भवति । कल्पन्तामिति बहुव-
चनपाठे सर्वेऽपि कालविशेषाः स्वस्वप्रयोजनसमर्था इति योज्यम् । स परमेश्वरः स्वनि-
र्मितेन कालविशेषेणोपहितः संस्तत्तत्कालोचित्येनाऽऽपः प्रदुघे । जलोपलक्षितां पृथिवीं
दुग्धवान् । प्राणिनामपेक्षितं भोग्यजातं पृथिव्यां संपादितवानित्यर्थः । तथैवान्तरिक्ष-
मेकं स्थानमथो अपि च सुवः स्वर्गोऽपरं स्थानमिमे उभे स्थाने प्रदुघे । तयोरपि
स्थानयोर्भोग्यवस्तूनि संपादितवानित्यर्थः ।
ननु काललोकादिसर्वकारणस्य सर्वत्रानुगतत्वात्कुतः प्राणिभिरसौ न गृह्यत इत्या-
शङ्क्य तस्य परमात्मन ऊर्ध्वत्वाद्याकारविशेषाभावाद्रूपाद्यभावाच्चेति मन्त्रद्वयेन
दर्शयति—
नैन॑मू॒र्ध्वं न ति॒र्यञ्चं॒ न मध्ये॒ परि॑जग्रभत् ।
न तस्ये॑शे॒ कश्च॒न तस्य॑ नाम म॒हद्यशः॑ ॥
न सं॒दृशे॑ तिष्ठति रू॒पम॑स्य॒ न चक्षु॑षा पश्यति॒ कश्च॒नैन॑म् ।
हृ॒दा म॑नी॒षा मन॑सा॒ऽभिक्लृ॑प्तो य ए॑नं वि॒दुर॒मृता॑स्ते भ॑वन्ति, इति ।
कश्चिदपि पुरुष एनं परमात्मानं स्तम्भवदूर्ध्वाकारमुपरिस्थितशाँलावंशवत्तिर्यगा-
कारं वा गृहान्तर्वर्तिदेवदत्तवत्कचिन्मध्येऽवस्थितं वा न परिजग्रभत् । नैव परिगृ-
ह्णाति । ऊर्ध्वाद्याकाराणां तस्मिन्नभावात् । किंन्च तस्य परमात्मनः कश्चन कोऽपि
१ च. झ. ॰सूच्यभिभेदने २ ग. ॰ष्णरूपाः पक्षा. । मा० । ३ ग. ॰शालीँ ।’
पुरुषो नेशे नेष्टे मम ग्रहणसौकर्यार्थमीदृग्रूपो भवेति नियन्तुं न समर्थः । अत एव तस्य
परमात्मनो महद्यश इति नाम संपन्नम् । अत्यन्तस्वतन्त्रत्वेन तदीययशोऽभ्यधि-
कत्वात् । किंचास्य परमात्मनो रूपं नीलपीतादिकं संदृशे प्राणिनां दृष्टिविषये न
तिष्ठति । “अशब्दमस्पर्शमरूपम्” इत्यादिश्रुतेः । अतः कश्चन कुशलोऽपि पुमानत्यन्तप-
टुना चक्षुषैनं न पश्यति । कथं तर्हि गुरुशास्त्रोपदेशयुक्तो गृह्णातीति चेत् ।
उच्यते । हृदा हृदयपुण्डरीकमध्यवर्तिना मनीषाँ भौतिकवस्तुगोचराणि मैनांसीष्ट इति
मनीट् तथाविधेन मनसाऽन्तःकरणेनाभिक्लृप्तः सर्वतो निश्चितो भवति । योगयुक्तं हि
मनो लौकिकीर्मनोवृत्तीर्नियमयति । तेन चान्तर्मुखेनै(णे)काग्रेण मनसा परमात्माऽनु-
भवितुं शक्यते । “ दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः ” इति श्रुतेः । ये
पुरुषा एनं परमात्मानमेकाग्रेण मनसा विदुः साक्षात्कुर्वन्ति, ते पुरुषा अमृता मरण-
रहिता भवन्ति । देहात्प्राणानामुत्क्रान्तिर्मरणं तच्च तत्त्वविदां नास्ति । “न तस्य प्राणा
उत्क्रामन्त्यत्रैव समवलीयन्ते” इति श्रुतेः ।
उक्तार्थदार्ढ्याय प्रदेशान्तरपठितान्मन्त्रानुदाहरति—
अ॒द्भ्यः संभू॑तो हिर॑ण्यगर्भ इत्य॒ष्टौ, इति ।
“अद्भ्यः संभूतः पृथिव्यै रसाच्च” इत्ययमनुवाकश्चातुर्होत्रीयचयनमन्त्रप्रकरणे समा-
म्नातः । तस्यानुवाकस्य प्रदर्शनार्थमद्भ्यः संभूत इति प्रतीकमिदं पठितम् । तस्मि-
न्नुवाके “तमेवं विद्वानमृत इह भवति” इति परमात्मतत्त्वविदो मरणराहित्यमुक्तम् ।
हिरण्यगर्भः समवर्तताग्रे” इत्याद्या अष्टावृचः संहितायाश्चतुर्थकाण्डे प्रथमप्रपाठके
समाम्नाताः । ता अपि वेदितव्यस्य परमात्मन उपलक्षकत्वेन हिरण्यगर्भाद्यभिधाना-
द्रोपयुक्ताः ।
यथा हिरण्यगर्भादयः परमात्मोपलक्षकास्तथा परमात्मना सृष्टं दिगादिकं जगद्धि-
मूर्तिश्च परमात्मानमुपलक्षयतीति मन्त्रद्वयेन दर्शयति—
ए॒ष हि दे॒वः प्र॒दिशोऽनु॒ सर्वाः॒ पूर्वो॑ हि जा॒तः स उ॒ गर्भे॑ अ॒न्तः ।
स वि॒जाय॑मानः स ज॑नि॒ष्यमा॑णः प्रत्यङ्मु॒खास्ति॑ष्ठति वि॒श्वतो॑मुखः ॥
वि॒श्वत॑श्चक्षुरु॒त वि॒श्वतो॑मुखो वि॒श्वतो॑हस्त उ॒त वि॒श्वत॑स्पात् ।
सं बा॒हुभ्यां॒ नम॑ति॒ सं पत॑त्रै॒र्द्यावा॑पृथि॒वी ज॒नय॑न्देव॒ एकः॑, इति ।
१ ख. च. झ. 'यस्य य' । २ ख. 'देशो गृ' । ३ ख. झ. 'ण लौकिक' । ४ ग.
। ५ ख. ॰किविषयान्निवृत्तं भवति । ६ झ. ॰वनीय' । ७ ग 'ठितत्वान्म' । ८ च.
