तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
पृष्ठ 664, कुल 914 में से
संदर्भ में पढ़ेंकीति प्राप्ते ब्रूमः—य एते त्वयोदाहृताः पुरुषास्ते सर्वे जगन्निर्वाहकारिणः । ते च
पूर्वस्मिन्कल्पे महता तपसा परमेश्वरमुपास्यास्मिन्कल्पे नानादेहोपभोग्यमाधिकारपदं
लेभिरे । क्षीणे च प्रारब्धे कर्मणि मोक्ष्यन्ते । तथाऽनारब्धकर्मणां तत्त्वज्ञानेन दाहस्य
निवारयितुमशक्यत्वात्तत्त्वविदो मुक्तिर्नियतैव ” ।
एतस्यार्थस्याऽऽक्षेपसमाधानरूपा चिन्ता चतुर्थाध्यायस्य* प्रथमपादे कृता —
“ बहुजन्मप्रदारब्धयुक्तानां नास्त्युताऽस्ति मुक् ।
विद्यालोपे कृतं कर्म फलदं तेन नास्ति मुक् ॥
आरब्धं भोजयेदेव न तु विद्यां विलोपयेत् ।
सुप्तबुद्धवदश्लेषात्तादवस्थ्यात्कुतो न मुक् ॥
अधिकारिपुरुषाणां मुक्तिर्नास्ति प्रारब्धभोगाय बहुषु जन्मसु स्वीकृतेषु तत्र पूर्वा-
र्जिताविद्यायां लुप्तायां यत्कर्म क्रियते तस्य फलप्रदत्वे सत्युत्तरोत्तर