सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

[प्रपा०८।अनु०२] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ६४५
य॒दा ह्ये॑वै॒ष ए॒तस्मि॑न्नुद॒रम॒न्तरं॑
कु॒रु॒ते । अथ॒ तस्य॑ भ॒यं भ॑वति ।
विदुषो ब्रह्मप्राप्तिनिश्चयेन यथा संशयो निराकृत एवमविदुषो ब्रह्मप्राप्त्यभावनि-
श्चयेन संशयमपाकरोति—यदा ह्येवैष इत्यादिना । उच्छब्दोऽपिशब्दार्थे वर्तते ।
अरशब्दोऽल्पवाची । अन्तरशब्दो भेदवाची । एष लौकिकः पुमानेतस्मिन्ब्रह्मण्यल्प-
मपि भेदं स्वातिरिक्तत्वं यदा कुरुते । स्वस्माद्भेदेन ब्रह्म पश्यति तदैव तस्य जन्ममर-
णादिसंसारभयं भवति । जीवब्रह्मभेदस्य, वास्तवत्वाभावाभिप्रायेणाल्पमित्युक्तम् । भेद-
दर्शिनः संसारप्राप्तौ श्रुत्यन्तरसिद्धिं हिशब्देन दर्शयति । “ मृत्योः स मृत्युमाप्नोति
य इह नानेव पश्यति ” “ ब्रह्म त

तदुक्तं वार्तिककारैः—" नियम्यकार्यमापेक्ष्य नियन्तैष तमोवधिः ” इति । श्रुत्यन्तरं
च—“ यो वायुमन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतः । एतस्य वा अक्षरस्य
प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः ” इत्यादिकमुदाहार्यम् ।
अस्य च भयहेतोर्नियामकस्यान्तर्यामिणो ब्रह्मत्वं प्रथमाध्यायस्य द्वितीयपादे*
चिन्तितम्—
“ प्रधानं जीव ईशो वा कोऽन्तर्यामी जगत्प्रति ।
कारणत्वात्प्रधानं स्याज्जीवो वा कर्मणो मुखात् ॥
जीवैकत्वामृतत्वादेरन्तर्यामी परमेश्वरः ।
द्रष्टृत्वादेर्न प्रधानं न जीवोऽपि नियम्यतः ॥
बृहदारण्यके पञ्चमाध्याये याज्ञवल्क्य उद्दालकं प्रत्याह —“ यः पृथिव्यां
तिष्ठन्पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयत्येष त
आत्माऽन्तर्याम्यमृतः ” इति । तत्र पृथिव्यादिजगत्प्रति योऽन्तर्यामी श्रूयते तस्मिन्विशेष
संशये सति प्रधानमिति प्राप्तम् । तस्य सकलजगदुपादानत्वेन स्वकार्यं प्रति नियामक-
त्वसंभवात् । अथवा जीवोऽन्तर्यामी । स हि धर्माधर्मरूपं कर्मानुष्ठितवान् । तच्च कर्म
स्वफलदानायं फलभोगसाधनं जगदुत्पादयति । अतः कर्मद्वारा जगदुत्पादकत्वाज्जीवोऽ-
न्तर्यामीति प्राप्ते ब्रूमः— “ एष त आत्माऽन्तर्याम्यमृतः ” इत्यन्तर्यामिणो जीवतादा-
त्म्यममृतत्वं च श्रूयते । तथा पृथिव्यन्तरिक्षादिषु सर्ववस्तुष्वन्तर्यामित्वोपदेशेन सर्वव्या-
पित्वं प्रतीयते । तेभ्यो हेतुभ्योऽन्तर्यामी परमेश्वरः । न च प्रधानस्यान्तर्यामित्वं संभ-
वति, “ अदृष्टो द्रष्टाऽश्रुतः श्रोता ” इति द्रष्टृत्वश्रोतृत्वाद्यवगमात् । अचेतनस्य प्रधा-
नस्य तदसंभवात् । नापि जीवोऽन्तर्यामी “ य आत्मानमन्तरो यमयति ” इति जीवस्य
नियम्यत्वश्रवणात् । तस्मादन्तर्यामी परमेश्वरः । एतस्माद्द्वयमज्ञानिन एव । न ।
तत्त्वविदः ” ।
तदेवं सर्वेषां प्रश्नानामुत्तरं संपन्नम् । पूर्वत्र यदुक्तं “ सोऽश्नुते सर्वान्कामान्सह
इति, यदपि “रसो वै सः” इत्यानन्दरूपत्वं सूत्रितं तदुभयं निर्णैतुं विचारमवतारयति-
सै॒षाऽऽनन्द॑स्य मी॒मा॑ᳵसा भवति, इति ।
तच्छब्देन मीमांसायाः श्रुत्यन्तरप्रसिद्धिः प्रदर्श्यते । बृहदारण्यके हि—“।
यो मनुष्याणां राद्धः समृद्धो भवत्यन्येषामधिपतिः सर्वैर्मानुष्यकैर्भोगैः संपन्नतमः
मनुष्याणां परम आनन्दः ” इत्या॑दिनाऽऽनन्दनिर्णयः प्रपञ्चितः । राद्धो देहेन्द्रिया-


  • अन्तर्याम्यधिदैवादिषु तद्धर्मव्यपदेशात्—ब्र० सू० अ० १ पा० २ अ० ५ सू० १८।
    १ ग. तस्य । २ ख. ॰रमरत्वं चेति । घ. ॰रय° । ३ ख. ॰त्यान° ।