त्या' । ९ ख घ झ. 'तायां चतु' । १० ग 'द्धिरण्यमूर्ति' ।
६९६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [प्रपा० १० अनु० १]
एष विद्वद्भिरनुभूयमानो देवः स्वप्रकाशः परमात्मा प्रदिशः प्रकृष्टाः प्राच्याद्या
दिश आग्नेय्याद्याँ विदिशश्च सर्वा अनुप्रविश्यावस्थितः । प्रवेशस्य श्रुत्यन्तरप्रसि-
द्ध्यर्थो हिशब्दः । तथा पूर्वो जातो हिरण्यगर्भस्वरूपत्वेनायमेव प्रथममुत्पन्नः । हिश-
ब्देन “हिरण्यगर्भः समवर्तत” इति मन्त्रप्रसिद्धिः सूच्यते। स उ स एव परमेश्वरो गर्भे
अन्तःब्रह्माण्डरूपस्य गर्भस्य मध्ये वर्तते । स एव विजायमानो देवातिर्यगादिरूपेणे-
दानीं जायते । इतः परमपि जनिष्यमाणः स एव । स च प्रत्यङ्, अन्नमयादिको-
शेभ्य आन्तरः । मुखा देहेन्द्रियाध्यक्षत्वेन मुख्यः । विश्वतः सर्वतो मुखानि रूपाद्यु-
पलब्धिद्वाराणि चक्षुरादीनि यस्यासौ विश्वतोमुखः । तादृशोऽयं जगदधिष्ठानत्वेन
तिष्ठति । स च ब्रह्माण्डरूपं देहं धृत्वा सर्वप्राणिदेहस्वरूपत्वात्तदीयैः सर्वैश्चक्षुरा-
दिभिर्युक्त इति विश्वतश्चक्षुरित्यादिपदैरभिधीयते । तत्तल्लोकनिवासिनां प्राणिनां चक्षूंषि
तत्र तत्र स्थितान्येवैतदीयानि भवन्ति । अतोऽस्य सर्वत्र चक्षुष्मत्त्वम् । एवं विश्वतो-
मुखत्वादिकमपि द्रष्टव्यम् स च परमेश्वरो बाहुभ्यां संनमति बाहुसदृशाभ्यां
धर्माधर्माभ्यां निमित्तकारणाभ्यां सर्वं जगद्वशी करोति । तथा पतत्रैः पतनशीलैः
पञ्चीकृतपञ्चमहाभूतैः संनमति सर्वं जगदुत्पादयति । एवमयं देवो द्यावापृथिव्या-
दिकं कृत्स्नं जगदुत्पाद्यैनेक एवावतिष्ठते ।
उक्तार्थे श्रद्धातिशयमुत्पादयितुं मन्त्रद्वयेन गन्धर्ववृत्तान्तं दर्शयति—
वेन॒स्तत्पश्य॒न्विश्वा॒ भुव॑नानि वि॒द्वान्यत्र॒ विश्वं॒ भव॒त्येक॑नीळम् ।
यस्मि॑न्नि॒दꣳ सं च॒ वि चैक॒ꣳ स ओतः॒ प्रोत॑श्च वि॒भुः प्र॒जासु॑ ॥
प्र तद्वो॑चे अ॒मृतं॒ नु वि॒द्वान्ग॑न्ध॒र्वो नाम॒ निहि॑तं॒ गुहा॑सु ।
त्रीणि॑ प॒दा निहि॑ता॒ गुहा॑सु॒ यस्तद्वेद॑ सवि॒तुः पि॒ता संत्, इति ।
वेनो नाम गन्धर्वः सर्वप्राणिनां गुहासु बुद्धिषु निहितममृतं विनाशरहितं तद्वस्तु
स्वानुभवेन विद्वान्प्रवोचे नु शिष्येभ्यः प्रोवाच खलु । कीदृशो वेनः । यत्र यस्मि-
न्परमात्मवस्तुनि विश्वं सर्वं जगदेकनीडं भवत्येकत्वेन विश्वमवस्थितं सत्तादात्म्यं
प्राप्नोति तद्वस्तु गुरुशास्त्रप्रसादेन पश्यन्साक्षात्कुर्वन्विश्वा भुवनानि सर्वाणि लोका-
न्विद्वाँञ्जानन्वर्तते । आत्मसाक्षात्कारे हि सर्वं जगत्तदात्मकमित्यवगतिर्भवति ।
किंच तेन दृष्टे यस्मिन्वस्तुनि परमात्मनीदं जगत्सं च वि च समुत्पद्यते विलीनं च
१ झ ॰त्मा प्रकृ॰ । २ ख. ग. च, 'द्या आ' । ३ ख. ग. ॰द्याश्च वि॰। च. 'द्याश्च
दि॰ । ४ ख. ग 'दिशः सं । ५ ख. ॰हत्वात्सर्वप्र णिनां । ६ ग. ॰त्र चाक्षुष्यत्व॰ । ७ ग.
॰ष्टव्यमु॰ । ८ ग. 'नीडम् । ९ झ. चेत्येकꣳ । १० ग. विभुः । ११ ख. च. ॰नीळं भ॰ ।
१२ ख. ॰द्वान्विजान॰ । १३ ग. ॰गदेकात्म॰ । १४ च. झ. वेनेन । १५ झ. वि चेति सं॰।
पि स्वयमु । १ च. झ. यस्तं वि । ३ ख झ. ०त्स पितुः । ४ ग.
विवृत्य । ५ ग. स. ततः सर्वं । ६ झ. ०च्छन्तीत्य । ७ ग. तस्य । ८ ग. ०मभवच्छे । ९ ग.
विवृत्य । १० । ग. ०ह्मविद्ब्रह्म० ।
Wait, does the user want the header and footnotes too?
"Transcribe the given image into pure, clean Markdown in Unicode Devanagari. Include all Vedic svara accents if present, mantras, vidhi, arthavada, Sayanacharya bhashya, and commentary. Prefix each line with line marker like , ."
Yes, prefix each line with , , etc.
Should the header be included? Yes, usually as a header or line. Let's make sure everything visible is transcribed.
Wait, let's treat the main body as lines to , and then footnotes as -, or header as ?
Usually, it's safest to include header as:
[प्रपा० १० अनु० १] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ६९७
as line 1, or start from "भवति।..."?
