सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

पृष्ठ 703, कुल 914 में से

संदर्भ में पढ़ें
पृष्ठ 703

६९८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्—[प्रपा० १० अनु०१]
प्र॒जाप॑तिः प्रथ॒मजा ऋ॒तस्या॒ऽऽत्मना॒ऽऽत्मान॑म॒भिसंब॑भूव, इति ।
ऋतस्य सत्यस्य ब्रह्मणः प्रथमजाः प्रथमकार्यभूतः प्रजापतिर्हिरण्यगर्भो लोका-
न्भूरादीन्भूतानि देवमनुष्यादिप्राणिदेहान्प्रदिश आग्नेय्याद्या दिशश्च प्राच्याद्याः
परीत्य सर्वतो व्याप्य सृष्टिकाले सृष्ट्वा पुनरपि परीत्य स्थितिकाले रक्षित्वाऽऽत्मना
स्वस्वरूपेण तद्विषयकसत्त्वज्ञानेनेत्यर्थः । आत्मानं सत्यज्ञानादिलक्षणमभिसंबभूव सर्वतः
सम्यक्प्राप्तवान् ।
तदेवं ब्रह्मविद्या प्रतिपादिता । अथ तत्प्राप्तिसाधनभूताः सोपाधिकब्रह्मध्यानजप-
स्नानादिकर्माङ्गभूता मन्त्राः कर्मकाण्डे पूर्वमनुक्ता अस्मिन्खिलकाण्डेऽभिधीयन्ते । तत्रै-
केन मन्त्रेण ब्रह्मप्राप्त्यर्थमन्तर्यामिणं प्रार्थयते—
• सद॑स॒स्पति॒मद्भु॑तं प्रि॒यमिन्द्र॑स्य॒ काम्य॑म् ।
सनिं॑ मे॒धाम॑यासिषम्, इति ।
सीदत्यस्मिन्नव्याकृते कारणे सर्वं जगदिति सदः । तस्य पतिं पालकमन्तर्यामिण-
मयासिषमहं प्राप्तवानस्मि । शत्रिं प्राप्तवानित्यनया विवक्षया भूतार्थनिर्देशः । कीदृशं
सदसस्पतिम् । अद्भुतमाश्चर्यरूपम् । मनसाऽप्यचिन्त्यरचनारूपस्य जगतोऽनायासेन
निर्मातृत्वमद्भुतत्वम् । इन्द्रस्य देवराजस्यापि प्रियम् । सोऽप्यन्तर्यामिणं कदा प्राप्स्या-
मीत्येवमाशास्ते । अत एव सर्वैरन्यैः काम्यमपेक्षणीयम् । सनिं कर्मफलस्य दातारम्।
मेधां श्रुताधीतग्रन्थधारणशक्तिं प्रयच्छन्तमिति शेषः ।
अथ वह्न्युपाधिकं परमेश्वरं प्रतिष्ठाप्राप्तिं प्रार्थयते—
उद्दी॑प्यस्व जातवेदोऽप॒घ्नन्निऋ॑तिं मम॑ ।
प॒शूꣳश्च॒ मह्य॒माव॑ह॒ जीव॑नं च॒ दिशो॑ दिश, इति ।
जाते प्राणिशरीरे जाठराग्निरूपेण विद्यतेऽवतिष्ठत इति जातवेदाः । अथवा
जातानुत्पन्नान्यजमानास्तत्तत्फलदानाय वेत्ति स्वचित्ते निश्चिनोतीति जातवेदाः ।
हे जातवेदो मदनुग्रहार्थमुत्कर्षेण दीप्यस्व । किं कुर्वन् । ममानिष्टकारिणीं निर्ऋतिं
पापदेवतामपघ्नन्विनाशयन् । तां विनाशय ततो [ मह्यं ] मदर्थं पशून् गवादिजीवनं
दीर्घायुष्यं चकाराभ्यामन्यदपि सर्वं भोग्यजातमावह संपादय । ततः सुखनिवासार्थं
दिशः प्राच्याद्या निवासयोग्यानि तत्तद्दिग्गतस्थानानि दिश देहि ।
संपादितानां गवाश्वादीनामविनाशं प्रार्थयते----
मा नो॑ हिꣳसीज्जातवेदो॒ गामश्वं॒ पुरु॑षं॒ जग॑त् ।
१ ख. ॰य्याद्याः प्रा° । २ ख. ॰तार्थेऽयं नि° । ३ ग. घ. ङ. ॰दिगन्तस्था°