[प्रपा० ८ अनु० २] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ६६७

[..]पाटवलक्षणसिद्धयुपेतः । समृद्धो विद्यादिगुणसंपन्नः । एतच्छब्देनानन्तरग्रन्थे वक्ष्य-
माणतां दर्शयति । किमयं ब्रह्मानन्दो लौकिकानन्दवद्विषयविषयिसंबन्धेन जन्यत आहो-
स्वित्स्वाभाविक इत्येषा मीमांसा प्रवर्तते ।
तत्र स्वाभाविकं ब्रह्मानन्दं विवेक्तुं द्वारभूता अन्ये विषयानन्दाः क्रमेणोपन्यस्यन्ते ।
एतेषां ब्रह्मानन्दलेशात्त्वान्निश्चयद्वारत्वमुपपन्नम् । तल्लेशत्वं चैवं द्रष्टव्यम् । अविद्यया
विवेके तिरस्क्रियमाणे सत्युत्कृष्यमाणायां चाविद्यायां हिरण्यगर्भमारभ्य मनुष्यपर्यन्तेषु
जीवेषु ब्रह्मानन्दस्तत्तत्कर्मवशाद्विषयादिसाधनसंबन्धवशाच्च यथाविज्ञानं भाव्यमानतयाऽ-
पचीयमाणश्चञ्चलो व्यवस्थितो लौकिकः संपद्यते । स एव पुनरविद्याकामकर्मप्रक्षयेण
मनुष्यगन्धर्वादिषु हिरण्यगर्भपर्यन्तमुत्तरोत्तरभूमिषु शतगुणोत्कर्षयुक्तोऽकामहतविद्वच्छ्रो-
त्रियप्रत्यक्षो विभाव्यते । विद्यया त्वाविद्याकृते विषयविषयिविभागे निवृत्ते सति स्वाभा-
विकः परिपूर्ण एक एवाऽऽत्मानन्दोऽवतिष्ठते । तस्य द्वारभूतेषु विषयानन्देष्वस्मत्प्रसिद्ध-
मानन्दमादौ तावद्दर्शयति—
यु॒वा स्या॑त्साधुयु॑वाऽध्या॒यकः॑ । आशि॑ष्ठो द्रढि॑ष्ठो ब॒लिष्ठः॑ । तस्ये॒यं
पृथि॒वी सर्वा॑ वि॒त्तस्य॑ पू॒र्णा स्यात्॑ । स एको॒ मानु॑ष आ॒नन्दः॑, इति ।
मनुष्यस्य बाल्ये विषयगुणानभिज्ञत्वात्स्वक्चन्दनवनितादिविषयानन्दो नास्ति ।
वार्धके तदभिज्ञत्वेऽपि भोक्तुमसमर्थत्वादसौ नास्ति । अतो यौवनमेव परिशिष्यत इत्य-
भिप्रेत्य युवा स्यादित्युक्तम् । यौवनेऽपि कुरूपत्वक्रोधादिग्रस्तस्य दुःखबाहुल्यात्तद्वा-
रणाय साधुयुवेत्युच्यते । तादृशस्यापि चतुःषष्टिकलासु चतुर्दशविद्यास्वेकस्या अप्यभावे
दुःखं भवेदिति तद्व्यावृत्त्यर्थमध्यायक इत्युक्तम् । विद्यावतोऽपि कार्येषु मन्दप्रवृत्तेरग्निमा-
न्द्यादिना भोजनादौ रुचिहीनस्य वा सुखं न भवतीति तन्निवृत्त्यर्थमाशिष्ठ इत्युक्तम् ।
आशुतमः सर्वकार्येषु शीघ्रं प्रवर्तत इत्यर्थः । यद्वा सर्वेषु भोज्यद्रव्येषु रुचिबाहुल्ये-
नाऽऽशितुतमः । ईदृशस्यापि मनोदार्ढ्याभावे सति न युद्धादौ धृतिः स्यादिति तद्वा-
रणाय द्रढिष्ठ इत्युक्तम् । धैर्ययुक्तोऽपि शारीरबलहीनोऽश्वारोहणादावक्षमः स्यादिति
निवारयितुं बलिष्ठ इत्युक्तम् । एतावत्ता भोक्तृत्वसंपत्तिरुक्ता । तस्येयमिति भोग्यसंपत्ति-
रुच्यते । चतुर्दिक्षु समुद्रवेष्टिता या पृथिवी सा सर्वाऽपि वित्तस्य पूर्णा भोग्यद्रव्य-
त्वेन पूरिता । एतच्चान्येषामधिपतिरित्यादिकस्य श्रुत्यन्तरोक्तस्योपलक्षणम् । यदि
कश्चित्सार्वभौमस्यैतत्सर्वं संभवेत्तदानीमयं मानुष आनन्दो भवति । इतोऽर्वाची-
नास्तु दुःखमिश्रत्वादानन्दा एव न संभवन्ति । न खलु कश्चिदपि मनुष्यो यथोक्तसा-
१ घ. ॰ह्वत्तन्नि॰ । २ क. ङ 'लोऽप' । ३ ख. 'पक्रो' । ४ ख. 'यासु चैक॰ ।
५. तद्धारणाय ।

६४८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [प्रपा० ८अनु०२]

र्वभौमादन्यः कश्चिदपि सर्वतस्तृप्तिमानुपलभ्यते । आनन्दो नाम तृप्तिः । तस्याः कश्चि-
द्विषयाभिलाषो विरोधी । स चालब्धे विषये कस्यचित्कस्मिंश्चिद्वश्यं संभवत्येव ।
सार्वभौमस्य तु सर्वविषयाणां मनुष्यलोकवर्तिनां लब्धत्वेन विरोध्यभावान्निर्विघ्ना तृप्ति-
रभिव्यज्यते ।
एवं च सति यावद्यावदभिलाषनिवृत्तिरुत्कृष्टा भवति तावत्तावदानन्दोऽप्युत्कृष्यते ।
एतदेवाभिप्रेत्य पूर्वोक्तादानन्दादधिकमुदाहरति—
ते ये श॒तं मानु॑षा आ॒नन्दाः॑ ( १ ) । स एको॑ मनुष्य-
गन्ध॒र्वाणा॑मा॒नन्दः॑ । श्रोत्रि॑यस्य॒ चाका॑महतस्य, इति ।
ते पूर्वोक्ताः सार्वभौमनिष्ठा मानुषा आनन्दाः शतसंख्याका ये सन्ति सोऽयमा-
नन्दसंघो मनुष्यगन्धर्वाणामेक आनन्दो भवति । शतसंख्याकेषु सार्वभौमेषु यावती
तृप्तिस्तावती मनुष्यगन्धर्वस्यैकस्य विद्यते । अस्मिन्कल्पे मनुष्याः सन्तो विद्याकर्मवि-
शेषानुष्ठानेन गन्धर्वत्वं प्राप्ता मनुष्यगन्धर्वाः । ते ह्यन्तर्धानादिशक्तियोगेन मनुष्येभ्य
उत्कृष्टाः ।
स चोत्कर्षो वार्तिके दर्शितः—
“ सुगन्धिनः कामरूपा अन्तर्धानादिशक्तयः ।
नृत्य¹गीतादिकुशला गन्धर्वाः स्युर्नृलौकिकाः ” ॥ इति ।
ततस्तेषां मनुष्यवदानन्दप्रतिघातः प्रायेण नास्ति । कदाचित्प्रसक्तस्यापि परिहाराय
साधनसंपत्तिरस्ति । तथा सति चित्तप्रसादविशेषात्सुखविशेषाभिव्यक्तिरुपपद्यते । सार्व-
भौमस्य मनुष्यत्वेन तदीयस्याऽऽनन्दस्यास्माभिरपेक्षितुं शक्यत्वान्न तत्र श्रोत्रिय उदा-
हृतः । मनुष्यगन्धर्वास्त्वन्तरिक्षलोकवासिनः “ यक्षगन्धर्वाप्सरोगणसेवितमन्तरि-
क्षम् ” इति श्रुत्यन्तरात् । अतस्तदीयस्याऽऽनन्दस्याप्रसिद्धत्वात्तत्प्रसिद्धिं मनुष्यलोके
दर्शयितुं श्रोत्रिय उदाह्रियते । “ श्रोत्रियश्छन्दोऽधीते ” इति पाणिनिना सूत्रित-
त्वात् । स हि सर्वेषु लोकेषु वर्तमानस्याऽऽनन्दहेतोर्विषयस्य भोगे प्रयाससाध्यत्वसा-
तिशयत्वानित्यत्वदोषाञ्छास्त्रानुभवाभ्यां निश्चित्य तत्र निष्कामो भवति । तथा सति
मनुष्यगन्धर्वलोकगतान्विषयानभुञ्जानस्य यावानानन्दस्तावानकामहतवेदविच्छ्रोत्रिय-
स्यापि विद्यते । अकामहतत्वं तु गन्धर्वलोकानभिज्ञस्य मूढस्येदानीं विद्यमानमपि
कालान्तरेण शास्त्रादभिजानानस्य तल्लोकभोगेच्छायामुत्पन्नायां निवर्तते । श्रोत्रियस्य
तु तद्दोषदर्शिनः कदाचिदपि कामानुत्पत्तेरकामहतत्वं सुस्थितम् । ननु गन्धर्वस्य
नृत्य²गीतादिभिस्तदा कदाचित्तद्वृत्त्युल्लासलक्षणो हर्षशब्दाभिधेय आनन्द उपप-