Notice: "Prefix each
६९८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्—[प्रपा० १० अनु०१]
प्र॒जाप॑तिः प्रथ॒मजा ऋ॒तस्या॒ऽऽत्मना॒ऽऽत्मान॑म॒भिसंब॑भूव, इति ।
ऋतस्य सत्यस्य ब्रह्मणः प्रथमजाः प्रथमकार्यभूतः प्रजापतिर्हिरण्यगर्भो लोका-
न्भूरादीन्भूतानि देवमनुष्यादिप्राणिदेहान्प्रदिश आग्नेय्याद्या दिशश्च प्राच्याद्याः
परीत्य सर्वतो व्याप्य सृष्टिकाले सृष्ट्वा पुनरपि परीत्य स्थितिकाले रक्षित्वाऽऽत्मना
स्वस्वरूपेण तद्विषयकसत्त्वज्ञानेनेत्यर्थः । आत्मानं सत्यज्ञानादिलक्षणमभिसंबभूव सर्वतः
सम्यक्प्राप्तवान् ।
तदेवं ब्रह्मविद्या प्रतिपादिता । अथ तत्प्राप्तिसाधनभूताः सोपाधिकब्रह्मध्यानजप-
स्नानादिकर्माङ्गभूता मन्त्राः कर्मकाण्डे पूर्वमनुक्ता अस्मिन्खिलकाण्डेऽभिधीयन्ते । तत्रै-
केन मन्त्रेण ब्रह्मप्राप्त्यर्थमन्तर्यामिणं प्रार्थयते—
• सद॑स॒स्पति॒मद्भु॑तं प्रि॒यमिन्द्र॑स्य॒ काम्य॑म् ।
सनिं॑ मे॒धाम॑यासिषम्, इति ।
सीदत्यस्मिन्नव्याकृते कारणे सर्वं जगदिति सदः । तस्य पतिं पालकमन्तर्यामिण-
मयासिषमहं प्राप्तवानस्मि । शत्रिं प्राप्तवानित्यनया विवक्षया भूतार्थनिर्देशः । कीदृशं
सदसस्पतिम् । अद्भुतमाश्चर्यरूपम् । मनसाऽप्यचिन्त्यरचनारूपस्य जगतोऽनायासेन
निर्मातृत्वमद्भुतत्वम् । इन्द्रस्य देवराजस्यापि प्रियम् । सोऽप्यन्तर्यामिणं कदा प्राप्स्या-
मीत्येवमाशास्ते । अत एव सर्वैरन्यैः काम्यमपेक्षणीयम् । सनिं कर्मफलस्य दातारम्।
मेधां श्रुताधीतग्रन्थधारणशक्तिं प्रयच्छन्तमिति शेषः ।
अथ वह्न्युपाधिकं परमेश्वरं प्रतिष्ठाप्राप्तिं प्रार्थयते—
उद्दी॑प्यस्व जातवेदोऽप॒घ्नन्निऋ॑तिं मम॑ ।
प॒शूꣳश्च॒ मह्य॒माव॑ह॒ जीव॑नं च॒ दिशो॑ दिश, इति ।
जाते प्राणिशरीरे जाठराग्निरूपेण विद्यतेऽवतिष्ठत इति जातवेदाः । अथवा
जातानुत्पन्नान्यजमानास्तत्तत्फलदानाय वेत्ति स्वचित्ते निश्चिनोतीति जातवेदाः ।
हे जातवेदो मदनुग्रहार्थमुत्कर्षेण दीप्यस्व । किं कुर्वन् । ममानिष्टकारिणीं निर्ऋतिं
पापदेवतामपघ्नन्विनाशयन् । तां विनाशय ततो [ मह्यं ] मदर्थं पशून् गवादिजीवनं
दीर्घायुष्यं चकाराभ्यामन्यदपि सर्वं भोग्यजातमावह संपादय । ततः सुखनिवासार्थं
दिशः प्राच्याद्या निवासयोग्यानि तत्तद्दिग्गतस्थानानि दिश देहि ।
संपादितानां गवाश्वादीनामविनाशं प्रार्थयते----
मा नो॑ हिꣳसीज्जातवेदो॒ गामश्वं॒ पुरु॑षं॒ जग॑त् ।
१ ख. ॰य्याद्याः प्रा° । २ ख. ॰तार्थेऽयं नि° । ३ ग. घ. ङ. ॰दिगन्तस्था°
[प्रपा०१०।अनु०१] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ६९९
अ॒बि॑भ्रदग॒ आग॑हि॒ श्रिया॒ मा॒ परि॑पातय, इति ।
हे जातवेदस्त्वत्प्रसादान्मदीयं गवादिकं निर्ऋतिर्मा हिंसीन्मा विनाशयतु । जग-
च्छब्देन गवाद्यतिरिक्तं गृहक्षेत्रादिकं विवक्षितम् । हेऽग्ने त्वमबिभ्रद्धारयन्नस्म-
दपराधं मनस्यधारयित्वाऽऽगहि अस्मदनुग्रहार्थमागच्छ । ततो मां श्रिया धनधा-
न्यादिसंपदा परिपातय सर्वतः प्रापय ।
इत ऊर्ध्वं तेषु तेषु देशेषु श्रुतिपाठा अत्यन्तविलक्षणाः । तत्र विज्ञानात्मप्रभृतिभिः
पूर्वैर्निबन्धकारैर्द्रविडपाठस्याऽऽदृतत्वाद्द्वयमपि तमेवाऽऽदृत्य व्याख्यास्यामः ।
*तत्र षड्भिर्गायत्रीभिरात्मप्राप्तिद्वारभूता देवताविशेषाः प्रार्थ्यन्ते । तत्राऽऽदौ विश्व-
रूपधरं रुद्रं प्रार्थयते--
पुरु॑षस्य विद्म स॒हस्रा॒क्षस्य॑ महादे॒वस्य॑
धीमहि । तन्नो॑ रु॒द्रः प्र॒चोदया॑त्, इति ।
“विश्वतश्चक्षुः” इत्यादिमन्त्रोक्तो विराट्पुरुषः सहस्राक्षः, तस्य पुरुषस्य स्वरूपं विद्म
जानीमहि लभेमहि वा । तदर्थं तस्य विराड्रूपस्य महादेवस्य स्वरूपं धीमहि ध्यायेम ।
तत्तत्र ध्याने नोऽस्मान्रुद्रो विराड्रूपो महादेवः प्रचोदयात्प्रचोदयतु प्रेरयतु ।
अथ “बिभ्रद्दोर्भिः कुठारं मृगमभयवरौ सुप्रसन्नो महेशः” इत्याद्यागमप्रसिद्धमूर्तिधरं
रुद्रं प्रार्थयते—
तत्पुरु॑षाय वि॒द्महै॑ महादे॒वाय॑ धीमहि ।
तन्नो॑ रु॒द्रः प्र॒चोदया॑त्, इति ।
तमागमप्रसिद्धं पुरुषाकारं महादेवं जानीमो ३ध्यायाम च । तत्तस्मिन्ध्यानेऽस्मान्रुद्रः
प्रेरयतु ।
“बीजापूरगदेक्षुकार्मुक” इत्याद्यागमप्रसिद्धमूर्तिधरं विनायकं प्रार्थयते—
तत्पुरु॑षाय वि॒द्महै॑ वक्रतु॒ण्डाय॑ धीमहि ।
तन्नो॑ द॒न्तिः प्र॒चोदया॑त्, इति ।
