तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
पृष्ठ 711, कुल 914 में से
संदर्भ में पढ़ेंHere is the line-by-line transcription of the Sanskrit text with Vedic accents, mantras, Sāyaṇa's commentary, and footnotes:
चैतन्यं स्वरूपमित्यर्थः । तदेवोपपाद्यते¹— यज्ज्योतिर्ज्वलतीत्युक्तं तज्ज्योतिर्ब्रह्मैव ।
अतो ज्योतिरहमस्मीति वाक्येन ब्रह्माहमस्मीत्युक्तं भवति । न च पूर्वसिद्धं² जीवात्मनः
स्वरूपं विनाश्य रूपान्तरस्य ब्रह्मत्व³लक्षणस्य प्राप्तिर्भवति । किंतु योऽहं पुरा
जीवोऽस्मि स एवेदानीमहं ब्रह्मास्मि । वस्तुतो ब्रह्मण्येव मयि पूर्वमज्ञानाज्जीवत्व-
मारोपितमासीत् । तस्मिन्नज्ञाने विवेकेनापनीते सति वस्तुतः पूर्वसिद्धमेव ब्रह्मस्वरूप-
मिदानीमनुभविताऽस्मि, नतु नूतनं किंचिद्ब्रह्मत्वमागतम् । तस्मादहमेवाहं ब्रह्मभावानु⁴-
भववेलायामपि पूर्वसिद्धोऽहमेव न तु योषित्यामग्निध्यानवदुपचरितं ब्रह्मत्वम् । तादृशोऽहं
जलरूपं मां जुहोमि उदराग्नौ प्रक्षिपामि । हविष्प्रदानवाची स्वाहा