¹ ग. व. नृत्तगी० । ² ग. व. नृत्तगी० ।

[प्रपा० ८ अनु० २] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ६४९

द्यते । न त्वसावकामहतस्य श्रोत्रियस्य विद्यत इति चेन्मा भूदयं हर्षः । तस्य क्षणिक-
त्वेन चित्तविकारत्वेन च मुख्यानन्दत्वाभावाद्विषयप्राप्त्या तदिच्छायां निवृत्तायां हर्षा-
दिविकारेषु च शान्तेषु या तृप्तिर्भङ्गिरनुगच्छत्यसौ च मुख्यानन्दः ।
तथा च स्मर्यते—
“यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम् ।
तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम्” ॥ इति ।
तृप्तिरूपश्चाऽऽनन्दो गन्धर्वेण समानोऽकामहतस्य श्रोत्रियस्य विद्यते । यथोक्तपर्याय-
द्वयमुत्तरेष्वपि पर्यायेषु चित्तस्य प्रसादातिशयमनुसृत्य तृप्तिलक्षणस्याऽऽनन्दस्याऽऽविर्भा-
वातिशयो व्याख्येयः ।
तत्र तृतीयपर्यायमाह—
ते ये श॒तं म॑नुष्यगन्ध॒र्वाणा॑मा॒नन्दा॑ः । स एको॑ देवग-
न्ध॒र्वाणा॑मा॒नन्द॑ः । श्रोत्रि॑यस्य चाका॑महतस्य, इति ।
सृष्टिकाल एव देवलोके समुत्पन्ना गायका देवगन्धर्वाः ।
चतुर्थं पर्यायमाह—
ते ये श॒तं दे॑वगन्ध॒र्वाणा॑मा॒नन्दा॑ः । स एकः॑ पितॄणां॑ चिरलो-
कलोका॑ना॒मानन्द॑ः । श्रोत्रि॑यस्य चाका॑महतस्य, इति ।
चिरकालस्थायी यो लोकस्तमालोकयन्त इति चिरलोकलोकाः ।
पञ्चमं पर्यायमाह—
ते ये श॒तं पि॑तॄणां चि॑रलोकलोका॑ना॒मानन्दा॑ः ।
स एक॑ आजा॒नजा॑नां दे॒वाना॑मा॒नन्द॑ः ।
(२) । श्रोत्रि॑यस्य चाका॑महतस्य, इति ।
पितृलोकादूर्ध्वभावी कश्चिदाजानाख्यो देवलोकविशेषस्तत्रोत्पन्ना आजानजाः ।
षष्ठं पर्यायमाह—
ते ये शतमाजानजानां देवाना॑ना॒नन्दा॑ः। स एकः॑
कर्मदे॒वानां॑ दे॒वाना॑मा॒नन्द॑ः । ये कर्म॑णा दे॒वा-
नपि॑यन्ति । श्रोत्रि॑यस्य चाका॑म॑हत॒स्य, इति ।
१ ख. ॰भङ्ग्यनु॰ । २ ग. घ. ॰च्छति सैव मु॰ । ३ ख. घ. ॰श्चमप॰ ।
८२

आजानजदेवभोगादप्युत्तमं भोगं प्राप्तुं ये वैदिकं कर्मविशेषमनुष्ठाय देवान्प्राप्नुवन्ति
ते कर्मदेवाख्या देवाः ।
सप्तमं पर्यायमाह—
ते ये श॒तं क॑र्मदे॒वानां॑ दे॒वाना॑मान॒न्दाः । स एको॑
दे॒वाना॑मान॒न्दः । श्रोत्रि॒यस्य॑ चाका॑महतस्य॒, इति ।
त्रयस्त्रिंशद्धविर्भुजोऽत्र देवशब्देन विवक्षिताः ।
अष्टमं पर्यायमाह—
ते ये श॒तं दे॒वाना॑मान॒न्दाः । स एक इन्द्र॑स्याऽऽ-
नन्दः॑ ( ३ ) । श्रोत्रि॒यस्य॑ चाका॑महतस्य॒, इति ।
इन्द्रो हविर्भुजां स्वामी ।
नवमं पर्यायमाह—
ते ये श॒तमिन्द्र॑स्याऽऽन॒न्दाः । स एको॒ बृहस्पते॑रा-
नन्दः॑ । श्रोत्रि॒यस्य॑ चाका॑महतस्य॒, इति ।
बृहस्पतिरिन्द्रस्याऽऽचार्यः ।
दशमं पर्यायमाह—
ते ये श॒तं बृहस्पते॑रान॒न्दाः । स एकः॑ प्रजा-
पते॑रान॒न्दः । श्रोत्रि॒यस्य॑ चाका॑महतस्य॒, इति ।
प्रजापतिर्विराट्पुरुषः ।
एकादशं पर्यायमाह—
ते ये श॒तं प्र॒जाप॑तेरान॒न्दाः । स एको॒ ब्रह्मण॑
आनन्दः । श्रोत्रि॒यस्य॑ चाका॑महतस्य (४), इति ।
ब्रह्मा हिरण्यगर्भः कृत्स्नसंसारमण्डलव्यापी समष्टिव्यष्टिरूपः सूत्रात्मा । स च
शरीरिणां मध्ये प्रथमः “ हिरण्यगर्भः समवर्तताग्रे ” इति श्रुतेः ।
“ स वै शरीरी प्रथमः स वै पुरुष उच्यते ।
आदिकर्त्ता स भूतानां ब्रह्माऽग्रे समवर्तत ” ॥ इति स्मृतेश्च ।
²तेन सांसारिक आनन्दोत्कर्षस्तत्र विश्राम्यति । उक्तरीत्या श्रोत्रिये सर्वेषामानन्दानां
सद्भावेन सोऽश्नुते सर्वान्कामान्सहेत्ययमर्थ उपपादितो भवति ।
१ क. ख. घ. ङ. °नन्दे° । २ ख. अतः।

[प्रपा० ८ अनु० २] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ६५१
तदेवं परमानन्दद्वारभूतः सांसारिक आनन्दोत्कर्ष आगमेन श्रोत्रियप्रत्यक्षेण चोदा-
हृतः । अथ बोधनीयं ब्रह्मानन्दं दर्शयति—
स यश्चायं पुरु॑षे । यश्चासा॑वादित्ये । स एक॑ः, इति ।
पुरुषशब्देन बुभुत्सुर्मनुष्यो विवक्षितः । तस्मिन्कश्चिदानन्दो विद्यते । तत्सद्भावे
यौक्तिकप्रसिद्धििरनुभवप्रसिद्धिश्च सोऽयमित्येताभ्यां पदाभ्यां क्रमेण निर्दिश्यते । तत्र
यौक्तिकप्रसिद्धिः श्रुत्यन्तरे प्रपञ्चिता—" आत्मनस्तु कामाय सर्वं प्रियं भवति "
इति प्रतिज्ञाय पुत्रवित्तादिरूपस्य सर्वस्य भोग्यजातस्याऽऽत्मशेषतया प्रियत्वे सत्या-
त्मनः परप्रीतिविषयत्वेनाऽऽनन्दरूपत्वमुपपादितं भवति । तथा सर्वदाऽहं भूयासं
कदाचिदपि ममासत्त्वं मा भूदित्येवमा