गजसमानवक्त्रत्वेन दीर्घस्य तुण्डस्य रत्नकलशादिधारणार्थं वक्रत्वम् । दन्तिर्म-
हादन्तः ।
- तत्रशब्दानन्तरं–“ द्वादशगायत्रीणां मध्ये ” इत्यधिकं च. पुस्तके प्रक्षिप्तम् ।
१ च. झ. अत । २ ख. ग. ‘न्वन्तका’ । ३ ग घ. ध्यायेम । ४ क. ॰यामः। त° ।
५ ख ॰त्याद्याग° । १५
७०० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [प्रपा० १० अनु० १]
पुराणादिषु प्रसिद्धं पक्षिराजमूर्तिधरं देवं प्रार्थयते—
तत्पुरु॑षाय वि॒द्महे॑ सुवर्णप॒क्षाय॑
धीमहि। तन्नो॑ गरुडः प्र॒चोद॑यात्, इति।
शोभनपतनसाधनपक्षोपेतः सुवर्णपक्षः*।
“हेमप्रख्यामिन्दुखण्डाङ्कमौलिम्” इत्यागमप्रसिद्धमूर्तिधरां दुर्गां प्रार्थयते—
का॒त्या॒य॒नाय॑ वि॒द्महे॑ कन्यकु॒मारि॑ धीमहि।
तन्नो॑ दुर्गिः प्र॒चोद॑यात्, इति।
कृत्तिं वस्त इति कौत्त्यो रुद्रः। स एवायनमधिष्ठानमुत्पादको यस्या दुर्गायाः सा
कौत्यायनी। कुत्सितमनिष्टं मारयति निवारयतीति कुमारी। कन्या चासौ कुमारी
चेति कन्यकुमारी। दुर्गिर्दुर्गा। लिङ्गादिव्यत्ययः सर्वत्र च्छान्दसो द्रष्टव्यः।
“अर्कौघाभं किरीटान्वितमकरलसत्कुण्डलम्” इत्याद्यागमप्रसिद्धमूर्तिधरं देवं
प्रार्थयते—
ना॒रा॒य॒णाय॑ वि॒द्महे॑ वासुदे॒वाय॑ धीमहि।
तन्नो॑ विष्णः प्र॒चोद॑यात्, इति।
नरशरीराणामुपादानरूपाण्यन्नादिपञ्चभूतानि नारशब्देनोच्यन्ते। तेषु भूतेषु या आपो
मुख्यास्ता अयनमाधारो यस्य विष्णोः सोऽयं नारायणः। समुद्रजलशायीत्यर्थः।
तथा च स्मर्यते—
“आपो नारा इति प्रोक्ता आपो वै नरसूनवः।
अयनं तस्य ताः प्रोक्तास्तेन नारायणः स्मृतः” इति॥
स च कृष्णावतारे वसुदेवस्य पुत्रत्वाद्वासुदेवः। स च स्वकीयेन वास्तवैन पर-
ब्रह्मरूपेण व्याप्तित्वाद्विष्णुः। ता एता गायत्र्यश्चित्तशुद्ध्यर्थं ध्यानपुरःसरं जपितव्याः।
अथ स्नानाङ्गभूता मन्त्रा उच्यन्ते। तत्र शिरसि मृत्तिकया सह दूर्वां धारयितुं
दूर्वाभिमन्त्रणमन्त्रमाह—
स॒हस्र॑परमा दे॒वी श॒तमू॑ला श॒ताङ्कु॑रा। सर्वं॑
- एतदनन्तरं च. पुस्तके प्रथमं नारायणगायत्रीभाष्यं ततो दुर्गागायत्रीभाष्यमिति क्रमः।
तत्र नारायणगायत्रीभाष्यसमाप्त्यनन्तरम्—“अथाऽऽन्ध्रपाठे गायत्रीपाठः। वज्रनखेति। भास्क-
रेति। वैश्वानरेति। एता उपेक्षिताः” इत्यधिकं प्रक्षिप्तम्।
१ ख. °नसा°। २ ख ग ण्डान्तमौ°। ३ ग. °भारी धी°। ४ ग. कात्यौ। ५ ग. झ. क. र्याय॑। ६ झ. °रीरोपा°। ७ झ 'थै देवताध्या॑।
[प्रपा० १० अनु० १] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ७०१
हरतु॑ मे पा॒पं दूर्वा॒ दु॑ःस्वप्न॒नाशि॑नी, इति ।
येयं दूर्वाभिमानिनी देवता सा मे पापं सर्वं हरतु । कीदृशी, सहस्रसंख्याकेभ्यः
पावनहेतुभ्यो द्रव्येभ्यः परमोत्कृष्टा । सा च देवी द्योतनात्मिका । शतसंख्याकानि
मूलानि यस्याः सा शतमूला । तथा शताङ्कुरा । शतशब्देन बहुत्वमात्रमैत्रोपल-
क्ष्यते । दुःस्वप्नकृतमनिष्टफलं नाशयतीति दुःस्वप्ननाशिनी ।
अथ मृत्तिकाभिमन्त्रणमन्त्राः, तत्र प्रथममन्त्रमाह—
अश्व॑क्रान्ते॒ रथ॑क्रान्ते॒ विष्णु॑क्रान्ते वसुंधरा ।
*शिरसा॑ धारिता दे॒वी रक्ष॑स्व मां प॒दे प॑दे, इति ।
येयं भूमिस्तामश्वाः शुद्धयेहेतवः स्वपदैराक्रामन्ति, तादृशी भूमिरश्वक्रान्ता । अग्नि-
चयन उखानिर्माणार्थं भूखननप्रदेशस्याश्वाक्रमणविधानादश्वपादानां मृच्छुद्धिहेतुत्वं
गम्यते । तथा रथक्रान्ता रथसंचरणेन क्षुण्णा सती शुद्धा भवति । तथा त्रिविक्रमा-
७०२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्—[प्रपा० १० अनु० १]
पादद्वयात्मकं चतुर्थं मन्त्रमाह—
मृत्ति॑के दे॒हि॑ मे पु॒ष्टिं त्वयि॒ सर्वं॒ प्रति॑ष्ठितम्, इति ।
यद्यत्पुष्टिसाधनं यवगोधूमादिद्रव्यं तत्सर्वं हे मृत्तिके त्वयि प्रतिष्ठितम् । तस्मा-
न्मह्यं पुष्टिं देहि ।
पञ्चममन्त्रमाह—
ग॒न्ध॒द्वारां दु॑राध॒र्षां नि॒त्यपु॑ष्टां करी॒षिणी॑म् ।
ईश्वरी॑ग्ँसर्व॑भूतानां॒ तामि॒होप॑ह्वये॒ श्रियम्, इति ।
तां मृत्तिकाभिमानिनीं देवतामिहास्मिन्स्नानकर्मण्युपह्वये सामीप्येनाऽऽह्वयामि ।
कीदृशीम् । गन्धद्वारां घ्राणग्राह्यो गन्ध उपलब्धिव्दारं यस्याः सा गन्धद्वारा । अत
एव गन्धवती पृथिवीति तार्किका लक्षणमाहुः । दुराधर्षां प्रतिकूलैः पुरुषैरसुरादिभि-
राधर्षितुं तिरस्कर्तुमशक्याम् । नित्यपुष्टां सर्वदा व्रीह्यादिधान्यैः परिपूर्णाम् । करी-
षिणीं बहुलेन गोमयेन युक्तां गोमहिष्यादिपशुयुक्तामित्यर्थः । सर्वभूतानां देवतिर्य-
ङ्मनुष्यरूपाणां प्राणिदेहानामीश्वरीमुत्पादकत्वेन नियन्त्रीम् । श्रियं सर्वैः सेव्याम् ।
नाभिदघ्ने जले प्रविश्य जलाभिमन्त्रणमन्त्रमाह—
सु॒मित्रा न॒ आप॒ ओष॑धयः सन्तु दुर्मि॒त्रास्तस्मै॑
भूयासुर्यो॑ऽस्मान्द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मः, इति ।
या एता आपस्ता एतास्तज्जन्या व्रीहियवाद्योषधयश्च नोऽस्मान्प्रति सुमित्राः स्नान-
पानभोजनादावनुकूलाः सन्तु । यः शत्रुरस्मासु द्वेषं करोति यस्मिंश्च वयं द्वेषं कुर्म
उभयविधाय तस्मै शत्रवे दुर्मित्राः प्रतिकूला भूयासुः स्नानपानभोजनादौ ज्वराजीर्णा-
दिकमुत्पादयन्तु ।
एतैर्मन्त्रैरभिमन्त्रितां मृत्तिकामनुलिप्य नद्यादिजलप्रदेशे जलाधिपतिप्रार्थनार्थं मन्त्र-
द्वयमाह—
हिर॑ण्यशृङ्गं॒ वरु॑णं॒ प्रप॑द्ये ती॒र्थं मे॑ दे॒हि याचि॑तः ।
यन्मया॑ भु॒क्तम॑सा॒धूनां॑ पा॒पेभ्य॑श्च प्र॒तिग्र॑हः ॥
यन्मे॒ मन॑सा वा॒चा कर्म॑णा वा दु॑ष्कृतं॒ कृतम् ।
तन्न॒ इन्द्रो॒ वरु॑णो॒ बृह॒स्पतिः॑ सवि॒ता च॑ पुनन्तु॒ पुनः॑ पुन:, इति ।
१ ख. °श्मं म° । २ झ. देवीभि° । ३ ग. व्रीहिधा° । झ. व्रीहियवादि° । ४ ग.
'हिषादि' । ५ झ. °नादिष्वनु° । ६ ख. ग. °नभो' ।
[प्रपा० १० अनु० १] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ७०३
सुवर्णमयशृङ्गवदुपर्यवस्थितं मुकुटं यस्यासौ हिरण्यशृङ्गः, तादृशं वरुणं जलाधि-
पतिं प्रपद्येऽनुग्रहार्थं प्राप्नोमि । तादृशो वरुणस्त्वं मया याचितः प्रार्थितः संस्तीर्थ-
मवतरणस्थानं मे देहि । किंचासाधूनां पापिनां गृहे मया यद्भुक्तं तथा पापेभ्यः
पापिनां सकाशात्प्रतिग्रहश्च यः कृतोऽन्यदपि यद्दुष्कृतं कृतं मानसं वाचिकं कायिकं
वाऽनुष्ठितं मे मदीयं तत्सर्वमिन्द्रादयो देवास्तदा तदा पुनन्तु शोधयन्तु ।
जलावस्थितदेवान्प्रति नमस्कारमन्त्रं दर्शयति—
नमो॒ऽग्नये॑ऽप्सु॒मते॒ नम॒ इन्द्रा॑य॒ नमो॒ वरु॑-
णाय॒ नमो॒ वारु॑ण्यै॒ नमो॒ऽद्भ्यः, इति ।
आपो यस्याङ्गेः सन्ति सोऽयमप्सुमान्, जलमध्ये निगूढ इत्यर्थः । तथाविधाया-
ग्नय इन्द्राय वरुणाय वारुण्यै वरुणपत्न्यै जलाभिमानिदेवताभ्यश्च नमस्कारोऽस्तु ।
निमज्जनप्रदेशे दुष्टजलापनयनमन्त्रमाह—
यद॒पां क्रू॒रं यद॑मे॒ध्यं यद॑शा॒न्तं तदप॑गच्छतात्, इति ।
अपां संबन्धि यत्क्रूरं रूपं मरणकारणमावर्तादिकं यच्चामेध्यं निष्ठीवनादिदुष्टं
यदप्यशान्तं वात(न्त)श्लेष्मादिजनकं तत्सर्वमस्मान्निमज्जनप्रदेशादपगच्छतु ।
निमज्जनमन्त्रावाह—
अ॒त्या॒श॒नाद॑तीपा॒नाद्य॑च्च उ॒ग्रात्प्र॑ति॒ग्रहा॑त् ।
य(त)न्मे॒ वरु॑णो॒ राजा॑ पा॒णिना॑ ह्यवम॒र्शतु॑ ॥
सोऽह॒मपा॒पो वि॒रजो॒ निर्मु॒क्तो मु॑क्तकिल्बिषः ।
नाक॑स्य पृ॒ष्ठमा॒रुह्य॒ गच्छेद्ब्रह्म॑सलो॒कताम्, इति ।
दैवपितृमनुष्यादियज्ञमतीत्य भुक्तमत्याशनम्, देवर्षिपितृतर्पणमतीत्य पीतमुदक-
मतीपानम्, अशास्त्रवर्ती यः पुमांस्तस्माद्यो धनप्रतिग्रहः, एतैरत्यशनातिपानदुष्प्रति-
ग्रहैः संपादितं यत्पापं मे मदीयं तत्सर्वं वरुणो राजा जलस्वामी स्वकीयेन पाणि-
नाऽपनयतु । ततः पापरहितः सोऽहं रजोगुणरहितः संसारकारणरागद्वेषादिदोषा-
निर्मुक्तोऽत एवानुष्ठास्यमानपापरहितः स्वर्गस्योपरिभागमारुह्य ब्रह्मणा हिरण्यगर्भेण
समानभोक्तृत्वं गच्छेदृच्छेयम् ।
१ झ. ॰मय॑ शृं॰ । २ ख. ॰पं
द॑र्ण॒वादधि॑Wait! Look atतत॑तः: Is it तत॑तःorततः॑? Wait! In line 12: रात्रिरजायत तत॑तः- wait, look at the glyphs:त(ta)त॑(ta with svarita)तः(ta with visarga) Yes, it literally is printed asतत॑तः! That is why footnote 6 and 7 mention ॰तः ।: Look at footnote 6: ६ ख. ॰तः । स समास्तस्य ।Footnote 7:७ ख. ॰तः । तस्यादृष्ट्वा ।Wait, let's look at line 12 again. Is there a 6 or 7? Ah! Look at the image betweenतत॑andसमु॒द्रो: Wait, the image has: रात्रिरजायत तत॑: समु॒द्रो अ॑र्ण॒वः ।Wait, does it sayतत॑:orतत॑तः? Let's look really closely at line 12: रा त्रि र जा य तthen spaceत त॑ :Wait! Is itतत॑:? Wait, there is त, then त॑, then :`! Where did I see an extra
तन्यरूपं!