देहादिपञ्चकोशरूपायां गुहायां प्रविष्टमिवाभ्यन्तरे निरुपाधिकरूपेण साक्षात्कार-
योग्यं सदवतिष्ठते । तच्चाखण्डैकरसं परमानन्दस्वरूपमित्ययमुक्तप्रकारः । तेन प्रका-
रेण विदितवत आनन्दप्राप्तौ क्रमोऽभिधीयते । भोक्ता भोग्यं चेति द्विविधं
जगद्ब्रह्मणा सृष्टम् । तत्र प्रत्यक्चैतन्यरूपमात्मानमारभ्य देहपर्यन्तोऽहंप्रत्ययगम्यो
जगद्भागो भोक्ता । देहाद्वहिरिदंप्रत्ययेनावलोक्यमानः पुत्रभार्यादिरूपो जगद्भागो
भोग्यः । तत्र यद्यप्यात्मव्यवहारोऽस्ति तदीयसुखदुःखयोरहं सुखी दुःखीत्येवं
सर्वैरभिगम्यमानत्वात्, तथाऽपि पुत्रादिषु स्वस्माद्भेदस्य विस्पष्टं भासमानत्वादौण-
मेवाऽऽत्मत्वं न तु मुख्यमित्यभिप्रेत्य श्रुतिस्तत्राऽऽत्मत्वबुद्धिं निवारयितुमन्नमया-
त्मानमुपादिशेत् । बुभुत्सुरपि तदेतदवगम्यास्माल्लोकादिदंप्रत्ययेनावलोक्यमानात्पुत्रादेः
प्रेत्य प्रत्यावृत्य तत्र निरपेक्षो भूत्वाऽन्नमयं श्रुतिबोधितमेतमुपसंक्रामति प्राप्नोति ।
पुत्रादिसुखदुःखयोः स्वकीयत्वाभिमानं परित्यज्यान्नमयमात्रे पर्यवस्यतीत्यर्थः । एवं
क्रमेण प्राणमयाद्युपसंक्रमणं द्रष्टव्यम् । आनन्दमयमुपसंक्रम्य तत्रापि प्रियादिचतुष्टयं
क्रमेण परित्यज्य ब्रह्म पुच्छमित्युक्तेऽखण्डैकरसानन्दे पर्यवस्यतीत्यर्थः । नन्वेवंविच्छ-
ब्देन किं परमात्मा विवक्षितः किंवा ततोऽन्यः कश्चित् । नाऽऽद्यः । तस्य वेदित-
व्यत्वेन वेदितृत्वानुपपत्तेः । न द्वितीयः । तत्त्वमस्यादिश्रुतिविरोधात् । नैष दोषः ।
परमात्मन एव देहेन्द्रियाद्युपा²...शिष्ट्वाकारेण वेदितृत्वमखण्डैकरसानन्दरूपत्वेन
वेद्यत्वमित्युभयोपपत्तेः । ननु य ए[तेरानन्दाः ।]³संमतीति श्रूयते । संक्रमणं नाम दृढ-
संयोगरूपप्राप्तिः । जलूका तृणे संक्रामतीत्यादौ तथा दृष्टत्वात् । न हि देहेन्द्रियाद्यु-
पाधिविशिष्टस्य वेदितुरन्नमयादिषु यथोक्तसंक्रमणं संभवतीति चेन्न । संक्रमशब्देनात्र
भ्रान्तिविनाशलक्षणस्य विद्याफलस्य विवक्षितत्वात् । तथा च भाष्यकारैरुक्तम्—
“एतास्मिन्नविद्याविभ्रमनाशे संक्रमशब्द उपचर्यते” इति । न हि मुख्यसंक्रमणस्य वेद-
नमात्रं साधनं भवति । कज्जलमयमित्यादिज्ञानमात्रेण तत्तत्संक्रमणादर्शनात् । अस्मा-
ल्लोकात्प्रेत्येत्यनेनैव वाक्येन प्रथमपर्याये बाह्यपुत्रादिविषयभ्रान्तिनाशोऽभिहित इति
चेदेवं तर्ह्यन्नमयसंक्र⁴मेणोक्त्या पुत्रादिभ्रमस्य पुनरनुत्पत्तिर्विवक्ष्यताम् । अत एवास्माभि-
र्देहमात्रे पर्यवस्यतीति संक्रमणाभिप्रायोऽभिहितः । अनेनैव न्यायेन प्राणमयात्मवेदने
सत्यन्नमयात्मत्वभ्रमस्य विनष्टस्य पुनरनुत्पत्तिः प्राणमयसंक्रमणम् । एवमुत्तरत्रापि
द्रष्टव्यम् । अन्नमयादिषु मुख्यात्मत्वाभावेऽप्यहंप्रत्ययगम्यत्वलक्षणं भ्रान्तिप्रतीतिमा-
त्मत्वमभ्युपेत्यान्नमयमात्मानमित्यात्मशब्दः प्रयुक्तः । आनन्दमयकोशगतस्य प्रियाद्य-
वयवचतुष्टयस्याऽऽनन्दे मुख्यानन्दब्रह्मण्यवाङ्मनसगोचरत्वमभिप्रेत्य विद्यमानमपि तत्तत्सं-
क्रमणं श्रुत्या नोक्तम् ।


१ त्र, स्पष्टं । २ व. °योः स्वीकृतत्वा° । ३ ख °मणज्ञ । ४ म, °मणे त्वया प° ।

वाचो निव॑र्तन्ते । अप्रा॑प्य॒ मन॑सा स॒ह । आन॒न्दंWait, underतोis anudattaयतो॒. Under चोis anudattaवाचो॒. Above वis svaritaनिव॑र्तन्ते. Above प्राis svaritaअप्र्रा॑प्य/अप्रा॑प्य॒. Under प्यis anudattaप्य॒. Above नis svaritaमन॑सा. Under सis anudattaस॒ह. Under नन्is anudattaआन॒न्दं`.