Footnote 5 says: ५ ग. झ. ॰देवाधि॰ ।
Let's check line by line:
Header:
[प्रपा० १० अनु० १] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ७०५
Line 1:
अघमर्षणं कृत्वा तत ऊर्ध्वमवगाहनार्थास्तिस्र ऋचो दर्शयति—
Line 2:
यत्पृ॑थि॒व्याऽ॒ रज॑: स्व॑म॒न्तरि॑क्षे वि॒रोद॑सी । इ॒माऽ॒स्तदापो॑
Wait, is there an accent on रज॑:? Yes, udatta on ज: रज॑:.
Wait, is स्व॑ accented? Yes, udatta on स्व॑.
म॒ has anudatta.
न्तरि॑ has udatta on रि.
क्षे has no accent.
वि॒ has anudatta.
रोद॑ has udatta on द.
सी has no accent.
। danda.
इ॒ has anudatta.
माऽ॒स्तदापो॑: इ॒माऽ॒स्तदापो॑.
Line 3:
`व॑रु॑णः पु॒नात्व॑घम॒र्षण॑ः । ए॒ष
Here is the line-by-line transcription of the Sanskrit text with Vedic accents, mantras, Sāyaṇa's commentary, and footnotes:
चैतन्यं स्वरूपमित्यर्थः । तदेवोपपाद्यते¹— यज्ज्योतिर्ज्वलतीत्युक्तं तज्ज्योतिर्ब्रह्मैव ।
अतो ज्योतिरहमस्मीति वाक्येन ब्रह्माहमस्मीत्युक्तं भवति । न च पूर्वसिद्धं² जीवात्मनः
स्वरूपं विनाश्य रूपान्तरस्य ब्रह्मत्व³लक्षणस्य प्राप्तिर्भवति । किंतु योऽहं पुरा
जीवोऽस्मि स एवेदानीमहं ब्रह्मास्मि । वस्तुतो ब्रह्मण्येव मयि पूर्वमज्ञानाज्जीवत्व-
मारोपितमासीत् । तस्मिन्नज्ञाने विवेकेनापनीते सति वस्तुतः पूर्वसिद्धमेव ब्रह्मस्वरूप-
मिदानीमनुभविताऽस्मि, नतु नूतनं किंचिद्ब्रह्मत्वमागतम् । तस्मादहमेवाहं ब्रह्मभावानु⁴-
भववेलायामपि पूर्वसिद्धोऽहमेव न तु योषित्यामग्निध्यानवदुपचरितं ब्रह्मत्वम् । तादृशोऽहं
जलरूपं मां जुहोमि उदराग्नौ प्रक्षिपामि । हविष्प्रदानवाची स्वाहा
[प्रपा० १० अनु० १] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ७०७
स्नानादूर्ध्वं जप्यं मन्त्रमाह—
आक्रा॑न्तत्समु॒द्रः प्र॑थ॒मे वि॑धर्म॒ञ्जनय॑न्प्र॒जा भुव॑नस्य॒ राजा॑ ।
वृषा॑ प॒वित्रे॒ अधि॒ सानो॒ अव्ये॑ बृह॒त्सोमो॑ वावृधे सु॒वान इन्दुः॑, इति ॥
समुद्रवत्प्रौढत्वात्स¹मोदाख्यपरमानन्दस्वभावत्वाद्वा समुद्रः परमात्मा । स च सर्वं
जगदाक्रान्नाक्रान्तवान्व्याप्तवान् । किं कुर्वन् । प्रथमे सृष्टेरादिकाले प्रजा जनयन् ।
कीदृशे प्रथमकाले विधर्मन्प्राणिभिः पूर्वकल्पेऽनुष्ठिता विविधा धर्मा यस्मिन्काले स्वफ-
लदानार्थमुद्बोध्यन्ते सोऽयं विधर्मा तस्मिन् । स च परमात्मा भुवनस्य पालकत्वा-
द्राजा । स्वभक्तानां कामानां वर्षणहेतुत्वाद्वृषा । ईदृशः सर्वत्र व्याप्तवान् । किंच
सानो सानौ पर्वतपार्श्वभागे, श्रुत्यन्तरे—"तं ब्रह्मगिरिरित्याचक्षते " इति श्रवणा-
द्ब्रह्मावबोधयोग्यो देहो गिरिस्तदवयवः सानुर्हृदयपुण्डरीकं तच्च पवित्रं बाह्यदेहावयवव-
दुच्छिष्टस्पर्शा
द्वितीयामृचमाह—
ता॒म॒ग्निव॑र्णां तप॑सा ज्वलन्तीं वै॑रोच॒नीं क॑र्मफ॒लेषु॒ जुष्टा॓म् ।
दु॒र्गां दे॒वीꣳ श॑र॒णम॒हं प्रप॑द्ये सु॒तरा॑सि तरसे॒ नमः॑, इति ॥
येयं नवदुर्गाकल्पादिषु मन्त्रशास्त्रेषु प्रसिद्धां तां दुर्गां देवीमहं शरणं प्रपद्ये ।
कीदृशीम् । अग्निसमानवर्णाम् । तपसा स्वकीयेन संतापेन ज्वलन्तीमस्मच्छत्रू-
न्दहन्तीम् । विशेषेण रोचते स्वयमेव प्रकाशत इति विरोचनः परमात्मा, तेन दृष्ट-
त्वाद्वैरोचनीम्, कर्मफलेषु स्वर्गपशुपुत्रादिषु निमित्तभूतेषु जुष्टामुपासकैः सेवि-
ताम् । हे सुतरासि सुष्ठु संसारतरणे हेतो देवि तरसे तारयित्र्यै तुभ्यं नमोऽस्तु ।
तृतीयामृचमाह—
अग्ने॒ त्वं पा॑रया नव्यो॑ अ॒स्मान्स्व॒स्तिभि॒रति॑ दु॒र्गाणि॒ विश्वा॑ ।
पूश्च॑ पृ॒थ्वी ब॑हु॒ला न॑ उ॒र्वी भवा॑ तो॒काय॒ तन॑याय॒ शंयोः, इति ॥
हेऽग्ने नव्यः स्तोतव्यस्त्वमस्मान्स्वस्तिभिः क्षेमकारिभिरुपायैर्विश्वा दुर्गाण्यति
सर्वा आपदोऽतिशयेन लङ्घयित्वा पारय संसारस्य परतीरं नय । नोऽस्माकं त्वत्प्र-
सादात्पूश्च या निवासयोग्या पुरी साऽपि पृथ्वी विस्तीर्णा भवतु । उर्वी सर्वस्य
निष्पादनयोग्या भूमिरपि बहुला भवतु । त्वं च तोकाय तनयायास्मदपत्याय तदी-
यपुत्राय च शंयोर्भव सुखस्य मिश्रयिता भव ।
चतुर्थीमृचमाह—
विश्वा॑नि नो दु॒र्गहा॑ जातवेदः॒ सिन्धुं॒ न नावा॑ दु॑रि॒ताऽति॑पर्षि ।
अग्ने॑ अत्रिवन्मन॑सा गृणा॒नोऽस्माकं॑ बोध्यवि॒ता त॒नूना॓म्, इति ॥