Line 8:
ब्रह्म॑णो वि॒द्वान् । न बि॑भेति कुत॑श्च॒नेति॑, इति ।
Above ह्म is svarita ब्रह्म॑णो.
Under वि is anudatta वि॒द्वान्.
Above बि is svarita बि॑भेति.
Above त is svarita कुत॑.
Under श्च is anudatta श्च॒.
Above ति is svarita नेति॑.
Comma after नेति॑: , इति ।

All text is identified with 100% precision. Transcribe cleanly![प्रपा०८।अनु०९] कृष्णयजुर्वेदी

... द्वितीयेन नकारेण!
Wait, look at footnote 6: ६ क. ख. ग छ. ०केन न० ।
In L21 end: स्यात् । एक-?
Wait, look at the characters: अं? अत?
Wait, let's read L21 end: स्यात् । अत? No, it looks like अतः with the second dot cut off, or अं?
Wait, could it be अत एक-?
No, L22 starts with: नकारेण द्वितीयेन ब्रह्मापि निषिध्यत इति प्राप्ते ब्रूमः—
Wait, if L22 starts with नकारेण, what was before it?
"एकेन नकारेण" / "अत एकेन नकारेण" or "अत एकनकारेण"?
Look at L21 end: स्यात् । अत - wait, the letter is अं? No, it's अत or अतः? Wait, footnote 3 says:
३ क. ग. च. छ. ०क्यात् । अ० ।
That means निरर्थकः स्यात् in some mss is निरर्थक्यात्! And अ० refers to अतः!
So in the main text it is: `स्या

[प्रपा० ८ अनु० २] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ६५५
त्वात् । किंचाथात आदेश इति महता संरम्भेण ब्रह्मोपदेष्टुं प्रतिज्ञाय तदेव ब्रह्म निषे-
न्ती श्रुतिः कथं न व्याहन्येत । वाक्यशेषश्च न ब्रह्मनिषेधे संगच्छेत । वाक्यशेषे
। सत्यस्य सत्यमित्यादिना विवक्षितस्य ब्रह्मणो लौकिकसत्याद्विरिनदीसमुद्रादेरधिकमा-
३पन्तिकं सत्यत्वं सूचयितुं नाम निर्दिष्टम् । सर्वनिषेधपक्षे सर्वमप्येतत्कदर्थितं स्यात् ।
स्मान्न ब्रह्म निषिध्यते ” ।
ननु न बिभेति कुतश्चनेति यदुक्तं तदसत् । धर्माधर्मजनितसंतापस्य भयहेतोर्विद्यमा-
नत्वादित्याशङ्कयाऽऽह—
एतꣳ॑ ह वाव॑ न तप॑ति । किमहꣳ॑ साधु॑
नाक॒रव॑म् । किमहं पापमकरव॒मिति॑, इति ।
मरणकाले प्रत्यासन्ने सति सर्वेषां प्राणिनां मनस्येतादृशी चिन्ता संतापं जनयति ।
'दृशी चिन्तेति चेत्तत्साऽभिधीयते—पुरा यौवने देहेन्द्रियादिपाटवे सति द्रव्यादिसाध-
नसंपत्तौ च सत्यामहं साधु स्वर्गलोकादिसाधनं यागदानादिकं पुण्यं कर्म किमिति न
कृतवानस्मि । नरकसाधनं परद्रव्यापहारादिकं पापं कर्म किमिति कृतवानस्मीति ।
सा चिन्ता सर्वेषां संतापहेतुरप्येतं ब्रह्मविदमेकमेव पुरुषं न तपति ।

६५६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् - [प्रपा०८अनु०२]
न्यायः । शास्त्रदृष्ट्या तयोः पुण्यपापयोः परमात्मस्वरूपत्वमेवानुसंदधाति । न तु
मायाकल्पितं पुण्यपापरूपत्वम् । अस्मिन्नर्थे तत्त्ववित्प्रसिद्धिं दर्शयितुं हिशब्दः प्रयुक्तः ।
यदा ब्रह्मविदः स्वात्मव्यतिरेकेण पूर्वमनुष्ठिते पश्चादनुष्ठास्यमाने च पुण्यपापे स्वरूपेणैव
न स्तस्तदा तच्चिन्ताकृतस्तापो नास्तीति किमु वक्तव्यमित्यभिप्रायः ।
पापराहित्यं चतुर्थाध्यायस्य प्रथमपादे*चिन्तितम्—
“ज्ञानिनः पापलेपोऽस्ति नास्ति वाऽनुपभोगतः ।
अनाश इति शास्त्रेषु घोषाल्लेपोऽस्य विद्यते ॥
अकर्त्रात्मधिया वस्तुमहिम्नैव न लिप्यते ।
अश्लेषनाशावप्युक्तावङ्गे घोषस्तु सार्थकः ॥
“नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि” इति भोगमन्तरेण पापविनाशस्य
सर्वशास्त्रप्रसिद्धत्वाद्ब्रह्मज्ञानिनोऽप्यस्ति पापलेप इति प्राप्ते ब्रूमः—तत्र तावनिर्गुणं ब्र-
ह्यात्मतत्त्वविदः पापलेपशङ्काऽपि नोदेति । नाकार्षं न करोमि न करिष्यामीतिकालत्र-
येऽप्यकर्तृब्रह्मस्वरूपेण निश्चितत्वात् । न ह्यकर्तुर्लेपं च मन्दा अपि शङ्कन्ते । नापि
सगुणब्रह्मविदो लेपोऽस्ति । अश्लेषविनाशयोः श्रुतत्वात् । ब्रह्मसाक्षात्कारादूर्ध्वं देहे-
न्द्रियव्यवहारवशात्संभावितस्य पापस्याश्लेषः श्रूयते—“तद्यथा पुष्करपलाश आपो
न श्लिष्यन्त एवमेवंविदि पापं कर्म न श्लिष्यते” इति । साक्षात्कारात्पूर्वं तस्मिन्
जन्मनि जन्मान्तरेषु च संचितस्य पापसंघस्य विनाशः श्रूयते—“तद्यथेषीकातूलमग्नौ
प्रोतं च प्रदूयेतैवं हास्य सर्वे पाप्मानः प्रदूयन्ते” इति । नाभुक्तमित्यादिशास्त्रं तु
सगुणनिर्गुणब्रह्मज्ञानरहितविषयम् । तस्मान्नास्ति ज्ञानिनः पापलेपः” इति ।
पुण्यराहित्यं च तत्रैव ×चिन्तितम्—
“पुण्येन लिप्यते नो वा लिप्यतेऽसौ श्रुतत्वतः ।
न हि श्रौतेन पुण्येन श्रौतं ज्ञानं विरुध्यते ॥
अलेपो वस्तुसामर्थ्यात्समानः पुण्यपापयोः ।
श्रुतं पुण्यं पापत्या तरणं च समं श्रुतम् ॥
मा भूत्पापलेपः पुण्यलेपस्तु विद्यते । पुण्यस्य श्रौतत्वेन श्रौतब्रह्मज्ञानेन सह विरो-
धाभावादिति प्राप्ते ब्रूमः—अकर्ताऽऽत्मा वस्तुसामर्थ्यात्पापवत्पुण्येन।पि न लिप्यते ।
सगुणज्ञानिनस्तूपासनव्यतिरिक्तं काम्यं पुण्यं पापवदधमजन्मदेहहेतुत्वात्पापं सममेवेति

  • तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशौ तद्व्यपदेशात्—ब्र० सू० अ० ४ पा० १ अ० ९
    सू० १३ । × इतरस्याप्येवमसंश्लेषः पाते तु—ब्र० सू० अ० ४ पा० १ अ० १४ सू० १४ ।
    १ ग. पापराहितत्वं । २ ग. घ. °ति पा° । ३ ग. °णब्रह्मवि° । ४ घ. °पमे° ।

वा पाप्मत्वेनैव दहरविद्यावाक्यशेषे श्रुतिः परामृशति—“सर्वे पाप्मानोऽतो निव-
र्त्तन्ते” इति । अस्यायमर्थः । सुकृतं दुष्कृतं तत्फलं च पूर्ववाक्ये यद्यदनुक्रान्तं ते
ऽपि पाप्मानोऽस्मादुपासकान्निवर्त्तन्ते । किंच—“उभे ह्येवैष एते तरति” इति श्रुतिः
पुण्यपापयोरुभयोर्ज्ञानिना तरणं सममेव ब्रूते । तस्मात्पापवत्पुण्येनापि न लिप्यते” ।
प्रारब्धयोरविनाशस्तत्रैव* चिन्तितः--
“आरब्धे नश्यतो नो वा संचिते एव नश्यतः ।
उभयत्राप्यकर्तृत्वं तद्बाधः सदृशः खलु ॥
आदेहपातं संसारश्रुतेरनुभवादपि ।
इषुचक्रादिदृष्टान्तान्नैवाऽऽरब्धे विनश्यतः ॥
ज्ञानात्पूर्वं संचिते पुण्यपापे द्विविधे । आरब्धे अनारब्धे च । तयोरकर्तृत्वमात्मनः
ज्ञानं तद्बाधश्च समः । ततोऽनारब्धवदारब्धयोरपि ज्ञानोदयसमय एव विनाश इति
चेत्, ब्रूमः--श्रुत्यनुभवयुक्तिभ्य आरब्धयोरविनाशो गम्यते “तस्य

६५८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [प्रपा० ८ अनु०१]
अनुषक्तफलांशस्य नाशोऽप्यन्यो न नश्यति ।
विद्यायामुपयुक्तत्वाद्वान्यश्लेषस्तु काम्यवत् ॥
ज्ञानात्पूर्वमिह जन्मनि जन्मान्तरे वाऽनुष्ठितं यदग्निहोत्रादि नित्यं कर्म तस्यापि काम्य-
कर्मवदकर्त्रात्मवस्तुबोधमहिम्ना नाशोऽभ्युपेय इति प्राप्ते ब्रूमः —द्वावंशौ नित्यकर्मण
एकोंऽशः प्राधान्येन चित्तशुद्धिप्रदः । अपरोंऽशोऽनुषङ्गेण स्वर्गादिफलप्रदः । तस्य
नाशोऽस्तु नाम । चित्तशुद्धिप्रदस्य तु विद्यायामुपयुक्तत्वान्न नाशो वर्णयितुं शक्यः ।
न हि लोके भोगैनोपक्षीर्णं व्रीह्यादिकं नष्टं मन्यते । यत्तु ज्ञानादूर्ध्वं नित्यं कर्म तस्य
काम्यवदश्लेषः ” ।
अङ्गावबद्धोपास्तिरहितस्यापि नित्यकर्मणो विद्यायामुपयुक्तत्वं तत्रैव*

कीति प्राप्ते ब्रूमः—य एते त्वयोदाहृताः पुरुषास्ते सर्वे जगन्निर्वाहकारिणः । ते च
पूर्वस्मिन्कल्पे महता तपसा परमेश्वरमुपास्यास्मिन्कल्पे नानादेहोपभोग्यमाधिकारपदं
लेभिरे । क्षीणे च प्रारब्धे कर्मणि मोक्ष्यन्ते । तथाऽनारब्धकर्मणां तत्त्वज्ञानेन दाहस्य
निवारयितुमशक्यत्वात्तत्त्वविदो मुक्तिर्नियतैव ” ।
एतस्यार्थस्याऽऽक्षेपसमाधानरूपा चिन्ता चतुर्थाध्यायस्य* प्रथमपादे कृता —
“ बहुजन्मप्रदारब्धयुक्तानां नास्त्युताऽस्ति मुक् ।
विद्यालोपे कृतं कर्म फलदं तेन नास्ति मुक् ॥
आरब्धं भोजयेदेव न तु विद्यां विलोपयेत् ।
सुप्तबुद्धवदश्लेषात्तादवस्थ्यात्कुतो न मुक् ॥
अधिकारिपुरुषाणां मुक्तिर्नास्ति प्रारब्धभोगाय बहुषु जन्मसु स्वीकृतेषु तत्र पूर्वा-
र्जिताविद्यायां लुप्तायां यत्कर्म क्रियते तस्य फलप्रदत्वे सत्युत्तरोत्तर

६६० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [प्रपा०८अनु०९
पु॒च्छं द्वावि॑ꣳशति॒रस॑न्ने॒वाष्टावि॑ꣳशति॒रस्त॒षोड॑श भी॒षाऽस्मा॑देक-
प॒ञ्चा॒शद्यतः॑ कु॒तश्चैका॑दश * ।
स॒ह ना॑ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्यं॑ करवावहै ।
ते॒ज॒स्वि ना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै॑ ॥
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ।
हरिः ॐ ।

  • इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकेऽष्टमोऽध्यायः
    समाप्तः ॥ ८ ॥
    ब्रह्मविदामोति परमित्यादि य एवं वेदेत्यन्तेन ग्रन्थेन या प्रतिपादिता से-
    मितिशब्देन परामृश्यते । सा चोपनिषद्रहस्यविद्या । उपनिषण्णमस्यां परं श्रेय इ-
    त्युत्पत्तेः । तादृशी विद्याऽभिहितेति शेषः ॥
    इति श्रीमत्सायणाचार्यविरचिते श्रीबुक्कणसाम्राज्यधुरंधरमाधवविद्यारण्यपरमेश्र्व

*अथ तैत्तिरीयारण्यके नवमप्रपाठकस्याऽऽरम्भः ।
तत्र प्रथमोऽनुवाकः ।
हरिः ॐ ।
सह नौ॑ववतु । स॒ह नौ॑ भुनक्तु । सह वी॒र्यं॑ कर-
वावहै । ते॒ज॒स्वि नाव॑धीतमस्तु॒ मा वि॑द्विषा॒वहै॑ ॥
ॐ शान्तिः॒ शान्तिः शान्तिः॑ ।
भृगु॒र्वै वारु॑णिः । वरु॑णं पि॒तर॒मुप॑ससार । अधी॑हि भगवो॒ ब्रह्मेति॑ ।
द्वितीयानुवाके ब्रह्मविद्या निरूपिता । अथ तृतीयानुवाके तत्साधनानि निरू-
प्यन्ते । यद्यपि सांहित्युपनिषदि बहिरङ्गसाधनानि कर्माण्युपासनानि चाभिहितानि
तथाऽपि विचाररूपमन्तरङ्गसाधनं नोक्तमिति तदत्राभिधीयते । तस्मिन्नभिहिते तद-
ङ्गानि मननादीन्यप्यभिहितानि भविष्यन्ति । तत्राऽऽदौ विद्यास्तुत्यर्थमुपाख्यानमाह—
भृगुरित्यादिना । अस्ति कश्चिन्महर्षिर्भृगुर्नाम गोत्रप्रवर्तकः । वैशब्देन मन्त्रब्राह्मणगता
तत्प्रसिद्धिः स्मर्यते । “भृगूणां त्वाऽङ्गिरसां व्रतपते व्रतेनाऽऽदधामि” इति “भृग्वङ्गि-
रसामादध्यात्” इति हि मन्त्रब्राह्मणे आम्नायते । स च भृगुर्वरुणस्य पुत्रः पितरं
वरुणं गुरुत्वेनोपसन्नवान् । गुरूपसत्तिश्च श्रुत्यन्तरेऽभिहिता—“तद्विज्ञानार्थं स
गुरुमेवाभिगच्छेत्” इति । अधीहीत्यादिगुरूपसत्तिमन्त्रः । हे भगवो भगवन्पूज्यस्वरूप
गुरो ब्रह्माधीहि अधिकं स्मर चित्तेन स्मृत्वोपदिशेत्यर्थः ।
ईदृशानामुपाख्यानानां विद्यास्तुत्यर्थत्वं तृतीयाध्यायस्य चतुर्थपादे+ चिन्तितम्—
“पारिप्लवार्थमाख्यानं किंवा विद्यास्तुतिः स्तुतेः ।
ज्यायोऽनुष्ठानशेषत्वं तेन पारिप्लवार्थता ॥
मनुर्वैवस्वतो राजेत्येवं तत्र विशेषणात् ।
अत्र विद्यैकवाक्यत्वर्भावाद्विद्यास्तुतिर्भवेत् ॥
“अथै ह याज्ञवल्क्यस्य द्वे भार्ये बभूवतुः” “जनको ह वैदेह आसांचक्रे” इत्या-