हे जातवेदो दुर्गहा सर्वासामापदामपहन्ता त्वं विश्वानि दुरिता सर्वाणि
पापानि नावा सिन्धुं न समुद्रमिव नोऽस्मानतिपर्षि अतिशयेन तारयसि । हेऽग्नेऽ-
त्रिवदाध्यात्मिकादितापत्रयरहितत्वेनात्रिशब्दवाच्यो जीवन्मुक्तो महर्षिः “आत्मौपम्येन
भूतानां दयां कुर्वीत मानवः” इत्येतच्छास्त्रमनुसृत्य “सर्वे च सुखिनः सन्तु सर्वे सन्तु
निरामयाः” इत्येवं मनसा यथा सर्वदा भावयति तथा त्वमपि मनसा गृणानो
गृणन्नुच्चारयन्भावयन्नस्माकं तनूनामविता रक्षिता भूत्वा बोधि बुध्यस्व सावधानो
भवेत्यर्थः ।
पञ्चमीमृचमाह—
पृ॒त॒ना॒जित॒ꣳ॒ सह॑मानमु॒ग्रम॒ग्निꣳ हु॑वेम प॒र॒मात्स॒धस्था॓त् ।
१ झ सस्यानि॑ । २ ख. ॰णान उच्चा॑ । ३ ख. ग. ॰नो गुणानुच्चां ।
[प्रपा० १० अनु० १] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ५७९
स न॑ः पर्षदति॑ दु॒र्गाणि॒ विश्वा॑ क्षाम॑द्दे॒वो अति॑ दुरि॒ताऽत्य॒ग्निः, इति ॥
पृतनाः परकीयसेना जयतीति पृतनाजित्तमत एव सहमानं शत्रूनभिभवन्तमुग्रं
भीतिहेतुमग्निं परमादुत्कृष्टात्सधस्थात्सत्कैर्भृत्यैः सहावस्थानदेशाद्दुवेमाऽऽह्वयाम ।
स न इत्यादि पूर्ववत् । किंचाग्निर्देवः क्षामदस्मदपराधान्क्षममाणोऽतिदुरिताऽतिश-
यितानि पातकानि ब्रह्महत्यादीन्यतिलङ्घयतीति शेषः ।
षष्ठीमृचमाह—
प्र॒त्नोषि॑ क॒मीड्यो॑ अ॒ध्व॒रेषु॑ स॒नाच्च॒ होता॒ नव्य॑श्च॒ सत्सि॑ ।
स्वां चाग्ने॑ त॒नुवं॑ पि॒प्रय॑स्वा॒स्मभ्यं॑ च॒ सौभ॑ग॒माय॑जस्व, इति ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषदि
प्रथमोऽनुवाकः ॥ १ ॥
हेऽग्ने त्वमध्वरेषु यागेष्वीड्यः स्तुत्यः सन्कं सुखं प्रत्नोषि प्रत्नोषि विस्तार-
यसि । सनाच्च कर्मफलस्य दाताऽपि सन्होता होमनिष्पादकः, नव्यः स्तुत्योऽपि
भूत्वा सत्सि सीदसि यागदेशे तिष्ठसि । अतो हेऽग्ने स्वां च स्वकीयामपि तनुवं
पिप्रयस्वास्मदीयहविषा प्रीणय । ततोऽस्मभ्यं च सौभगं शोभनभाग्योपेतत्वमाय-
जस्व सर्वतो देहि ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरी-
यारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्या-
मुपनिषदि प्रथमोऽनुवाकः ॥ १ ॥
अथ द्वितीयोऽनुवाकः ।
[———]
अथ होमार्थान्महाव्याहृतिसंज्ञकान्मन्त्रानाह—
भूर॒ग्नये॑ पृथि॒व्यै स्वाहा॒ भुवो॑ वा॒यवे॒ऽन्तरि॑-
क्षाय॒ स्वाहा॒ सुव॑रादि॒त्याय॑ दि॒वे स्वाहा॒
भूर्भुव॒: सुव॑श्च॒न्द्रम॑से दि॒ग्भ्यः स्वाहा॒ नमो॑
दे॒वेभ्य॑: स्व॒धा पि॒तृभ्यो॒ भूर्भुव॒: सुव॒रोम्, इति॑ ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषदि
द्वितीयोऽनुवाकः ॥ २ ॥
७१० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्—[प्रपा० १० अनु० १]
भूर्भुवः सुवरोमिति त्रीणि पदान्यव्ययानि । तानि च व्यस्तरूपेण समस्तरूपेण च
मन्त्रचतुष्टयरूपतां प्रा¹तिपद्याग्न्यादिदेवताप्रतिपादकानि । तथा सत्ययमर्थः संपद्यते ।
भूरित्यनेन मन्त्रेण प्रतिपाद्यायाग्नये तन्मन्त्रप्रतिपाद्यायै² पृथिव्यै³ च स्वाहा सुहुतमिदं
द्रव्यमस्त्विति । एवमुत्तरेष्वपि त्रिषु मन्त्रेषु योज्यम् । अत्र द्रव्यविशेषस्यानुक्तत्वात्स-
र्वहोमसाधारणमाज्यमेव द्रव्यमित्यवगन्तव्यम् । फलविशेषस्यानुक्तत्वात्पापक्षयोऽत्र
साधारणं फलं द्रष्टव्यम् । चतुर्भिर्मन्त्रैर्यथाशक्ति हुत्वाऽन्ते प्राङ्मुखो नमो देवेभ्य
इति मन्त्रेणोपतिष्ठेत । पश्चाद्दक्षिणाभिमुखः स्वधा पितृभ्य इति मन्त्रेणोपतिष्ठेत ।
स्वधाशब्दः पितृप्रियं नमस्काराद्युपचारं ब्रूते । भूर्भुवः सुवरिति लोकत्रयेऽपि पापर-
हितो भवामि । ओमित्ययं शब्दोऽङ्गीकारवाचित्वात्तत्र तत्रोचितार्थाङ्गीकारं प्रतिपाद-
यति । नारायणाख्येनेश्वरेण मुनिना वा दृष्टत्वादयं प्रपाठको नारायणीयः ।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरी-
यारश्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुप-
निषदि द्वितीयोऽनुवाकः ॥ २ ॥
अथ तृतीयोऽनुवाकः ।
अन्नसमृद्धिकामस्य तेष्वेव मन्त्रेषु पाठान्तरमाह—
भूरन्न॑म॒ग्नये॑ पृथि॒व्यै स्वाहा॒ भुवोऽन्नं॑ वा॒यवे॒ऽन्तरि॑क्षाय
स्वाहा॒ सुव॒रन्न॑मादि॒त्याय॑ दि॒वे स्वाहा॒ भूर्भुवः॒
सुव॒रन्नं॑ च॒न्द्रम॑से दि॒ग्भ्यः स्वाहा॒ नमो॑ दे॒वेभ्यः॒
स्व॒धा पि॒तृभ्यो॒ भूर्भुवः॒ सुव॒रन्न॒मोम्, इति॑ ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषदि
तृतीयोऽनुवाकः ॥ ३ ॥
अन्नद्रव्यं स्वाहुतमस्तु । समृद्धमन्नमहं प्राप्नोमीत्येतावानेव विशेषः ।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरी-
यारश्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुप-
निषदि तृतीयोऽनुवाकः ॥ ३ ॥
१ ख. ॰पद्य रतां । २ ग. क. ॰तिपाद्या॰ । ३ ग. ॰द्याम्॰ ।
[प्रपा० १० अनु० ४-५] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ७११
अथ चतुर्थोऽनुवाकः ।
पूजाकामस्य पुनरप्यन्यपाठमाह—
भूर॒ग्नये॑ च पृथि॒व्यै च॑ म॒हते॑ च॒ स्वाहा॒ भुवो॑ वा॒यवे॑
चान्तरि॑क्षाय च म॒हते॑ च॒ स्वाहा॒ सुव॑रादि॒त्याय॑ च
दि॒वे च॑ म॒हते॑ च॒ स्वाहा॒ भूर्भुवः॒ सुव॑श्च॒न्द्रम॑से च
नक्ष॑त्रेभ्यश्च दि॒ग्भ्यश्च॑ म॒हते॑ च॒ स्वाहा॒ नमो॑ दे॒वेभ्यः॑
स्व॒धा पि॒तृभ्यो॒ भूर्भुवः॒ सुव॑र्मह॒रोम्, इति॑ ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोप-
निषदि चतुर्थोऽनुवाकः ॥ ४ ॥
महते प्रौढाय पूज्याय वा हिरण्यगर्भाय । चकारैस्तत्तद्देवतानां सेवका देवाः परिगृ-
ह्यन्ते । तेभ्योऽपि स्वाहुतमित्युक्तं भवति । महरों पूजां प्राप्नवानि ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरी-
यारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुप-
निषदि चतुर्थोऽनुवाकः ॥ ४ ॥
अथ पञ्चमोऽनुवाकः ।
पूर्वत्र भूरग्नय इत्यनुवाके सर्वसाधारणाः पापक्षयार्था होममन्त्रा उक्ताः । अथ
प्रतिबन्धनिवारणेन मुमुक्षोर्ज्ञानप्राप्त्यर्था होममन्त्रा उच्यन्ते—
पा॒हि नो॑ अग्न॒ एन॑से॒ स्वाहा॑ । पा॒हि नो॑ विश्ववे॑दसे॒ स्वाहा॑ ।
य॒ज्ञं पा॑हि विभावसो॒ स्वाहा॑ । सर्वं॑ पाहि शतक्रंतो॒ स्वाहा॑, इति॑ ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषदि
पञ्चमोऽनुवाकः ॥ ५ ॥
हेऽग्ने नोऽस्मानेनसो ज्ञानप्रतिबन्धकात्पापात्पाहि रक्ष । तुभ्यमिदं स्वा[हा]
मस्तु नोऽस्माकं विश्ववेदसे कृत्स्नतत्त्वज्ञानसिद्धयर्थं पाहि तत्साधनसंपादनेन
त्राय । तदर्थं तुभ्यमिदं स्वा[हा]हुतमस्तु । विशेषेण भानं दीप्तिर्विभा सैव वसु धनं
यस्याग्नेः सोऽयं विभावसुः । हे विभावसो यज्ञं विविदिषाहेतुत्वेनास्माभिरनुष्ठीयमानं
पाहि निर्विघ्नेन समाप्तिं नीत्वा पालय । शतसंख्याकाः क्रतवो येनाग्निना निष्पाद्यन्ते
सोऽयं शतक्रतुः । हे शतक्रतो सर्वं ज्ञानसाधनं गुरुशास्त्रादिकं पाहि ।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरी-
यारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुप-
निषदि पञ्चमोऽनुवाकः ॥ ५ ॥
अथ षष्ठोऽनुवाकः ।
अथ ज्ञानप्रतिपादककृत्स्नवेदान्तप्राप्तिकामेन जप्यं मन्त्रमाह—
यश्छन्द॑सामृष॒भो वि॒श्वरू॑प॒श्छन्दो॑भ्य॒श्छन्दां॑ꣳ-
स्यावि॒वेश॑ । सतांꣳ॑ शिक्य॑ः प्रोवा॒चोप॑निष॒दिन्द्रो॑
ज्येष्ठ॒ इन्द्री॑याय॒ ऋषि॑भ्यो॒ नमो॑ दे॒वेभ्य॑ः
स्व॒धा पि॒तृभ्यो॒ भूर्भुव॒ः सुव॒रोम्, इति॑ ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषदि
षष्ठोऽनुवाकः ॥ ६ ॥
यः प्रणवश्छन्दसां वेदानां मध्यं ऋषभः श्रेष्ठः, विश्वरूपः सर्वजगदात्मकः, एत-
द्वेदसारत्वं विश्वरूपत्वं च सांहित्यामुपनिषदि प्रपञ्चितम् । तादृशः प्रणवश्छन्दोभ्यो
वेदेभ्यः प्रादुर्भूत इति शेषः । वेदसारत्वेन प्रजापतेः प्रत्यभादित्यर्थः । स पुनश्छन्दांसि
गायत्र्यादीन्याविवेश । छन्दोभिरुपलक्षितेषु मन्त्रेषु प्रयोक्तव्यः । तथाच प्रपञ्चसारेऽभि-
हितम्—“अस्य तु वेदादित्वात्सर्वमनूनां प्रयुज्यते ह्यादौ” इति । तेन प्रणवेन प्रतिपाद्य
इन्द्रः परमैश्वर्ययुक्तः परमात्मोपनिषत्प्रोवाचोपनिषदं ब्रह्मविद्यां सर्ववेदान्तसिद्धामुक्त-
वान् । कीदृश इन्द्रः । सतां शिक्यः सद्भिः कर्मानुष्ठायिभिरुपासकैर्ज्ञानिभिश्च प्राप्तुं
शक्यः, ज्येष्ठः कारणत्वेन सर्वस्मात्प्रथमः । किमर्थं विद्यामुक्तवानित्युच्यते—
ऋषिभ्य ऋषीणामन्तर्मुखानां जिज्ञासूनामिन्द्रियाय ज्ञानसामर्थ्यार्थम् । अतोऽहं तत्व-
तिबन्धनिवारणाय देवेभ्यः पितृभ्यश्च नमस्करोमि । भूर्भुवः सुवरोँ लोकत्रयाव-
१ झ. संचार । २ ख. झ. ‘कः पुरोवा’ । ३ ग. झ. ‘यश्छन्द ओम् । ४ क.
ङ. ०न्वेदान्तो० । ख. ०न्तात्म० । ५ ख. ‘निति तद्वक्ष्यं’ । ६ ग. झ. ‘र्थाय । अ’ ।