  • भाष्यकारमतेनायं नवमप्रपाठको नास्ति किं त्वष्टमस्यैवायं तृतीयोऽनुवाक इतीदमप्यूह्यं
    पूर्वपृष्ठोलिखितटिप्पणात् । +पारिप्लवार्था इति चेन्न विशेषितत्वात्—ब्र० सू०अ० ३ पा० ४अ० ४सू०
    २३ ।
    १ क. ख. ङ. °हित्यामुप° । २ क. ख. ङ. °न्यथो॑दामि° । ३ क. ख. ङ. भवन्ति

६६२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [प्रपा०९अनु०१]
दिकमुपनिषदि श्रूयमाणमाख्यानं पारिप्लवार्थं भवितुमर्हति । अश्वमेधयागे रात्रिषु राजानं
सकुडुम्बमुपवेश्य तस्याग्रे वैदिकान्युपाख्यानान्यन्यानि पुण्यान्यध्वर्युणा वक्तव्यानि ।
तदिदं पारिप्लवाख्यं कर्म “ पारिप्लवमाचक्षीत ” इतिवाक्येन विहितम् । तदर्थत्वे सत्यौ-
पनिषदाख्यानान्यनुष्ठानायोपयुज्येरन् । ज्यायोऽनुष्ठानं विद्यास्तुतेस्तस्मात्पारिप्लवार्थमिति
प्राप्ते ब्रूमः—प्रथमेऽहनि मनुर्वैवस्वतो राजा द्वितीयेऽहनि यमो वैवस्वतो राजेत्येवमा-
द्याख्यानानां पारिप्लवार्थानां विशोषितत्वादौपनिषदानामाख्यानानां तच्छेषत्वं न संभवति ।
संनिहितविद्यास्तावकत्वे तु विद्यावाक्यैरेकवाक्यता लभ्यते । तस्माद्विद्यास्तावकमाख्यानम्” ।
ब्रह्मबोधद्वारोपदेशं दर्शयति—
तस्मा॑ एत॒त्प्रो॑वाच । अन्नं॑ प्रा॒णं
चक्षुः॒ श्रोत्रं॒ मनो॒ वाच॒मिति॑, इति ।
तस्मै समन्त्रकमुपसन्नाय भृगव एतदन्नादिकं बोधद्वारमुक्तवान् । अन्नमयप्राणमयम-
नोमयानां कोशानामुपादानकारणान्यन्नप्राणमनांसि चक्षुःश्रोत्रवाचोऽपि मनोवद्द्वार-
भूताः । इतिशब्दोऽनुक्तानां त्वगादिज्ञानेन्द्रियाणां पाणिपादादिकर्मेन्द्रियाणां च प्रदर्श-
नार्थः । शाखाग्रे चन्द्र इत्यत्र यथा चन्द्रदर्शने समीपवर्तिनी वृक्षशाखा लक्षकत्वेन द्वारं
तथा गुहाहितब्रह्मदर्शने तदुपलक्षणान्यन्नप्राणादीनि द्वाराणि । तद्द्वारत्वं च बृहदार-
ण्यके विस्पष्टमाम्नातम्—“ प्राणस्य प्राणमुत चक्षुषश्चक्षुरुत श्रोत्रस्य श्रोत्रमुतान्नस्यान्नं
मनसो ये मनो विदुः । ते निचिक्युर्ब्रह्म पुराणमग्र्यम् ” इति । प्राणादिकल्पना-
धिष्ठानतया प्राणादिरूपं ब्रह्म प्राणादिद्वारेण वेदितुं सुशकम् । अहंबुद्धिगम्येष्वन्नप्राणा-
दिषु मध्ये ब्रह्मान्वेष्णीयमित्यभिप्रायः ।
तꣳ हो॑वाच । यतो॒ वा इ॒मानि॒ भूता॑नि
जाय॑न्ते । येन॒ जाता॑नि॒ जीव॑न्ति । यत्प्रय॑न्त्य॒-
भि॒संवि॑शन्ति । तद्विजि॑ज्ञासस्व । तद्ब्रह्मेति॑ ।
अथ ब्रह्मलक्षणस्य तद्बोधहेतोर्विचारस्य चोपदेशं दर्शयति—तꣳ हेत्यादिना ।
द्वारं श्रुत्वाँ तदवबोधायात्यन्तमुत्सुकं तं भृगुमवेक्ष्याऽऽसत्त्वातिशयेन तदीयं४ प्रश्नं विना
स्वयमेव वरुणः पुनरप्युवाच । हशब्द औत्सुक्यप्रसिद्धिद्योतनार्थः । इमान्याकाशादीनि
पञ्च महाभूतानि भौतिकदेहोपेता हिरण्यगर्भादिस्तम्बान्ताः सर्वे प्राणिनश्च यतो वस्तुतो
१ ग. घ. ॰वानां २ ग. घ. ॰क्यैक° । ३ क. ख. छ. ॰र० । १७° । ४ क. ख. ग. छ.
॰दीयप्र० ।

[प्रपा०९अनु०१] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ६६३
जायन्ते । वैशब्दः “ स इमाँल्लोकानसृजत ” इत्यादिश्रुत्यन्तरप्रसिद्धद्योतनार्थः ।
उत्पन्नानि च भूतानि येन वस्तुना जीवन्ति स्थितिं लभन्ते । प्रयान्ति नाशं प्रतिपद्य-
मानानि भूतानि यद्वस्त्वभिसंविशन्ति साकल्येन प्रविशन्ति, यथा फेनतरङ्गबुद्बुदादी-
नामुत्पत्तिस्थितिलयाः समुद्रे भवन्ति तद्वत्, जगदुत्पत्तिस्थितिलयकारणं वस्तु विचारय,
तदेव वस्तु त्वया पृष्टं ब्रह्म । इतिशब्द उत्तरसमाप्त्यर्थः ।
विचारकर्तव्यता च प्रथमाध्यायस्य प्रथमपादे* चिन्तिता—
“ अविचार्यं विचार्यं वा ब्रह्माध्यासानिरूपणात् ।
असंदेहाफलत्वाभ्यां न विचारं तदर्हति ॥
असाध्योऽहंबुद्धिसिद्धोऽसङ्गं ब्रह्म श्रुतीरितम् ।
संदेहान्मुक्तिभावाच्च विचार्यं ब्रह्म वेदतः ” ॥ इति ।
“ आत्मा वा अरे द्रष्टव्यः श्रोतव्यः ” [बृह० २ । ४ । ५] इत्यत्राऽऽत्मदर्शनं
फलमुद्दिश्य तत्साधनत्वेन श्रवणं विधीयते । श्रवणं नाम वेदान्तवाक्यानां ब्रह्मणि
तात्पर्यं निर्णतुमनुकूलो न्यायविचारः । तदेतद्विचाराविधायकं वाक्यं विषयः । न चायं
विषयः श्लोकेन संगृहीतः । संदेहसंग्रहेणैवार्थात्तत्संग्रहप्रतीतेः । ब्रह्मविचारात्मकन्या-
यनिर्णायकं शास्त्रमनारभ्यमारभ्यं वेति संदेहः । पूर्वोत्तरपक्षयुक्तिद्वयं सर्वत्र संदेहे
बीजमुन्नेयम् । तत्रानारम्भ्यमिति तावत्प्राप्तम् । विषयप्रयोजनयोरभावात् । संदिग्धं
हि विचारस्य विषयो भवति । ब्रह्म त्वसंदिग्धम् । तथा हि तत्किं ब्रह्माकारेण संदि-
ग्धं आत्माकारेण वा । नाऽऽद्यः । “ सत्यं ज्ञानमनन्तं ब्रह्म ” [तैत्ति० २ । १ । १ ]
त्यादिवाक्येन ब्रह्माकारस्य निश्चयात् । न द्वितीयः । अहंप्रत्ययेनाऽऽकारस्यापि
निश्चयात् । अध्यस्तात्मविषयत्वेन भ्रान्तोऽहंप्रत्यय इति चेन्न, अध्यासानिरूपणात् ।
तमःप्रकाशवद्विरुद्धस्वभावयोर्जडाजडयोर्देहात्मनोः शुक्तिकारजतवदन्योन्यतादात्म्या-
ध्यासो न निरूपयितुं शक्यते । तस्माद्भ्रान्ताभ्यां श्रुत्यहंप्रत्ययाभ्यां निश्चितस्यासंदि-
ग्धत्वान्न विचारस्य विषयोऽस्ति । नापि प्रयोजनं पश्यामः । उक्तप्रकारेण ब्रह्मा-
त्मनि निश्चितेऽपि मुक्त्यदर्शनात् । तस्माद्ब्रह्म न विचारमर्हतीति शास्त्रमनारम्भणीय-
मिति पूर्वपक्षः । अत्रोच्यते—शास्त्रमारम्भणीयं विषयप्रयोजनसद्भावात् । श्रुत्यहंप्र-
त्ययोर्विप्रतिपत्त्या संदिग्धं ब्रह्मात्मवस्तु । “ अयमात्मा ब्रह्म ” [बृह० २ । ५ ।
१९ ] इति श्रुतिरस्सङ्गं ब्रह्माऽऽत्मत्वेनोपदिशति । अहं मनुष्य इत्याद्यहंबुद्धिर्देहा-
दितादात्म्याध्यासेनाऽऽत्मानं गृह्णाति । अध्यासस्य च दुर्निरूपत्वमलंकाराय ।

  • अथातो ब्रह्मजिज्ञासा—ब्र० सू० अ० १ पा० १ अ० १ सू० १ ।

६६४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् [प्रपा०९अनु०१]
तस्मात्संदिग्धं वस्तु विषयः । तन्निश्चयेन च मुक्तिलक्षणं प्रयोजनं श्रुत्या विद्वदनुभवेन
च प्रसिद्धम् । तस्माद्वेदान्तवाक्यविचारमुखेन(ण) ब्रह्मणो विचारार्हत्वाच्छास्त्रमारम्भणीय-
मिति सिद्धान्तः ।
विचारो हि लक्षणप्रमाणाभ्यां वस्तुतत्त्वनिर्णयावधिकः । लक्षणं च तत्रैव*
चिन्तितम्—
“लक्षणं ब्रह्मणो नास्ति किंवाऽस्ति नहि विद्यते ।
जन्मादेरन्यनिष्ठत्वात्सत्यादेश्चाप्रसिद्धितः ॥
ब्रह्मनिष्ठं कारणत्वं स्याल्लक्ष्म स्रग्भुजंगवत् ।
लौकिकान्येव सत्यादीन्यखण्डं लक्षयन्ति हि ॥
“यतो वा इमानि भूतानि जायन्ते । येन जातानि जीवन्ति । यत्प्रयन्त्यभिसंवि-
शन्ति । तद्विजिज्ञासस्व । तद्ब्रह्मेति” [ तैत्ति० ३ । १ । १ ] इति । “सत्यं ज्ञानम-
नन्तं ब्रह्म” [ तैत्ति० २ । १ । १ ] इति च वाक्यद्वयं विषयः । प्रयन्ति म्रियमा-
णानीत्यर्थः । अत्र श्रूयमाणं ब्रह्मलक्षणं घटते न घटते वेति संशये न घटते । तथा
हि किं जन्मादिकं ब्रह्मलक्षणमुत सत्यादिकम् । नाऽऽद्यः । तस्य जगन्निष्ठत्वेन ब्रह्म-
संबन्धाभावात् । द्वितीयेऽपि लोकप्रसिद्धसत्यज्ञानादिस्वीकारे भिन्नार्थत्वादखण्डं ब्रह्म-
न सिध्येत् । अप्रसिद्धार्थे तु सत्यादेर्लक्षणत्वमयुक्तम् । तस्मात्तटस्थलक्षणं स्वरूपल-
क्षणं च न विद्यते । अत्रोच्यते—जन्मादेरन्यनिष्ठत्वेऽपि तत्कारणत्वं ब्रह्मणि कल्प-
नया संबद्धं तटस्थलक्षणं भविष्यति । यो भुजंगः सा स्रगितिवत् । यज्जगत्का-
रणं तद्ब्रह्मेति कल्पितेनापि वस्तुना लक्षयितुं शक्यत्वात् । भिन्नार्थानामपि पितृसुत-
भ्रातृजामात्रादिशब्दानामेकदेवदत्तपर्यवसायित्वे यथा न विरोधः, तथा लोकसिद्धभि-
न्नार्थवाचिसत्यादिशब्दानामखण्डब्रह्मपर्यवसायित्वे स्वरूपलक्षणसिद्धिरित्युभयमुपपन्नम्”।
तल्लक्षणोपपादनाय वेदकर्तृत्वं तत्रैव+चिन्तितम्—
“न कर्तृ ब्रह्म वेदस्य किंवा कर्तृ न कर्तृ तत् ।
विरूप नित्यया वाचेत्येवं नित्यत्ववर्णनात् ॥
कर्तुर्निःश्वसिताद्युक्तैर्नित्यत्वं पूर्वसाम्यतः ।
सर्वावभासिवेदस्य कर्तृत्वात्सर्वविद्भवेत् ॥

  • जन्माद्यस्य यतः—ब्र० सू० अ० १ पा० १ अ० २ सू० २ । + शास्त्रयोनित्वात्—ब्र०
    सू० अ० १ पा० १ अ० ३ सू० ३ वर्णकम् १ ।
    १ क. ख. ड. स्सिद्धम् । २ घ. ङ. ति वा० । ३ ख ॰शयो न । ४ क. ग. घ. ड.
    ॰स्य तं ।